Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. bhūtavijñānīyādhyāyaḥ

Adhikarana bhUtavij~jAnIyAdhyAyaH (2) · Śloka 2

अथातो भूतविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|

🔊 Audio coming soon

अधुना भूतविज्ञानाध्यायारम्भो ग्रहसामान्यात्|

Adhikarana bhUtavij~jAnIyAdhyAyaH (2) · Śloka 2

अथातो भूतविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|

🔊 Audio coming soon

अधुना भूतविज्ञानाध्यायारम्भो ग्रहसामान्यात्|

Adhikarana rUpAdyanukaraNena tattadbhUtAviShTaj~jAnam (2) · Śloka 2

भूतस्य रूपप्रकृतिभाषागत्यादिचेष्टितैः| यस्यानुकारं कुरुते तेनाविष्टं तमादिशेत्||२||

🔊 Audio coming soon

स०-यस्य भूतस्य रूपादेरनुकारं यादृशं भजते तेन तं पुरुषमधिष्ठितं वदेत्|

Adhikarana bhUto~aShTAdaSavidhaH (3) · Śloka 3

सोऽष्टादशविधो देवदानवादिविभेदतः| |३|

🔊 Audio coming soon

स०-स भूतोऽष्टादशप्रकारो देवादिभेदेन|

Adhikarana bhUtAnuSha~gge hetuH (3-5) · Śloka 5

| हेतुस्तदनुषक्तौ तु सद्यः पूर्वकृतोऽथवा||३|| प्रज्ञापराधः, सुतरां तेन कामादिजन्मना| लुप्तधर्मव्रताचारः पूज्यानप्यतिवर्तते||४|| तं तथा भिन्नमर्यादं पापमात्मोपघातिनम्| देवादयोऽप्यनुघ्नन्ति ग्रहाश्छिद्रप्रहारिणः||५||

🔊 Audio coming soon

स०-तस्य भूतस्यानुषङ्गे प्रज्ञापराधः सद्यः-अधुनातनः, पूर्वजन्मकृतो वा हेतुः| तेन-प्रज्ञापराधेन, कामक्रोधादिजेन सुतरां नष्टधर्मव्रताचारः सन् पूज्यानप्यतिक्रामति| तं पुरुषं तथा लुप्तधर्मव्रताचारत्वाद्भिन्नमर्यादं देवादयो ग्रहा अप्यत्यन्त- मर्यादातिक्रमादनु-पश्चात्, घ्नन्ति| न केवलं हिंसात्मकानामक्षमा इति द्योतनार्थोऽपिशब्दः| कीदृशास्ते ? छिद्रप्रहारिणः| हेतावियं प्रथमा, छिद्रप्रहारित्वादित्यर्थः|

Adhikarana bhUtapraveshakAraNam (6-8) · Śloka 8

छिद्रं पापक्रियारम्भः पाकोऽनिष्टस्य कर्मणः| एकस्य शून्येऽवस्थानं श्मशानादिषु वा निशि||६|| दिग्वासस्त्वं गुरोर्निन्दा रतेरविधिसेवनम्| अशुचेर्देवतार्चादि परसूतकसङ्करः||७|| होममन्त्रबलीज्यानां विगुणं परिकर्म च| समासाद्दिनचर्यादिप्रोक्ताचारव्यतिक्रमः||८||

🔊 Audio coming soon

स०-छिद्रं पापक्रियारम्भ उच्यते| स चाशुभस्य कर्मणः पाकः-फलम्| एकस्य-अद्वितीयस्य, शून्ये स्थानेऽवस्थितिः, अथवा श्मशानादिषु निश्यवस्थितिः| तथा नग्रेत्यादि| किं वा बहुनोदितेन ? सङ्क्षेपेण दिनचर्यादिकथितस्याचारस्य च व्यतिक्रम इति ग्रहग्रहणे हेतुः|

