Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

39. rasāyanavidhiradhyāyaḥ

Adhikarana rasAyanavidhiradhyAyaH ------- rasAyanasya phalam, rasAyanasya niruktiH (2) · Śloka 2

अधुना पूर्वोक्तहेतुसम्बन्धं रसायनाध्यायं जिगदिषुराह अथातो रसायनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२|| दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः| प्रभावर्णस्वरौदार्यं देहेन्द्रियबलोदयम्||१|| वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्| लाभोपायो हि शस्तानां रसादीनां रसायनम्||२||

🔊 Audio coming soon

स०- दीर्घायुःप्रभृतीन् रसायनादधिगच्छति| कस्मादेतानि रसायनाल्लभ्यन्ते? इत्याह-लाभोपाय इति| यस्मात् श्रेष्ठानां रसरुधिरादीनां यो लाभोपायः, स रसायनमुच्यते|

Adhikarana rasAyanasya prayogakAlAdiH (3) · Śloka 3

पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः| स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा||३||

🔊 Audio coming soon

स०-तत्-रसायनं, जितात्मनः पुरुषस्याद्ये वयसि-अतिबाल्यातिक्रान्तमात्रे, अथवा मध्यमे वयसि प्रयोज्यम्| कीदृशस्य पुंसः ? स्निग्धेत्यादि| स्निग्धादिगुणयुक्तस्य, तथा सर्वथा अध उपरिष्टाच्च शुद्धस्य|

Adhikarana rasAyanasya niShphalatvam (4) · Śloka 4

अविशुद्धे शरीरे हि युक्तो रासायनो विधिः| वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः||४||

🔊 Audio coming soon

स०-यस्मादविशुद्धे शरीरे रासायनो विधिरुपयुक्तो वाजीकरो वोपयुक्तो निष्फलः स्यात्| यथा मलिने वस्त्रे रङ्गः| मलिनं हि वस्त्रं न रज्यते|

Adhikarana rasAyanasya dvividhatvam (5) · Śloka 5

रसायनानां द्विविधं प्रयोगमृषयो विदुः| कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा||५||

🔊 Audio coming soon

स०-मुनयो रसायनानां प्रयोगं द्विप्रकारं जानन्ति| तत्र मुख्यं कुटीप्रवेशनिर्वृत्तम्| वातातपिकमन्यथा-अमुख्यमित्यर्थः|

Adhikarana rasAyanArthaM kuTI (6-7) · Śloka 7

पुरे प्राप्योपकरणे हर्म्यनिर्वातनिर्भये| दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम्||६|| धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम्| सज्जवैद्योपकरणां सुमृष्टां कारयेत्कुटीम्||७||

🔊 Audio coming soon

स०-क्व तत्कुर्वीत ? पुरे, प्राप्योपकरणीये, हर्म्यं-धवलगृहं, निवातं निर्भयं च यस्मिन् तस्मिन्, तथोदीच्यां दिशि, शुभे-दुर्भिक्षमरकादिरहिते, कुटीं त्रिगर्भां कारयेत्| प्रथममेकं गृहम्, तस्याभ्यन्तरे द्वितीयम्, तस्याभ्यन्तरे तृतीयम्, एवं त्रिगर्भा| त्रयो गर्भाः-अन्तराणि, यस्या इति कृत्वा| तथा सूक्ष्मगवाक्षाम्| तथा धूमादिभिरविलिङ्घितां-अनाक्रान्ताम्| तथा प्रगुणानि वैद्योपकरणानि-भेषजादीनि, यस्यां तां तथाविधाम्| सुमृष्टां-उपलेपनादिकरणेन शुद्धाम्|

Adhikarana puNye~ahni kuTIpraveshaH, rasAyanasevanakarturniyamAH (8-10) · Śloka 10

अथ पुण्येऽह्नि सम्पूज्य पूज्यांस्तां प्रविशेच्छुचिः| तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः||८|| ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः| दानशीलदयासत्यव्रतधर्मपरायणः||९|| देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः| प्रियौषधः पेशलवागारभेत रसायनम्||१०||

🔊 Audio coming soon

स०- अथ-कृतमङ्गलः, शुभे दिवसे शुचिः पूज्यान्-गुरुमित्रादीन्, सम्पूज्य तां-पूर्वोपवर्णितां कुटीं, प्रविशेत्| तस्यां कुट्यां कृतसन्निवेशः संशोधनैः शुद्धः| सुखी-अरोगः| एतच्च बाहुल्येनोक्तम्| शिलाजतुच्यवनप्राशादीनां व्याधिष्वप्यनुज्ञातत्वात्| तथा च वक्षयति (श्लो.१४२)-"न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य|" इति| तथा (श्लो.३९)-"इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः| जर्जरितोऽप्यासीन्नारीनयननन्दनः|| कासं श्वासं क्षयं शोफं वैस्वर्यं च व्यपोहति||" इति| पुनर्जातबलं इति प्रकृतिबलेन यो बलवान्नासीत्तस्य संशोधनेन बलहीनत्वेन पुनर्जातबलो बृंहणाहारादिना यदा, स तदा रसायनमारभेतेत्यर्थः| असञ्जातबलो ह्युत्कृष्टवीर्याणां रसायनानां वीर्यं सोढुं न क्षमत इति पुनर्जातबल इत्युक्तम्| ब्रह्मचारीत्युक्तं निवृत्तस्त्रीसङ्गपरम्| तथा जातसन्तोषः| श्रद्धालुरलोलुपश्च| तथा दानरतः दयादितत्परः| तथा देवताभक्तः| युक्तौ स्वप्नप्रजागरौ यस्य स एवम्| तथा भेषजानुरागवान् मधुरवचनः|

Adhikarana rasAyane pUrvaM harItakyAdivirecanam (11-12) · Śloka 12

हरीतकीमामलकं सैन्धवं नागरं वचाम्| हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्||११|| स्निग्धस्विन्नो नरः पूर्वं, तेन साधु विरिच्यते| |१२|

🔊 Audio coming soon

स०- हरीतक्यादिकं योगमुष्णजलेन प्राक् स्निग्धस्विन्नो नरः पिबेत्| तेन योगेन सम्यग् विरिच्यते|

Adhikarana tataH shuddhasharIrAya ghRutAnvitaM yAvakaM deyam (12-13) · Śloka 13

| ततः शुद्धशरीराय कृतसंसर्जनाय च||१२|| त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्| दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा||१३||

🔊 Audio coming soon

स०- अनन्तरं, शुद्धदेहाय कृतपेयादिकक्रमाय च त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा सर्पिर्युतं यावकं दद्यात्| अथवा पुराणशकृतः शुद्धिं यावत् तावद्यावकं ससर्पिष्कं दद्यात्| त्रिविधमलापेक्षया त्रिविधं परिज्ञानम्,-हीनपुरीषस्य त्रिरात्रम्, मध्यपुरीषस्य पञ्चरात्रम्, उत्कृष्टपुरीषस्य सप्तरात्रमिति| तथा हि [मध्य]बहुवर्चस्कस्य पञ्चरात्रेण सप्तरात्रेण वा मलः शुद्ध्यति, अल्पमलस्य त्रिरात्रेणैव, इति त्रिविधं परिज्ञानं युक्तम्| बहुतरमलस्य बहुतरैरेवाहोभिः शुद्धिः स्यादित्युक्तवान्'आशुद्धेः पुराणशकृतोऽथवा' इति|

Adhikarana itthaM saMskRutakoShThasya yaugikaM rasAyanaM deyam (14) · Śloka 14

इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्| यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित्||१४||

🔊 Audio coming soon

स०-एवं संस्कृतकोष्ठस्य नरस्य यस्य यद्रसायनं यौगिकमुपलभ्यते, सात्म्यज्ञो भिषक् सर्वमालोच्य तस्य तद्रसायनमुपाहरेत्| ["हरणात् सर्वतोगाणं याऽसावुक्ता हरीतकी| पथ्यत्वात्सर्वधातूनां पथ्या, शिवतया शिवा|| यस्माद्विजयते व्याधीन् समग्रान् विजया ततः| अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम्|| यतः शीलयतामेनां तेनेयमभया स्मृता| नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या|| बालस्य सा प्रयोक्तव्या नवनीतसमन्विता| वाते ससर्पिर्लवणा पित्ते सगुडशर्करा|| कफे सपिप्पलीक्षौद्रा सर्वदा सा प्रशस्यते|" इति वृद्धवाग्भटात् (सं.उ. अ. ४९)|]

Adhikarana brAhmaM rasAyanam (15-23) · Śloka 23

पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्| पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम्||१५|| जले दशगुणे पक्त्वा दशभागस्थिते रसे| आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा||१६|| विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम्| त्वगेलामुस्तरजनीपिप्पल्यगुरुचन्दनम्||१७|| मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्| यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाऽधिकम्||१८|| सितोपलार्धभारं च पात्राणि त्रीणि सर्पिषः| द्वे च तैलात् पचेत्सर्वं तदग्नौ लेहतां गतम्||१९|| अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः| ततः खजेन मथितं निदध्याद् घृतभाजने||२०|| या नोपरुन्ध्यादाहारमेकं मात्राऽस्य सा स्मृता| षष्टिकः पयस चात्र जीर्णे भोजनमिष्यते||२१|| वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः| ब्रह्मणा विहितं धन्यमिदं प्रश्य रसायनम्||२२|| तन्द्राश्रमाक्लमवलीपलितामयवर्जिताः| मेघास्मृतिबलोपेता बभूवुरमितायुषः||२३||

