Adhikarana bAlagrahapratiShedhAdhyAyaH||3|| (2) · Śloka 2
अथातो बालग्रहप्रतिषेधं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
अस्मादनन्तरं बालग्रहप्रतिषेध उच्यते, ग्रहाणामपि रोग हेतुत्वात्| स०-बालानां ग्रहा बालग्रहाः, तेषां प्रतिषेधो यस्मिन् स बालग्रहप्रतिषेधः, तम्| शेषं पूर्ववत्|
Adhikarana dvAdaSagrahANAM nAmAni (1-3) · Śloka 3
पुरा गुहस्य रक्षार्थं निर्मिताः शूलपाणिना|
मनुष्यविग्रहाः पञ्च सप्त स्त्रीविग्रहा ग्रहाः||१||
स्कन्दो विशाख़ो मेषाख़्यः श्वग्रहः पितृसंज्ञितः|
शकुनिः पूतना शीतपूतनाऽदृष्टिपूतना||२||
मुख़मण्डितिका तद्वद्रेवती शुष्करेवती|
|३|
स०-पूर्वं श्रीमहादेवेन कार्तिकेयस्य रक्षार्थं मनुष्यशरीराः पञ्च ग्रहा निर्मिताः| स्त्रीशरीराश्च सप्तोत्पादिताः| सं-स्कन्दादयः पञ्च नररूपाः| शकुन्यादयः सप्त स्त्रीरूपाः|
Adhikarana dvAdaSagrahANAM pUrvarUpam (3) · Śloka 3
|
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः||३||
स०-तेषां-ग्रहाणां, ग्रहीष्यतां पूर्वरूपं प्रततं रोदनं ज्वरश्च|
Adhikarana dvAdaSagrahANAM sAmAnyaM rUpam (4-5) · Śloka 5
सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः|
फेनस्रावोर्ध्वदृष्ट्योष्ठदन्तदंशप्रजागराः||४||
रोदनं कूजनं स्तन्यविद्वेषः स्वरवैकृतम्|
नख़ैरकस्मात्परितः स्वधात्र्यङ्गविलेख़नम्||५||
स०-तेषां सामान्यं रूपमुत्त्रास इत्यादि स्वधात्र्यङ्गविलेखनान्तम्|
Adhikarana 1 skandasya lakShaNam (6-9) · Śloka 9
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः|
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः||६||
दन्तख़ादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरम्|
वक्रवक्त्रो वमन् लालां भृशमूर्ध्वं निरीक्षते||७||
वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः|
चलितैकाक्षिगण्डभ्रूः संरक्तोभयलोचनः||८||
स्कन्दार्तस्तेन वैकल्यं मरणं वा भवेद् ध्रुवम्|
|९|
स०-तत्र-तेषु ग्रहेषु मध्ये, एकलोचनस्रवणशीलस्तथा शिरो विक्षिपत इत्यादि संरक्तलोचनद्वयान्तं स्कन्दगृहीतस्य लक्षणम्| तेन वैकल्यं-पङ्गुत्वकाणत्वादि, मृत्युरेव वा ध्रुवं निश्चितं, भवेत्|
Adhikarana 2viSAkhasya lakShaNam (9-11) · Śloka 11
सम्प्रति विशाखस्य स्कन्दापस्मारापरसंज्ञस्य लक्षणमाह |
संज्ञानाशो मुहुः केशलुञ्चनं कन्धरानतिः||९||
