Adhikarana guhyarogapratiShedhAdhyAyaH --------- upadaMshe nave meDhramadhye sirAvyadhAdi (2) · Śloka 2
अथैतच्चिकित्सां ब्रूते अथातो गुह्यरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
मेढ्रमध्ये सिरां विध्येदुपंदशे नवोत्थिते|
शीतां कुर्यात् क्रियां शुद्धिं विरेकेण विशेषतः||१||
तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते|
|२|
स०- उपदंशेऽचिरोद्भूते लिङ्गस्य मध्ये सिरां मोक्षयेत्| शिशिरां च चिकित्सां लेपसेकादिभिः कुर्यात्| विशेषेण विरेचनेन शुद्धिं विदधीत| पक्वे पाटिते च तिलकल्काज्यमधुभिर्लेपः|
Adhikarana upadaMshe jambvAdikvAthena kShAlanam, upadaMshe jambvAditailena ropaNam (2-4) · Śloka 4
|
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान्||२||
शल्लकीबदरीबिल्वपलाशतिनिशोद्भवाः|
त्वचः क्षीरिद्रुमाणां च त्रिफलां च पचेज्जले||३||
स क्वाथः क्षालनं, तेन पक्वं तैलं च रोपणम्|
|४|
स०- जम्ब्वाद्यङ्कुरान् शल्लक्यादीनां त्वचः क्षीरिवृक्षाणां च त्वचस्त्रिफलां च जले पचेत्| स क्वाथः क्षालनं हितम्| तेन च क्वाथेन तैलं पक्वं रोपणं स्यात्|
Adhikarana upadaMshe tutthAdilepo vraNaharaH (4-5) · Śloka 5
|
तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः||४||
हरेणुपुष्पकासीससौराष्ट्रीलवणोत्तमैः|
लेपः क्षौद्रयुतैः सक्ष्मैरुपदंशव्रणापहः||५||
स०- तुत्थादिभिर्माक्षिकद्रुतैः सूक्ष्मीकृतैर्लेप उपदंशव्रणहरः|
Adhikarana upadaMshe triphalAmaShIleporopaNam (6) · Śloka 6
कपाले त्रिफला दग्धा सघृता रोपणं परम्|
|६|
स०-कर्परे त्रिफला दग्धा घृतान्विता परं रोपणम्|
Adhikarana upadaMshe pratidoShaM shoPavat cikitsitam (6) · Śloka 6
|
सामान्यं साधनमिदं प्रतिदोषं तु शोफवत्||६||
स०- सामान्यमेतत् साधनम्| स०- प्रतिदोषं तु शोफतुल्यं चिकित्सितं ज्ञेयम्|
Adhikarana upadaMshe pAkaM yathAna yAti tathA~atiyatnaH kAryaH (7) · Śloka 7
न च याति यथा पाकं प्रयतेत तथा भृशम्|
पक्वैः स्नायुसिरामांसैः प्रायो नश्यति हि ध्वजः||७||
स०-यथा च पाकं न याति तथाऽतियत्नः कार्यः| यतः पक्वैः स्नाय्वादिभिः प्रायेण मेढ्रो नश्यति|
Adhikarana arshaHsu CinnadagdheShu upadaMSavat kriyA (8) · Śloka 8
अर्शसां छिन्नदग्धानां क्रिया कार्योपदंशवत्|
|८|
स०- अर्शसां छिन्नानां दग्धानां चोपदंशतुल्या क्रिया कार्या|
Adhikarana sarShapikAsu leKanaM kaShAyairavacUrNanAdi (8-9) · Śloka 9
|
सर्षपा लिखिताः सूक्ष्मैः कषायैरवचूर्णयेत्||८||
तैरेवाभ्यञ्जनं तैलं साधयेत् व्रणरोपणम्|
|९|
स०- सर्षपिकाः शस्त्रेण लिखिताः कषायद्रव्यैर्जम्ब्वादिभिः पूर्वोक्तैः सूक्ष्मचूर्णैरवचूर्णयेत्| तैरेव कषायैस्तैलं पचेत्| तदभ्यञ्जनं व्रणरोपणं स्यात्|
Adhikarana avamanthe~apIyaM kriyA (9) · Śloka 9