🔊 Audio coming soon

स०- अभयानां सहस्रमामलकसहस्रत्रितययुतम्| तथा पञ्चानां पञ्चमूलानां पलशतद्वयं सार्धं सलिले दशगुणे पक्त्वा दशांशस्थिते रस आपोथ्य-मृदित्वा, हरीतक्यामलकानि व्यस्थीनि कृत्वा तस्मिन् क्वाथे प्रक्षिप्य कुडवप्रमाणं त्वगेलादिकं चूर्णितं योजयेत्| कनकं-नागकेसरम्| व्यस्थीनीति "नपुंसकमनपुंसकेन" इत्येकशेषः| पलशतेनाधिकं शर्कराया अर्धभारम्, घृतस्य त्रीण्याढकानि, द्वे चाढके तैलात्, तत्सर्वं वह्नौ पचेत्| तच्च लेहतां गतमवतीर्णं शीतं क्षौद्रशतैस्त्रिभिर्विंशत्यधिकैर्युञ्जीत| विंशैरिति 'विंशतेः पूरणे' इति पूरणेऽर्थे डिभिः| 'विंशतेर्डित्' इति टिलोपे विंशशब्दः| अनन्तरं खजेनालोडितं घृतभाण्डे निदध्यात्| या-मात्रा, एकमाहारं-सायंतनं, नोपरुन्ध्यात् साऽस्य रसायनस्य मात्रा स्मृता| आहारमेकमिति वचनाच्च प्रथमाहारकालस्य रसायनमात्रयाऽवश्यमुपरोधः कार्य इति वेदयति| अस्मिंश्च लेहे जीर्णे षष्टिकः क्षीरेण सह भोजनमिष्टम्| वैखानसादयो ब्रह्मणा निर्मितमेतदुपयुज्य रसायनं तन्द्रादिवर्जिता मेधादियुता अमितजीविताश्चाभूवन्| धन्यमिति धनाय हितम्| ननु, रसायनस्य धनार्जनोपायत्वाभावात् कथं धन्यत्वम् ? अत्र ब्रूमः| कार्ये कारणोपचारादेवमुक्तम्| तथा हि रसायनमिदमामयघ्नत्वादारोग्ये च सति मेधास्मृत्यायुक्तस्य धनायोद्यमं कुर्वतोऽवश्यं धनसम्प[म्प्रा]त्तिरिति युक्तमेव| ननु, आमयवर्जैता इत्यनेनैवोक्तार्थत्वात् तन्द्रादिग्रहणमवाच्यमेव| अत्राचक्षमहे| आमयवर्जिते स्वास्थ्यानुवृत्तिकरणसामर्थ्यमस्य रसायनस्यावादीत्तन्त्रकृत्| तन्द्रादिग्रहणं च रोगनाशेऽप्यस्य ज्यायस्त्वमिति प्रतिपादनार्थम्| ["अभयामलकबिभीतकपञ्चात्मकपञ्चमूलनिर्यूहे| वल्लीपलाशकरसे द्विगुणे क्षीरेऽष्टगुणे च विपचेत|| घृतस्य कुम्भं मधुकं मधूकं काकोलियुग्मं च बलां स्वगुप्ताम्| सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्च पिबेद्गुणाढ्यम्|| (सम्. उ. अ. ४९)"]

Adhikarana abhayAmalakaM rasAyanam (24-27) · Śloka 27

अभयामलकसहस्रं निरामयं पिप्पलीसहस्रयुतम्| तरुणपलाशक्षरद्रवीकृतं स्थापयेद्भाण्डे||२४|| उपयुक्ते च क्षारे छायासंशुष्कचूर्णितं योज्यम्| पादांशेन सितायाश्चतुर्गुणाभ्यां मधुघृताभ्याम्||२५|| तद्घृतकुम्भे भूमौ निधाय षण्माससंस्थमुद्धृत्य| प्राह्णे प्राश्य यथानलमुचिताहारो भवेत्सततम्||२६|| इत्युपयुञ्ज्याशेषं वर्षशतमनामयो जरारहितः| जीवति बलपुष्टिवपुःस्मृतिमेधाद्यन्वितो विशेषेण||२७||

🔊 Audio coming soon

स०- अभयामलकानां सहस्रं दृढं कणासहस्रान्वितमजीर्णपलाशक्षारद्रवीकृतं भाजने स्थापयेत्| क्षारे चोपयुक्ते सति छायायां शुष्कं चूर्णितं च शर्करायाश्चतुर्थांशेन चतुर्गुणाभ्यां घृतमाक्षीकाभ्यां योज्यम्| एतद्घृतकुम्भे निधाय भूमौ षण्मासस्थितं समुद्धृत्य पूर्वाह्णे यथाग्नि भुक्त्वा सात्म्याहारः सदा स्यात्| तिस्र आर्याः| एवमेतत्सर्वमुपयुज्य संवत्सरशतं नीरोगो जरारहितो जीवति| विशेषेण बलादियुतः| गीतिरार्या|

Adhikarana AmalakaM rasAyanam (28-32) · Śloka 32

नीरुजार्द्रपलाशस्य छिन्ने शिरसि तत्क्षतम्| अन्तर्द्विहस्तं गम्भीरं पूर्यमामलकैर्नवैः||२८|| आमूलं वेष्टितं दर्भैः पद्मिनीपङ्कलेपितम्| आदीप्य गोमयैर्वन्यैर्निर्वाते स्वेदयेत्ततः||२९|| स्विन्नानि तान्यामलकानि तृप्त्या खदेन्नरः क्षौद्रघृतान्वितानि| क्षीरं शृतं चानु पिबेत्प्रकामं तेनैव वर्तेत च मासमेकम्||३०|| वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनाऽपि| एकादशाहेऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश्च||३१|| अथाल्पकैरेव दिनैः सुरूपः स्त्रीष्वक्षयः कुञ्जरतुल्यवीर्यः| विशिष्टमेधाबलबुद्धिसत्त्वो भवत्यसौ वर्षसहस्रजीवी||३२||

🔊 Audio coming soon

स०-नीरुजो-जन्त्वादिभिरनुपद्रुतो, यः पलाशस्तस्य शिरसि छिन्नेऽन्तर्द्विहस्तमात्रं तत्क्षतं-सुषिरीकृतं, गम्भीरं नवैरामलकैः पूरणीयम्| पूर्णं यावद्दर्भैर्वेष्टितं पद्मिनीकर्दमेन लेपितं तत आरण्यैर्गोमयैरादीप्य निवाते स्वेदयेत्| तानि चामलकानि स्विन्नानि क्षौद्रघृतयुतानि तृप्त्या पुरुषः खादेत्| पश्चाद्दुग्धं क्वथितं बहु पिबेत्| तेनैव च दुग्धेन मासमेकं वर्तेत| इन्द्रवज्रा| रसायनविधौ यान्युक्तानि क्षारादीनि वर्ज्यानि तानि परिहर्तव्यानि यत्नेन| हस्तेनापि शिशिरं जलं न स्पर्शयितव्यम्| ततोऽस्य रसायनविधातुरेकादशेऽह्नि व्यतिक्रान्ते केशादयः पतन्ति| ततोऽल्पकैरेव दिनै रूपवांस्तरुणीविषय अक्षयशक्तिर्गजसमानसामर्थ्य उत्कृष्टमेधादिरसौ भवति| वर्षसहस्रजीवी च| उपजाती वृत्ते|

Adhikarana cyavanaprAsho rasAyanam (33-41) · Śloka 41

दशमूलबलामुस्तजीवकर्षभकोत्पलम्| पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः||३३|| जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी| पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम्||३४|| विदारी वृषमूलं च तदैकध्यं पलोन्मितम्| जलद्रोणे पचेत्पञ्च धात्रीफलशतानि च||३५|| पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च| गृहीत्वा भर्जयेत्तैलघृताद् द्वादशभिः पलैः||३६|| मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्| स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुष्पलम्||३७|| पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम्| अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः||३८|| इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः| जराजर्जरितोऽप्यासीन्नारीनयनन्दनः||३९|| कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्| मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति||४०|| बालवृद्धक्षतक्षीणकृशानामङ्गवर्धनः| मेधां स्मृतिं कान्तिमनामत्व- मायुःप्रकर्षं पवनानुलोम्यम्| स्त्रीषु प्रहर्षं बलमिन्द्रियाणा- मग्नेश्च कुर्याद्विधिनोपयुक्तः||४१||

🔊 Audio coming soon

स०-दशमूलादिकं पलोन्मितमैकध्यं तोयद्रोण आमलकशतानि पञ्च पचेत्| तस्माच्चतुर्थाशं रसं विगतास्थीनि चामलकान्यादाय तैलघृतयोः प्रत्येकं द्वादशभिः पलैर्भर्जयेत्| शर्करातुलार्धेनान्वितं तदेतत्सर्वं लेहमिव पचेत्| स्नेहस्यार्धं पक्वे शीते मधु तथा तवक्षीरीचतुष्पलं कणाद्विपलं कणार्धेन चतुर्जातं च दद्यात्| अतो-लेहात्, मात्रां कुटीस्थितः पथ्यान्यश्नन्नव लेहयेत्| इति-एवं प्रकारः, अयं च्यवनप्राशाख्यो लेहः| यं लेहं, प्राश्य च्यवनसंज्ञो मुनिर्जराक्रान्तोऽपि तरुणीलोचनरञ्जन असीत्| अयं लेहः कासादीन् व्यपोहति| "उपसर्गादस्यत्यूह्योर्वा वचनम् (र्वेति वाच्यम्)" इति तङ्| बालादीनामङ्गवृद्धिकृत्| मेधादींश्च विदध्यात् विधिना रसायनोक्तेनोपयुक्तोऽयम्| इन्द्रवज्रावृत्तम्|

Adhikarana triPalA rasAyanam (42-43) · Śloka 43

मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना| पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा||४२|| सितया वा समा युक्ता समायुक्ता रसायनम्| त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा||४३||