विनम्य जृम्भमाणस्य शकृव्मूत्रप्रवर्तनम्|
फेनोद्वमनमूर्ध्वेक्षा हस्तभ्रूपादनर्तनम्||१०||
स्तनस्वजिह्वासन्दंशसंरम्भज्वरजागराः|
पूयशोणितगन्धश्च स्कन्दापस्मारलक्षणम्||११||
स०-संज्ञानाशादिकं पूयशोणितगन्धान्तं स्कन्दापस्मारलक्षणम्|
Adhikarana 3 meShAkhyasya lakShaNam (12-14) · Śloka 14
आध्मानं पाणिपादस्य स्पन्दनं फेननिर्वमः|
तृण्मुष्टिबन्धातीसारस्वरदैन्यविवर्णताः||१२||
कूजनं स्तननं छर्दिः कासहिध्माप्रजागराः|
ओष्ठदंशाङ्गसङ्कोचस्तम्भबस्ताभगन्धताः||१३||
ऊर्ध्वं निरीक्ष्य हसनं, मध्ये विनमनं, ज्वरः|
मूर्च्छैकनेत्रशोफश्च नैगमेषग्रहाकृतिः||१४||
स०-मेषस्य नैगमेषापरसंज्ञस्याध्मानादि एकनेत्रशोफान्तं लक्षणम्|
Adhikarana 4 shvagrahasya lakShaNam (15-16) · Śloka 16
कम्पो हृषितरोमत्वं स्वेदश्चक्षुर्निमीलनम्|
बहिरायामनं जिह्वादंशोऽन्तःकण्ठकूजनम्||१५||
धावनं विट्सगन्धत्वं क्रोशनं च श्ववच्छुनि|
|१६|
स०-शुनि-श्वग्रहे, कम्प इत्यादिकं क्रोशनं श्ववदित्यन्तं लक्षणम्|
Adhikarana 5 pitRugRuhasya lakShaNam (16-18) · Śloka 18
|
रोमहर्षो मुहुस्त्रासः सहसा रोदनं ज्वरः||१६||
कासातिसारवमथुजृम्भातृट्शवगन्दताः|
अङ्गेष्वाक्षेपविक्षेपशोषस्तम्भविवर्णताः||१७||
मुष्टिबन्धः स्रुतिश्चाक्ष्णोर्बालस्य स्युः पितृग्रहे|
|१८|
स०-पितृग्रहे रोमहर्षं इत्यादिकं बालस्य स्युरित्यन्तं लक्षणम्|
Adhikarana 6 shakunigrahasya lakShaNam (18-20) · Śloka 20
|
स्रस्ताङ्गत्वमतीसारो जिह्वातालुगले व्रणाः||१८||
स्फोटाः सदाहरुक्पाकाः सन्धिषु स्युः पुनःपुनः|
निश्यह्नि प्रविलीयन्ते पाको वक्त्रे गुदेऽपि वा||१९||
भयं शकुनिगन्धत्वं ज्वरश्च शकुनिग्रहे|
|२०|
स०-शकुनिग्रहे स्रस्ताङ्गत्वमित्यादिकं ज्वरश्चेत्यन्तं लिङ्गम्|
Adhikarana 7 pUtanAyAH lakShaNam (20-21) · Śloka 21
|
पूतनायां वमिः कम्पस्तन्द्रा रात्रौ प्रजागरः||२०||
हिध्माऽऽध्मानं शकृद्भेदः पिपासा मूत्रनिग्रहः|
स्रस्तहृष्टाङ्गरोमत्वं काकवत्पूतिगन्धिता||२१||
स०-वमिः कम्प इत्यादिकं काकवत्पूतिगन्धितेत्यन्तं पूतनाग्रहे लिङ्गम्|
Adhikarana 8SItapUtanAyAH lakShaNam (22-23) · Śloka 23
शीतपूतनया कम्पो रोदनं तिर्यगीक्षणम्|
तृष्णाऽन्त्रकूजोऽतीसारो वसावद्विस्रगन्धता||२२||
पार्श्वस्यैकस्य शीतत्वमुष्णत्वमपरस्य च|
|२३|