|
क्रियेयमवमन्थेऽपि रक्तं स्राव्यं तथोभयोः||९||
स०-एतच्चिकित्सितमवमन्थेऽपि कार्यम्| तथैत(थोभ)-योः-सर्षपावमन्थयोः, अस्रं स्राव्यम्|
Adhikarana kumbhIkAyAM raktamokShaNaM tinukAdibhirlepastailaM ca (10) · Śloka 10
कुम्भीकायां हरेद्रक्तं पक्वायां शोधिते व्रणे|
तिन्दुकत्रिफलारोध्रैलेपस्तैलं च रोपणम्||१०||
स०-कुम्भीकायां लोहितं मोक्षयेत्| पक्वायां तु व्रणे शोधिते सति तिन्दुकादिभिर्लेपः| तिन्दुकादिभिरेव सिद्धं तैलं रोपणं स्यात्|
Adhikarana alajyAmayameva kriyAkramaH (11) · Śloka 11
अलज्यां स्रुतरक्तायामयमेव क्रियाक्रमः|
|११|
स०-अलज्यां स्रुतशोणितायामेष एवोपक्रमः|
Adhikarana uttamAyAM chedanaM kaShAyakalkacUrNairUpakramashca (11-12) · Śloka 12
|
उत्तमाख्यां तु पिटिकां सञ्च्छिद्य बडिशोद्धृताम्||११||
कल्कैश्चूर्णैः कषायाणां क्षौद्रयुक्तैरुपाचरेत्|
|१२|
स०-उत्तमाख्यां पिटिकां बडिशोद्धृतां सम्यक् छेदयित्वा कषायाणां कल्कैश्चूर्णैः क्षौद्रयुक्तैरुपक्रमेत्|
Adhikarana puShkarikAsaMvyUDhayostvakpAke sparshahAnyAM ca pittavisarpoktaH kramaH (12-13) · Śloka 13
|
क्रमः पित्तविसर्पोक्तः पुष्करव्यूढयोर्हितः||१२||
त्वक्पाके स्पर्शहान्यां च सेचयेद्|
|१३|
स०-पुष्करिकायां संव्यूढे च पित्तविसर्पविहितं चिकित्सितं हितम्| सं-त्वक्पाकस्पर्शहान्योः सेचनम्|
Adhikarana mRudite balAtailena secanaM madhurairupanAhanaM ca (13) · Śloka 13
मृदितं पुनः|
बलातैलेन कोष्णेन मधुरश्चोपनाहयेत्||१३||
स०- मृदितं नाम लिङ्गरोगं वक्ष्यमाणेन (श्लो.४२) बला तैलेन सेचयेत्| तथा मधुरैर्द्रव्यैः कल्कितैः सुखोष्णैर्घृतस्निग्धैरुपनाहश्च कार्यः|
Adhikarana aShThIlikAyAM rakte hRute shleShmagranthivadupakramaH (14) · Śloka 14
अष्ठीलिकां हृते रक्ते श्लेष्मग्रन्थिवदाचरेत्|
|१४|
स०- अष्ठीलिकां रक्ते हृते कफग्रन्थिमिवोपक्रमेत्|
Adhikarana nivRutte dhRutAbhya~jjanAdi (14-16) · Śloka 16
|
निवृत्तं सर्पिषाऽभ्यज्य स्वेदयित्वोपनाहयेत्||१४||
त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः|
स्वेदयित्वा ततो भूयः स्निग्धं चर्म समानयेत्||१५||
मणिं प्रपीड्य शनकैः प्रविष्टे चोपनाहनम्|
मणौ पुनःपुनः स्निग्धं भोजनं चात्र शस्यते||१६||
स०-निवृत्तसंज्ञं लिङ्गरोगं घृतेनाभ्यज्य स्वेदयित्वा चोपनाहयेत् त्रिरात्रं पञ्चरात्रं वा सुस्निग्धैः शाल्वलादिभिः| ततो भूयः स्वेदयित्वा स्निग्धं चर्म मणिं समानयेत्| किं कृत्वा ? मणिं शनैः प्रपीड्य| प्रविष्टे मणौ चोपनाहं पुनःपुनः कुर्यात्| भोजनं चात्र स्निग्धं हितम्|
Adhikarana avapATyAmapyayameva kramaH (17) · Śloka 17
अयमेव प्रयोज्यः स्यादवपाट्यामपि क्रमः|
|१७|
स०- अयमेव क्रमोऽवपाटिकायां योज्यः स्यात्|