🔊 Audio coming soon

स०-मधुकेन समा-तुल्या, युक्ता त्रिफला तथा समैः सर्वैः, युक्ता-उपयुक्ता, रसायनं सर्वरोगघ्नी मेधादिदा च स्यात्| तवक्षीर्यादीनां प्रत्येकं त्रिफलाङ्गत्वेन रसायनानि निरुप्याणि| सिन्धुजन्मना-सैन्धवेन, लोहाः-रूप्यं ताम्रं सीसं त्रपु अय इति पञ्च, तैः सुवर्णेन च, पृथग्युक्ता वरा रसायनमिति योज्यम्| मधुसर्पिषेत्येकवचननिर्देशाद् द्वाभ्यामपि युगपद्योग एकं रसायनं वेद्यम्|

Adhikarana maNDUkaparNyAdIni rasAyanam (44-45) · Śloka 45

मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम्| रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः||४४|| अयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि| मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी||४५||

🔊 Audio coming soon

स०-मण्डूकपर्णीस्वरसं प्रयुञ्जीत, अग्निबलापेक्षया| दुग्धेन मधुयष्टीचूर्णं युञ्जीत| तथा गुडूच्या रसं प्रयुञ्जीत| तथा सह मूलपुष्पाभ्यां वर्तते सहमूलपुष्पी, तस्याः शङ्खपुष्प्याश्च कल्कं प्रयुञ्जीत| इत्येतानि रसायनान्यायुष्प्रदानि रोगघ्नानि बलादि वर्धनानि मेधायै हितानि च| अतिशयेन शङ्खपुष्पी मेध्या| उपजाती वृत्ते|

Adhikarana naladAdi ; vAgmitvAdi karam (46-47) · Śloka 47

नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः| त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः||४६|| त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्| उपयुज्य भवेज्जडोऽपि वाग्मी श्रुतधारी प्रतिभानवानरोगः||४७||

🔊 Audio coming soon

स० -नलदादिभिः सुपिष्टैः सामान्यपरिभाषोक्तप्रमाणात्त्रिगुणेन शङ्खपुष्पीरसेन घृतस्याढकं(स्य द्रोणं) क्षीरसहितं विपक्वं प्रश्य जडोऽपि नरो वाग्मी श्रुतधरः सप्रतिभो निरामयश्च स्यात्| औपच्छन्दसिके वृत्ते|

Adhikarana pa~jcAravindaM rasAyanam pauruShAdikaram (48) · Śloka 48

पैष्यैर्मृणालबिसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः| पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्||४८||

🔊 Audio coming soon

स०-मृणालादिभिः कल्कैः सुवर्णशकलान्वितं हैयंगवीनं सक्षीरं पक्वं पञ्चारविन्दमिति पञ्चारविन्दानि यस्मिन्निति समासः, एवमग्रेऽपि कार्यः| एतद्घृतं नष्टशुक्रादिभिर्निषेवितव्यम्, एतन्निषेवणे नैताने स्युरित्यर्थः|

Adhikarana catuShkuvalayaM rasAyanam medhyam (49) · Śloka 49

यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं द्वितीयम्| सर्पिश्चतुष्कुवलयं सहरिण्यपत्रं मेध्यं गवामपि भवेत् किमु मानुषाणाम्||४९||

🔊 Audio coming soon

स०-यद्घृतं नीलोत्पलस्य नालादिमत् काञ्चनशकलान्वितं सक्षीरं विपक्वं तदपि चतुष्कुवलयं प्रसिद्धम्| गवामपिजडानामपि, एतन्मेध्यम्| किं पुनर्मानुषाणाम् ? तेषां समेधानामतिशयेनेत्यर्थः| वसन्ततिलके वृत्ते|

Adhikarana brAhmyAdi rasAyanamkuShThAdinGnam (50-53) · Śloka 53

ब्राह्मीवचासैन्धवशङ्खपुष्पी- मत्स्याक्षकब्रह्मसुवर्चलैन्द्र्यः| वैदेहिका च त्रियवाः पृथक्स्यु- र्यवौ सुवर्णस्य तिलो विषस्य||५०|| सर्पिषश्च पलमेकत एत- द्योजयेत्परिणते च घृताढ्यम्| भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधः||५१|| अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः| जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान्||५२|| विशेषतः कुष्ठकिलासगुल्म विषजवरोन्मादगरोदराणि| अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः||५३||

🔊 Audio coming soon

स०-ब्राम्ह्यादयस्त्रियवप्रमाणाः पृथक् स्युः| मत्स्याक्षकःपत्तूरः| सुवर्णस्य यवौ द्बौ| तिल एको विषस्य| घृतस्य च पलम्| एतदेकतो योजयेत्| जीर्णे चास्मिन् भेषजे बहुघृतं भोजनं समाक्षिकं योजयेत्| एवं वर्षं शीलयन् विपुलबुद्ध्यादिकः स्यात्| उपजातिस्वागते वृत्ते| जरादिरहितः पूर्णलक्ष्यादिको वर्षशतं जीवति| विशेषेण कुष्ठादयोऽनेन शाम्यन्ति, अतिबला वाताश्च| उपजातिः|

Adhikarana nAdabalArasAyanam (54-55) · Śloka 55

शरन्मुखे नागबलां पुष्ययोगे समुद्धरेत्| अक्षमात्रं ततो मूलाच्चूर्णितात्पयसा पिबेत्||५४|| लिह्यान्मधुघृताभ्यां व क्षीरवृत्तिरनन्नभुक्| एवं वर्षप्रयोगेण जीवेद्वर्षशतं बली||५५||

🔊 Audio coming soon

स०-शरदादौ पुष्यनक्षत्रे नागबलामूलं समुद्धरेत्| तस्मान्मूलाच्चूर्णितादक्षमात्रं-कर्षमात्रं, दुग्धेन पिबेत्, माक्षिकाज्याभ्यां वा लिह्यात्, क्षीरवर्तनोऽनन्नाशी| एवं वर्षप्रयोगेण बलवान् सन् वर्षशतं जीवेत्|

Adhikarana gokShurakarasAyanam (56-57) · Śloka 57

फलोन्मुख़ो गोक्षुरकः समूल- श्छायाविशुष्कः सुविचूर्णिताङ्गः| सुभवितः स्वेन रसेन तस्मा- न्मात्रां परां प्रासृतिकीं पिवेद्यः||५६|| क्षीरेण तेनैव च शालिमश्नन् जीर्णे भवेत्स द्वितुलोपयोगात्| शक्तः सुरूपः सुभगः शतायुः कामी कुकुद्मानिव गोकुलस्थः||५७||

🔊 Audio coming soon

स०-गोक्षुरकः फलाभिमुखो मूलयुतश्छायाविशुष्कः श्लक्ष्णचूर्णितः स्वरसेन सुभाबितः| तस्मात्-गोक्षुरकात्, मात्रां प्रासृतिकीं परां यः क्षीरेण पिबेत्, परिणते तस्मिन् दुग्धेनैव च शालीन् भक्षयेत्, स पुरुषः पलशतद्वयोपयोगात् शक्त्यादिगुणः स्यात्| उपजातीन्द्रवज्रावृत्ते|

Adhikarana vArAhIkandarasAyanAni (58-59) · Śloka 59

वाराहीकन्दमाऱ्द्राद्रं क्षीरेण क्षीरपः पिबेत्| मासं निरन्नो मासं च क्षीरान्नादो जरां जयेत्||५८|| तत्कन्दश्लक्ष्णचूर्णं वा स्वरसेन सुभावितम्| घृतक्षौद्रप्लुतं लिह्यात्तत्पक्वं वा घृतं पिबेत्||५९||

🔊 Audio coming soon

स०-वाराह्याः-वृद्धदारकस्य, मूलमत्यार्द्रं दुग्धेन मासं पिबेत्| जीर्णेऽपि क्षीरपो निरन्नः स्यात्| अपरं च मासं क्षीरान्नाशी सन् जरां जयति| सं-तस्याः-वाराह्याः, मूलं श्लक्ष्णचूर्णं वा स्वरसेन सुष्ठु भावितं घृतमाक्षिकाप्लुतं लिह्यात्| तेन वा मूलकल्केन पक्वं घृतं पिबेत् पूर्वगुणम्|

Adhikarana vidAryAdirasAyanAni (60-61) · Śloka 61

तद्वद्विदार्यतिबलाबलामधुकवायसीः| श्रेयसीश्रेयसीयुक्तापथ्याधात्रीस्थिरामृताः||६०|| मण्डूकीशङ्खकुसुमावाजिगन्धाशतावरीः| उपयुञ्जीत मेधाधीवयः स्थैर्यबलप्रदाः||६१||

🔊 Audio coming soon

स०-विदार्यादींश्च पृथक् पृथक् तद्वत्-वृद्धदारकवत् सर्पिर्दुग्ध(र्मधु)युतान्, मेधाद्यावहानुपयुञ्जीत| ततश्चोपयुक्ता वयःस्थैर्यादिप्रदाः स्युः|

Adhikarana citrakarasAyanam (62-65) · Śloka 65

यथास्वं चित्रकः पुष्पैर्ज्ञेयः पीतसितासितैः| यथोत्तरं स गुणवान् विधिना च रसायनम्||६२|| छायाशुष्कं ततो मूलं मासं चूर्णीकृतं लिहन्| सर्पिषा मधुसर्पिर्भ्यां पिबन् वा पयसा यतिः||६३|| अम्भसा वा हितान्नाशी शतं जीवति नीरुजः| मेधावी बलवान् कान्तो वपुष्मान् दीप्तपावकः||६४|| तैलेन लीढो मासेन वातान् हन्ति सुदुस्तरान्| मूत्रेण श्वित्रकुष्ठानि पीतस्तक्रेण पायुजान्||६५||