स०-शीतपूतनया कम्पो रोदनमित्यादिकमुष्णत्वमपरस्य चेत्येवमन्तं शीतपूरनाग्रहे लिङ्गम्
Adhikarana 9 andhapUtanAyAH lakShaNam (23-25) · Śloka 25
|
अन्धपूतनया छर्दिर्ज्वरः कासोऽल्पनिद्रता||२३||
वर्चसो भेदवैवर्ण्यदौर्गन्ध्यान्यङ्गशोषणम्|
दृष्टेः सादातिरुक्कण्डूपोथकीजन्मशूनताः||२४||
हिध्मोद्वेगस्तनद्वेषवैवर्ण्यस्वरतीक्ष्णताः|
वेपथुर्मत्स्यगन्धत्वमथवा साम्लगन्धता||२५||
स०-छर्द्यादिकं साम्लगन्धतेत्यन्तमन्धपूतनाया [अ] दृष्टिपूतनापरसंज्ञाया लक्षणम्|
Adhikarana 10 mukhamaNDitAyAH lakShaNam (26-27) · Śloka 27
मुखमण्डितया पाणिपादास्यरमणीयता|
सिराभिरसिताभाभिराचितोदरता ज्वरः||२६||
अरोचकोऽङ्गग्लपनं गोमूत्रसमगन्धता|
|२७|
स०-मुखमण्डितायां ग्रहे पाणिपादास्यरमणीयतेत्यादिकं लक्षणम्|
Adhikarana 11 revatyAH lakShaNam (27-28) · Śloka 28
|
रेवत्यां श्यावनीलत्वं कर्णनासाक्षिमर्दनम्||२७||
कासहिध्माक्षिविक्षेपवक्रवक्त्रत्वरक्तताः|
बस्तगन्धो ज्वरः शोषः पुरीषं हरितं द्रवम्||२८||
स०-रेवत्यां-रेवतीग्रहे, श्यावनीलत्वादि लिङ्गम्|
Adhikarana 12 shuShkarevatyAH lakShaNam (29) · Śloka 29
अधुनाऽसाध्यलक्षणं वक्ति जायते शुष्करेवत्यां क्रमात्सर्वाङ्गसङ्क्षयः|
|२९|
स०-शुष्करेवत्यां क्रमात्सर्वाङ्गसङ्क्षय इति लिङ्गम्|
Adhikarana sarvagrahANAm asAdhyalakShaNam (29-31) · Śloka 31
|
केशशातोऽन्नविद्वेषः स्वरदैन्यं विवर्णता||२९||
रोदनं गृध्रगन्धत्वं दीर्घकालानुवर्तनम्|
उदरे ग्रन्थयो वृत्ता यस्य नानाविधं शकृत्||३०||
जिह्वाया निम्नता मध्ये श्यावं तालु च तं त्यजेत्|
|३१|
स०-केशशात इत्यादिकं श्यावं तालु चेत्यन्तं यस्य बालस्य स्यात्, तं न चिकित्सेत्|
Adhikarana shuShkarevatyAH asAdhyalakShaNam (31-32) · Śloka 32
|
भुञ्जानोऽन्नं बहुविधं यो बालः परिहीयते||३१||
तृष्णागृहीतः क्षामाक्षो हन्ति तं शुष्करेवती|
|३२|
स०-भुञ्जानोऽन्नमित्यादिलक्षणं बालं शुष्करेवती हन्ति|
Adhikarana grahagrahaNe trINi kAraNAni (32) · Śloka 32
त्रिभिः कारणैर्ग्रहा गृह्णन्तीत्याह |
हिंसारत्यर्चनाकाङ्क्षा ग्रहग्रहणकारणम्||३२||
स०-हिंसा च रतिश्चार्चना च, तासामाकाङ्क्षा-अभिलाषः, सा ग्रहाणां ग्रहणे कारणं-हेतुः|
Adhikarana hiMsAtmakagrahasya lakShaNam (33-37) · Śloka 37
तत्र हिंसात्मके बालो महान् वा स्रुतनासिकः|
क्षतजिह्वः क्वणेद्बाढमसुखी साश्रुलोचनः||३३||