Adhikarana niruddhamaNau nADyA snehasi~jcanAdi,niruddhamaNau evamasiddhau shastreNa pATanAdi (17-19) · Śloka 19
|
नाडीमुभयतोद्वारां निरुद्धे जतुना सृताम्||१७||
स्नेहाक्तां स्रोतसि न्यस्य सिञ्चेत्स्नेहैश्चलापहैः|
त्र्यहात्त्र्यहात्स्थूलतरां न्यस्य नाडीं विवर्धयेत्||१८||
स्रोतोद्वारमसिद्धौ तु विद्वान् शस्त्रेण पाटयेत्|
सेवनीं वर्जयन् युञ्ज्यात् सद्यःक्षतविधिं ततः||१९||
स०- निरुद्धे-निरुद्धाख्ये निरुद्धमणौ, नाडीं द्विद्वारां जतुना सृतां लिप्ताः स्नेहाक्तां लिङ्गे न्यस्य लिङ्गं बलातैलादिभिः स्नेहैः सिञ्चेत्| त्र्यहात्त्र्यहात् स्थूलतरां नाडीं क्षिप्त्वा स्रोतोद्वारं वृद्धिं नयेत्| एवमप्यसिद्धौ धीमान् वैद्यः सेवनीं परिहरन् शस्त्रेण पाटयेत्| ततः-पाटनादनन्तरं, सद्यःक्षतविधानं युञ्यात्|
Adhikarana grathite svedanamupanAhashca (20) · Śloka 20
ग्रन्थितं स्वेदितं नाड्या स्निग्धोष्णैरुपनाहयेत्|
|२०|
स०-ग्रन्थितसंज्ञं नाड्या स्वेदितं स्निग्धोष्णैरुपनाहयेत्|
Adhikarana Sataponake lekhanaM kaShAyairlepaSca (20) · Śloka 20
|
लिम्पेत्कषायैः सक्षौद्रैर्लिख़ित्वा शतपोनकम्||२०||
स०- शतपोनकं लिङ्गरोगं लिख़ित्वा कषायद्रव्यचूर्णैः समाक्षिकैर्लिम्पेत्|
Adhikarana raktArbude raktavidradhivat (21) · Śloka 21
रक्तविद्रधिवत्कार्या चिकित्सा शोणितार्बुदे|
|२१|
स०-शोणितार्बुदे रक्तविद्रधिवच्चिकित्सा कर्तव्या|
Adhikarana sarveShu yathAvasthaM vraNopacAraH (21) · Śloka 21
|
व्रणोपचारं सर्वेषु यथावस्थं प्रयोजयेत्||२१||
स०-सर्वेषु लिङ्गरोगेषु यथावस्थं-अवस्थावशात्, व्रणोपचारान्-अन्तःशुद्धिकषायलेपघृततैलरसक्रियाचूर्णांश्छोधनरोपणान्, प्रयोजयेत्|
Adhikarana yonivyApaccikitsA ------- yonivyApatsu BUyiShThaM vAtajit karma, tatra hetuSca,vAtajAsu visheShataH snehanAdi (22-23) · Śloka 23
योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित्|
स्नेहनस्वेदबस्त्यादि वातजासु विशेषतः||२२||
न हि वातादृते योनिर्वनितानां प्रदुष्यति|
अतो जित्वा तमन्यस्य कुर्याद्दोषस्य भेषजम्||२३||
स०- योनिव्यापत्सु विषये प्रायेण पवनविजयि चिकित्सितं युक्तम्| स्नेहनादि वातोत्थासु व्यापत्तिषु विशेषेण शस्यते| सं-यतो वातमन्तरेण योषितो योनिर्न दुष्यति| तस्मात्तं मारुतं, जित्वा परस्य दोषस्यौषधं कुर्यात्|
Adhikarana vAtajAsu balAtailAdipAnam, duHsthitAdiyoneH samatvAdikaraNam, tatra hetushca (24-26) · Śloka 26
पाययेत(त्तां) बलातैलं मिश्रकं सुकुमारकम्|
स्निग्धस्विन्नां तथा योनिं दुःस्थितां स्थापयेत्समाम्||२४||
पाणिना नमयेज्जिह्यां संवृतां व्यधयेत् पुनः|
प्रवेशयेन्निःसृतां च विवृतां परिवर्तयेत्||२५||
स्थानापवृत्ता योनिर्हि शल्यभूता स्त्रियो मता|
|२६|