🔊 Audio coming soon

स०-चित्रको यथायोगं पुष्पैः पीतैः शुक्लैः कृष्णैश्च यथोत्तरं गुणवान् वेदितव्यः| विधिना च प्रयुक्तो रसायनं स्यात्| सं-तस्माच्चित्रकात् मूलं छायाशुष्कं मासं चूर्णीकृतं घृतेन मधुघृताभ्यां वा लिह्यात्| पयसा वा ब्रह्मचारी पिबेत्| पानीयेन वा हितान्नभोजनः सन् पिबेत्| सुखी मेधावान् बलवान् रमणीयो वपुष्मान् दीप्ताग्निः समाः शतं जीवति| सं-तैलेन लीढश्चित्रको मासेन दारुणान् वातान् जयति| गोमूत्रेण पीतः श्वित्रकुष्ठानि हन्ति| तक्रेण पीतोऽर्शांसि जयेत्|

Adhikarana BallAtakasahasrarasAyanam (66-71) · Śloka 71

भल्लातकानि पुष्टानि धान्यराशौ निधापयेत्| ग्रीष्मे संगृह्य हेमन्ते स्वादुस्निग्धहिमैर्वपुः||६६|| संस्कृत्य तान्यष्टगुणे सलिलेऽष्टौ विपाचयेत्| अष्टांशशिष्टं तत्क्वाथं सक्षीरं शीतलं पिबेत्||६७|| वर्धयेत्प्रत्यहं चानु तत्रैकैकमरुष्करम्| सप्तरात्रत्रयं यावत् त्रीणि त्रीणि ततः परम्||६८|| आचत्वारिंशतस्तानि ह्रासयेद्द्वृद्धिवत्ततः| सहस्रमुपयुञ्जीत सप्ताहैरिति सप्तभिः||६९|| यन्त्रितात्मा ग़ृतक्षीरशालिषष्टीकभोजनः| तद्वत्त्रिगुणितं कालं प्रयोगान्तेऽपि चाचरेत्||७०|| आशेषो लभतेऽपूर्वा वह्नेर्दीप्तिं विशेषतः| प्रमेहकृमिकुष्ठार्शोमेदोदोषविवर्जितः||७१||

🔊 Audio coming soon

स०-भल्लातकानि सुनिष्पन्नानि ग्रीष्मे संगृह्य धान्यराशौ निधापयेत्| हेमन्ते मधुरस्निग्धशीतलैः संस्कृतशरीरस्तान्यष्टावष्टगुणे जले क्वाथयेत्| तत्क्वाथमष्टांशशेषं क्षीरसहितं शीतं पिबेत्| पश्चात्तस्मिन् प्रतिदिनं चैकैकं भल्लातकं वर्धयेत्-अधिकीकृत्य क्वाथयेदित्यर्थः| सप्तरात्रत्रयं यावत्| सप्तरात्रत्रयात् परतस्त्रीणि त्रीण्यरुष्कराणि चत्वारिंशतं यावद्वर्धयेत्| अनन्तरं तानि-अरुष्कराणि, वृद्धिवद्ध्रासयेत्| इति-एवं, सप्तभिः सप्ताहैः सहस्रमुपयुञ्जीत| यन्त्रितात्मा पुरुषो घृतक्षीरशालिषष्टिकभोजनः| तथैव च भल्लातकप्रयोगान्त एकविंशतिसप्ताहान् घृतक्षीरशालिषष्टिकभोजनं कुर्यात्| एवं कृतभल्लातकप्रयोगोऽपूर्वाः-अभिलषिता दयिताः, आशिषो लभते, तथा विशेषेण वह्निपाटवम्| प्रमेहादिवर्जितश्च स्यात्|

Adhikarana bhallAtakasvarasarasAyanam (72-74) · Śloka 74

पिष्टस्वेदनमरुजैः पूर्णं भल्लातकैर्विजर्जरितैः| भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृल्लिप्तम्||७२|| परिवारितं समन्तात्पचेत्ततो गोमयाग्निना मृदुना| तत्स्वरसो यश्च्यवते गृह्णीयात्तं दिनेऽन्यस्मिन्||७३|| अमुमुपयुज्य स्वरसं मध्वष्टमभागिकं द्विगुणसर्पिः| पूर्वविधियन्त्रितात्मा प्राप्नोति गुणान् स तानेव||७४||

🔊 Audio coming soon

स०-पिष्टं शालिचूर्णं स्वेद्यतेऽस्मिन्निति पिष्टस्वेदनं,- भाण्डम्| तदरुजैः-दृढैः, भल्लातकैस्तथा विजर्जरितैः पूर्णं सत् कृतच्छिद्रं भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृत्तिकया लिप्तमनन्तरं गोमयाग्निना मृदुना परिवारितं पचेत्| तत्स्वरसो यस्तत्र धरानिखाते कुम्भे पतेत्, तमन्यस्मिन्नहनि गृह्णीयात्| अमुं-पूर्वोक्तं, स्वरसं माक्षिकाष्टमभागं द्विगुणघृतं पूर्वविधिना यन्त्रितात्मा सन्नुपयुज्य, तानेव-पूर्वोक्तान्, गुणान् प्राप्नोति| आर्यास्तिस्रः, मध्यमाऽत्र मुखचपला|

Adhikarana bhallAtakaghRutarasAyanam (75-78) · Śloka 78

पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि| घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन||७५|| जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्| तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे||७६|| सर्पिः पक्वं तत्र तुल्यप्रमाणं युञ्ज्यात्स्वेच्छं शर्कराया रजोभिः| एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्||७७|| तममृतरसपाकं यः प्रगे प्राशमश्नन् अनु पिबति यथेष्टं वारि दुग्धं रसं वा| स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिचयगौरः सोऽश्नुते दीर्घमायुः||७८||

🔊 Audio coming soon

स०-सुनिष्पन्नानि भल्लातकानि पाकेन परिच्युतान्याढकसम्मितानि इष्टिकाचूर्णकणैर्घृष्टानि जलेन प्रक्षाल्य, मारुतेन संशोष्य-न त्वातपे, ततो जर्जराणि जलद्रोणे विपचेत्| पादशेषधृतगालितं शीतं च तद्रसं पुनरपि क्षीरद्रोणसहितं पचेत्| [तत्र-] तस्मिन् पादशेषस्थे, तुल्यप्रमाणं सर्पिः पक्वं शर्कराचूर्णेन युतं यथेच्छं प्रकृत्यादिवशाद्युञ्जीत| तच्च खजलोडनेनैकीभूतं धान्यमध्ये सप्तरात्रं सुगुप्तं स्थाप्यम्| इन्द्रवज्रास्वागताशालिन्यो वृत्तानि| तममृतरसतुल्यपाकं यः पूर्वाह्णे प्राशं-लेहं, भक्षयन् पश्चाद्यथेष्टं जलं क्षीरं मांसरसं वा पिबति, स स्मृत्यादियुतः सुवर्णौघगौरो दीर्घमायुः प्राप्नोति| मालिनी|

Adhikarana bhallAtakasiddhatailaM kuShThaghnam (79) · Śloka 79

द्रोणेऽंभसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्| तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिबर्हणाय||७९||

🔊 Audio coming soon

स०-जलद्रोणे व्रणकृतां भल्लातकानां शतत्रयाद्विपक्वात् क्वाथस्याढकेऽवशिष्टे तिलतैलाढकं तिक्तादिभिः पालिकैः कल्कितैः पक्वं निःशेषकुष्ठनिषूदनाय परं-श्रेष्ठम्| वसन्ततिलकम्|

Adhikarana bhallAtako AmalakashuktyAdibhirAyuShkaraH (80) · Śloka 80

सहामलकशुक्तिभिर्दधिसरेण तैलेन वा गुडेन पयसा घृतेन यवसक्तुभिर्वा सह| तिलेन सह माक्षिकेण पललेन सूपेन वा वपुष्करमरुष्करं परममेध्यमायुष्करम्||८०||

🔊 Audio coming soon

स०-आमलकत्वगादिभिरेकादशभिः सह प्रत्येकं भल्लातकमुपयुक्तं प्रशस्तशरीरकरणकारणम्| तथा परं-अतिशयेन, मेध्यमायुष्प्रदं च स्यात्| पृथ्वीवृत्तम्|

Adhikarana bhallAtako yathAvidhiprayukto~amRutakalpaH (81) · Śloka 81

भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च| भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि||८१||

🔊 Audio coming soon

स०-भल्लातकानि तीक्ष्णानि सुनिष्पन्नानि दहनतुल्यानि तानि यथाविधि प्रयुक्तान्यमृततुल्यानि भवन्ति|

Adhikarana bhallAtakasya kaphajarogAdinAshatve prashaMsA (82) · Śloka 82

कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन| यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्||८२||

🔊 Audio coming soon

स०-श्लेष्मोत्थो रोगः स नास्ति, विबन्धश्च स कश्चिदपि न विद्यते, यं-रोगं विबन्धं वा, भल्लातकं द्रुततरं पटुतरदहनकरं न हन्यात्|

Adhikarana BllAkasya vAtArapavidhAne~api kulatthAdi varjanam (83) · Śloka 83

वातातपविधानेऽपि विशेषेण विवर्जयेत्| कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्||८३||

