Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. bhūtapratiṣēdhādhyāyaḥ

Adhikarana bhUtapratiShedhAdhyAyaH||5| (2-3) · Śloka 3

अथातो भूतप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रयादयो महर्षयः| (गद्यसूत्रे||२|| )||३||

🔊 Audio coming soon

भूतग्रहविज्ञानादनन्तरं भूतस्य प्रतिषेधं-चिकित्सितं, उच्यते| ननु, निदानचिकित्सितपदाभ्यां प्रसिद्धतराभ्यां पूर्ववत्किमितीदं तन्त्रकृता नोपनिबद्धम् ? इति केचिच्चोद्यमचूचुदन्| तान् सञ्चक्ष्महे| शास्त्रकारस्यास्येदृशी प्रतिज्ञा,-सूत्रशारीरनिदान चिकित्सितकल्पोत्तराख्यैः षड्भिः स्थानैस्तन्त्रमिदमभिधेयमिति| तदेवं यद्युत्तरे स्थानेऽपि किञ्चिन्निदानचिकित्सितपदाभ्यामभिधीयते, ततः षट्स्थानकमिदं तन्त्रमिति प्रतिज्ञां व्याहन्यात्| तस्मादयं विरचनाप्रकारविशेषः कृतः|

Adhikarana ahiMsecchaM bhUtaM japAdibhirjayet (1) · Śloka 1

भूतं जयेदहिंसेच्छं जपहोमबलिव्रतैः| तपःशीलसमाधानदानज्ञानदयादिभिः||१||

🔊 Audio coming soon

स०-अहिंसाकामं भूतं जपादिभिर्जयेत्|

Adhikarana sarvagrahanASakaM hiMgvAdi ghRutaM tailaM vA (2-8) · Śloka 8

हिङ्गुव्योषालनेपालीलशुनार्कजटाजटाः| अजलोमी सगोलोमी भूतकेशी वचा लता||२|| कुक्कुटी सर्पगन्धाख्या तिलाः काणविकाणिके| वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्यपि||३|| स्रोतोजाञ्जनरक्षोघ्नं रक्षोघ्नं चान्यदौषधम्| खराश्वश्वाविदुष्ट्रर्क्षगोधानकुलशल्यकात्||४|| द्वीपिमार्जारगोसिंहव्याघ्रसामुद्रसत्त्वतः| चर्मपित्तद्विजनखा वर्गेऽस्मिन् साधयेद्घृतम्||५|| पुराणमथवा तैलं नवं तत्पाननस्ययोः| अभ्यङ्गे च प्रयोक्तव्यमेषां चूर्णं च धूपने||६|| एभिश्च गुटिकां युञ्ज्यादञ्जने सावपीडने| प्रलेपे कल्कमेतेषां क्वाथं च परिषेचने||७|| प्रयोगोऽयं ग्रहोन्मादान् सापस्माराञ्शमं नयेत्| |८|

🔊 Audio coming soon

स०-हिङ्ग्वादय औषधम्| आलं-हरितालम्| नेपाली- कस्तूरिका| जटा-जटामांसी| अजलोमी-श्वेतदूर्वा| गोलोमी-दूर्वा| लता-प्रियङ्गुः| कुक्कुटी-शितिवारकः| सर्पगन्धाख्या-नाकुली| काणविषा(का)णिके-काकोलीक्षीरकाकोल्यौ| शृङ्गी-अतिविषा| मोहनवल्ली-वन्दाकः| अन्यदपि रक्षोघ्नं गुग्गुल्वादिकमौषधम्| तथा गर्दभतुरङ्गादिभ्यश्चर्मादयः| सामुद्रसत्त्वतो-जलधिजन्तोः| तदेतस्मिन् हिङ्ग्वादिवर्गे, घृतं पुराणमथवा नवं तैलं पचेत्-साधयेत्| तच्च-घृतं तैलं वा, सिद्धं पाने नस्येऽभ्यङ्गे च प्रयोज्यम्| एषां द्रव्याणां च चूर्णं धूपने प्रयोज्यम्| एभिश्चूर्णैर्गुटिकामञ्जनेऽवपीडने च युञ्ज्यात्| एतेषां च द्रव्याणां कल्कं प्रलेपे क्वाथं परिषेचने च युञ्ज्यात्| अयं प्रयोगो ग्रहादीन् शमयेत्|

