Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अधुना विषतन्त्रमुच्यते, सद्यःप्राणहारित्वेन तुल्यसाधर्म्यात्|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अधुना विषतन्त्रमुच्यते, सद्यःप्राणहारित्वेन तुल्यसाधर्म्यात्|
Adhikarana viShapratiShedhAdhyAyaH (2) · Śloka 2
अथातो विषप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|
🔊 Audio coming soon
तत्र विषस्य प्रागुत्पत्तिदर्शनार्थमाह-
Adhikarana viShayasya prAgutpattidarshanam (1-3) · Śloka 3
मथ्यमाने जलनिधावमृतार्थं सुरासुरैः| जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः||१|| दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः| जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः||२|| हुंकृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे| सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम्||३||
🔊 Audio coming soon
स०- समुद्रे सुरासुरैरमृतार्थं विलोड्यमानेऽमृतोत्पत्तेः पूर्वं पुरुषो दारुणदृष्टिः समिद्धधामा चतुर्दंष्ट्रो हरिवर्णकचो दहनतुल्यनेत्रो जातः| तं पुरुषं दृष्ट्वा भुवनं विषादं गतम्| अत एवासौ जगद्विषदनात् विषसंज्ञः| ब्रह्मण हुंकृतस्तु सन्नसौ वञ्चनस्वभावं स्वं रूपं हित्वा स्थावरजङ्गमाख्ये मूर्ती अधितस्थौ| पुरुषरुपी तिष्ठेदसौ ततो ब्रह्मा शापं दद्यात्|
Adhikarana sthAvaraM viShaM kandeShvativIryam (4) · Śloka 4
स्थिरमत्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम्| कालकूटेन्द्रवत्साख्यशृङ्गीहालाहलादिकम्||४||
🔊 Audio coming soon
स०-यद्विषं स्थिरं-स्थावरं, कन्देषु प्रतिष्ठितं वीर्ये अत्युल्बणं तत् कालकूटादिभेदभिन्नम्| फलादिष्वपि तद् भवति, किन्तु कन्दे वीर्यातिकृत्| आदिशब्देन सङ्ग्रहोक्ता भेदा गृह्यन्ते| यथा (सं.उ. अ. ४०)-"कालकूटं वत्सनाभं साक्तुकं वालकं कर्दमकं वैराटं मुस्तकं शृङ्गी पुण्डरीकं महाविषं हालाहलं मर्कटकं कर्कटं काशपुष्पकमिन्द्रायुधं तथा तैलम्|" इति (त्यादि) भेदाः प्रकीर्तिताः| एषां तु लक्षणं तत्रोक्तम्| तदहि विस्तरतरग्रन्थशङ्कया नोक्तम्|
Adhikarana ja~ggamaM viShaM sarpAdidaMShTrAsu dAruNam (5) · Śloka 5
सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम्| |५|
🔊 Audio coming soon
स०- सर्पादिदंष्ट्रासु तु यद्व्यवस्थितं तज्जङ्गमम्| तच्च दारुणम्| दंष्ट्रेत्युपलक्षणार्थम्, नखविषाणमूत्रादीनामपि पुरो विषत्वेन वक्ष्यमाणत्वात्|
Adhikarana iti dviprakAramakRutrimaM viSham (5) · Śloka 5
| स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्||५||
🔊 Audio coming soon
स०-स्थावरं जङ्गमं चेति द्विप्रकारं विषमकृत्रिमम्|
Adhikarana kRutrimaM tu garasaMj~jam kRutrimasya lakShaNam (6-7) · Śloka 7
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः| हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्||६|| शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा| |७|
🔊 Audio coming soon
स०- गरसंज्ञं तु कृत्रिमम्| यस्मात्तत् क्रियते| अत एव विविधानि वक्ष्यमाणान्यौषधानि यस्मिंस्तदेवम्| तच्च योगवशाच्छीघ्रं हन्ति| तथा विविधयोगवशाच्चिराच्चिरं हन्ति| शोफादींश्च विधत्ते|
Adhikarana viShasya guNA ekAdasha (7-8) · Śloka 8
अथ विषगुणान्निर्दिशति | तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु||७|| विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च| |८|
🔊 Audio coming soon