🔊 Audio coming soon

स०-वातातपविधावपि भल्लातकस्य कुलत्थादीनि विशेषेण वर्जयेत्|

Adhikarana tuvarakatailaM kuShThaghnam (84-91) · Śloka 91

वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः| वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः||८४|| तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे| मज्ज्ञः फलेभ्यश्चादाय शोषयित्वाऽवचूर्ण्य च||८५|| तिलवत् पीडयेद् द्रोण्यां, क्वाथयेद्वा कुसुम्भवत्| तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्||८६|| अवतार्य करीषे च पक्षमात्रं निधापयेत्| स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य तत्ततः||८७|| चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्| मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे||८८|| "मज्जसार महावीर्य सर्वान् धातून् विशोधय| शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः||८९|| तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः| सायमस्नेहलवणां यवागूं शीतलां पिबेत्||९०|| पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यान् विवर्जयन्| पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते||९१||

🔊 Audio coming soon

स०-तुवरसंज्ञा वृक्षास्तुवरकाः पश्चिमसमुद्रतटोद्भूताः| वीचीत्यादिना विशेषणेन तोयनिधिनिकटतरत्वं प्रतिपादयति| तेभ्यो वृक्षेभ्यो जलदागमे सुपक्वानि फलानि गृह्णीयात्| फलेभ्योऽपि मज्ज्ञो गृहीत्वा शोषयित्वा सुष्ठु चूर्णयित्वा च तिलवद् द्रोण्यां पीडयेत्| कुसुम्भवद्वा क्वाथयेत्ज्| तच्च तैलं सिद्धं पुनः पचेत्तोयक्षयं यावत्| पक्वं चावर्ताय करीषे मासार्धं निधापयेत्| यन्त्रपीडितं तु प्रकृत्यैव निस्तोयं तैलं तदक्वथितमेव निधापयेत्| ततः-पक्षादनन्तरं, तैलमुद्द्धृत्य स्निग्धस्विन्नो हृतदोषो मन्त्रेणानेन मज्जसारेत्यादिना पवित्रितस्य तैलस्य शुभदिवसे चतुर्थेन भक्तेनान्तरितोऽहर्मुखे कर्षं पिबेत्| तेन तैलेनास्य पुंस ऊर्ध्वमधश्च पुनः पुनर्दोषा यान्ति| अनन्तरमपराह्णेऽस्नेहलवणां यवागूं शिशिरां पिबेत्| इत्थं-अनेन प्रकारेण, परिहार्यान् परिहरन् पञ्च दिवसानि तैलं पिबेत्| पक्षं मुद्गरसान्नभोजनः सर्वकुष्ठैर्विमुच्यते|

Adhikarana tuvarakatailaM khadirakvAthasiddhaM kuShThaghnam (92-93) · Śloka 93

तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्| निहितं पूर्ववत्पक्षं पिबेन्मासं सुयन्त्रितः||९२|| तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्| | भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्| ] अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरम्||९३||

🔊 Audio coming soon

स०-तदेव-तुवरास्थितैलं, खदिरक्वाथेन त्रिगुणेन सम्यक्पक्वं पूर्ववत्-करीषे पक्षं निहितं, मासं सुयन्त्रितः पिबेत्| तेन च तैलेनाभ्यक्तशरीरो भोजनं पूर्वोक्तं मुद्गरसान्नं विदध्यात्| एतेन प्रयोगेण शीघ्रं कुष्ठवन्तं पुरुषमुपक्रमेत्|

Adhikarana tuvarakatailaM sarpirmadhuyutaM dvishatAyuShkaram (94) · Śloka 94

सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना| पक्षं मांसरसाहारं करोति द्विशतायुषम्||९४||

🔊 Audio coming soon

स०-तदेव-तुवरास्थितैलं, खदिरमन्तरेण घृतमधुयुतं पक्षं पीतं सन्मांसरसाहारं नरं द्विशतायुषं विधत्ते|०

Adhikarana tuvarakatailaM nasyopayojitaM trishatAyuShkaram (95) · Śloka 95

तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्| | वलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजम्| ] वपुष्मतं श्रुतधरं करोति त्रिशतायुषम्||९५||

🔊 Audio coming soon

स०-तदेव तैलं नस्ये पञ्चाशद्वासरान् सेवितं वरशरीरं श्रुतधरं त्रिवर्षशतायुषं पुरुषं करोति|

Adhikarana pippalIrasAyanam (96) · Śloka 96

पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा| रसायनगुणान्वेषी समामेकां प्रयोजयेत्||९६||

🔊 Audio coming soon

स०-पञ्च पिप्पलीरथवा सप्ताष्टौ वा दश वा माक्षिकसर्पिर्भ्यां रसायनगुणमभिलष्य वर्षमेकं प्रयोजयेत्|

Adhikarana anyaM pippalI rasAyanam (97-98) · Śloka 98

तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च| पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः||९७|| प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा| |९८|

🔊 Audio coming soon

स०-पलाशक्षारभाविताः पिप्पल्यः सर्पिषा भर्जिता माक्षिकान्वितास्तिस्रः पूर्वाह्णे, तिस्रो भुक्त्वा, तिस्रो भोजनस्याग्रे, प्रयोज्याः रसायनगुणं कामयमानेन|

Adhikarana vardhamAnapippalIsahasram (98-1) · Śloka 1

| क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्||९८|| वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः| जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा||९९|| पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्| पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः||१००|| | शीतीकृता हीनबलैर्वीक्ष्य दोषामयान् प्रति| ]||१||

🔊 Audio coming soon

स०-दश दिनानि दशपैप्पलिकं दिनं क्रमवृद्द्या क्षीरेण सह योजयेत्, वर्धमाना दश पिप्पलीः प्रयोजयेदित्यर्थः| तथैव दशपैप्पलिकं दिनं पयसा सहापनयेत्| परिणतभेषजश्च षष्टिकं दुग्धघृतेनाद्यात्| अयं-एवंप्रकारः, सहस्रपिप्पलीनां प्रयोगो रसायनं स्यात्| ताः-पिप्पल्यः, पिष्टाः सत्यो बलवद्भिर्नरैः पातव्याः, मध्यबलैर्नरैः क्वथिताः पेयाः|

Adhikarana vardhamAnapippalIsahasradvayam (101) · Śloka 101

तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्| |१०१|

🔊 Audio coming soon

स०-तद्वच्चेति अनेनैव क्रमेण छागक्षीरेण सह द्वे सहस्रे प्रयोजयेत्|

Adhikarana eShAM pippalIprayogANAM phalam (101-102) · Śloka 102

| एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्||१०१|| यक्ष्ममेहग्रहण्यर्शःपाण्डुत्वविषमज्वरान्| घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्||१०२||

🔊 Audio coming soon

स०-एभिः-पूर्वोक्तैः प्रयोगैः, पिप्पल्य उपयुक्ताः कासादींश्छोफादींश्च जयन्ति|

Adhikarana lohapAtralIptapippalI prayogaH (103) · Śloka 103

बिल्वार्धमात्रेण च पिप्पलीनां पात्रं प्रलिम्पेदयसो निशायाम्| प्रातः पिबेत्तत्सलिलाञ्जलिभ्यां वर्षं यथेष्टाशनपानचेष्टः||१०३||

🔊 Audio coming soon

स०-पिप्पलीकर्षद्वयमात्रेण निशायां लोहपात्रं लिम्पेत्| तच्च जलाञ्जलियुगेन प्रातः पिबेत् संवत्सरं स्वेच्छाभोजनपानक्रियः| एतच्च रसायनं पूर्वगुणम्| इन्द्रवज्रा व्रत्तम्|

Adhikarana lohapAtralIptanAM shuNThacAdInAM prayogaH (104-105) · Śloka 105

शुण्ठीविडङ्गत्रिफलागुडूची- यष्टीहरिद्रातिबलाबलाश्च| मुस्तासुराह्वागुरुचित्रकाश्च सौगन्धिकं पङ्कजमुत्पलानि||१०४|| धवाश्वकर्णासनबालपत्र- सारास्तथा पिप्पलिवत् प्रयोज्याः| लोहोपलिप्ताः पृथगेव जीवे- त्समाः शतं व्याधिजराविमुक्तः||१०५||

🔊 Audio coming soon

स०-शुण्ठ्यादीन् पृथगेव पिप्पलीरिव लोहोपलिप्तानुपयुज्य वर्षशतं रोगजरारहितो जीवति|

Adhikarana eShAM rasAyanAnAM dviguNaprakarShakaraH prayogaH (106) · Śloka 106

क्षीराञ्जलिभ्यां च रसायनानि युक्तान्यमून्यायसलेपनानि| कुर्वन्ति पूर्वोक्तगुणप्रकर्ष- मायुःप्रकर्षं द्विगुणं ततश्च||१०६||

🔊 Audio coming soon

स०-अमूनि-पूर्वोक्तानि रसायनानि, लोहलेपनानि क्षीराञ्जलिभ्यां-दुग्धपलाष्टकेन, उपयुक्तानि पूर्वोक्तगुणातिशयमायुः प्रकर्षं च ततो द्विगुणं विदधति| आद्यन्ते इन्द्रवज्राख्ये, मध्यमं तूपजातिः|

Adhikarana somarAjIrasAyanam (107) · Śloka 107

असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेतां| शरदमवलिहानः पारिणामान् विकारां- स्त्यजति मितहिताशी तद्वदाहारजातान्||१०७||

🔊 Audio coming soon

स०-असनादिक्वाथेन भावितां बाकुचीं माक्षिकादिभिर्युक्तां वर्षमविलहन् पारिणामान्-वयःपरिणतिजान्, विकारान् जहाति| तथा हितमितभोजन आहारजान् विकारांस्त्यजति| मालिनी|

Adhikarana anyaM somarAjIrasAyanam kuShThaghnam (108) · Śloka 108

तीव्रेण कुष्ठेन परीतमूर्ति- र्यः सोमराजीं नियमेन खादेत्| संवत्सरं कृष्णतिलद्वितीयां स सोमराजीं वपुषाऽतिशेते||१०८||