Adhikarana surAdibhUtAnAM grahaNakAlAH (9-12) · Śloka 12

ग्रूह्णन्ति शुक्लप्रतिपत्त्रयोदश्योः सुरा नरम्| शुक्लत्रयोदशीकृष्णद्वादश्योर्दानवा ग्रहाः||९|| गन्धर्वास्तु चर्तुर्दश्यां द्वादश्यां चोरगाः पुनः| पञ्चम्यां, शुक्लसप्तम्येकादश्योस्तु धनेश्वराः||१०|| शुक्लाष्टपञ्चमीपौर्णमासीषु ब्रह्मराक्षसाः| कृष्णे रक्षः पिशाचाद्या नवद्वादशपर्वसु||११|| दशामावास्ययोरष्टनवम्योः पितरोऽपरे| गुरुवृद्धादयः प्रायः कालं सन्ध्यासु लक्षयेत्||१२||

🔊 Audio coming soon

स०-देवाः शुक्लप्रतिपदि शुक्लत्रयोदश्यां च नरं गृह्णन्ति| शुक्लत्रयोदश्यां कृष्णद्वादश्यां च दानवा ग्रहा गृह्णन्ति| गन्धर्वाश्च- तुर्दश्यां द्वादश्यां च| सर्पास्तु पञ्चम्याम्| शुक्लपक्षस्य सप्तम्यामेकादश्यां च यक्षा गृह्णन्ति| शुक्लाष्टम्यादिषु ब्रह्मराक्षसा गृह्णन्ति| रक्षःपिशाचादयः कृष्णपक्षे नवमीद्वादश्योः पर्वसु च गृह्णन्ति| दशम्यादिषु पितरो गृह्णन्ति| अपरे-अनुक्ता गुरुवृद्धादयः, अष्टमीनवम्योर्गृह्णन्ति| पूर्वाक्तेष्वेव तिथिषु प्रायेण(यः)-बाहुल्येन, ग्रहणकालं सन्ध्यासु-पर्वादिषु, जानीयात्

Adhikarana 1devagrahagRuhItasya lakShaNam (13-15) · Śloka 15

फुल्लपद्मोपममुखं सौम्यदृष्टिमकोपनम्| अल्पवाक्स्वेदविण्मूत्रं भोजनानभिलाषिणम्||१३|| देवद्विजातिपरमं शुचिं संस्कृतवादिनम्| मीलयन्तं चिरान्नेत्रे सुरभिं वरदायिनम्||१४|| शुक्लमाल्याम्बरसरिच्छैलोच्चभवनप्रियम्| अनिद्रमप्रधृष्यं च विद्याद्देववशीकृतम्||१५||

🔊 Audio coming soon

स०-फुल्लपद्मोपममुखमित्यादि देवग्रहगृहीतं विद्यात्|

Adhikarana 2daityagrahagRuhItasya lakShaNam (16-17) · Śloka 17

जिह्मदृष्टिं दुरात्मानं गुरुदेवद्विजद्विषम्| निर्भयं मानिनं शूरं क्रोधनं व्यवसायिनम्||१६|| रुद्रः स्कन्दो विशाखोऽहमिन्द्रोऽहमिति वादिनम्| सुरामांसरुचिं विद्यात् दैत्यग्रहगृहीतकम्||१७||

🔊 Audio coming soon

स०-जिह्मदृष्टिमित्यादिलक्षणलक्षितं दैत्यवशीकृतं विद्यात्|

Adhikarana 3gandharvagRuhItasya lakShaNam (18-19) · Śloka 19

स्वाचारं सुरभिं हृष्टं गीतनर्तनकारिणम्| स्नानोद्यानरुचिं रक्तवस्त्रमाल्यानुलेपनम्||१८|| शृङ्गारलीलाभिरतं गन्धर्वाध्युषितं वदेत्| |१९|

🔊 Audio coming soon

स०-स्वाचारमित्यादिलक्षणलक्षितं गन्धर्वेण गृहीतं विद्यात्

Adhikarana 4 uragagRuhItasya lakShaNam (19-21) · Śloka 21

| रक्ताक्षं क्रोधनं स्तब्धदृष्टिं वक्रगतिं चलम्||१९|| श्वसन्तमनिशं हिह्वालोलिनं सृक्किणीलिहम्| प्रियदुग्धगुडस्नानमधोवदनशायिनम्||२०|| उरगाधिष्ठितं विद्यात्त्रस्यान्तं चातपत्रतः| |२१|