स०- तत्सर्वं विषं तीक्ष्णादिगुणं स्यात्| गुणनिर्देशनादस्य रौक्ष्याद्वातमुष्णत्वात् पित्तं करोतीति ज्ञाप्यते| ननु, रौक्ष्यादिभिर्गुणैर्वायोः कोपो न युज्यते, रौक्ष्यादीनां गुणत्वाद्वायोश्च द्रव्यत्वात्| ब्रूमः| वायोर्ये रौक्ष्यादयो गुणास्तेषामेव विषस्थै रौक्ष्यादिभिर्गुणैर्वृद्धिः क्रियते| ते च वायोरात्मभूताः, तन्नाशे वायोर्नाशः स्यात्, यथा तन्तुनाशे पटनाशः| तस्माद्युक्तः पवनस्य रौक्ष्यादिभिर्गुणैः प्रकोपः| एवं पित्तेऽपि योज्यम्| कट्वम्लादिकथनेऽपि विषस्याव्यक्तरसत्वम्, अनेकरससम्भवादेकस्यापि च व्यक्तस्यानुपलब्धेः| व्यवायित्वं चास्य द्रागेवाखिलकायस्य व्याप्तेः| तथा अपाकि,-विषस्य हि मन्त्रतन्त्राभ्यामन्तरेण पाकाभावात्, पक्वेऽप्यन्ने विषस्यापक्वस्येवोपलब्धेः| अत एव शमितमपि किञ्चित्कारणं प्राप्य पुनः कुप्यति|
Adhikarana viShamojoviparItaguNam ,viShaM nRuNAM sadyojIvitaharam (8-9) · Śloka 9
| ओजसो विपरीतं तत् तीक्ष्णाद्यैरन्वितं गुणैः||८|| वातपित्तोत्तरं नृणां सद्यो हरति जीवितम्| |९|
🔊 Audio coming soon
सं-तथा विषमोजसो विपरीतं तीक्ष्णादिभिर्दशभिर्गुणैर्युक्तम्| तीक्ष्णाद्यैरन्वितमिति हेतौ प्रथमा| तीक्ष्णादिगुणयुक्तत्वादोजसो विपरीतमित्यर्थः| तथा वातपित्तोतरं नराणां द्रागेव जीवितं हरति|
Adhikarana tara hetuH (9-10) · Śloka 10
कुतः ? इत्याह | विषं हि देहं सम्प्राप्य प्राग् दूषयति शोणितम्||९|| कफपित्तानिलांश्चानु समं दोषान् सहाशयान्| ततो हृदयमास्थाय देहोच्छेदाय कल्पते||१०||
🔊 Audio coming soon
स०- यस्माद्विषं शरीरं प्राप्य पूर्वं रक्तं सर्वशरीरगतं दूषयति, पश्चात् कफपित्तवातानाशयसहितान् दूषयति| अनन्तरं कफादिभिः सममेव हृदयमाश्रित्य शरिरनाशाय सम्पद्यते| ननु, विषस्य तीक्ष्णादिभिर्गुणैर्युगपत् त्रिदोषकोपित्वाद्रक्तकोपित्वाच्च पूर्वं शोणितं दूषयति पश्चात्रीन् दोषानिति यदुक्तं तदयुक्तिमदिव दृश्यते| अत्र भणामः विषप्रभावेण रक्तमाकृष्टं पूर्वं सह तेन संयुक्तं विषेण दूष्यते, ततो युगपदेव दोषत्रयकोपः, ततो दोषैः शोणितेन सह हृदयं व्याप्य सर्वस्रोतांसि बद्ध्वा देहोच्छेदाय प्रवर्तत इति न किञ्चिदत्रानुपपन्नम्|
Adhikarana sthAvaraviShasya prathamavegasya lakShaNam (11) · Śloka 11
स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते| जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः||११||
🔊 Audio coming soon
स०-स्थावरस्य विषस्योपयुक्तस्य प्रथमे वेगे रसनाश्यावतादि जायते|
Adhikarana sthAvaraviShasya dvitIyavegasya lakShaNam (12) · Śloka 12
द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना| विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्||१२||
🔊 Audio coming soon
स०- द्वितीये वेगे वेपथ्वादयः| विषं चामाशयं प्राप्तं हृदये वेदनां विधत्ते|
Adhikarana sthAvaraviShasya tRutIyavegasya lakShaNam (13-14) · Śloka 14
तालुशोषस्तृतीये तु शूलं चामाशये भृशम्| दुर्बले हरिते शूने जायेते चास्य लोचने||१३|| पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्| |१४|
🔊 Audio coming soon
स०- तृतीये च वेगे तालुशोषः आमाशयेऽतिरुजा स्यात्| नेत्रे चास्य दुर्बलादिगुणे भवतः| पक्वाशयगते तोदादयः स्युः|
Adhikarana sthAvaraviShasya caturthavegasya lakShaNam (14) · Śloka 14
| चतुर्थे जायते वेगे शिरसश्चातिगौरवम्||१४||
🔊 Audio coming soon
स०- चतुर्थे वेगे मूर्ध्नोऽतिगुरुत्वं जायते| चशब्दात् पूर्वोक्ता रसनाशयावतादयः स्युः| एवमग्रेऽपि चशब्दार्थो बोध्यः|
Adhikarana sthAvaraviShasya pa~jcamavegasya lakShaNam (15) · Śloka 15
