Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

35. viṣapratiṣēdhādhyāyaḥ

Adhikarana adhyAyopakramaH · Śloka

🔊 Audio coming soon

अधुना विषतन्त्रमुच्यते, सद्यःप्राणहारित्वेन तुल्यसाधर्म्यात्|

Adhikarana viShapratiShedhAdhyAyaH (2) · Śloka 2

अथातो विषप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|

🔊 Audio coming soon

तत्र विषस्य प्रागुत्पत्तिदर्शनार्थमाह-

Adhikarana viShayasya prAgutpattidarshanam (1-3) · Śloka 3

मथ्यमाने जलनिधावमृतार्थं सुरासुरैः| जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः||१|| दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः| जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः||२|| हुंकृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे| सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम्||३||

🔊 Audio coming soon

स०- समुद्रे सुरासुरैरमृतार्थं विलोड्यमानेऽमृतोत्पत्तेः पूर्वं पुरुषो दारुणदृष्टिः समिद्धधामा चतुर्दंष्ट्रो हरिवर्णकचो दहनतुल्यनेत्रो जातः| तं पुरुषं दृष्ट्वा भुवनं विषादं गतम्| अत एवासौ जगद्विषदनात् विषसंज्ञः| ब्रह्मण हुंकृतस्तु सन्नसौ वञ्चनस्वभावं स्वं रूपं हित्वा स्थावरजङ्गमाख्ये मूर्ती अधितस्थौ| पुरुषरुपी तिष्ठेदसौ ततो ब्रह्मा शापं दद्यात्|

Adhikarana sthAvaraM viShaM kandeShvativIryam (4) · Śloka 4

स्थिरमत्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम्| कालकूटेन्द्रवत्साख्यशृङ्गीहालाहलादिकम्||४||

🔊 Audio coming soon

स०-यद्विषं स्थिरं-स्थावरं, कन्देषु प्रतिष्ठितं वीर्ये अत्युल्बणं तत् कालकूटादिभेदभिन्नम्| फलादिष्वपि तद् भवति, किन्तु कन्दे वीर्यातिकृत्| आदिशब्देन सङ्ग्रहोक्ता भेदा गृह्यन्ते| यथा (सं.उ. अ. ४०)-"कालकूटं वत्सनाभं साक्तुकं वालकं कर्दमकं वैराटं मुस्तकं शृङ्गी पुण्डरीकं महाविषं हालाहलं मर्कटकं कर्कटं काशपुष्पकमिन्द्रायुधं तथा तैलम्|" इति (त्यादि) भेदाः प्रकीर्तिताः| एषां तु लक्षणं तत्रोक्तम्| तदहि विस्तरतरग्रन्थशङ्कया नोक्तम्|

Adhikarana ja~ggamaM viShaM sarpAdidaMShTrAsu dAruNam (5) · Śloka 5

सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम्| |५|

🔊 Audio coming soon

स०- सर्पादिदंष्ट्रासु तु यद्व्यवस्थितं तज्जङ्गमम्| तच्च दारुणम्| दंष्ट्रेत्युपलक्षणार्थम्, नखविषाणमूत्रादीनामपि पुरो विषत्वेन वक्ष्यमाणत्वात्|

Adhikarana iti dviprakAramakRutrimaM viSham (5) · Śloka 5

| स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्||५||

🔊 Audio coming soon

स०-स्थावरं जङ्गमं चेति द्विप्रकारं विषमकृत्रिमम्|

Adhikarana kRutrimaM tu garasaMj~jam kRutrimasya lakShaNam (6-7) · Śloka 7

कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः| हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्||६|| शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा| |७|

🔊 Audio coming soon

स०- गरसंज्ञं तु कृत्रिमम्| यस्मात्तत् क्रियते| अत एव विविधानि वक्ष्यमाणान्यौषधानि यस्मिंस्तदेवम्| तच्च योगवशाच्छीघ्रं हन्ति| तथा विविधयोगवशाच्चिराच्चिरं हन्ति| शोफादींश्च विधत्ते|

Adhikarana viShasya guNA ekAdasha (7-8) · Śloka 8

अथ विषगुणान्निर्दिशति | तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु||७|| विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च| |८|