स०- तां-स्त्रियं, बलातैलं (चि. अ.२१/७३), मिश्रकाख्यं(चि. अ.१४/८९), वा, सुकुमारकाह्वयं (चि. अ.१३/४१), पाययेत्| तथा योनिं स्निग्धां स्विन्नां च दुःस्थितां समां स्थापयेत्| जिह्यां-कुटिलां योनिं, हस्तेन नमयेत्| संवृतां तु व्यधयेत्-प्रसारयेदित्यर्थः| निःसृतां च प्रवेशयेत्| विवृतां तु सतीं परिवर्तयेत्| यतः स्थानाद् भ्रष्टा योनिः स्त्रियः शल्यरूपा भवेत्|
Adhikarana vAtajAsu strIShu mRudUni vamanAdikarmANi, strIShu shuddhAsu bastyAdi karma (26-27) · Śloka 27
|
कर्मभिर्वमनाद्यैश्च मृदुभिर्योजयेत्स्त्रियम्||२६||
सर्वतः सुविशुद्धायाः शेषं कर्म विधीयते|
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम्||२७||
स०- वमनादीनि च कर्माणि मृदूनि-अखराणि, स्त्री(स्त्रिया) कारयितव्या(नि)| सर्वतः-अध उपरिष्टाच्च, विशुद्धाया नार्याः परिशिष्टं कर्म-बस्त्यादिकं, क्रियते|
Adhikarana vAtajAsu kAshmaryAdighRutaM paraM garbhadam (28-29) · Śloka 29
काश्मर्यत्रिफलाद्राक्षाकासमर्दनिशाद्वयैः|
गुडूचीसैर्यकाभीरुशुकनासापुनर्नवैः||२८||
परूषकैश्च विपचेत्प्रस्थमक्षसमैर्घृतात्|
योनिवातविकारघ्नं तत्पीतं गर्भदं परम्||२९||
स०- काश्मर्यादिभिः कल्कितैः कार्षिकैर्घृतात्प्रस्थं पचेत्| तत्-घृतं, पीतं योनिवातविकारहरं सुष्ठु गर्भदं च|
Adhikarana vAtajAsu vacAdicUrNaM yonipArshvArtyAdinAshakam (30-31) · Śloka 31
वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम्|
अजमोदायवक्षारशर्कराचित्रकान्वितम्||३०||
पिष्ट्वा प्रसन्नयाऽऽलोड्य खादेत्तद्घृतभर्जितम्|
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये||३१||
स०- वचादिकं पिष्ट्वा प्रसन्नयाऽऽलोड्य घृतभर्जितं खादेत् योनिपार्श्वार्त्यादिशान्तये|
Adhikarana vAtajAsu vRuShakAdicUrNaM tathaiva (32) · Śloka 32
वृषकं मातुलुङ्गस्य मूलानि मदयन्तिकाम्|
पिबेन्मद्यैः सलवणैस्तथा कृष्णोपकुञ्चिके||३२||
स०- वृषकादीनि मद्यैः सलवणैः पिबेत्| तथा पिप्पली स्थूलजीरके वा मद्यैः सलवणैः पिबेत्|
Adhikarana vAtajAsu rAsnAdishRutaM payaH shUlaharam (33) · Śloka 33
रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः|
|३३|
स०- रास्नादिभिः शृतं पयः शूलघ्नम्|
Adhikarana vAtajAsu guDUcyAdikvAthaiH secanam (33) · Śloka 33
|
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम्||३३||
स०- गुडूच्यादिभिः क्वाथैः परिषेचनं सुखोष्णं हितम्, प्रकृतत्वाद्योनेः|
Adhikarana vAtajAsu natAdisAdhitatailapicuH shUlaghnaH (34) · Śloka 34
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः|
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः||३४||
स०- नतादिभिस्तैलात् पक्वात् पिचुर्योनौ धृतो रुजाघ्नः|
Adhikarana pittalAsu shItAH yonisekAdayaH (35) · Śloka 35