🔊 Audio coming soon

स०-रक्ताक्षमित्यादिलक्षणं छत्राच्च त्रस्यन्तं सर्पाधिष्ठितं विद्यात्|

Adhikarana 5yakShagRuhItasya lakShaNam (21-24) · Śloka 24

| विप्लुतत्रस्तरक्तांक्षं शुभगन्धं सुतेजसम्||२१|| प्रियनृत्यकथागीतस्नानमाल्यानुलेपनम्| मत्स्यमांसरुचिं हृष्टं तुष्टं बलिनमव्यथम्||२२|| चलिताग्रकरं कस्मै किं ददामीति वादिनम्| रहस्यभाषिणं वैद्यद्विजातिपरिभाविनम्||२३|| अल्परोषं द्रुतगतिं विद्याद्यक्षगृहीतकम्| |२४|

🔊 Audio coming soon

स०-विप्लुतत्रस्तरक्ताक्षमित्यादिलक्षणं यक्षगृहीतं विद्यात्|

Adhikarana 6brahmarAkShasagRuhItasya lakShaNam (24-26) · Śloka 26

| हास्यनृत्यप्रियं रौद्रचेष्टं छिद्रप्रहारिणम्||२४|| आक्रोशिनं शीघ्रगतिं देवद्विजभिषग्द्विषम्| आत्मानं काष्ठशस्त्राद्यैर्घ्नन्तं भोःशब्दवादिनम्||२५|| शास्त्रवेदपठं विद्याद् गृहीतं ब्रह्मराक्षसैः| |२६|

🔊 Audio coming soon

स०-हास्यनृत्यप्रियमित्यादिलक्षणं ब्रह्मराक्षसगृहीतं विद्यात्|

Adhikarana 7rAkShasagRuhItasya lakShaNam (26-29) · Śloka 29

| सक्रोधदृष्टिं भृकुटिमुद्वहन्तं ससंभ्रमम्||२६|| प्रहरन्तं प्रधावन्तं शब्दन्तं भैरवाननम्| अन्नाद्विनाऽपि बलिनं नष्टनिद्रं निशाचरम्||२७|| निर्लज्जमशुचिं शूरं क्रूरं परुषभाषिणम्| रोषणं रक्तमाल्यस्त्रीरक्तमद्यामिषप्रियम्||२८|| दृष्ट्वा च रक्तं मांसं वाऽऽलिहानं दशनच्छदौ| हसन्तमन्नकाले च राक्षसाधिष्ठितं वदेत्||२९||

🔊 Audio coming soon

स०-सक्रोधदृष्टिमित्यादिलक्षणं राक्षसाधिष्ठितं वदेत्|

Adhikarana 8pishAcagRuhItasya lakShaNam (30-34) · Śloka 34

अवस्थचित्तं नैकत्र तिष्ठन्तं परिधाविनम्| उच्छिष्टनृत्यगान्धर्वहासमद्यामिषप्रियम्||३०|| निर्भर्त्सनाद्दीनमुखं रुदन्तमनिमित्ततः| नखैर्लिखन्तमात्मानं रूक्षध्वस्तवपुःस्वरम्||३१|| आवेदयन्तं दुःखानि सम्बद्धाबद्धभाषिणम्| नष्टस्मृतिं शून्यरतिं लोलं नग्नं मलीमसम्||३२|| रथ्याचैलपरीधानं तृणमालाविभूषणम्| आरोहन्तं च काष्ठाश्वं तथा सङ्करकूटकम्||३३|| बह्वाशिनं पिशाचेन विजानीयादधिष्ठितम्| |३४|

🔊 Audio coming soon

स०-अवस्थचित्तमित्यादिलक्षणं पिशाचगृहीतं विद्यात्|

Adhikarana 9pretagRuhItasya lakShaNam (34-35) · Śloka 35

| प्रेताकृतिक्रियागन्धं भीतमाहारविद्विषम्||३४|| तृणच्छिदं च प्रेतेन गृहीतं नरमादिशेत्| |३५|