🔊 Audio coming soon

स०- तत्सर्वं विषं तीक्ष्णादिगुणं स्यात्| गुणनिर्देशनादस्य रौक्ष्याद्वातमुष्णत्वात् पित्तं करोतीति ज्ञाप्यते| ननु, रौक्ष्यादिभिर्गुणैर्वायोः कोपो न युज्यते, रौक्ष्यादीनां गुणत्वाद्वायोश्च द्रव्यत्वात्| ब्रूमः| वायोर्ये रौक्ष्यादयो गुणास्तेषामेव विषस्थै रौक्ष्यादिभिर्गुणैर्वृद्धिः क्रियते| ते च वायोरात्मभूताः, तन्नाशे वायोर्नाशः स्यात्, यथा तन्तुनाशे पटनाशः| तस्माद्युक्तः पवनस्य रौक्ष्यादिभिर्गुणैः प्रकोपः| एवं पित्तेऽपि योज्यम्| कट्वम्लादिकथनेऽपि विषस्याव्यक्तरसत्वम्, अनेकरससम्भवादेकस्यापि च व्यक्तस्यानुपलब्धेः| व्यवायित्वं चास्य द्रागेवाखिलकायस्य व्याप्तेः| तथा अपाकि,-विषस्य हि मन्त्रतन्त्राभ्यामन्तरेण पाकाभावात्, पक्वेऽप्यन्ने विषस्यापक्वस्येवोपलब्धेः| अत एव शमितमपि किञ्चित्कारणं प्राप्य पुनः कुप्यति|

Adhikarana viShamojoviparItaguNam ,viShaM nRuNAM sadyojIvitaharam (8-9) · Śloka 9

| ओजसो विपरीतं तत् तीक्ष्णाद्यैरन्वितं गुणैः||८|| वातपित्तोत्तरं नृणां सद्यो हरति जीवितम्| |९|

🔊 Audio coming soon

सं-तथा विषमोजसो विपरीतं तीक्ष्णादिभिर्दशभिर्गुणैर्युक्तम्| तीक्ष्णाद्यैरन्वितमिति हेतौ प्रथमा| तीक्ष्णादिगुणयुक्तत्वादोजसो विपरीतमित्यर्थः| तथा वातपित्तोतरं नराणां द्रागेव जीवितं हरति|

Adhikarana tara hetuH (9-10) · Śloka 10

कुतः ? इत्याह | विषं हि देहं सम्प्राप्य प्राग् दूषयति शोणितम्||९|| कफपित्तानिलांश्चानु समं दोषान् सहाशयान्| ततो हृदयमास्थाय देहोच्छेदाय कल्पते||१०||

🔊 Audio coming soon

स०- यस्माद्विषं शरीरं प्राप्य पूर्वं रक्तं सर्वशरीरगतं दूषयति, पश्चात् कफपित्तवातानाशयसहितान् दूषयति| अनन्तरं कफादिभिः सममेव हृदयमाश्रित्य शरिरनाशाय सम्पद्यते| ननु, विषस्य तीक्ष्णादिभिर्गुणैर्युगपत् त्रिदोषकोपित्वाद्रक्तकोपित्वाच्च पूर्वं शोणितं दूषयति पश्चात्रीन् दोषानिति यदुक्तं तदयुक्तिमदिव दृश्यते| अत्र भणामः विषप्रभावेण रक्तमाकृष्टं पूर्वं सह तेन संयुक्तं विषेण दूष्यते, ततो युगपदेव दोषत्रयकोपः, ततो दोषैः शोणितेन सह हृदयं व्याप्य सर्वस्रोतांसि बद्ध्वा देहोच्छेदाय प्रवर्तत इति न किञ्चिदत्रानुपपन्नम्|

Adhikarana sthAvaraviShasya prathamavegasya lakShaNam (11) · Śloka 11

स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते| जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः||११||

🔊 Audio coming soon

स०-स्थावरस्य विषस्योपयुक्तस्य प्रथमे वेगे रसनाश्यावतादि जायते|

Adhikarana sthAvaraviShasya dvitIyavegasya lakShaNam (12) · Śloka 12

द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना| विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्||१२||

🔊 Audio coming soon

स०- द्वितीये वेगे वेपथ्वादयः| विषं चामाशयं प्राप्तं हृदये वेदनां विधत्ते|

Adhikarana sthAvaraviShasya tRutIyavegasya lakShaNam (13-14) · Śloka 14

तालुशोषस्तृतीये तु शूलं चामाशये भृशम्| दुर्बले हरिते शूने जायेते चास्य लोचने||१३|| पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्| |१४|

