Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

38. mūṣikālarkaviṣapratiṣēdhādhyāyaḥ

Adhikarana adhyAyopakramaH (1) · Śloka 1

|१|

🔊 Audio coming soon

विषचिकित्साप्रक्रमात् मूषिकालर्कविषमुपक्रमते-

Adhikarana mUShikAlarkaviShapratiShedhAdhyAyaH ------- mUShikANAM aShTAdashatvam (2) · Śloka 2

अथातो मूषिकालर्कविषप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे||२|| ) लालनश्चपलः पुत्रो हसिरश्चिक्किरोऽजिरः| कषायदन्तः कुलकः कोकिलः कपिलोऽसितः||१|| अरुणः शबलः श्वेतः कपोतः पलितोन्दुरः| छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः||२||

🔊 Audio coming soon

स०- लालनादिभेदेन दशाष्टाधिका इत्यष्टादश मूषिका भवन्ति|

Adhikarana mUShikANAM shukraviShatvam, mUShikaviShasya sAmAnyaM lakShaNam (3-5) · Śloka 5

शुक्रं पतति यत्रैषां शुक्रदिग्धैः स्पृशन्ति वा| यदङ्गमङ्गैस्तत्रास्रे दूषिते पाण्डुतां गते||३|| ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोऽरुचिः| शीतज्वरोऽतिरुक्सादो वेपथुः पर्वभेदनम्||४|| रोमहर्षः स्रुतिर्मूर्च्छा दीर्घकालानुबन्धनम्| श्लेष्मानुबद्धबह्वाखुपोतकच्छर्दनं सतृट्||५||

🔊 Audio coming soon

स०- एषां मूषिकाणां यत्र शुक्रं पतति, शुक्रदिग्धैरङ्गैर्वा यदङ्गं स्पृशन्ति, तस्मिन्नङ्गे रक्ते दूषिते पाण्डुत्वं याति सति ग्रन्थ्यादयः स्युः| तथा तत्प्रभावात् कफानुगतबहुमूषिकपोतकवमनं सतृट् स्यात्|

Adhikarana mUShikaviShasya kRuccrasAdhyalakShaNam (6) · Śloka 6

व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति| |६|

🔊 Audio coming soon

स०-आखुविषं व्यवायि-सकलशरीरव्यापनशीलं, तथा कृच्छ्रं-कृछ्रसाध्यं, पुनः पुनश्च कुप्यति|

Adhikarana mUShikaviShasya asAdhyalakShaNam (6-7) · Śloka 7

| मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः||६|| शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्| |७|

🔊 Audio coming soon

स०-मूर्च्छादयोऽसाध्यलक्षणम्|

Adhikarana mUShikaviShasya varjyalakShaNam (7-8) · Śloka 8

| शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम्||७|| छुच्छुन्दरसगन्धं च वर्जयेदाखुदूषितम्| |८|

🔊 Audio coming soon

स०-शूनबस्तिं विवर्णाधरं मूषिकनिभैर्ग्रन्थिभिर्व्याप्तं छुच्छुन्दरगन्धतुल्यगन्धं च मूषिकविषदूषितं नोपक्रमेत्|

Adhikarana viShayuktasya shuno lakShaNam (8-10) · Śloka 10

| शुनः श्लेष्मोल्बणां दोषाः संज्ञां संज्ञावहाश्रिताः||८|| मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्| लालावानन्धबधिरः सर्वतः सोऽभिधावति||९|| स्रुस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः| |१०|

🔊 Audio coming soon

स०-शुनः-सारमेयस्य, श्लेष्माधिका दोषाः संज्ञावहानि स्रोतांस्याश्रिताः संज्ञामपहरन्तो धातूनामतिघोरं क्षोभं कुर्वन्ति| सः-श्वा, लालायुतोऽन्धबधिरो ध्वस्तपुच्छहनुस्कन्धः शिरो दुःखी नतमुखः सर्वतो धावति|