पित्तलानां तु योनीनां सेकाभ्यङ्गपिचुक्रियाः|
शीताः पित्तजितः कार्याः स्नेहनार्थं घृतानि च||३५||
स०- पित्तलानां च योनीनां शीतादिकाः क्रियाः सेकाद्याः कार्याः| स्नेहनार्थं घृतानि च देयानि|
Adhikarana pittalAsu shatAvaryAdilehaH (36-40) · Śloka 40
शतावरीमूलतुलाचतुष्कात् क्षुण्णपीडितात्|
रसेन क्षीरतुल्येन पाचयेत घृताढकम्||३६||
जीवनीयैः शतावर्या मृद्वीकाभिः परूषकैः|
पिष्टैः प्रियालैश्चाक्षांशौर्द्विबलामधुकान्वितैः||३७||
सिद्धशीते तु मधुनः पिप्पल्याश्च पलाष्टकम्|
शर्कराया दशपलं क्षिपेल्लिह्यात्पिचुं ततः||३८||
योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं परम्|
क्षतं क्षयमसृक्पित्तं कासं श्वासं हलीमकम्||३९||
कामलां वातरुधिरं विसर्पं हृच्छिरोग्रहम्|
अपस्मारार्दितायाममदोन्मादांश्च नाशयेत्||४०||
स०- शतावरीमूलतुलाचतुष्टयात् क्षुण्णपीडिताद् रसेन दुग्धसमेन सर्पिष आढकं पचेज्जीवनीयादिभिः कर्षांशैः कल्कीकृतैः| पक्वे शीते च माक्षिकपलाष्टकं, कणाष्टपलं, सितापलानि च दश, क्षिपेत्| तस्माच्च कर्षमात्रं लिह्यात् योन्यादिदोषघ्नं वृष्यादिगुणं च|
Adhikarana pittalAsu evameva payaH sarpiH (41) · Śloka 41
एवमेव पयः सर्पिर्जीवनीयोपसाधितम्|
गर्भदं पित्तजानां च रोगाणां परमं हितम्||४१||
स०- अनेनैव क्रमेण क्षीरं सर्पिर्वा जीवनीयैः पक्वं गर्भप्रदं पित्तजानां च रोगाणां परं हितम्|
Adhikarana pitta balAdighRutatailaM garbhadam (42-44) · Śloka 44
बलाद्रोणद्वयक्वाथे घृततैलाढकं पचेत्|
क्षीरे चतुर्गुणे कृष्णाकाकनासासितान्वितैः||४२||
जीवन्तीक्षीरकाकोलीस्थिरावीरर्धिजीवकैः|
पयस्याश्रावणीमुद्गपीलुमाषाख्यपर्णिभिः||४३||
वातपित्तामयान् हत्वा पानाद् गर्भं दधाति तत्|
|४४|
स०-बलाया द्रोणद्वयस्य कषाये घृततैलयोराढकं पचेत्| क्षीरे चतुराढके कृष्णादिभिः कल्कितैः सामान्यपरिभाषयोक्तप्रमाणैः| तत्-घृतं, पानेन वातपित्तरोगान् हत्वा गर्भं धत्ते| मुद्गादीनां पर्ण्या प्रत्येकं सम्बन्धः,- मुद्गपर्णी पीलुपर्णी माषपर्णीति|
Adhikarana raktayonyAM yathAdoShaM raktasthApanamauShadham (44-45) · Śloka 45
|
रक्तयोन्यामसृग्वर्णैरनुबन्धमवेक्ष्य च||४४||
यथादोषोदयं युञ्ज्याद् रक्तस्थापनमौषधम्|
|४५|
स०- रक्तयोन्यां लोहितं वर्णैर्लक्षयित्वाऽनुबन्धं च यथादोषोदयं, रक्तस्थापनं भेषजं प्रयुञ्जीत|
Adhikarana raktayonyAM puShyAnugaM cUrNam, shlaiShmikyAM sarvaM rukShoShNamauShadham (45-50) · Śloka 50
|
पाठां जम्ब्वाम्रयोरस्थि शिलोद्भेदं रसाञ्जनम्||४५||
अम्बष्ठां शाल्मलीपिच्छां समङ्गां वत्सकत्वचम्|
बाह्लीकबिल्वातिविषारोध्रतोयदगैरिकम्||४६||
शुण्ठीमधूकमाचीकरक्तचन्दनकटूफलम्|
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम्||४७||
पुष्ये गृहीत्वा सञ्चूर्ण्य सक्षौद्रं तन्दुलाम्भसा|