🔊 Audio coming soon

स०-दारुणेन कुष्ठेन व्याप्तदेहो यः शशाङ्कलेखां कृष्णतिलयुतां नियमेन वत्सरं भक्षयेत्, स चन्द्रकान्तिं शरीरेण जयेत्| उपजातिः|

Adhikarana anyaM somarAjIrasAyanam kuShThaghnam (109-110) · Śloka 110

ये सोमराज्या वितुषीकृताया- श्चूर्णैरूपेतात् पयसः सुजातात्| उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते||१०९|| कुष्ठिनः शीर्यमाणाङ्गास्ते जाताङ्गुलिनासिकाः| भान्ति वृक्षा इव पुनः प्ररूढनवपल्लवाः||११०||

🔊 Audio coming soon

स०-ये पुरुषा वितुषीकृताया इन्दुराज्याश्चूर्णैर्युक्तात् क्षीरात् सुजातात् सारं-नवनीताख्यं, उद्धृत्य माक्षिकेण सह लिहन्ति, पश्चात् तदेव तक्रं च ये पिबन्ति, ते कुष्ठवन्तः शीर्यमाणशरीराः समुद्भूताङ्गुलिघ्राणाः शोभन्ते| तरव इव भूयः सञ्जातप्रत्यग्रपल्लवाः| इन्द्रवज्रा|

Adhikarana rasonasyotpattiH (1-112) · Śloka 112

| शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम्| भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य||१|| ] राहोरमृतचौर्येण लूनाद्ये पतिता गलात्| अमृतस्य कणा भूमौ ते रसोनत्वमागताः||१११|| द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्| साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्||११२||

🔊 Audio coming soon

अथ लशुनकल्पमाचष्टे- सं-स्वर्भानोरमृतापहरणापराधेन कण्ठाच्छिन्नाद्येऽमृतस्य बिन्दवो धरित्र्यां पतितास्ते लशुनत्वं प्राप्ताः| य(अ)-अस्माद्धेतोः, दैत्यदेहोत्थं लशुनमतो द्विजा न भक्षयन्ति| साक्षाच्चामृतसम्भूतत्वाद्धेतोरसौ रसोनो रसायनं ग्रामणीः श्रेष्ठः|

Adhikarana doShovisheSheNa lashunashIlanakAlaH (113-114) · Śloka 114

शीलयेल्लशुनं शीते, वसन्तेऽपि कफोल्बणः| घनोदयेऽपि वार्तातः, सदा वा ग्रीष्मलीलया||११३|| स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः| तदुत्तंसावतंसाभ्यां चर्चितानुचराजितः||११४||

🔊 Audio coming soon

स०-शीते-हेमन्तशिशिरयोः, लशुनं शीलयेत्| कफाधिको वसन्तेऽपि शीलयेत्| वातोत्तरो वर्षास्वपि शीलयेत्| सर्वदैव वा वातार्तौ ग्रीष्मर्तुचर्याचरणेन शीलयेत्| कीदृशः सन् ? स्निग्धा शुद्धा च तनुर्यस्य स एवम्| तथा शीतलैर्मधुरैश्चोपस्कृतः-संस्कृतः, आशयो यस्य स एवम्| तथा तस्य-लशुनस्य, शेखरकर्णपूराभ्यां मण्डिता अनुचराः-सेवकाः, अङ्गणे यस्य स तथा|

Adhikarana lashunasvarasavidhiH kaNThanADIshuddhaye (115-119) · Śloka 119

तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्| अपनीतत्वचो रात्रौ तिमयेन्मदिरादिभिः||११५|| तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्| मदिरायाः सूरूढायास्त्रिभागेन समन्वितम्||११६|| मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा| तत्काल एव वा युक्तं युक्तमालोच्य मात्रया||११७|| तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्| क्वाथेन वा यथाव्याधि रसं केवलमेव वा||११८|| पिबेद्गण्डूषमात्रं प्राक् कण्ठनाडीविशुद्धये| |११९|

🔊 Audio coming soon

स०-तस्य-लशुनस्य, कन्दान् वसन्तऋतजांस्तथा हिमवेद्देशजांश्छकदेशजान् वा उद्धृतत्वचो रात्रौ मदिराबीजपूररसादिभिस्तिमयेत्-क्लेदयेत्| तत्कल्कस्य स्वरसं धौतवस्त्रपीडितं मदिरायाः सुरुढायास्त्रिभागेन युतं, मद्यादेर्वा त्रिभागेन युतं, अथवा तस्मिन्नेव काले सुरादिभिर्युतं, मात्रया-देशकालातुराद्यपेक्षिण्या, आलोच्य-निरूप्य, तैलादिभिर्वा पृथक् युक्तं यदि वा क्वाथेन यथाव्याधिवशाद्युक्तं, केवलमेव वा रसं, प्राक्-पूर्वं, गण्डूषमात्रं पिबेत् गलनाडीविशोधनाय|

Adhikarana lashunarasasevane vamimUrcCAyayormukhe shItalajasekaH lashunarasasevane vedanAyAM svedanam (119-120) · Śloka 120

| प्रततं स्वेदनं चानु वेदनायां प्रशस्यते||११९|| शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे| |१२०|

🔊 Audio coming soon

स०-वेदनायां सत्यां सततं स्वेदनं श्रेष्ठम्| तथा वमौ मूर्च्छाये च सहसा-झटित्येव, शीतलजलसेको मुखे शस्यते|

Adhikarana lashunarasasevane klamApAye sheSharasapAnam (120) · Śloka 120

| शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि||१२०||

🔊 Audio coming soon

स०-शेषं रसं क्लान्तेरपगम ओजसि स्थैर्यं प्राप्ते सति पिबेत्|

Adhikarana lashunarasasevane vidAhaparihArArthaM shItAnulepanAdi (121) · Śloka 121

विदाहपरिहाराय परं शीतानुलेपनः| धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः||१२१||

🔊 Audio coming soon

स०-विदाहोपशान्तयेऽतिशीतानुलेपनः स्यात्| तथा मुक्तामालिकाः कर्पूतमालिकाश्च सजलकणा धारयेत्|

Adhikarana lashunarasasevane parAmAtrAdi (122) · Śloka 122

कुडवोऽस्य पर मात्रा तदर्धं केवलस्य तु| पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक् च शीलयेत्||१२२||

🔊 Audio coming soon

स०-अस्योत्तमा मात्रा सुरासहितस्य कुडवः| केवलस्य तु रसस्य कुडवार्धं परं मात्रा| तन्मज्ज्ञः पिष्टस्य पलं परामात्रा| सभक्तं प्राक् चाहारात् तच्छीलयेत्|

Adhikarana lashunarasasevane jIrNaSAlyodanaBojanAdi (123) · Śloka 123

जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्| भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्||१२३||

🔊 Audio coming soon

स०-पुराणशालिभक्तं परिणते शङ्खादिवत् सितं यूषादिभिः सात्म्यादिवशात् भुञ्जीत|

Adhikarana lashunarasasevane madyAdipAnam (124) · Śloka 124

मद्यमेकं पिबेत्तत्र तृट्प्रबन्धे जलान्वितम्| अमद्यपस्त्वारनालं फलाम्बु परिसिक्थकाम्||१२४||

🔊 Audio coming soon

स०-तत्र च तृषि जातायां केवलं मद्यं जलयुतं पिबेत्| अमद्यपस्तु नरो धान्याम्लादीनि पिबेत्| परिसिक्थिका-सट्टकविशेषः, किट्टिरिति क्वचित्प्रसिद्धा|

Adhikarana lashunakalkarasAyanam (125) · Śloka 125

तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्| स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्||१२५||

🔊 Audio coming soon

स०-अथवा तस्य-लशुनस्य, कल्कं तुल्यघृतं खजेनालोडितं घृतभाण्डे स्थितं दशाहादूर्ध्वं भुञ्जीत| तथैव वसया सह स्थितं दशाहादूर्ध्वं भुञ्जीत|

Adhikarana lashunagarbhashUlyamAMsarasAyanam (126) · Śloka 126

विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्| निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघु तुच्छमश्नन्||१२६||

🔊 Audio coming soon

स०-विकञ्चुको-विगतत्वग्, यः प्राज्यः-प्रभूतो लशुनः, स गर्भो येषां तांस्तथाविधान्, तथा सहशूल्यमांसेन सशूल्यमांसान्, तथा नानाविधरुचकान्, ईदृशान् वा निमर्दकान् घृतशुक्तकान्वितान्, यथेच्छं लघु तथा तुच्छं-अल्पं, भुञ्जानः| उपेन्द्रवज्रावृत्तम्|

Adhikarana pittaraktavihInasamastAvaraNA vRuteshuddhe ca vAyau lashunAtparaM dravyaM na vidyates (127) · Śloka 127

पित्तरक्तविनिर्मुक्तसमस्तावरणावृते| शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्||१२७||

🔊 Audio coming soon

स०-वाते लशुनात्परमन्यद् द्रव्यं न विद्यते| किम्भूते ? पित्तरक्तविहीनसकलावरणावृते| शुद्धे-केवले वा, पवनेऽपरं द्रव्यं न विद्यते|

Adhikarana priyAmbuguDadugdhAdernarasya rasono vyApattaye (128) · Śloka 128

प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः| अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्||१२८||

🔊 Audio coming soon

स०-लशुनं प्रियजलादेर्नरस्य, मांसादिद्वेषिणः, तथाऽजीर्णमतितिक्षोः, निश्चयेन व्यापत्तये स्यात्|

Adhikarana lashunaprayogAnte mRudu virecanam (129) · Śloka 129

पित्तकोपभयादन्ते युञ्ज्यान्मृदु विरेचनम्| रसायनगुणानेवं परिपूर्णान् समश्रुते||१२९||