Adhikarana viShayuktasya daMshasya lakShaNam (10-11) · Śloka 11

| दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक्||१०|| हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्च्छाद्भवोऽनु च| |११|

🔊 Audio coming soon

स०-तेन-शुना, विदष्टस्य दंशः सुप्तः-अचेतनः, कृष्णं रक्तं स्रवति| पश्चाद् हृत्पीडाद्युद्भूतिः स्यात्|

Adhikarana evaM shRugAlAdayo vedyAH (11-12) · Śloka 12

| अनेनान्येऽपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः||११|| शृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः| |१२|

🔊 Audio coming soon

स०- अनेन-दंशादिस्वरूपेण, अपरे व्यालाः-दुष्टाः, दंष्ट्राप्रहारिणः शृगालादय एवं वेद्याः|

Adhikarana saviShadaMshasya lakShaNam,nirviShadaMshasya lakShaNam (12-14) · Śloka 14

| कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः||१२|| विडहरागरुक्पाकशोफग्रन्थिविकुञ्चनम्| दंशावदरणं स्फोटाः कर्णिका मण्डलानि च||१३|| सर्वत्र सविषे लिङ्गं, विपरीतं तु निर्विषे| |१४|

🔊 Audio coming soon

स०-सर्वत्रैव सविषे दंशे कण्ड्वादयो लिङ्गम्| निर्विषे च दंशेऽतो विपरीतं लक्षणं विद्यात्|

Adhikarana daShTasyAsAdhyalakShaNam (14-15) · Śloka 15

| दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति||१४|| पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु| |१५|

🔊 Audio coming soon

स० -येन प्राणिना दष्टस्तच्चेष्टारुतं कुर्वन् म्रियते| तमेव दष्टारं, आदर्शकादिषु सहसा पश्यन् विनश्यति|

Adhikarana jalasaMtrAsasya lakShaNam (15-16) · Śloka 16

| योऽद्भ्यस्त्रस्येददष्टोऽपि शब्दसंस्पर्शदर्शनैः||१५|| जलसन्त्रासनामानं दष्टं तमपि वर्जयेत्| |१६|

🔊 Audio coming soon

स०-यो जलेभ्योऽदष्टोऽपि सन्त्रस्येत् शब्दसंस्पर्शदर्शनैर्हेतुभिः, तं जलसन्त्राससंज्ञं दष्टं वर्जयेत्|

Adhikarana AkhunA daShTamAtrasya daMshadAhaH (16-17) · Śloka 17

| आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत्||१६|| दर्पणोनाथवा, तीव्ररुजा स्यात्कर्णिकाऽन्यथा| |१७|

🔊 Audio coming soon

स०-आखुना दष्टमात्रस्य नरस्य सतो दंशं काण्डेन दाहयेत्| दर्पणेन वा दाहयेत्| अन्यथा-एवमदग्धे सति, कर्णिका दारुणपीडा स्यात्|

Adhikarana dagdhadaMshasya vistrAvaH shirIShabIjAdiBiH pralepaSca (17-18) · Śloka 18

| दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्||१७|| शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः| |१८|

🔊 Audio coming soon

स०- दंशं दग्धं प्रच्छितं विस्रावयेत्| शिरीषबीजादिभिः प्रलेपयेच्च|

Adhikarana AkhuviShaghnaH karNikApAtanashcAgAradhUmAdilepaH (18-19) · Śloka 19

| अगारधूममञ्जिष्ठारजनीलवणोत्तमैः||१८|| लेपो जयत्याखुविषं कर्णिकायाश्च पातनः| |१९|

🔊 Audio coming soon

स०- अगारधूमादिको लेपो ह्ययं मूषिकविषं हन्ति| कर्णिकां च पातयति|

Adhikarana AkhuviShaghnaH tato~amlaiH kShAlanAdi, sirAmokSho vA (19-20) · Śloka 20

| ततोऽम्लैः क्षालयित्वाऽनु तोयैरनु च लेपयेत्||१९|| पालिन्दीश्वेतकटभीबिल्वमूलगुडूचिभिः| अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेद्द्रुतम्||२०||