🔊 Audio coming soon

स०- तृतीये च वेगे तालुशोषः आमाशयेऽतिरुजा स्यात्| नेत्रे चास्य दुर्बलादिगुणे भवतः| पक्वाशयगते तोदादयः स्युः|

Adhikarana sthAvaraviShasya caturthavegasya lakShaNam (14) · Śloka 14

| चतुर्थे जायते वेगे शिरसश्चातिगौरवम्||१४||

🔊 Audio coming soon

स०- चतुर्थे वेगे मूर्ध्नोऽतिगुरुत्वं जायते| चशब्दात् पूर्वोक्ता रसनाशयावतादयः स्युः| एवमग्रेऽपि चशब्दार्थो बोध्यः|

Adhikarana sthAvaraviShasya pa~jcamavegasya lakShaNam (15) · Śloka 15

कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे| सर्वदोषप्रकोपश्च पक्वाधाने च वेदना||१५||

🔊 Audio coming soon

स०- पञ्चमे वेगे कफप्रसेकादिः| सर्वदोषाणां प्रकोपः| पूर्वोक्ताश्च| पक्वाशये व्यथा च|

Adhikarana sthAvaraviShasya ShaShThavegasya lakShaNam (16) · Śloka 16

षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते| |१६|

🔊 Audio coming soon

स०- षष्ठे वेगे चेतनायाः प्रणाशोऽतिशयेनातिसारश्च|

Adhikarana sthAvaraviShasya saptamavegasya lakShaNam (16) · Śloka 16

| स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे||१६||

🔊 Audio coming soon

स०- सप्तमे स्कन्धादिभङ्गः, सप्तानां धातूनां दूषणान्मृत्युश्च स्यात्|

Adhikarana prathame viShavege vamanAdi (17) · Śloka 17

प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्| सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद् द्रुतम्||१७||

🔊 Audio coming soon

स०- प्रथमे विषवेगे तु कृतवमनं शिशिरजलसेचितं शीघ्रमेवागदं सघृतमाक्षिकं पाययेत्|

Adhikarana dvitIye viShavege vamanavirecanAdi (18) · Śloka 18

द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्| |१८|

🔊 Audio coming soon

स०- द्वितीये विषवेगे पूर्ववत्-शीताम्बुसेचितं, वान्तं विरिक्तं चानु-पश्चात्, अगदं पाययेत्|

Adhikarana tRutIye viShavege agadapAnAdi (18) · Śloka 18

| तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम्||१८||

🔊 Audio coming soon

स०- तृतीये वेगेऽगदपानं नस्यमञ्जनं च हितम्|

Adhikarana caturthe viShavege sasnehAgadapAnam (19) · Śloka 19

चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत्| |१९|

🔊 Audio coming soon

स०- चतुर्थे वेगे स्नेहसंयुतमगदं प्रतियोजयेत्|

Adhikarana pa~jcame viShavege samadhukakvAthAdi yukto~agadaH (19) · Śloka 19

| पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्||१९||

🔊 Audio coming soon

स०- पञ्चमे वेगे मधुयष्टिकाक्वाथमाक्षिकाभ्यां युक्तमगदं हितम्|

Adhikarana ShaShThe viShavege atIsAravatsiddhiH (20) · Śloka 20

षष्ठेऽतिसारवत्सिद्धिः| |२०|

🔊 Audio coming soon

स०- षष्ठे वेगेऽतिसारतुल्या चिकित्सा|

Adhikarana saptame viShavege avapIDAdi (20) · Śloka 20

अवपीडस्तु सप्तमे| मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्||२०||

🔊 Audio coming soon

स०- सप्तमे वेगेऽवपीडो-रोगानुत्पादनीयोक्तो (हृ.सू. अ. ४/६), देयः| अथवा मस्तके काकपदं कृत्वा सरक्तं पिशितं न्यसेत्|

Adhikarana vegAntare sarvaviShaghnI koshAtakyAdiyavAgUH (21-23) · Śloka 23

कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः| शेलुः शिरीषः किणीही हरिद्रे क्षौद्रसाह्वया||२१|| पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बला| एषां यवागूं निर्युहे शीतां सघृतमक्षिकाम्||२२|| युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः| |२३|