🔊 Audio coming soon

स०-प्रेताकृतिक्रियागन्धमित्यादिलक्षणं प्रेतगृहीतं नरं विद्यात्

Adhikarana 10kUShmANDagRuhItasya lakShaNam (35-36) · Śloka 36

| बहुप्रलापं कृष्णास्यं प्रविलम्बितयायिनम्||३५|| शूनप्रलम्बवृषणं कूष्माण्डाधिष्ठितं वदेत्| |३६|

🔊 Audio coming soon

स०-बहुप्रलापादिलक्षणं कूष्माण्डाधिष्ठितं वदेत्|

Adhikarana 11niShAdagRuhItasya lakShaNam (36-38) · Śloka 38

| गृहीत्वा काष्ठलोष्टादि भ्रमन्तं चीरवाससम्||३६|| नग्नं धावन्तमुत्त्रस्तदृष्टिं तृणविभूषणम्| श्मशानशून्यायतनरथ्यैकद्रुमसेविनम्||३७|| तिलान्नमद्यमांसेषु सततं सक्तलोचनम्| निषादाधिष्ठितं विद्याद् वदन्तं परुषाणि च||३८||

🔊 Audio coming soon

स०-गृहीत्वा काष्ठमित्यादिलक्षणं तथा परुषाणि भाषमाणं निषादगृहीतं विद्यात्|

Adhikarana 12aukaraNagRuhItasya lakShaNam (39) · Śloka 39

याचन्तमुदकं चान्नं त्रस्तलोहितलोचनम्| उग्रवाक्यं च जानीयान्नरमौकिरणार्दितम्||३९||

🔊 Audio coming soon

स०-याचन्तमुदकमित्यादिलक्षणमौकिरणार्दितं विद्यात्

Adhikarana 13vaitAlagRuhItasya lakShaNam (40) · Śloka 40

गन्धमाल्यरतिं सत्यवादिनं परिवेपिनम्| बहुनिद्रं च जानीयाद्वेतालेन वशीकृतम्||४०||

🔊 Audio coming soon

स०-गन्धमाल्यरतिमित्यादिलक्षणं वेतालगृहीतं विद्यात्|

Adhikarana 14pitRugrahagRuhItasya lakShaNam (41-42) · Śloka 42

अप्रसन्नदृशं दीनवदनं शुष्कतालुकम्| चलन्नयनपक्ष्माणं निद्रालुं मन्दपावकम्||४१|| अपसव्यपरीधानं तिलमांसगुडप्रियम्| स्खलद्वाचं च जानीयात् पितृग्रहवशीकृतम्||४२||

🔊 Audio coming soon

स०-अप्रसन्नदृशमित्यादिलक्षणं पितृग्रहगृहीतं विद्यात्|

Adhikarana 15,16,17,18 guruvRuddharShisiddhAbhiSApAdinA tattadgrahaj~jAnam (43) · Śloka 43

गुरुवृद्धर्षिसिद्धाभिशापचिन्तानुरूपतः| व्याहाराहारचेष्टाभिर्यथास्वं तद्ग्रहं वदेत्||४३||

🔊 Audio coming soon

स०-गुर्वादीनां शापचिन्तानुरूपवचनादिभिर्यथायोगं तद्ग्रहं विद्यात्|

Adhikarana asAdhyalakShaNam (4) · Śloka 4

कुमारवृदानुगतं नग्नमुद्धतमूर्धजम्| अस्वस्थमनसं दैर्घ्यकालिकं सग्रहं त्यजेत्||४४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने भूत विज्ञानीयो नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

स०-सर्वग्रहगृहीतं त्यजेत्| कीदृशम् ? कुमारसमूहेनानुयातं, तथा नग्नमुद्धतकेशं, तथाऽस्वस्थचित्तं, तथा दीर्घकालानुवर्तिनं चेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने भूतविज्ञानीयो नाम चतुर्थोऽध्यायः समाप्तः|| ४||