🔊 Audio coming soon

स०- अनन्तरमम्लैः क्षालयित्वाऽनु जलैः क्षालयेत्| पश्चात् पालिन्द्यादिभिरपरैश्च विषघ्नैः श्वयथुघ्नैश्च लेपयेत्| अथवा शीघ्रं सिरां व्यधयेत्| पालिन्दी-मालविका त्रिवृत्|

Adhikarana AkhuviShaghnaH nIlinyAdikvAthaiH cchardanam (21) · Śloka 21

छर्दनं नीलिनीक्वाथैः शुकाख्याङ्कोल्लयोरपि| |२१|

🔊 Audio coming soon

स०- नीलिनीक्वाथेन छर्दनं कार्यम्| शुकाख्याङ्कोल्लयोश्च क्वाथेन वमनम्| शुकाख्यः-शिरीषः|

Adhikarana AkhuviShaghnaH koshAtakyAdicUrNena cchardanam (21-22) · Śloka 22

| कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च||२१|| मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्| |२२|

🔊 Audio coming soon

स०- कोशातक्यादीनां फलानि सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्|

Adhikarana AkhuviShaghnaH vacAdinA pAnam, trivRudAdinA virecanam (22-23) · Śloka 23

| वचामदनजीमूतकुष्ठं व मूत्रपेषितम्||२२|| पूर्वकल्पेन पातव्यं सर्वोन्दुरविषापहम्| विरेचनं त्रिवृन्नीलीत्रिफलाकल्क इष्यते||२३||

🔊 Audio coming soon

स०- वचादिं वा गोमूत्रेण सञ्चूर्ण्य पूर्वकल्पेन-दध्ना, पीत्वा सर्वोन्दुरविषं हन्ति| स०- विरेचनं त्रिवृतादिकल्क इष्यते|

Adhikarana AkhuviShaghnaH shirIShasArAdinA shirovirecanam (24) · Śloka 24

शिरोविरेचने सारः शिरीषस्य फलानि च| |२४|

🔊 Audio coming soon

स०- शिरोविरेचने शिरीषस्य सारः फलं च योज्यम्|

Adhikarana AkhuviShaghnaH gomayarasenA~jjanam (24) · Śloka 24

| अञ्जनं गोमयरसो व्योषसूक्ष्मरजोन्वितः||२४||

🔊 Audio coming soon

स०- गोमयरसश्चूर्णीकृतस्त्रिकटुकान्वितोऽञ्जनम्|

Adhikarana AkhuviShaghnaH kapitthAdirasenAvalehaH (25) · Śloka 25

कपित्थतोमयरसो मधुमानवलेहनम्| |२५|

🔊 Audio coming soon

स०- कपित्थगोमयरसः समाक्षिकोऽवलेहनम्|

Adhikarana AkhuviShaghnaH tandulIyakamUlAdisiddhAni ghRutAni (25-26) · Śloka 26

| तन्दुलीयकमूलेन सिद्धं पाने हितं घृतम्||२५|| द्विनिशाकटभीरक्तायष्ट्याह्वैर्वाऽमृतान्वितैः| आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा||२६||

🔊 Audio coming soon

स०- तन्दुलीयकमूलेन पक्वं सर्पिः पाने हितम्| द्विनिशादिभिर्वा साधितं घृतं पाने हितम्| अथवाऽर्कमूलेन सिद्धं घृतं पाने हितम्| अथवा पञ्चकापित्थसिद्धं सर्पिः पाने हितम्| कपित्थस्येमानि कापित्थानि,-मूलत्वक्पत्रपुष्पफलानि पञ्च, पञ्च च तानि कापित्थानि च, तैः सिद्धं पञ्चकापित्थम्|