पिबेदर्शःस्वतीसारे रक्तं यश्चोपवेश्यते||४८||
दोषा जन्तुकृता ये च बालानां तांश्च नाशयेत्|
योनिदोषं रजोदोषं श्यावश्वेतारुणासितम्||४९||
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम्|
योन्यां बलासदुष्टायां सर्वं रूक्षोष्णमौषधम्||५०||
स०- पाठादिकं पुष्ये गृहीत्वा सञ्चूर्ण्य क्षौद्रान्वितं तन्दुलाम्भसा पिबेत् अर्शोविषयादिषु| ये च दोषा जन्तुकृता बालानां, तांश्च योनिदोषादीन् हन्ति| पुष्यानुगसंज्ञमेतच्चूर्णं हितमात्रेयपूजितं च| स०- योन्यां बलासेना दुष्टायां सर्वमेव रूक्षोष्णं हितम्|
Adhikarana shUnonnatAstabdhApicchilAsrAviNIviplutopaplutAdyAsu yoniShu dhAtakyAditailenAbhya~ggAdikam (51-54) · Śloka 54
धातक्यामलकीपत्रस्रोतोजमधुकोत्पलैः|
जम्ब्वाम्रसारकासीसरोध्रकट्फलतिन्दुकैः||५१||
सौराष्ट्रिकादाडिमत्वगुदुम्बरशलाटुभिः|
अक्षमात्रैरजामूत्रे क्षीरे च द्विगुणे पचेत्||५२||
तैलप्रस्थं तदभ्यङ्गपिचुबस्तिषु योजयेत्|
तेन शूनोन्नता स्तब्धा पिच्छिला स्राविणी तथा||५३||
विप्लुतोपप्लुता योनिः सिद्ध्येतत्स्फोटशूलिनी|
|५४|
स०- धातक्यादिभिः कार्षिकैश्छागमूत्रे द्विगुणे, क्षीरे च द्विगुणे, तैलप्रस्थं पचेत्| तत्तैलमभ्यङ्गादिषु योज्यम्| अनेन तैलेन शूनादिगुणा योनिः सिध्यति|
Adhikarana shUnonnatAstabdhApicchilAsrAviNIviplutopaplutAdyAsu yoniShu yavAnnAdishIlanam (54-55) · Śloka 55
|
यवान्नमभयारिष्टं सीधु तैलं च शीलयेत्||५४||
पिप्पल्ययोरजः पथ्याप्रयोगांश्च समाक्षिकान्|
|५५|
स०- तथा यवान्नादिकं शीलयेत्| पिप्पल्यादिप्रयोगांश्च क्षौद्रान्वितानभ्यसेत्|
Adhikarana paicchilye kAsIsAdicUrNo vaishadyakArakaH (55-56) · Śloka 56
|
कासीसं त्रिफला काङ्क्षी साम्रजम्ब्वस्थि धातुकी||५५||
पैच्छिल्ये क्षौद्रसंयुक्तश्चूर्णो वैशद्यकारकः|
|५६|
स०- कासीसादिकश्चूर्णो माक्षिकान्वितः पैच्छिल्ये विशदत्वकृत्|
Adhikarana paicchilye durgandhe palAshAdicUrNaH, AragvadhAdikvAthena secanam (56-57) · Śloka 57
|
पलाशधातकीजम्बूसमङ्गामोचसर्जजः||५६||
दुर्गन्धे पिच्छिले क्लेदे स्तम्भनश्चूर्ण इष्यते|
आरग्वधादिवर्गस्य कषायः परिषेचनम्||५७||
स०- पलाशादिजश्चूर्णो दुर्गन्धादिषु स्तम्भनमिष्यते| आरग्वधादिवर्गक्वाथो (हृ.सू. अ. १५/१७) दुर्गन्धादौ परिषेकः|
Adhikarana stabdhAsu karkashAsu mArdavakaraM vesavArAdi dhAraNam (58) · Śloka 58
स्तम्ब्धानां कर्कशानां च कार्यं मार्दवकारकम्|
धारणं वेसवारस्य कृसरापायसस्य च||५८||
सं-स्तम्ब्धानां खरस्पर्शानां च योनीनां मृदुत्वकरं वेसवारादिधारणं विधेयम्| वेसवारः-कुट्टितस्विन्नसंस्कृतमांसविशेषः| कृसरा च पायसं च कृसरापायसम्|
Adhikarana durgandhAsu yoniShu sarvagandhAnAM kaShAyAdi (59) · Śloka 59
दुर्गन्धानां कषायः स्यात्तैलं वा कल्क एव वा|