दुर्वर्णो हीनवचनः पूतिगन्धिश्च जायते|
क्षामो मूत्रपुरीषं स्वं मृद्गाति न जुगुप्सते||३४||
हस्तौ चोद्यम्य संरब्धो हन्त्यात्मानं तथा परम्|
तद्वच्च शस्त्रकाष्ठाद्यैरग्निं वा दीप्तमाविशेत्||३५||
अप्सु मज्जेत्पतेत्कूपे कुर्यादन्यच्च तद्विधम्|
तृड्दाहमोहान् पूयस्य छर्दनं च प्रवर्तयेत्||३६||
रक्तं च सर्वमार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत्|
|३७|
स०-तत्र-तेषु ग्रहेषु मध्यात्, हिंसात्मके ग्रहे सति बालो महान् वा पुरुषः स्रुतनासिकादिगुणो जायते| तथा क्षामः सन् इदमिदं कुर्यात्| तद्विधं-आत्महननादिकं, अन्यदपि कुर्यात्| तृट्दाहमोहांस्तथा छर्दनं च पूयस्य प्रवर्तयेत्| तथा सर्वस्रोतोभ्यो रक्तं च प्रवर्तयेत्, रिष्टोत्पत्तिं च| तं बालं नोपक्रमेत्|
Adhikarana ratikAmagrasya lakShaNam (37-38) · Śloka 38
सम्प्रत्यर्चनाकामं ब्रूते |
रहःस्त्रीरतिसंलापगन्धस्रग्भूषणप्रियः||३७||
हृष्टः शान्तश्च दुःसाध्यो रतिकामेन पीडितः|
|३८|
स०-रहःस्त्रीरत्यादिप्रियो हृष्टादिगुणो बालो रतिकामेन ग्रहेण पीडितः कृच्छ्रसाध्यः स्यात्|
Adhikarana arcanAkAmagrasya lakShaNam (38-40) · Śloka 40
अधुनैषां चिकित्सितमाह |
दीनः परिमृशन् वक्त्रं शुष्कौष्ठगलतालुकः||३८||
शङ्कितं वीक्षते रौति ध्यायत्यायाति दीनताम्|
अन्नमन्नाभिलाषेऽपि दत्तं नाति बुभुक्षते||३९||
गृहीतं बलिकामेन तं विद्यात्सुखसाधनम्|
|४०|
स०-दीनादिगुणः सन् इदमिदं करोति| तं-एवंविधं, बलिकामेन गृहीतं बालं सुखसाध्यं विद्यात्|
Adhikarana eShAM cikitsitaM lakShaNam (40-41) · Śloka 41
|
हन्तुकामं जयेद्धोमैः सिद्धमन्त्रप्रवर्तितैः||४०||
इतरौ तु यथाकामं रतिबल्यादिदानतः|
|४१|
स०-जिघांसुग्रहं होमादिभिर्जयेत्| ननु, हिंसाकामोऽसाध्यस्तं त्यजेदित्युक्तम्, तत्कथं तस्य साधनमुक्तम् ? ब्रूमः| असाध्यस्यापि चिकित्सा कार्यैव| तथा च सङ्ग्रहेऽभ्यधायि "तस्मादाचरमोच्छ्वासाच्चिकित्सेत्|" इत्यादि| अपि च मन्त्रप्रभावस्याचिन्त्यत्वात्| इतरौ तु-रत्यर्चनाकामौ, यथाभिलाषं रतिबल्यादिदानेन जयेत्|
Adhikarana sAdhyagrahasya cikitsA (41-47) · Śloka 47
|
अथ साध्यग्रहं बालं विविक्ते शरणे स्थितम्||४१||
त्रिरह्नः सिक्तसंमृष्टे सदा सन्निहितानले|
विकीर्णभूतिकुसुमपत्रबीजान्नसर्षपे||४२||
रक्षोघ्नतैलज्वलितप्रदीपहतपाप्मनि|
व्यवायमद्यपिशितनिवृत्तपरिचारके||४३||