Adhikarana AkhuviShaghnaH sinduvArAdikvAthaH (27-28) · Śloka 28

सिन्दुवारं नतं शिग्रुबिल्वमूलं पुनर्नवा| वचाश्वदंष्ट्राजीमूतमेषां क्वाथं समाक्षिकम्||२७|| पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः| |२८|

🔊 Audio coming soon

स०- सिन्दुवारादीनां क्वाथं समाक्षिकं पिबेत्| मूषिकविषपीडितो दध्ना शाल्योदनं भुञ्जानः|

Adhikarana AkhuviShaghnaH sharapu~gkhAbIjacUrNam (28) · Śloka 28

| तक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत्||२८||

🔊 Audio coming soon

स०- अथवा शरपुङ्खाया बीजं सञ्चूर्ण्य मथितेन पिबेत्|

Adhikarana AkhuviShaghnaH a~gkolamUlakalkaH (29) · Śloka 29

अङ्कोल्लमूलकल्को वा बस्तमूत्रेण कल्कितः| पानालेपनयोर्युक्तः सर्वाखुविषनाशनः||२९||

🔊 Audio coming soon

स०- अङ्कोलमूलकल्को वा छागमूत्रेण पिष्टः पानलेपनयोर्युक्तः सर्वाखुविषहा|

Adhikarana AkhuviShaghnaH kapitthamadhyAdikam, tilakama~jjarI (30) · Śloka 30

कपित्थमध्यतिलकतिलाङ्कोल्लजटाः पिबेत्| गवां मूत्रेण, पयसा मञ्जरीं तिलकस्य वा||३०||

🔊 Audio coming soon

स०- कपित्थबीजादिकं गोमूत्रेण पिबेत्| क्षीरेण वा तिलकमञ्जरीं पिबेत्|

Adhikarana AkhuviShaghnaH sairyakamUlam (31) · Śloka 31

अथवा सैर्यकान्मूलं सक्षौद्रं तन्दुलाम्बुना| |३१|

🔊 Audio coming soon

स०- सैर्यकमूलं वा समाक्षिकं ज्येष्ठाम्भसा पिबेत्|

Adhikarana AkhuviShaghnaH kaTukAlAbuvinyastaM jalam (31) · Śloka 31

| कटुकालाबुविन्यस्तं पीतं वाऽम्बु निशोषितम्||३१||

🔊 Audio coming soon

स०- अथवा कटुकालाबुनि जलं निक्षिप्तं रात्रिस्थितं पीतं मूषिकविषनाशनं स्यात्|

Adhikarana AkhuviShaghnaH sinduvAramUlAdyagadaH (32) · Śloka 32

सिन्दुवारस्य मूलानि बिडालास्थि विषं नतम्| जलपिष्टोऽगदो हन्ति नस्याद्यैराखुजं विषम्||३२||

🔊 Audio coming soon

स०- सिन्दुवारमूलादिको जलपिष्टोऽगदो नस्याद्यैर्मूषिकविषं हन्ति|

Adhikarana sasheShamUShikaviShasyAbhradarshanAdau prakopaH (33) · Śloka 33

सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने| यथायथं वा कालेषु दोषाणां वृद्धिहेतुषु||३३||

🔊 Audio coming soon

स०- मूषिकविषं किञ्चिच्छेषं जलदोन्नतौ कुप्यति| अथवा वातादीनां यथास्वं कालेषु वृद्धिकारणेषु प्रकुप्यति|

Adhikarana tatra yathAvasthamupakramAH,tatra dUShIviShApahAshcopakramAH (34) · Śloka 34

तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः| यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः||३४||

🔊 Audio coming soon

स०- तत्रावस्थावशादुपक्रमाः सर्वे यथायोगं प्रयोज्याः स्युः| ये च दूषीविषघ्नाः निर्दिष्टास्ते च प्रयोज्याः

Adhikarana alarkadaMshe dAho lepaH purANaghRutapAnaM ca (35) · Śloka 35

दंशं त्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा| प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्||३५||