🔊 Audio coming soon

स०- कोशातक्यादीनां क्वाथे यवागूं सिद्धां शीतां ससर्पिष्कमाक्षिकां युञ्जयात्| सूर्यवल्ली-करवीरकाकारपुष्पी| क्षौद्रसाह्वयं-वटमाक्षिकम्| वेगान्तरे-वेगमध्ये, सर्वविषघ्नीम्| कृतं कर्म यस्य तस्यैवं कार्यम्|

Adhikarana vegAntare sarva madhUkAdiyavAgUH (23) · Śloka 23

| तद्वन्मधूकमधुकपद्मकेसरचन्दनैः||२३||

🔊 Audio coming soon

स०- मधूकादिक्वाथे पेयां शीतां सघृतमाक्षिकां युञ्ज्यात्|

Adhikarana sarvaviSheShu candrodayo nAmAgadaH (24-32) · Śloka 32

अञ्जनं तगरं कुष्ठं हरितालं मनःशिला| फलानी त्रिकटु स्पृक्का नागपुष्पं सकेसरम्||२४|| हरेणुर्मधुकं मांसी रोचना काकमालिका| श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला||२५|| तमालपत्रतालीसभूर्जोशीरनिशाद्वयम्| कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः||२६|| द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम्| वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम्||२७|| "नमः पुरुषसिंहाय नमो नारायणाय च| यथाऽसौ नाभिजानाति रणे कृष्णपराजयम्||२८|| एतेन सत्यवाक्येन अगदो मे प्रसिध्यतु| नमो वैदूर्यमाते हुलुहुलु रक्ष मां सर्वविषेभ्यः||२९|| गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा| " पिष्टे च द्वितीयो मन्त्रः "हरिमायि स्वाहा||३०|| " अशेषविषवेतालग्रहकार्मणपाप्मसु| मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च||३१|| पाननस्याञ्जनालेपमणिबन्धादियोजितः| एष चन्द्रोदयो नाम शान्तिस्वस्त्ययनं परम्||३२|| |वासवो वृत्रमवधीत्समालिप्तः किलामुना| ]||३२||

🔊 Audio coming soon

स०- अञ्जनादीनि द्रव्याणि| कन्या कृतोपवासा स्नाताशुक्लवस्त्रा तैः-पूर्वोक्तैर्द्रव्यैः, माक्षिकसिक्तैः पुष्यनक्षत्रे विप्रान् पूजयित्वाऽनन्तरमगदवरमिमं कल्पयेत्| वैद्यश्च समीपस्थो मन्त्रं नम इत्यादिकं पठेत्| पिष्टे चागदे द्वितीयो मन्त्रो हरिमाय्यादिकोऽत्र योज्यः| निखिलेषु विषादिषु पानादिमणिबन्धादि योजितोऽयं चन्द्रोदयो नामागदः परं शान्तं(न्ति) स्वस्त्ययनम्|

Adhikarana dUShIviShasya lakShaNam dUShIviShArtasya lakShaNam (33-36) · Śloka 36

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा| स्वभावतो वा न गुणैः सुयुक्तं दूषिविषाख्यां विषमभ्युपैति||३३|| वीर्याल्पभावादविभाव्यमेतत् कफावृतं वर्षगणानुबन्धि| तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः||३४|| मूर्च्छन् वमन् गद्गदवाक् विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः| आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी||३५|| भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः| स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान्||३६||

🔊 Audio coming soon

स०- यद्विषं पुराणं, विषघ्नौषधिभिर्वा हतवीर्यं, यद्वा दावाग्नीत्यादिभिः शोषितं, स्वभवेनैव वा गुणैर्न सुष्ठु युक्तं, तद् दूषीविषसंज्ञामुपैति| तथा वीर्यस्याल्पत्वादेतदविभाव्यं-अलक्ष्यम्| तथा कफेनावृतं वर्षवृन्दं च तत्स्थायि| तेन-दूषीविषेण, पीडितो भिन्नपुरीषवर्णादिकः स्यात्| तथा मूर्च्छां गच्छन् वमन्नस्फुटवाक् तथा विमुह्यन् तथा दूष्येनोपलक्षित उदरे यानि लिङ्गानि (हृंइ. अ. १२/२०), तैः सेवितश्च भवेत्| आमाशयस्थे दूषीविषे कफवातरोगी स्यात् पक्वाशयस्थे दूषीविषेऽनिलपित्तरोगी स्यात्| उपजातयः| ध्वस्ताः कचाः शरीरं च यस्य स ध्वस्तशिरोतुहाङ्गो विलूनपक्षः पक्षीव भवेत्| रसादिषु च स्थितं नानाविधान् धातुप्रभवान् विकारान् करोति| उपेन्द्रवज्रावृत्तम्|