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे| सर्वदोषप्रकोपश्च पक्वाधाने च वेदना||१५||
🔊 Audio coming soon
स०- पञ्चमे वेगे कफप्रसेकादिः| सर्वदोषाणां प्रकोपः| पूर्वोक्ताश्च| पक्वाशये व्यथा च|
Adhikarana sthAvaraviShasya ShaShThavegasya lakShaNam (16) · Śloka 16
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते| |१६|
🔊 Audio coming soon
स०- षष्ठे वेगे चेतनायाः प्रणाशोऽतिशयेनातिसारश्च|
Adhikarana sthAvaraviShasya saptamavegasya lakShaNam (16) · Śloka 16
| स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे||१६||
🔊 Audio coming soon
स०- सप्तमे स्कन्धादिभङ्गः, सप्तानां धातूनां दूषणान्मृत्युश्च स्यात्|
Adhikarana prathame viShavege vamanAdi (17) · Śloka 17
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्| सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद् द्रुतम्||१७||
🔊 Audio coming soon
स०- प्रथमे विषवेगे तु कृतवमनं शिशिरजलसेचितं शीघ्रमेवागदं सघृतमाक्षिकं पाययेत्|
Adhikarana dvitIye viShavege vamanavirecanAdi (18) · Śloka 18
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्| |१८|
🔊 Audio coming soon
स०- द्वितीये विषवेगे पूर्ववत्-शीताम्बुसेचितं, वान्तं विरिक्तं चानु-पश्चात्, अगदं पाययेत्|
Adhikarana tRutIye viShavege agadapAnAdi (18) · Śloka 18
| तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम्||१८||
🔊 Audio coming soon
स०- तृतीये वेगेऽगदपानं नस्यमञ्जनं च हितम्|
Adhikarana caturthe viShavege sasnehAgadapAnam (19) · Śloka 19
चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत्| |१९|
🔊 Audio coming soon
स०- चतुर्थे वेगे स्नेहसंयुतमगदं प्रतियोजयेत्|
Adhikarana pa~jcame viShavege samadhukakvAthAdi yukto~agadaH (19) · Śloka 19
| पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्||१९||
🔊 Audio coming soon
स०- पञ्चमे वेगे मधुयष्टिकाक्वाथमाक्षिकाभ्यां युक्तमगदं हितम्|
Adhikarana ShaShThe viShavege atIsAravatsiddhiH (20) · Śloka 20
षष्ठेऽतिसारवत्सिद्धिः| |२०|
🔊 Audio coming soon
स०- षष्ठे वेगेऽतिसारतुल्या चिकित्सा|
Adhikarana saptame viShavege avapIDAdi (20) · Śloka 20
अवपीडस्तु सप्तमे| मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्||२०||
🔊 Audio coming soon
स०- सप्तमे वेगेऽवपीडो-रोगानुत्पादनीयोक्तो (हृ.सू. अ. ४/६), देयः| अथवा मस्तके काकपदं कृत्वा सरक्तं पिशितं न्यसेत्|
Adhikarana vegAntare sarvaviShaghnI koshAtakyAdiyavAgUH (21-23) · Śloka 23
कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः| शेलुः शिरीषः किणीही हरिद्रे क्षौद्रसाह्वया||२१|| पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बला| एषां यवागूं निर्युहे शीतां सघृतमक्षिकाम्||२२|| युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः| |२३|
🔊 Audio coming soon
स०- कोशातक्यादीनां क्वाथे यवागूं सिद्धां शीतां ससर्पिष्कमाक्षिकां युञ्जयात्| सूर्यवल्ली-करवीरकाकारपुष्पी| क्षौद्रसाह्वयं-वटमाक्षिकम्| वेगान्तरे-वेगमध्ये, सर्वविषघ्नीम्| कृतं कर्म यस्य तस्यैवं कार्यम्|
Adhikarana vegAntare sarva madhUkAdiyavAgUH (23) · Śloka 23
| तद्वन्मधूकमधुकपद्मकेसरचन्दनैः||२३||
🔊 Audio coming soon
स०- मधूकादिक्वाथे पेयां शीतां सघृतमाक्षिकां युञ्ज्यात्|
Adhikarana sarvaviSheShu candrodayo nAmAgadaH (24-32) · Śloka 32