🔊 Audio coming soon

स०-लशुनप्रयोगान्ते च पित्तकोपभयात् मृदु-अतीक्ष्णं विरेचनं च कारयेत्| एवं-अनेन प्रकारेण युक्ते रसोने, रसायनगुणान् परिपूर्णान् प्राप्नोति| [ "आमाम्बुपानेक्षुविकारमत्स्ययानाध्ववातातपभाष्यचिन्ताः| स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत्|| पाण्डूदरोरःक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु| पैत्ते विकाऱ्रेऽक्षिगदेऽतिसारे क्षामे शरीरे च स वर्जनीयः||" इति वृद्धवाग्भटात्| रसोनस्योपरि एतानि विरुद्धानि| ]

Adhikarana shilAjatuna utpattiH (130) · Śloka 130

अधुना शिलाजतुकल्पं ब्रूते ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्| हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु||१३०||

🔊 Audio coming soon

स० -ग्रीष्मे ऋतौ गिरयो रवितप्ता जतुतुल्यं यत् वमन्तिक्षरन्ति, सुवर्णादयश्च ते षड्धातवश्च तेषां रसं, तत् शिलाजतु गद्यते|

Adhikarana shilAjatuna lakShaNam shilAjatuna prAshastyam (131) · Śloka 131

सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः| छेदनं च विशेषेण लौहं तत्र प्रशस्यते||१३१||

🔊 Audio coming soon

स०-सर्वं-षड्धातुजमपि, गिरिजं तिक्तकटुकं न चातिशयेनोष्णं पाके कटुकं छेदनं च विशेषेण| तत्र मध्ये लौहं शिलाजं प्रशस्यते|

Adhikarana shreShThasya shilAjatuna lakShaNam (132) · Śloka 132

गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्| स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम्||१३२||

🔊 Audio coming soon

स०-गोमूत्रगन्ध्यादिगुणं शिलाजतु वरं स्यात्|

Adhikarana lohapAtre shilAjatuna bhAvanA prakAraH (133-135) · Śloka 135

व्याधिव्याधितसात्म्यं समनुस्मरन् भावयेदयःपात्रे| प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्||१३३|| समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये| तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम्||१३४|| तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः| स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त||१३५||

🔊 Audio coming soon

स०-व्याधिश्च व्याधितश्च तयोः सात्म्यं-उपशयं, समनुस्मरन् लोहपात्रे गिरिजं भावयेत्| कथम् ? इत्याह-पूर्वं केवलजलेन धौतं ततः शुष्कं सत् क्वाथैर्भावनीयम्| सं-समं गिरिजं यस्मिन् भावनौषधे तदेवमष्टगुणे जले निःक्वाथ्यम्| तत्क्वाथेऽष्टांशशेषे पूतोष्णे सति शिलाजतु प्रक्षिपेत्| तत्समरसतां प्राप्तं शुष्कं पुना रसे प्रक्षिपेत्| एवं स्वैः स्वैः क्वाथैः सप्त वारान् भावनीयम्| आर्याश्चतस्रः|

Adhikarana shilAjatuna sevanavidhiH (136-138) · Śloka 138

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्| त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्||१३६|| फलत्रयस्य यूषेण पटोल्या मधुकस्य च| योगं योग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्||१३७|| शिलाजमेवं देहस्य भवत्यत्युपकारम्| गुणान् समग्रान् कुरुते सहसा व्यापदं न च||१३८||

🔊 Audio coming soon

स० -अथ गिरिजमेवं भावयित्वा स्निग्धस्य शुद्धस्य च नरस्य तिक्तकसाधितं घृतं दिवसत्रयमुपयुञ्जीत| ननु, यदि स्निग्धशुद्ध एवासौ, तत्किमिति पुनः सर्पिर्युज्यते ? ब्रूमः| कृतघृतस्य शिलाजतुविधानं सुतरां शस्तम्| तथा चोक्तम्-"यथा हि कवची शस्त्रं परेभ्यः सहतेऽधिकम्| तथा स्नेहाधिके गात्रे सेव्यमानं शिलाजतु||" इत्यादि| तथा एकैकेन वक्ष्यमाणेन सह, शैलजं त्र्यहमुपयुञ्ज्यात्| त्रिफलायाः क्वाथेन त्र्यहं, पटोल्याश्च क्वाथेन त्र्यहं, मधुयष्ट्याश्च क्वाथेन त्रिदिवसम्| अनन्तरं योग्यं योगं कालादीनपेक्ष्य प्रयोजयेत्| एवं अनेन विधिना, गिरिजं युक्तं शरीरस्योपकारकतरं स्यात्| सकलान् गुणान् विधत्ते| अक्स्मादेव च व्यापदं न करोति|

Adhikarana shilAjatuna hInamadhyottamo yogaH (139) · Śloka 139

एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम्| हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः||१३९||

🔊 Audio coming soon

सं-एकं सप्ताहं त्रिसप्ताहं सप्तसप्ताहमिति कालयोगः, कर्षमर्धपलं पलमिति मात्रायोगः, इति द्वयेऽप्यत्र यथाक्रमं हीनमध्योत्तमत्वम्| एकश्च त्रयश्च सप्त च तेषां सप्ताहमिति समासः| मुनिनाऽप्युक्तम् (च. चि. अ. १ पा. ३/५४)- "प्रयोगः सप्तसप्ताहास्त्रय एकश्च कालतः| निर्दिष्टस्त्रिविधस्तस्य वरो मध्योऽवरस्तथा|| पलमर्धपलं कर्षं मात्रा तस्य त्रिधामता|" इति|

Adhikarana rAsAyanaphalaH shilAjatuprayogaH (140-141) · Śloka 141

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्| युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः||१४०|| क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्| कुलत्थान् काकमाचीं च कपोतांश्च सदात्यजेत्||१४१||

🔊 Audio coming soon

स०-संस्कृतं-पवनादिहरैर्द्रव्यैर्भावितं, संस्कृते देहे-स्नेहनशोधनैः कृतसंस्कारे शरीरे, शिलाजतु प्रयुक्तं प्रयुक्तं ताम्रादिभिः समुदितैर्व्यस्तैर्वा युक्तं दुग्धेनालोडितं क्षिप्रमेव रसायनफलं विदध्यात्| कुलत्थादीनि कृततत्प्रयोगः सदैव जह्यात्| खरणादे काकमाचीकपोतौ न वर्जितौ| तद्वचनं हि-"शुष्कामिषं विरुढं पिष्टं शुक्तम् विदाहि गुरु चान्यत्| पानाशनं कुलत्थान् विशेषतो वर्जयेच्चात्र||" इत्यादि| मुनिनाऽपि नैतौ वर्जितौ| तथा च तद्ग्रन्थः (च. चि. अ. १ पा.३/६२) _"शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च| वर्जयेत्सर्वकालेषु कुलत्थांश्च सदा त्यजेत्||" इति| विदाह्यादिवर्जनं रसायनकालाद् द्विगुणं कालं विधेयम्| कुलत्थांश्च यावज्जीवमित्येके| अन्ये तु वदन्ति सदाशब्देन संवत्सर उच्यते| यतो य एते षड् ऋतवः| एतावानेव कालो, न षाड् ऋतुव्यतिरिक्तोऽन्यः कालोऽस्तीति तेषामयमभिप्रायः| ननु, विदाहिगुर्वादिभ्यः किमिति कुलत्थानामधिकः परिहार इष्यते ? ब्रूमः| पाषाणभेदे कुलत्थानामधिकतरस्वभावत्वात्| तथा हि-सन्तप्तकुलत्थजलेनाप्लुतानां पाषाणानां पाषाणहन्तृभिः सुखेनैव विदारणं दृष्टम्| शिलाजतु च गिरिजमित्युक्तम्| अतः शिलाजतुप्रयोगात् तन्मयमेव शरीरं सम्पद्यते| तेन तस्य कुलत्था बाधाविधायिनः, इति परिहारस्तेषामधिकः कृतः|

Adhikarana sarvaroganAshane shilAjatusAmarthyam,guggulukalpaH (142) · Śloka 142

न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत् प्रसह्य| तत् कालयोगैर्विधिवत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति||१४२||