Adhikarana dUShIviShasya niruktiH (37) · Śloka 37

प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः| दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्||३७||

🔊 Audio coming soon

स०-तच्च पुरोवातादिभिर्दुष्टं सद्धातून् दूषयति यतः, ततोऽपि हेतोर्दूषीविषं स्मृतम्|

Adhikarana dUShIviShArte svedaH shodhanaM ca (38) · Śloka 38

दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्| दूषीविषारिमगधं लेहयेन्मधुनाऽऽप्लुतम्||३८||

🔊 Audio coming soon

स०-दूषीविषपीडितं नरं सुस्विन्नमूर्ध्वमधस्ताच्च शोधितं सन्तं दूषीविषारि-वक्ष्यमाणं, माक्षिकेणाप्लुतमगदं लेहयेत्|

Adhikarana dUShIviShArte dUShIviShArirnAmAgadaH (39-40) · Śloka 40

तमेवाह पिप्पल्यो ध्यामकं मांसी रोध्रमेला सुवर्चिका| कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्||३९|| दूषीविषारिर्नाम्नाऽयं न चान्यत्रापि वार्यते| |४०|

🔊 Audio coming soon

स०- पिप्पल्यादिकोऽयमगदो नाम्ना दूषीविषारिः| न चान्यस्मिन्नपि वार्यते| किन्तु विशेषेण प्रयुज्यते|

Adhikarana viShaliptashastraviddhasya lakShaNam (40-44) · Śloka 44

| विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः||४०|| विवर्णभावं भजते विषादं चाशु गच्छति| कीटैरिवावृतं चास्य गात्रं चिमिचिमायते||४१|| श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः| कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्||४२|| दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्| आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः||४३|| शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्| प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्||४४||

🔊 Audio coming soon

स०-विषदिग्धेन-विषलिप्तेन शस्त्रेण, विद्धो नरः पुनःपुनः प्रताम्यति| तथा वैवर्ण्यं प्रयाति| द्रागेव विषादमेति| अस्य च-विषदिग्धेन विद्धस्य, शरीरं कीटैरिव व्याप्तं चिमिचिमायते| श्रोण्यादयश्चास्य सरुजाः स्युः कृष्णं दुष्टं च रक्तं क्षरति| तृडादियुतः क्षणेनैव च दृष्टिकालुष्यादिकरः स्यात्| तथा व्रण ईषद्रक्तप्रयन्तः श्यावमध्यो महारुजः स्यात्| तथा शूयते पाकं याति| तेषां सद्य एव च मांसं कृष्णतां गत्वा प्रक्लिन्नं सद्दीर्यते नित्यमेव पिच्छिलयुतं परिस्रवं कुर्यात्|

Adhikarana viShashastraviddhe hRudayAvaraNam, shalyAharaNapUrvakovraNadAhaH, muShkakAdikShAreNa pratisAraNam, shukanAsAdibhirlepaH (45-47) · Śloka 47

कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्| शल्यमाकृष्य तप्तेन लोहेनानु दहेद् व्रणम्||४५|| अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः| शिरीषाद् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्||४६|| शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्| |४७|

🔊 Audio coming soon

स०- अमर्मविद्धस्य हृदयावरणं द्रुतं विदधीत| स०- शल्यमाकृष्य तप्तेन लोहेन व्रणं पश्चाद्दहेत्| अथवा मुष्ककादिक्षारेण प्रतिसारयेत्| शुकनासादिभिश्च लेपयेत् व्रणम्|

Adhikarana viSha kITadaShTacikitsA ca (47) · Śloka 47

| कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः||४७||

🔊 Audio coming soon

स०-तस्य च-दिग्धफलविद्धस्य, कीटदष्टचिकित्सितं यथायोगं कुर्यात्|

Adhikarana viSha vraNe pUtimAMse pittavisarpavatkriyA (48) · Śloka 48

व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्| |४८|

🔊 Audio coming soon

स०-व्रणे च पूतिमांसे पित्तविसर्प इव चिकित्सा कार्या|

Adhikarana garaviShadAyakAH (48-49) · Śloka 49

| सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽरातिचोदिताः||४८|| गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः| |४९|