पुराणसर्पिषाऽभ्यक्तं परिषिक्तं सुखाम्बुना|
साधितेन बलानिम्बवैजयन्तीनृपद्रुमैः||४४||
पारिभद्रककट्वङ्गजम्बूवरुणकटूतृणैः|
कपोतवङ्कापामार्गपाटलामधुशिग्रुभिः||४५||
काकजङ्घामहाश्वेताकपित्थक्षीरिपादपैः|
सकदम्बकरञ्जैश्च, धूपं स्नातस्य चाचरेत्||४६||
द्वीपिव्याघ्राहिसिंहर्क्षचर्मभिर्घृतमिश्रितैः|
|४७|
स०-अथेति कृतमङ्गलम्| साध्यग्रहं बालं विविक्ते गृहे स्थितम्| किम्भूते ? [ त्रिः- ] त्रीन् वारान्, शोधिते सिक्ते च| त्रिरह्न इति "कृत्वोऽर्थप्रयोगे कालेऽधिकरणे" इत्यधिकरणे षष्ठी| तथा सर्वदा निकटाग्नौ| तथा विक्षिप्तभूत्यादिके, रक्षोघ्नतैलप्रदीप्तप्रदीपहतपापे, व्यवायादिनिवृत्तपरिचारके| किम्भूतं बालम् ? पुराणघृताभ्यक्तम्| तथा स्नातमुष्णाम्बुना| किम्भूतेन जलेन ? बलादिभिः साधितेन| वैजयन्ती-अरणिका| महाश्वेता_कटभी| परिषिक्तस्य चास्य द्वीप्यादिचर्मादिभिर्घृत मिश्रितैर्धूपनं कुर्यात्|
Adhikarana sarvagrahamokShaNaH pUtyAdidhUpaH (47-48) · Śloka 48
|
पूतीदशाङ्गसिद्धार्थवचाभल्लातदीप्यकैः||४७||
सकुष्ठैः सघृतैर्धूपः सर्वग्रहविमोक्षणः|
|४८|
स०-पूत्यादिभिर्धूपः सर्वग्रहविमोक्षणः स्यात्| पूती-पूतीकरञ्जः| "वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली| पाठा प्रतिविषा व्योषं" (हृ. उ. अ. ३७|२७) इति दशाङ्गः काश्यपेन विनिर्मितः|
Adhikarana sarvagrahamokShaNaH sarShapAdidhUpaH (48-49) · Śloka 49
|
सर्षपा निम्बपत्राणि मूलमश्वखुरा वचा||४८||
भूर्जपत्रं घृतं धूपः सर्वग्रहनिवारणः|
|४९|
स०-सर्षपादिभिर्धूपोऽशेषग्रहनिवारणः| अश्वखुरा-गिरिकर्णिका|
Adhikarana sarvagrahamokShaNaH anantAdighRutam (49-50) · Śloka 50
|
अनन्ताम्रास्थितगरं मरिचं मधुरो गणः||४९||
शृगालविन्ना मुस्ता च कल्कितैस्तैर्घृतं पचेत्|
दशमूलरसक्षीरयुक्तं तद् ग्रहजित्परम्||५०||
स०-यवासादिभिः कल्कितैर्दशमूलरसक्षीरयुतं घृतं पचेत्| तच्च शिशोः पथ्यं परं ग्रहजित्|
Adhikarana sarvagrahamokShaNaH rAsnAdighRutam (51-53) · Śloka 53
रास्नाह्यंशुमतीवृद्धपञ्चमूलबलाघनात्|
क्वाथे सर्पिः पचेत्पिष्टैः सारिवाव्योषचित्रकैः||५१||
पाठाविडङ्गमधुकपयस्याहिङ्गुदारुभिः|
सग्रन्थिकैः सेन्द्रयवैः शिशोस्तत्सततं हितम्||५२||
सर्वरोगग्रहहरं दीपनं बलवर्णदम्|
|५३|
स०-रास्नादिक्वाथे सारिवादिभिः कल्कैः सर्पिः पचेत्| तच्च शिशोः सदा पथ्यं सर्वरोगग्रहघ्नं दीपनं बलवर्णदं च|