अञ्जनं तगरं कुष्ठं हरितालं मनःशिला| फलानी त्रिकटु स्पृक्का नागपुष्पं सकेसरम्||२४|| हरेणुर्मधुकं मांसी रोचना काकमालिका| श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला||२५|| तमालपत्रतालीसभूर्जोशीरनिशाद्वयम्| कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः||२६|| द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम्| वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम्||२७|| "नमः पुरुषसिंहाय नमो नारायणाय च| यथाऽसौ नाभिजानाति रणे कृष्णपराजयम्||२८|| एतेन सत्यवाक्येन अगदो मे प्रसिध्यतु| नमो वैदूर्यमाते हुलुहुलु रक्ष मां सर्वविषेभ्यः||२९|| गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा| " पिष्टे च द्वितीयो मन्त्रः "हरिमायि स्वाहा||३०|| " अशेषविषवेतालग्रहकार्मणपाप्मसु| मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च||३१|| पाननस्याञ्जनालेपमणिबन्धादियोजितः| एष चन्द्रोदयो नाम शान्तिस्वस्त्ययनं परम्||३२|| |वासवो वृत्रमवधीत्समालिप्तः किलामुना| ]||३२||
🔊 Audio coming soon
स०- अञ्जनादीनि द्रव्याणि| कन्या कृतोपवासा स्नाताशुक्लवस्त्रा तैः-पूर्वोक्तैर्द्रव्यैः, माक्षिकसिक्तैः पुष्यनक्षत्रे विप्रान् पूजयित्वाऽनन्तरमगदवरमिमं कल्पयेत्| वैद्यश्च समीपस्थो मन्त्रं नम इत्यादिकं पठेत्| पिष्टे चागदे द्वितीयो मन्त्रो हरिमाय्यादिकोऽत्र योज्यः| निखिलेषु विषादिषु पानादिमणिबन्धादि योजितोऽयं चन्द्रोदयो नामागदः परं शान्तं(न्ति) स्वस्त्ययनम्|
Adhikarana dUShIviShasya lakShaNam dUShIviShArtasya lakShaNam (33-36) · Śloka 36
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा| स्वभावतो वा न गुणैः सुयुक्तं दूषिविषाख्यां विषमभ्युपैति||३३|| वीर्याल्पभावादविभाव्यमेतत् कफावृतं वर्षगणानुबन्धि| तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः||३४|| मूर्च्छन् वमन् गद्गदवाक् विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः| आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी||३५|| भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः| स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान्||३६||
🔊 Audio coming soon
स०- यद्विषं पुराणं, विषघ्नौषधिभिर्वा हतवीर्यं, यद्वा दावाग्नीत्यादिभिः शोषितं, स्वभवेनैव वा गुणैर्न सुष्ठु युक्तं, तद् दूषीविषसंज्ञामुपैति| तथा वीर्यस्याल्पत्वादेतदविभाव्यं-अलक्ष्यम्| तथा कफेनावृतं वर्षवृन्दं च तत्स्थायि| तेन-दूषीविषेण, पीडितो भिन्नपुरीषवर्णादिकः स्यात्| तथा मूर्च्छां गच्छन् वमन्नस्फुटवाक् तथा विमुह्यन् तथा दूष्येनोपलक्षित उदरे यानि लिङ्गानि (हृंइ. अ. १२/२०), तैः सेवितश्च भवेत्| आमाशयस्थे दूषीविषे कफवातरोगी स्यात् पक्वाशयस्थे दूषीविषेऽनिलपित्तरोगी स्यात्| उपजातयः| ध्वस्ताः कचाः शरीरं च यस्य स ध्वस्तशिरोतुहाङ्गो विलूनपक्षः पक्षीव भवेत्| रसादिषु च स्थितं नानाविधान् धातुप्रभवान् विकारान् करोति| उपेन्द्रवज्रावृत्तम्|
Adhikarana dUShIviShasya niruktiH (37) · Śloka 37
प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः| दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्||३७||
🔊 Audio coming soon
स०-तच्च पुरोवातादिभिर्दुष्टं सद्धातून् दूषयति यतः, ततोऽपि हेतोर्दूषीविषं स्मृतम्|
Adhikarana dUShIviShArte svedaH shodhanaM ca (38) · Śloka 38
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्| दूषीविषारिमगधं लेहयेन्मधुनाऽऽप्लुतम्||३८||
🔊 Audio coming soon
स०-दूषीविषपीडितं नरं सुस्विन्नमूर्ध्वमधस्ताच्च शोधितं सन्तं दूषीविषारि-वक्ष्यमाणं, माक्षिकेणाप्लुतमगदं लेहयेत्|