Adhikarana sarvagrahanAshakaM gajAhvAdikalkaH (8-9) · Śloka 9

| गजाह्वापिप्पलीमूलव्योषामलकसर्षपान्||८|| गोधानकुलमार्जारझषपित्तप्रपेषितान्| नावनाभ्यङ्गसेकेषु विदधीत ग्रहापहान्||९||

🔊 Audio coming soon

स०-हस्तिपिप्पल्यादीनि(न्) गोधादिपित्तपिष्टानि(न्) नस्याभ्यङ्गसेकेषु ग्रहापहान् कुर्यात्| मूलं-पुष्करमूलम्| झषो जलचरभेदः|

Adhikarana sarvagrahanASakaM siddhArthakaM ghRutam (10-13) · Śloka 13

सिद्धार्थकवचाहिङ्गुप्रियङ्गुरजनीद्वयम्| मञ्जिष्ठा श्वेतकटभी वरा श्वेताऽद्रिकर्णिका||१०|| निम्बस्य पत्रं बीजं तु नक्तमालशिरीषयोः| सुराह्वं त्र्यूषणं सर्पिर्गोमूत्रे तैश्चतुर्गुणे||११|| सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम्| ग्रहान् सर्वान्निहन्त्याशु विशेषादासुरान् ग्रहान्||१२|| कृत्यालक्ष्मीविषोन्मादज्वरापस्मारपाप्म च| |१३|

🔊 Audio coming soon

स०-सर्षपादि गोमूत्रे चतुर्गुणे सर्पिः सिद्धं सिद्धार्थकसंज्ञं पाने नस्ये च योजितं सर्वान् ग्रहान् द्राक् नाशयति| विशेषेणासुरग्रहान् कृत्यादींश्च| श्वेतकटभी-श्वेतगुञ्जा| श्वेताऽद्रिकर्णिका-शुक्ला गिरिकर्णिका|

Adhikarana sarvagrahanASakaM agadaH (13-14) · Śloka 14

| एभिरेवौषधैर्बस्तवारिणा कल्पितोऽगदः||१३|| पाननस्याञ्जनालेपस्नानोद्धर्षणयोजितः| गुणैः पूर्ववदुद्दिष्टो राजद्वारे च सिद्धिकृत्||१४||

🔊 Audio coming soon

स०-एभिरेव द्रव्यैश्छागमूत्रेण कल्पितोऽगदः पानादिषु योजितो गुणैः पूर्वेण तुल्य उक्तो राजद्वारे च सिद्धिकरः स्यात्|

Adhikarana sarvagrahanASakaM siddhArthakAdiguDAH (15-17) · Śloka 17

सिद्धार्थकव्योषवचाश्वगन्धा- निशाद्वयं हिङ्गुपलाण्डुकन्दः| बीजं करञ्जात्, कुसुमं शिरीषात् फलं च वल्कं च कपित्थवृक्षात्||१५|| समाणिमन्थं सनतं सकुष्ठं स्योनाकमूलं किणिही सिता च| बस्तस्य मूत्रेण सुभावितं तत् पित्तेन गव्येन गुडान् विदध्यात्||१६|| दुष्टव्रणोन्मादतमोनिशान्धा- नुद्बन्धकान् वारिनिमग्नदेहान्| दिग्धाहतान् दर्पितसर्पदष्टां- स्ते साधयन्त्यञ्जननस्यलेपैः||१७||

🔊 Audio coming soon

स०-सिद्धार्थकादि बस्तमूत्रेण सुभावितं गव्येन पित्तेन गुडान्-गुडकान्, कुर्यात्| ते च-गुडकाः, अञ्जननस्यलेपैर्दुष्टव्रणादीन् साधयन्ति| उपजातिवृत्ते इन्द्रवज्रा च|

Adhikarana skandAdigrahanAshakaM kArpAsAsthyAdidhUpanam (18) · Śloka 18

कार्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतक- त्वङ्मांसीवृषदंशविट्तुषवचाकेशाहिनिर्मोककैः| नागेन्द्रद्विजशृङ्गहिङ्गुमरिचैस्तुल्यैः कृतं धूपनं स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नं परम्||१८||