Adhikarana sarvagrahamokShaNaH sArivAdighRutam (53-54) · Śloka 54
|
सारिवासुरभिब्राह्मीशङ्खिनीकुष्ठसर्षपैः||५३||
वचाश्वगन्धासुरसयुक्तैः सर्पिर्विपाचयेत्|
तन्नाशयेद्ग्रहान् सर्वान् पानेनाभ्यञ्जनेन च||५४||
स०-सारिवादिभिः सुरसयुक्तैः सर्पिर्विपाचयेत्| तच्च पानाभ्यञ्जनाभ्यां सर्वग्रहनाशनम्|
Adhikarana sarvagrahamokShaNaH goshRu~ggAdidhUpanam (55-57) · Śloka 57
गोशृङ्गचर्मवालाहिनिर्मोकं वृषदंशविट्|
निम्बपत्राज्यकटुकामदनं बृहतीद्वयम्||५५||
कार्पासास्थियवच्छागरोमदेवाह्वसर्षपम्|
मयूरपत्रश्रीवासं तुषकेशं सरामठम्||५६||
मृद्भाण्डे बस्तमूत्रेण भावितं श्लक्ष्णचूर्णितम्|
धूपनं च हितं सर्वभूतेषु विषमज्वरे||५७||
स०-गोशृङ्गादि सर्पनिर्मोकादि च मृन्मये भाण्डे छागमूत्रेण भावितं सूक्ष्मरजीकृतं सर्वभूतेषु विषमज्वरे च धूपनार्थं हितम्|
Adhikarana sarvagrahamokShaNaH vakShyamANaM bhUtavidyoktaM ghRutAdi (58) · Śloka 58
घृतानि भूतविद्यायां वक्ष्यन्ते यानि तानि च|
युञ्ज्यात्तथा बलिं होमं स्नपनं मन्त्रतन्त्रवित्||५८||
स०-यानि च सर्पीषि भूतविद्यायां वक्ष्यन्ते तानि च युञ्ज्यात्| तथा मन्त्राः-सङ्ग्रहोक्ताः, तन्त्राणि च, एतानि वेत्तीति मन्त्रतन्त्रवित्,-वैद्यो, बलिं होमं स्नपनं च युञ्ज्यात्|
Adhikarana pUtIkara~jjAdisnapanam (59-60) · Śloka 60
पूतीकरञ्ज(ञ्जात्)त्वक्पत्रं क्षीरिभ्यो बर्बरादपि|
तुम्बीविशालारलुकशमीबिल्वकपित्थतः||५९||
उत्क्वाथ्य तोयं तद्रात्रौ बालानां स्नपनं शिवम्|
|६०|
स०-पूतीकरञ्जत्वक् तथा पत्रं क्षीरिवृक्षाद्बर्बरादिभ्यश्च तोयमुत्क्वाथ्य तद्रात्रौ बालानां स्नपनं शिवं स्यात्|
Adhikarana upadravacikitsitam (60-3) · Śloka 3
|
अनुबन्धान् यथाकृच्छ्रं ग्रहापायेऽप्युपद्रवान्||६०||
बालामयनिषेधोक्तभेषजैः समुपाचरेत्|
६० १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने बालग्रहप्रतिषेधो नाम तृतीयोऽध्यायः||३||
स०-अनुबन्धान् यथाकृच्छ्रं तथा ग्रहाणामपाये-मोक्षे, च ये उपद्रवास्तांश्च बालामयप्रतिषेधाध्यायोक्तैरौषधैः समुपक्रमेत्| इति श्रीमृगाङ्कदत्तपुत्र श्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने बालग्र- हप्रतिषेधो नाम तृतीयोऽध्यायः समाप्तः|| ३|| इत्यष्टाङ्गहृदये द्वितीयं कौमारतन्त्रं समाप्तम्|