Adhikarana dUShIviShArte dUShIviShArirnAmAgadaH (39-40) · Śloka 40
तमेवाह पिप्पल्यो ध्यामकं मांसी रोध्रमेला सुवर्चिका| कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्||३९|| दूषीविषारिर्नाम्नाऽयं न चान्यत्रापि वार्यते| |४०|
🔊 Audio coming soon
स०- पिप्पल्यादिकोऽयमगदो नाम्ना दूषीविषारिः| न चान्यस्मिन्नपि वार्यते| किन्तु विशेषेण प्रयुज्यते|
Adhikarana viShaliptashastraviddhasya lakShaNam (40-44) · Śloka 44
| विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः||४०|| विवर्णभावं भजते विषादं चाशु गच्छति| कीटैरिवावृतं चास्य गात्रं चिमिचिमायते||४१|| श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः| कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्||४२|| दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्| आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः||४३|| शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्| प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्||४४||
🔊 Audio coming soon
स०-विषदिग्धेन-विषलिप्तेन शस्त्रेण, विद्धो नरः पुनःपुनः प्रताम्यति| तथा वैवर्ण्यं प्रयाति| द्रागेव विषादमेति| अस्य च-विषदिग्धेन विद्धस्य, शरीरं कीटैरिव व्याप्तं चिमिचिमायते| श्रोण्यादयश्चास्य सरुजाः स्युः कृष्णं दुष्टं च रक्तं क्षरति| तृडादियुतः क्षणेनैव च दृष्टिकालुष्यादिकरः स्यात्| तथा व्रण ईषद्रक्तप्रयन्तः श्यावमध्यो महारुजः स्यात्| तथा शूयते पाकं याति| तेषां सद्य एव च मांसं कृष्णतां गत्वा प्रक्लिन्नं सद्दीर्यते नित्यमेव पिच्छिलयुतं परिस्रवं कुर्यात्|
Adhikarana viShashastraviddhe hRudayAvaraNam, shalyAharaNapUrvakovraNadAhaH, muShkakAdikShAreNa pratisAraNam, shukanAsAdibhirlepaH (45-47) · Śloka 47
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्| शल्यमाकृष्य तप्तेन लोहेनानु दहेद् व्रणम्||४५|| अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः| शिरीषाद् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्||४६|| शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्| |४७|
🔊 Audio coming soon
स०- अमर्मविद्धस्य हृदयावरणं द्रुतं विदधीत| स०- शल्यमाकृष्य तप्तेन लोहेन व्रणं पश्चाद्दहेत्| अथवा मुष्ककादिक्षारेण प्रतिसारयेत्| शुकनासादिभिश्च लेपयेत् व्रणम्|
Adhikarana viSha kITadaShTacikitsA ca (47) · Śloka 47
| कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः||४७||
🔊 Audio coming soon
स०-तस्य च-दिग्धफलविद्धस्य, कीटदष्टचिकित्सितं यथायोगं कुर्यात्|
Adhikarana viSha vraNe pUtimAMse pittavisarpavatkriyA (48) · Śloka 48
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्| |४८|
🔊 Audio coming soon
स०-व्रणे च पूतिमांसे पित्तविसर्प इव चिकित्सा कार्या|
Adhikarana garaviShadAyakAH (48-49) · Śloka 49
| सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽरातिचोदिताः||४८|| गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः| |४९|
🔊 Audio coming soon
सं-नानाकान्ताः योषितः पत्ये सौभाग्यार्थं राज्ञश्च(राज्ञे वा) निकटवर्तिनो नराश्चारातिप्रेरिता गरयुक्तं भोजनं ददति|
Adhikarana garasya lakShaNam (49-50) · Śloka 50
| नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्||४९|| विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः| |५०|
🔊 Audio coming soon