🔊 Audio coming soon

स०- अलर्कदष्टस्य दंशमुष्णेन घृतेन दग्धमगदैस्तैस्तैः पूर्वोक्तैः, लेपयेत्| पुराणं च सर्पिः पिबेत्|

Adhikarana alarkadaMshe arkakShIrayutaM virecanam (36) · Śloka 36

अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्| |३६|

🔊 Audio coming soon

स०- अर्कक्षीरान्वितं चास्य विरेचनं क्षिप्रं योज्यम्|

Adhikarana alarkadaMshe a~gkollottaramUlajalam, shvetapunarnavA (36-37) · Śloka 37

| अङ्कोल्लोत्तरमूलाम्बु त्रिपलं सहविःपलम्||३६|| पिबेत्सधत्तूरफलां श्वेतां वाऽपि पुनर्नवाम्| |३७|

🔊 Audio coming soon

स०- अङ्कोल्लोत्तरमूलजलं पलत्रयमात्रं सघृतपलं पिबेत्| धत्तूरफलयुतां श्वेतां वा पुनर्नवां जलेन पिबेत्|

Adhikarana alarkadaMshe palalatailAdi (37-38) · Śloka 38

| ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः||३७|| भिनत्ति विषमालर्कं घनवृन्दमिवानिलः| |३८|

🔊 Audio coming soon

स०- भृष्टतिलचूर्णं, तैलं, रूषिकायाः-अर्कस्य क्षीरं, गुडः, एकत्र मिश्रितं प्रकृतत्वाज्जलेन पीतं विषमलर्कं भिनत्ति| पयोदौघमिव वायुः|

Adhikarana alarkadaMshe samantrauShadhIratnaM snapanam (38) · Śloka 38

| समन्त्रं सौषधीरत्नं स्नपनं च प्रयोजयेत्||३८||

🔊 Audio coming soon

स०-मन्त्रान्वितमौषधीरत्नयुतं स्नपनं च कारयेत्| ["अष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितैः| अष्टोत्तरशतोन्मानैः पुष्पमालावगुण्ठितैः|| गोचर्ममात्रके लिप्ते ज्वलितेऽग्नौ कुशास्तृते| स्थण्डिले सरितस्तीरे स्नानं वाऽस्य चतुष्पथे|| अलर्काधिपते यक्ष सारमेयगणाधिप| अलर्कजुष्टमेतन्मे निर्विषं कुरु मा चिरात्|| स्वाहेति मन्त्रोऽलर्कार्ते सर्वकर्मसु शस्यते|" इति वृद्धवाग्भटात् (सं.उ. अ. ४६)|]

Adhikarana catuShpAdAdinakhadantaparikShatasya lakShaNam (39) · Śloka 39

चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तपरिक्षतम्| शूयते पच्यते रागज्वरस्रावरुजान्वितम्||३९||

🔊 Audio coming soon

स०-चतुष्पाद्भिः-दन्त्यश्वप्रभृतिभिः प्राणिभिः, द्विपाद्भिः-मनुष्यमयूरकुक्कुटादिभिः, वा नखपरिक्षतं दन्तपरिक्षतं च शूयते पच्यते च रागाद्यन्वितम्|

Adhikarana nakhadantaviShaghnaH somavalkAdilepaH (40-38) · Śloka 38

सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपादिका| रजन्यौ गैरिकं लेपो नखदन्तविषापहः||४०|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङहृदयसंहितायां षष्ठे उत्तरस्थाने मूषिकालर्कविषप्रतिषेधो नामाष्टत्रिंशोऽध्यायः||३८||

🔊 Audio coming soon

स०- खदिरादिभिर्लेपो नखदन्तविषघ्नः इति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठ उत्तरस्थाने मूषिकालर्कविषप्रतिषेधो नामाष्टत्रिंशोऽध्यायः समाप्तः|| ३८|| इति विषतन्त्रं नाम षष्टमङ्गं समाप्तम्