चूर्णे वा सर्वगन्धानां पूतिगन्धा(न्ध्य)पकर्षणः||५९||
सं-दुर्गन्धानां योनीनां सर्वगन्धद्रव्याणां कषायः-क्वाथो, हितः| तत्पक्वं तैलं तत्कल्क एव वा| अथवा सर्वगन्धानां चूर्णः पूतिगन्धा(न्ध्य) पहः|
Adhikarana shleShmalAsu kaTuprAyA bastayaH, pitte samadhukakShIrAH bastayaH, vAte tailAmlayutAH bastayaH (60) · Śloka 60
श्लेष्मलानां कटुप्रायाः समूत्रा बस्तयो हिताः|
पित्ते समधुकक्षीरा वाते तैलाम्लसंयुताः||६०||
स०- श्लेष्मलानां योनीनां कटुप्राया गोमूत्रयुताश्च बस्तयो हिताः| पित्ते मधुयष्टीक्षीरयुक्ता बस्तयः| वाते तैलाम्लयुता बस्तयो हिताः|
Adhikarana sannipAtajAyAM sAdhAraNaM karma (61) · Śloka 61
सन्निपातसमुत्थायाः कर्म साधारणं हितम्|
|६१|
स०-सन्निपातोत्थायाः साधारणं कर्म हितम्|
Adhikarana evaM yoniShu shuddhAsu garbhadhAraNam (61-62) · Śloka 62
|
एवं योनिषु शुद्धासु गर्भं विन्दन्ति योषितः||६१||
अदुष्टे प्राकृते बीजे जीवोपक्रमणे सति|
|६२|
स०- एवं-अनेन प्रकारेण, योनिषु विशुद्धासु सतीषु स्त्रियो गर्भं लभन्ते| प्राकृते बीजेऽदुष्टे सति तथा जीवस्योपक्रमणे क्षेपे सति|
Adhikarana puruShasyApi duShTaM shukraM parIkShyopakramaH (62-63) · Śloka 63
|
पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम्||६२||
परीक्ष्य वर्णैर्दोषाणां दुष्टं तद्घ्नैरुपाचरेत्|
|६३|
स०- नरस्य पञ्चभिः कर्मभिः शुद्धस्य, इन्द्रियं,शुक्रं, दोषाणां वर्णैर्दुष्टं परीक्ष्य तद्घ्नैः-दोषघ्नैः, उपक्रमेत्|
Adhikarana phalasarpiH yonishukradoSheShu shastamAyuShyAdikaraM ca (63-34) · Śloka 34
|
मञ्जिष्ठाकुष्ठतगरत्रिफलाशर्करावचाः||६३||
द्वे निशे मधुकं मेदां दीप्यकं कटुरोहिणीम्|
पयस्याहिङ्गुकाकोलीवाजिगन्धाशतावरीः||६४||
पिष्ट्वाऽक्षांशा घृतप्रस्थं पचेत्क्षीरचतुर्गुणम्|
योनिशुक्रप्रदोषेषु तत्सर्वेषु प्रशस्यते||६५||
आयुष्यं पौष्टिकं मेध्यं धन्यं पुंसवनं परम्|
फलसर्पिरिति ख्यातं पुष्पे पीतं फलाय यत्||६६||
म्रियमाणप्रजानां च गर्भिणीनां च पूजितम्|
एतत्परं च बालानां ग्रहघ्नं देहवर्धनम्||६७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने गुह्यरोगप्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः||३४||
सं-मञ्जिष्टादिभिः कार्षिकैः पिष्टैर्घृतप्रस्थं क्षीरचतुर्गुणं पचेत्| तद्धृतं सर्वेषु योनिशुक्रप्रदोषेषु शस्यते| आयुष्यादि गुणं परं पुंसवनं म्रियमाणगर्भाणां गर्भिणीनां च हितम्| फलसर्पिरिति नाम्ना प्रसिद्धम्| कुतः ? यस्मात् पुष्पे-आर्तवसमये, पीतं फलाय जायते| तथा परं बालानां ग्रहघ्नं शरीरवृद्धिकरं चेति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने गुह्यरोग प्रतिषेधो नाम चतुस्त्रिंशोऽध्यायः समाप्तः|| ३४|| इति शल्यतन्त्रं नाम पञ्चममङ्गं समाप्तम्|