स०-नानाप्रकारप्राण्यङ्गशकृतां तथा विरुद्धौषधिभस्मनां विषाणां च स्तोकवीर्याणां यो योगः, स गर इति स्मृतः|
Adhikarana garArtasya lakShaNam (50-54) · Śloka 54
| तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः||५०|| वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः| महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः||५१|| शोफवान् सतताध्मातः शुष्कपादकरः क्षयी| स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्||५२|| प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्| मन्यते कृष्णमात्मानं गौरो, गोरं च कालकः||५३|| विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः| |५४|
🔊 Audio coming soon
स०- तेन गरेण पाण्ड्वादिगुणः कासादिपीडितश्च स्यात्| वातेन प्रतिलोमेन युक्तस्तथा स्वप्नचिन्तापरः स्यात्| तथा बृहज्जठरयकृत्प्लीहवान् दीनवागादिगुणश्च स्यात्| स्वप्ने शृगालादीन् पश्यति| प्रायेण शुष्कवृक्षोदपानानि लोकते| आत्मानं च गौरः सन् कृष्णं मन्यते| कृष्णश्च गौरं मन्यते| तेन-गरविषेण, विहतेन्द्रियः सन् विकर्णघ्राणचक्षुषं पश्येत्|
Adhikarana garArtasya cikitsitAbhAve sadyo nAshaH (54-55) · Śloka 55
| एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः||५४|| गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः| |५५|
🔊 Audio coming soon
स०-एतैः-उक्तैरुपद्रवैः, अपरैश्चानुक्तैर्दारुणैः क्लिष्टः सन् गरपीडितः कश्चिदचिकित्सितः सद्य एव नाशमश्नुते|
Adhikarana garArte vamanaM pathyapAnabhojanaM suvarNashIlanaM ca (55-56) · Śloka 56
| गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्||५५|| शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्| |५६|
🔊 Audio coming soon
स०- गरातुरः कृतवमनः सन् तत्-पूर्वोक्तं, पथ्यं पानभोजनं भुक्त्वा शुद्धहृदयः सुवर्णं शीलयेत्| किं कुर्वन् ? सूत्रस्थानोक्तविधेः-"शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्|" (हृ.सू. अ. ७/२८) इति स्मरन्| विधेः स्मरन्नित्यत्र "अधीगर्थ-" इत्यादिना विधिशब्दात् कर्मणि षष्ठी|
Adhikarana garArte tApyasuvarNalehaH (56-57) · Śloka 57
| शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः||५६|| लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषम्| |५७|
🔊 Audio coming soon
स०-माक्षीकधातुकाञ्चनयोश्चूर्णं शर्करामाक्षिकान्वितं लेहो दारुणं गरयोगजं विषं हन्ति|
Adhikarana garArte hatAgnau mUrvAdicUrNam (57-58) · Śloka 58
| मूर्वामृतानतकणापटोलीचव्यचित्रकान्||५७|| वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः| पिबेद्रसेन वाऽम्लेन गरोपहतपावकः||५८||
🔊 Audio coming soon
स०-मूर्वादीनि तक्रादिभिरम्लेन वा-बीजपूररसादिरसेन, गरोपहताग्निः पुमान् पिबेत्|
Adhikarana garArte pArAvatAmiShAdishRutaM jalam (59) · Śloka 59
पारावतामिषशठीपुष्कराह्वशृतं हिमम्| गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्||५९||
🔊 Audio coming soon
स०- पारावतामिषादिभिः शृतं शीतं जलं गरतृष्णादिघ्नम्|
Adhikarana viShasa~gkaTasya lakShaNam (60) · Śloka 60
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे| विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति||६०||
🔊 Audio coming soon
स०-विषप्रकृत्यादियोगे सति विषसङ्कटं कथितम्| [अत्र-] अस्मिंश्च विषसङ्कटे, विषार्तः शतमध्य एको जीवेत्| तत्र विषप्रकृतिः-पित्तप्रकृतिः| कालो-वर्षाः| विषान्नं-सर्षपादि| विषदोषः-पित्तम्| दूष्यं-रक्तम्| आदिशब्देन सात्म्यादीनां ग्रहणम्|