🔊 Audio coming soon

स०-कार्पासास्थ्यादिभिः कृतं धूपनं स्कन्दादिघ्नं परं स्यात्| निर्माल्यं-महादेवसम्बन्धि| वृषदंशविट्-मार्जारविष्ठा| शार्दूलविक्रीडितं वृत्तम्|

Adhikarana sarvagrahaghnaM bhUtarAvaM ghRutaM (19) · Śloka 19

त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंही- निशादारुसिद्धार्थयुग्माम्बुशक्राह्वयैः सितलशुनफलत्रयोशीरतिक्तावचा- तुत्थयष्टीबलालोहितैलाशिलापद्मकैः| दधितगरमधूकसारप्रियाह्वाविषाख्या- विषातार्क्ष्यशैलैः सचव्यामयैः कल्कितैर्घृतमनवमशेषमूत्रांशसिद्धं मतं भूतरावाह्वयं पानतस्तद् ग्रहघ्नं परम्||१९||

🔊 Audio coming soon

स०-त्रिकटुकादिभिः कल्कितैः पुराणं सर्पिरशेषमूत्राणां- गोमूत्रादीनां, अंशैः भागैः, सिद्धं भूतरावसंज्ञं मतम्| तत् पाने(नतः) परं ग्रहघ्नं स्यात्| दलं-तमालपत्रम्| सिद्धार्थयुग्मं-पीतकृष्णभेदेन| तुत्थं-कर्पारिकातुत्थम्| शक्राह्वयाः-इन्द्रयवाः| सितलशुनं-शुक्लरसोनम्| प्रियाह्वा-कङ्गुणिका| विषाख्या-अतिविषा| विषा-काकोली| "प्रथमक इह दण्डकश्चण्डवृष्टिप्रयातो नद्वयानाप्यनाप्यरैः सप्तभिः| प्रतिपदमिह वृद्धिरेफवृद्ध्या स्युरर्णार्णवव्यालबीमूतलीलाकरोद्दामशङ्खादयः||

Adhikarana sarvagrahaghnaM mahAbhUtarAvaM ghRutam (20) · Śloka 20

नतमधुकरञ्जलाक्षापटोलीसमङ्गावचा- पाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी- बदरकटुफलत्रिकाकाण्डदारुकृमिघ्नाजगन्धा- मराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः| गदशुकतरुपुष्पबीजोग्रयष्ट्यद्रिकर्णीनिकुम्भा- ग्निबिल्वैः समैःकल्कितैर्मूत्रवर्गेण सिद्धं घृतं विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठज्वरांस्तन्महाभूतरावं स्मृतम्||२०||

🔊 Audio coming soon

स०-नतादिभिर्मूत्रवर्गेण-गोमूत्रादिमूत्रकदम्बकेन, सर्पिः पक्वं विधिविनिहितं सर्वैः क्रमैः-अभ्यङ्गपाननस्यादिभिः, योजितं शीघ्रं सर्वान् ग्रहादीन् हन्ति| एतच्च महाभूतरावसंज्ञं घृतम्| दण्डको व्यालाख्यः|

Adhikarana grahagrahaNadine balyAdi (21) · Śloka 21

ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः| दिनेषु बलिहोमादीन् प्रयुञ्जीत चिकित्सकः||२१||

🔊 Audio coming soon

स०-येषु दिनेषु ग्रहा गृह्णन्ति तेषु दिनेषु तेषां ग्रहाणां विशेषेण बलिहोमादीन् भिषक् प्रयुञ्जीत|

Adhikarana sarvagrahANAM sAmAnyo vidhiH (22) · Śloka 22

स्नानवस्त्रवसामांसमद्यक्षीरगुडादि च| रोचते यद्यदा येभ्यस्तत्तेषामाहरेत्तदा||२२||

🔊 Audio coming soon

स०-स्नानवस्त्रादि यद्येभ्यो ग्रहेभ्यो रोचते तत्तेभ्यस्तस्मिन् दिने दद्यात्|

Adhikarana surAdibhyo balidAnasthAnAni (23) · Śloka 23

रत्नानि गन्धमाल्यानि बीजानि मधुसर्पिषी| भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरित्ययम्||२३||

🔊 Audio coming soon

स०-तथा रत्नादीनि तथा बीजानि-यवादीनि, मधुसर्पिषी सर्वे च भक्ष्याः सर्वेषां ग्रहाणाम्| इत्ययं सामान्यो विधिः|