🔊 Audio coming soon

सं-नानाकान्ताः योषितः पत्ये सौभाग्यार्थं राज्ञश्च(राज्ञे वा) निकटवर्तिनो नराश्चारातिप्रेरिता गरयुक्तं भोजनं ददति|

Adhikarana garasya lakShaNam (49-50) · Śloka 50

| नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्||४९|| विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः| |५०|

🔊 Audio coming soon

स०-नानाप्रकारप्राण्यङ्गशकृतां तथा विरुद्धौषधिभस्मनां विषाणां च स्तोकवीर्याणां यो योगः, स गर इति स्मृतः|

Adhikarana garArtasya lakShaNam (50-54) · Śloka 54

| तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः||५०|| वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः| महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः||५१|| शोफवान् सतताध्मातः शुष्कपादकरः क्षयी| स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्||५२|| प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्| मन्यते कृष्णमात्मानं गौरो, गोरं च कालकः||५३|| विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः| |५४|

🔊 Audio coming soon

स०- तेन गरेण पाण्ड्वादिगुणः कासादिपीडितश्च स्यात्| वातेन प्रतिलोमेन युक्तस्तथा स्वप्नचिन्तापरः स्यात्| तथा बृहज्जठरयकृत्प्लीहवान् दीनवागादिगुणश्च स्यात्| स्वप्ने शृगालादीन् पश्यति| प्रायेण शुष्कवृक्षोदपानानि लोकते| आत्मानं च गौरः सन् कृष्णं मन्यते| कृष्णश्च गौरं मन्यते| तेन-गरविषेण, विहतेन्द्रियः सन् विकर्णघ्राणचक्षुषं पश्येत्|

Adhikarana garArtasya cikitsitAbhAve sadyo nAshaH (54-55) · Śloka 55

| एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः||५४|| गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः| |५५|

🔊 Audio coming soon

स०-एतैः-उक्तैरुपद्रवैः, अपरैश्चानुक्तैर्दारुणैः क्लिष्टः सन् गरपीडितः कश्चिदचिकित्सितः सद्य एव नाशमश्नुते|

Adhikarana garArte vamanaM pathyapAnabhojanaM suvarNashIlanaM ca (55-56) · Śloka 56

| गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्||५५|| शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्| |५६|

🔊 Audio coming soon

स०- गरातुरः कृतवमनः सन् तत्-पूर्वोक्तं, पथ्यं पानभोजनं भुक्त्वा शुद्धहृदयः सुवर्णं शीलयेत्| किं कुर्वन् ? सूत्रस्थानोक्तविधेः-"शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्|" (हृ.सू. अ. ७/२८) इति स्मरन्| विधेः स्मरन्नित्यत्र "अधीगर्थ-" इत्यादिना विधिशब्दात् कर्मणि षष्ठी|

Adhikarana garArte tApyasuvarNalehaH (56-57) · Śloka 57

| शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः||५६|| लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषम्| |५७|

🔊 Audio coming soon

स०-माक्षीकधातुकाञ्चनयोश्चूर्णं शर्करामाक्षिकान्वितं लेहो दारुणं गरयोगजं विषं हन्ति|

Adhikarana garArte hatAgnau mUrvAdicUrNam (57-58) · Śloka 58

| मूर्वामृतानतकणापटोलीचव्यचित्रकान्||५७|| वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः| पिबेद्रसेन वाऽम्लेन गरोपहतपावकः||५८||

🔊 Audio coming soon

स०-मूर्वादीनि तक्रादिभिरम्लेन वा-बीजपूररसादिरसेन, गरोपहताग्निः पुमान् पिबेत्|

Adhikarana garArte pArAvatAmiShAdishRutaM jalam (59) · Śloka 59

पारावतामिषशठीपुष्कराह्वशृतं हिमम्| गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्||५९||

🔊 Audio coming soon

स०- पारावतामिषादिभिः शृतं शीतं जलं गरतृष्णादिघ्नम्|

Adhikarana viShasa~gkaTasya lakShaNam (60) · Śloka 60

विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे| विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति||६०||