Adhikarana viShavRuddhihetavaH kShudhAdayaH (61-63) · Śloka 63
क्षुत्तृष्णाघर्मदौर्बल्यक्रोधशोकभयश्रमैः| अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः||६१|| तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितैः| हस्तिमूषिकवादित्रनिःस्वनैर्विषसङ्कटैः||६२|| पुरोवातोत्पलामोदमदनैर्वर्धते विषम्| |६३|
🔊 Audio coming soon
स०- क्षुधादिभिर्विषं वृद्धिमेति|
Adhikarana varShAsu viShavRuddheH kAraNam,sharadi viShasya mandavIryatve hetuH (63-64) · Śloka 64
| वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम्||६३|| विसर्पति घनापाये, तदगस्त्यो हिनस्ति च| प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये||६४||
🔊 Audio coming soon
स०- प्रावृषि च जलप्रभवत्वाद्विषं संक्लेदं गुडवद् याति| विसर्पति-प्रसरति, घनापाये-विगतवर्षासमये| तत्-विषं, अगस्त्यो हिनस्ति-अल्पशक्ति करोति| तस्माद्घनात्यये-शरत्समये, मन्दवीर्यत्वं प्रयाति|
Adhikarana iti prakRutyAdyAlocya karmAcaraNam (65) · Śloka 65
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्| अलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत्||६५||
🔊 Audio coming soon
स०-इति-एवं पूर्वोक्तेन प्रकारेण, प्रकृत्यादिकं बुद्ध्वा-यत्नेन निरूप्य, ततः कर्म कुर्यात्|
Adhikarana shlaiShmike viShe vamanAdibhiH shamanam (66) · Śloka 66
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः| कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्||६६||
🔊 Audio coming soon
स०-श्लैष्मिकं विषं वमनैरुष्णादिगुणैः प्रलेपैश्चेद्दशैर्भोजनैश्च कषायादिगुणैः शान्तिं नयेत्|
Adhikarana paittike viShe virecanAdibhiH shamanam (67) · Śloka 67
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः| कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः||६७||
🔊 Audio coming soon
स०-पैत्तिकं विषं विरेचनैस्तथाऽतिशीतलैः सेकैः प्रलेपैश्च तथा भोजनैः कषायतिक्तमधुरैराज्ययुतैश्च शमयेत्|
Adhikarana vAtike viShe svAdvAdyAhArAdibhiH shamanam (68) · Śloka 68
वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः| सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः||६८||
🔊 Audio coming soon
स०-वातिकं मधुरादियुक्तैः ससर्पिष्कैर्भोजनैर्लेपैर्मांसभोजनैश्च जयेत्|
Adhikarana sarvaviSheShu sarvAvastheShu ghRutatulyaM bheShajaM nAsti visheShAt vAte~adhike (69-70) · Śloka 70
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्| सर्वेषु सर्वावस्थेषु विषेषु न घृतोपमम्||६९|| विद्यते भेषजं किञ्चिद्विशेषात् प्रबलेऽनिले| |७०|
🔊 Audio coming soon
स०- विषे स्रंसनं-विरेचनं, प्रलेपो वा भोज्यमौषधं वा नाघृतं शस्तम्| किं तर्हि ? सर्वमेव तत् सघृतं शस्तम्| स०- सर्वेषु विषेषु सर्वावस्थेषु च घृततुल्यं नान्यदौषधं किमप्यस्ति| विशेषेण च वातेऽतिरिक्ते|
Adhikarana kaphapittavAtagataviShANAM sAdhyAsAdhyatvam (35) · Śloka 35
| अयत्नाच्छ्लेष्मगं साध्यं, यत्नात् पित्ताशयाश्रयम्||७०|| सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम्| ७० १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीवद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः||३५||
🔊 Audio coming soon
स०- कफगतं विषमल्पयत्नेन साध्यम्| पित्ताशयाश्रयं यत्नेन साध्यम्| वाताशयाश्रितं सुष्ठु दुःखेन साध्यतेऽसाध्यं वा स्यादिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः समाप्तः|| ३५||