Adhikarana devAnAmiShTo baliH (24-28) · Śloka 28

सुरर्षिगुरुवृद्धेभ्यः सिद्धेभ्यश्च सुरालये| दिश्युत्तरस्यां तत्रापि देवायोपहरेद्बलिम्||२४|| पश्चिमायां यथाकालं दैत्यभूताय चत्वरे| गन्धर्वाय गवां मार्गे सवस्त्राभरणं बलिम्||२५|| पितृनागग्रहे नद्यां नागेभ्यः पूर्वदक्षिणे| यक्षाय यक्षायतने सरितोर्वा समागमे||२६|| चतुष्पथे राक्षसाय भीमेषु गहनेषु च| रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्मरक्षसाम्||२७|| शून्यालये पिशाचाय पश्चिमां दिशमास्थिते| |२८|

🔊 Audio coming soon

स०-सुरादिभ्यः पञ्चभ्यः सुरालये बलिं दद्यात्| तत्रापि देवायोत्तरस्यां बलिमुपहरेत्| दैत्यभूताय पश्चिमायां दिशिचत्वरे बलिमुपहरेत्| गवां पथि वस्त्राभरणसहितं बलिं गन्धर्वायोपहरेत्| पितृनागग्रहेभ्यो नद्यां बलिं दद्यात्| नागेभ्यः पूर्वदक्षिणदेशे बलिं दद्यात्| यक्षाय यक्षप्रासादे अथवा सरितोः-नद्योः, समागमे बलिमुपहरेत्| राक्षसशब्देनेह ब्रह्मराक्षसो गृह्यते| राक्षसाय चतुष्पथे भयानकेषु वनेषु च बलिं दद्यात्| दक्षिणस्यां तु दिशि राक्षसानां बलिं दद्यात्| पूर्वस्यां दिशि ब्रह्मरक्षसाम्| शून्यालये पश्चिमां दिशमास्थिते पिशाचाय बलिं दद्यात्|

Adhikarana devagrahamokShaNaM hiMgvAdighRutam (28-30) · Śloka 30

| शुचिशुक्लानि माल्यानि गन्धाः क्षैरेयमोदनम्||२८|| दधि छत्रं च धवलं देवानां बलिरिष्यते| हिङ्गुसर्षपषड्ग्रन्थाव्योषैरर्धपलोन्मितैः||२९|| चतुर्गुणे गवां मूत्रे घृतप्रस्थं विपाचयेत्| तत्पाननावनाभ्यङ्गैर्देवग्रहविमोक्षणम्||३०||

🔊 Audio coming soon

स०-शुचिशुक्लमाल्यादिकं च देवानां बलिरिष्यते| स०-हिंग्वादिभिरर्धपलिकैः सर्पिःप्रस्थं चतुर्गुणे गोमूत्रे विपाचयेत्| तत्पानादिभिर्देवग्रहविमोक्षणं स्यात्|

Adhikarana devagrahamokShaNaM vacAdinasyA~jjanam (31) · Śloka 31

नस्याञ्जनं वचाहिङ्गुलशुनं बस्तवारिणा| |३१|

🔊 Audio coming soon

स०-वचाहिङ्गुलशुनं छागमूत्रेण नस्यमञ्जनं च दद्यात्|

Adhikarana daityAnAmiShTo baliH (31) · Śloka 31

| दैत्ये बलिर्बहुफलः सोशीरकमलोत्पलः||३१||

🔊 Audio coming soon

स०-दैत्यग्रहे बलिर्बहूनि फलानि यस्मिन्, तथोशीरकमलोत्पलैर्युक्तो देयः|

Adhikarana nAgAnAmiShTo baliH nAgAnAmiShTo SvetapatrAdinasyA~jjanam (32-34) · Śloka 34

नागानां सुमनोलाजगुडापूपगुडौदनैः| परमान्नमधुक्षीरकृष्णमृन्नागकेसरैः||३२|| वचापद्मपुरोशीररक्तोत्पलदलैर्बलिः| श्वेतपत्रं च रोध्रं च तगरं नागसर्षपाः||३३|| शीतेन वारिणा पिष्टं नावनाञ्जनयोर्हितम्| |३४|