🔊 Audio coming soon

स०-विषप्रकृत्यादियोगे सति विषसङ्कटं कथितम्| [अत्र-] अस्मिंश्च विषसङ्कटे, विषार्तः शतमध्य एको जीवेत्| तत्र विषप्रकृतिः-पित्तप्रकृतिः| कालो-वर्षाः| विषान्नं-सर्षपादि| विषदोषः-पित्तम्| दूष्यं-रक्तम्| आदिशब्देन सात्म्यादीनां ग्रहणम्|

Adhikarana viShavRuddhihetavaH kShudhAdayaH (61-63) · Śloka 63

क्षुत्तृष्णाघर्मदौर्बल्यक्रोधशोकभयश्रमैः| अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः||६१|| तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितैः| हस्तिमूषिकवादित्रनिःस्वनैर्विषसङ्कटैः||६२|| पुरोवातोत्पलामोदमदनैर्वर्धते विषम्| |६३|

🔊 Audio coming soon

स०- क्षुधादिभिर्विषं वृद्धिमेति|

Adhikarana varShAsu viShavRuddheH kAraNam,sharadi viShasya mandavIryatve hetuH (63-64) · Śloka 64

| वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम्||६३|| विसर्पति घनापाये, तदगस्त्यो हिनस्ति च| प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये||६४||

🔊 Audio coming soon

स०- प्रावृषि च जलप्रभवत्वाद्विषं संक्लेदं गुडवद् याति| विसर्पति-प्रसरति, घनापाये-विगतवर्षासमये| तत्-विषं, अगस्त्यो हिनस्ति-अल्पशक्ति करोति| तस्माद्घनात्यये-शरत्समये, मन्दवीर्यत्वं प्रयाति|

Adhikarana iti prakRutyAdyAlocya karmAcaraNam (65) · Śloka 65

इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्| अलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत्||६५||

🔊 Audio coming soon

स०-इति-एवं पूर्वोक्तेन प्रकारेण, प्रकृत्यादिकं बुद्ध्वा-यत्नेन निरूप्य, ततः कर्म कुर्यात्|

Adhikarana shlaiShmike viShe vamanAdibhiH shamanam (66) · Śloka 66

श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः| कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्||६६||

🔊 Audio coming soon

स०-श्लैष्मिकं विषं वमनैरुष्णादिगुणैः प्रलेपैश्चेद्दशैर्भोजनैश्च कषायादिगुणैः शान्तिं नयेत्|

Adhikarana paittike viShe virecanAdibhiH shamanam (67) · Śloka 67

पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः| कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः||६७||

🔊 Audio coming soon

स०-पैत्तिकं विषं विरेचनैस्तथाऽतिशीतलैः सेकैः प्रलेपैश्च तथा भोजनैः कषायतिक्तमधुरैराज्ययुतैश्च शमयेत्|

Adhikarana vAtike viShe svAdvAdyAhArAdibhiH shamanam (68) · Śloka 68

वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः| सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः||६८||

🔊 Audio coming soon

स०-वातिकं मधुरादियुक्तैः ससर्पिष्कैर्भोजनैर्लेपैर्मांसभोजनैश्च जयेत्|

Adhikarana sarvaviSheShu sarvAvastheShu ghRutatulyaM bheShajaM nAsti visheShAt vAte~adhike (69-70) · Śloka 70

नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्| सर्वेषु सर्वावस्थेषु विषेषु न घृतोपमम्||६९|| विद्यते भेषजं किञ्चिद्विशेषात् प्रबलेऽनिले| |७०|

🔊 Audio coming soon

स०- विषे स्रंसनं-विरेचनं, प्रलेपो वा भोज्यमौषधं वा नाघृतं शस्तम्| किं तर्हि ? सर्वमेव तत् सघृतं शस्तम्| स०- सर्वेषु विषेषु सर्वावस्थेषु च घृततुल्यं नान्यदौषधं किमप्यस्ति| विशेषेण च वातेऽतिरिक्ते|

Adhikarana kaphapittavAtagataviShANAM sAdhyAsAdhyatvam (35) · Śloka 35

| अयत्नाच्छ्लेष्मगं साध्यं, यत्नात् पित्ताशयाश्रयम्||७०|| सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम्| ७० १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीवद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः||३५||

🔊 Audio coming soon

स०- कफगतं विषमल्पयत्नेन साध्यम्| पित्ताशयाश्रयं यत्नेन साध्यम्| वाताशयाश्रितं सुष्ठु दुःखेन साध्यतेऽसाध्यं वा स्यादिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः समाप्तः|| ३५||