🔊 Audio coming soon

स०-नागानां सुमनोलाजादिभिर्बलिर्देयः| श्वेतपत्रादयः शीतलजलपिष्टा नस्येऽञ्जने च हिताः| श्वेतपत्रं शुक्ल पुण्डरीकम्|

Adhikarana yakShANAmiShTo baliH (34-35) · Śloka 35

| यक्षाणां क्षीरदध्याज्यमिश्रकौदनगुग्गुलु||३४|| देवदारूत्पलं पद्ममुशीरं वस्त्रकाञ्चनम्| हिरण्यं च बलिर्योज्यो|३५|

🔊 Audio coming soon

स०-यक्षाणां क्षीरादिभिर्बलिर्योज्यः|

Adhikarana yakShANAM mUtrAdi pAnanasyA~jjanam (35-36) · Śloka 36

| मूत्राज्यक्षीरमेकतः||३५|| सिद्धं समोन्मितं पाननावनाभ्यञ्जने हितम्| |३६|

🔊 Audio coming soon

स०-गोमूत्रक्षीरघृतं तुल्यप्रमाणमेकस्मिन् पक्वं नस्याभ्यञ्जनयोर्हितम्|

Adhikarana yakShANAM harItakyAdi pAnanasyA~jjanam (36-37) · Śloka 37

| हरितकी हरिद्रे द्वे लशुनो मरिचं वचा||३६|| निम्बपत्रम् च बस्ताम्बुकल्कितं नावनाञ्जनम्| |३७|

🔊 Audio coming soon

स०-हरीतक्यादि छागमूत्रेण पिष्टं नावनाञ्जने हितम्|

Adhikarana brahmarAkShasAnAmiShTo baliH (37-38) · Śloka 38

| ब्रह्मरक्षोबलिः सिद्धं यवानां पूर्णमाढकम्||३७|| तोयस्य कुम्भः पललं छत्रं वस्त्रं विलेपनम्| ||३८||

🔊 Audio coming soon

स०-पक्वं यवानामाढकं-पात्रं, पूर्णं जलकुम्भः पललं छत्रं वस्त्रं प्रलेपनमिति ब्रह्मराक्षसाय बलिं दद्यात्| यवानां पूर्णं सिद्धमाढकं-पक्वपात्रं, यवैः पूर्णं पक्वपात्रमित्यर्थः| पूरणार्थेऽत्रषष्ठी| आढकशब्दोऽत्र पात्रवाचको न तु मानवाचकः| पक्वपात्रं-पक्वशरावमिति

Adhikarana rAkShasAnAM naktamAlAdyagadaH (41-43) · Śloka 43

| नक्तमालशिरीषत्वङ्मूलपुष्पफलानि च||४१|| तद्वच्च कृष्णपाटल्या बिल्वमूलं कटुत्रिकम्| हिंग्विन्द्रयवसिद्धार्थलशुनामलकीफलम्||४२|| नावनाञ्जनयोर्योज्यो बस्तमूत्रयुतोऽगदः| |४३|

🔊 Audio coming soon

स०-नक्तमालादिकं बस्तमूत्रेण युतमगदो नस्याभ्यञ्जनयोर्योज्यः|

Adhikarana rAkShasAnAM naktamAlAdighRutam (43-44) · Śloka 44

| एभिरेव घृतं सिद्धं गवां मूत्रे चतुर्गुणे||४३|| रक्षोग्रहान् वारयते पानाभ्यञ्जननावनैः| |४४|

🔊 Audio coming soon

स०-एभिरेव द्रव्यैर्घृतं गोमूत्रे चतुर्गुणे सिद्धं पानादिभी रक्षोग्रहनिवारणं स्यात्|

Adhikarana piSAcAnAmiShTo baliH (44-45) · Śloka 45

| पिशाचानां बलिः सीधुः पिण्याकः पललं दधि||४४|| मूलकं लवणं सर्पिः सभूतौदनयावकम्| |४५|

🔊 Audio coming soon

स०-पिशाचानां सीध्वादिभिर्बलिर्देयः|

Adhikarana pishAcAnAmiShTo haridrAdighRutam (45-47) · Śloka 47

| हरिद्राद्वयमञ्जिष्ठामिशिसैन्धवनागरम्||४५|| हिङ्गुप्रियङ्गुत्रिकटुरसोनत्रिफला वचा| पाटलीश्वेतकटभीशिरीषकुसुमैर्घृतम्||४६|| गोमूत्रपादिकं सिद्धं पानाभ्यञ्जनयोर्हितम्| |४७|

🔊 Audio coming soon

स०-हरिद्राद्वयादिभिर्गोमूत्रपादिकं घृतं पक्वं पानाभ्यञ्जनयोर्हितम्|

Adhikarana pishAcAnAmiShTo haridrAdi nAvanA~jjanam (47) · Śloka 47

| बस्ताम्बुपिष्टैस्तैरेव योज्यमञ्जननावनम्||४७||

🔊 Audio coming soon

स०-बस्ताम्बुपिष्टैरेतैरेव द्रव्यैर्नस्यमञ्जनं च हितमुक्तम्|

Adhikarana devarShipitRugandharve varjyAvarjyam (48) · Śloka 48

देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि वर्जयेत्| सर्पिष्पानादि मृद्वस्मिन् भैषज्यमवचारयेत्||४८||

🔊 Audio coming soon

स०-देवर्षिपितृगन्धर्वे तीक्ष्णं नस्यादि न योजयेत्| मृदु सर्पिष्पानादिकमौषधमत्र योज्यम्|

Adhikarana pishAcAdRute sarveShvanukUlAcaraNam (49) · Śloka 49

ऋते पिशाचात्सर्वेषु प्रतिकूलं च नाचरेत्| सवैद्यमातुरं घ्नन्ति क्रुद्धास्ते हि महौजसः||४९||

🔊 Audio coming soon

स०-सर्वेषु च ग्रहेषु पिशाचमन्तरेण प्रतिकूलं नाचरेत्| ते हि देवादयो महौजसः प्रतिकूलाचरणात् क्रुद्धाः सन्तः वैद्यसहितमातुरं घ्नन्ति|

Adhikarana sarvagrahanASako ISvarAdi japaH (50-51) · Śloka 51

ईश्वरं द्वादशभुजं नाथमार्यावलोकितम्| सर्वव्याधिचिकित्सां च जपन् सर्वग्रहान् जयेत्||५०|| तथोन्मादानपस्मारानन्यं वा चित्तविप्लवम्| |५१|

🔊 Audio coming soon

स०-ईश्वरं द्वादशभुजं नाथमार्यावलोकितं तथा सर्वव्याधिचिकित्सितमित्यादि जपन् सर्वान् ग्रहानुन्मादादींश्च पराकरोति|

Adhikarana sarvagrahanAshako mAyUrImahAvidyAshravaNam (51) · Śloka 51

| महाविद्यां च मायूरीं शुचिं तं श्रावयेत्सदा||५१||

🔊 Audio coming soon

स०-मायुरीं महाविद्यां तं-ग्रहगृहीतं, शुचिं सन्तं सततं श्रावयेत्|

Adhikarana sarvagrahanAshako bhUteshAdipUjanaM tanmantrajapashca (52) · Śloka 52

भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश्च तद्गणान्| जपन् सिद्धांश्च तन्मन्त्रान् ग्रहान् सर्वानपोहति||५२||

🔊 Audio coming soon

स०-तथा स्थाणुं भूताधिपं पूजयेत्| तथा तस्य गणान् प्रमथसंज्ञान् पूजयेत् ग्रहान् पराकरोति| | सिद्धांश्च तन्मन्त्रान् जपन् सर्वान्

Adhikarana sarvagrahanAshako vakShamANAdhyAyayorukta upakramaH (5) · Śloka 5

यच्चानन्तरयोः किञ्चिद्वक्ष्यतेऽध्याययोर्हितम्| यच्चोक्तमिह तत्सर्वं प्रयुञ्जीत परस्परम्||५३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने भूतप्रतिषेधो नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

स०-यदप्य्नन्तरयोरध्याययोः-उन्मादापस्मारप्रतिषेधाख्ययोः, वक्ष्यति-भणिष्यति, तच्चात्र हितम्| यच्च,[इह-]अस्मिन्नध्याये, देवग्रहादीनां पृथक् चिकित्सितं कथितं तदपि परस्परं ग्रहाणां प्रयुञ्जीतेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने भूत- प्रतिषेधो नाम पञ्चमोऽध्यायः समाप्तः|| ५||