🔊 Audio coming soon

स० -अत्र भूलोकग्रहणं सकलभूलोकपरिग्रहार्थम्| अन्यथा कश्चिदेव देशो गृह्येत, न त्वशेषो भूलोकः| रूपग्रहणेन साध्यः सविकल्पोऽपि गृह्यते, तेन कृच्छ्रसाध्योऽपि गृह्यते| रूप पदमन्तरेण तु सुखसाध्य एव केवलो गृह्येत| प्रसह्येत्यनेन शीघ्रतरं निश्चितं च रोगजयं करोतीति गमयति| तदयं भावः,-कुष्ठघ्नानि मूत्रकृच्छ्रहराणि वा यथौषधानि तेषां शमयति, ततः क्षिप्रतरं निश्चितं च रोगजयं करोति गिरिजमिति| न स रोगो साध्यरूपो विद्यते, यं शिलाजतु प्रसह्य न जयेत्| गिरिजं कालयोगेन च विधिना प्रयुक्तं नीरुजस्य पुरुषस्य महतीमूर्जां च करोति| उपजातिः| अत एव सङ्ग्रहे जगाद (उ. अ. ४९)-"ज्वरी ज्वरघ्नाम्बुदपर्पटादेः क्वाथेन रक्ती मधुयष्टिकायाः| शोषी रसैः क्रव्यभुगामिषोत्थैर्मायूरमांसैः पयसा च कार्श्ये|| मध्वम्बुना मेदसि संप्रवृद्धे क्षीरेण पर्याकुलबुद्धिसत्त्वः| पाण्डौ सशोफे जठरे सकृच्छ्रे पिबेच्छिलाजं महिषीजलेन|| अश्म वीरतराद्येन कुष्ठं खदिरवारिणा| विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम्|| शैलजत्रिकटुकटुक्षौद्रक्षौद्रधातून् विषेवते| क्षीरोदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते|| सुभावितां सारजलैस्तुलां पीत्वा शिलोद्भवात्| साराम्बुनैव भुञ्जानः शालीन् जाङ्गलजै रसैः|| अपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम्| वपुर्वर्णबलोपेतः शतं जीवत्यनामयः|| अमरमन्दिरमन्दरसम्भवात् पलशतं गिरिजादुपयोजय| यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्तितम्|| दशगुणमुपयुङ्क्ते यः शतं शैलजाताल्लघुहितमितभोजी वर्जयन् वर्जनीयान्| सततसमनुषक्तान् वर्जितान् वैद्यवृन्दैर्विधमति स गदौघान्नेक्षते चायुषोऽन्तम्||" इति| शिवगुटिका चात्रैवोक्ता (सं. उ. अ. ४९)| यथा-"शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत्| वराया दशमूलस्य गुडूच्याः कर्कटस्य च|| बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि| क्षीरे सकृत् क्रमेणैवं सप्तकृत्वस्तथा पुनः|| काकोलियुग्मघनपुष्करवह्निरास्नामेदायुगर्द्धिचविकागजपिप्पलीनाम्| पाठाद्विजीवकनिकुम्भविदारियुग्मवीरावरीमधुफलांशुमतीद्वयानाम्|| पलिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे| भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात्|) कर्कटशृङ्गीधात्रीव्योषैस्तालीसपत्रकुडवेन| चूर्णपलेन विदार्यास्त्वक्क्षीर्याः कर्षयुग्मेन|| कुडवेन चतुर्जातात्तैलघृतक्षौद्रशर्कराभिश्च| द्विपलादिद्विगुणाभिः कुर्याद्गुलिकास्ततोऽक्षसमाः|| ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः| तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम्|| क्षीररसदाडिमाम्भोमार्द्वीकसुरासवान्यतमम्| जीर्णेऽन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः|| सप्ताहमात्रमेवं सर्वान्नीनः क्रमाद्भवेत्परतः| भक्तस्यान्ते प्राग्वा गुलिका न विरुध्यते चैषा|| निरपाया भूरिफला परिहारसुखोपयोजिता जयति| प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम्|| भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान्| वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान्|| विद्रधिमुदरं कुष्ठं श्वित्रं षाण्ढ्यं क्षयं मदं मूर्च्छाम्| उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांस्तान्|| आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान्| ग्रन्थ्यर्बुदान् सपिडकान् भगन्दरं गण्डमालां च|| अतिकार्श्यमतिस्थौल्यं स्वेदमपि श्लीपदं गुदे कीलान्| दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च|| अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम्| पाप्मालक्ष्मीं चेयं गुलिका शमयेच्छिवा नाम|| वृष्याऽऽयुष्या धन्या कान्तियशः श्रीविबोधनी मेध्या| कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था|| जितखलतिवलीपलितं जीवयति सुखं शतद्वयं शरदाम्| वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत्||" [इति|] खरनादे तूक्तम्-"कनकाद्रजतात्ताम्रादयसः सीसात्तथा त्रपुणः| गिरिविवरनिःसृतं तत्क्वाथस्निग्धातिमृदुमृत्स्नम्|| जत्वाभं च शिलाजतु विद्यादेतज्जडात्मकं गिरिजम्| संरक्तपीतवर्णं सतिक्तमधुरं रसे कटुविपाकि|| शीतं कनकशिलाजतु विशेषतः श्लेष्मपित्तघ्नम्|| श्वेतं च तिक्तमधुरं पाचनवल्लेखनं शीतम्| किञ्चिल्लवणं विद्या(रूप्या)द्विशेषतो वातपित्तघ्नम्|| शितिकण्ठतुल्यवर्णं तीक्ष्णोष्णं लेखनं विपाककटु| किञ्चिल्लवणं ताम्रात्मकं स्मृतं कफकृ(हृ)द्विशेषेण|| गुग्गुलुकाभं स्निग्धं तिक्तं लवणं सरं विशदतीक्ष्णम्|| कटुपाकिनातिशीतं त्रिमलघ्नं त्वायसं श्रेष्ठम्|| स्वाकरसमानवर्णे सीसत्रपुसम्भवे शिलाजतुनी|| अल्पान्तरकर्मगुणे कृष्णायसजाच्छिलाजतुनः|| गोमूत्रगन्धमसितं गुग्गुलुकाभं विशर्करं मृत्स्नम्| स्निग्धमनम्लकषायं शिलोद्भवं सर्वकर्मण्यम्||" इत्यत्र गुरुमृदुगुणौ नोक्तौ| तथोक्तम्-"सस्नेहलवणभावाद्वातघ्नं पित्तनुत् सरत्वात्तत्| रसपाकयोः कटुत्वात्तैक्ष्ण्याच्च श्लेष्ममेदोघ्नम्|| कटुतीक्ष्णत्वाद्दीपनमग्नेरुद्दीपनान्मलान् पचति| तिक्तत्वाद्रक्तघ्नं कटुतैक्ष्णौष्ण्यात् कृमिघ्नं च|| शोभनभावाद्दृष्यं स्निग्धत्वात् पौष्टिकं च बल्यं च| आयुष्यं च विषघ्नं मङ्गल्यममृतान्वयत्वाच्च|| शोधनभावात् स्रोतोधात्विन्द्रियबुद्धिशोधनं वर्ण्यम्| पुत्र्यं च वृष्यभावान्मेध्यं योनिस्वभावाच्च||" इत्यादि| तथा "भावितमन्यैर्द्रव्यैर्वीर्योत्कर्षाद्विशेषकर्मण्यम्| तत् स्यात्तस्माद्भाव्यं वातादिहरौषधकषायैः|| 'रास्नादशमूलबलापुनर्नवैरण्डशुण्ठिमधुकानाम्| क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्|| द्राक्षा भीरुपटोलीत्रायन्तिगुडूचिजीवनीयानाम्| क्वाथेन भावितं तद्विशेषतः पित्तरोगघ्नम्|| त्रिफलावचाविडङ्गकरञ्ज घनमुख्यपञ्चमूलानाम्| सहपञ्चकोलाकानां क्वाथेन कफामये भाव्यम्|| लघुपञ्चमूलशुण्ठीद्राक्षाकाश्मर्यवाजिगन्धानाम्| सुगुडूचिशरबलानां रसेन पित्तानिलगदेषु|| घनकुष्ठवचात्रिफलासुरदारुविडङ्गपञ्चकोलानाम्| रजनीमरिचातिविषायुक्तानां वातकफजेषु|| पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानाम्| त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु (सं. उ. अ. ४९)||" त्रिमलेषु यथादोषं योगानेतान् विकल्प्य भाव्यं स्यात्| प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्|| गिरिजं चतुर्गुणजलं क्वाथ्यं स्याद्भावनौषधं तत्र| चतुर्थशेषे क्वाथे पूतोष्णे प्रक्षिपेद्गिरिजम्||" इति| अत्र चतुर्गुणजलस्यौषधस्य क्वाथेन मुक्तरसता न तथा स्यादिति वाग्भटोक्तमेवाष्टगुणजलक्वाथेन कार्यमिति मन्यामहे| तथोक्तम्-"सलिलविशुद्धाद्गिरिजात् पिबेदरोगः फलत्रिकरसेन| मात्रां क्रमाभिवृद्धां त्र्यहं पटोलस्य च रसेन|| मूत्रेण गवां तद्वत् त्र्यहं कषायेण मधुकस्य|" इति| "रोगान्वितेषु गिरिजं जलशुद्धं भावितं कषायैश्च| दोषव्याधिबलातुरकालापेक्षी प्रयुञ्जीत|| जीर्णौषधः सुखोदकपरिषिक्तो मांसरसपयोयूषैः| रक्तादिषष्टिकौदनमनवमरोगो गदी वाऽद्यात्|| व्याध्यातुरदोषबलं दृष्ट्वा तस्य त्रिधा प्रयोगः स्यात्| श्रेष्ठस्त्रिषष्टिरात्रं मासो मध्यस्त्रिसप्तरात्रमवरः|| पानावगाहयोः स्याद्दिव्यं शैलोद्भवं कौपम्|" मुनिस्त्वस्य चतुर्धातुजत्वमेव संगिरते| तथा च तद्ग्रन्थः (च. चि. अ. १ पा. २/४७)- "अनम्लं च कषायं च कातुपाके शिलाजतु| नात्युष्णशीतं चातुभ्यश्चतुर्भ्यस्तस्य सम्भवः||| हेम्नः सरजतात्ताम्राद्वरं कृष्णायसादपि|" इति| सङ्ग्रहे च गुग्गुलुकल्पोऽभिहितः| यथा (उ. अ. ४९)- "दानवेन्द्रविजितान् पुरा सुरान् भ्रष्टकान्तिधृतिशौर्यतेजसः| वीक्ष्य विष्णुरमृतं किलासृजद्गुग्गुलुं बलवपुर्जयप्रदम्|| अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागुरुतुरुष्कहिमेन्दुदर्पान्| निर्दह्यमानवपुषोऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम्|| स योगवाही स शिवः स सार्वः सर्वर्तुसेव्यः सुखशीलनीयः| हर्ता जरापाप्ममलामयानां कर्ताऽग्निमेधास्मृतिपाटवानाम्|| गन्धोत्कटः स दाहे स्निग्धद्रवपिच्छिलो विगतशल्यः| महिषाख्यः पुष्परागस्फटिकासितनीरदच्छायः|| यः पद्मरागरागो यः कनकच्छेदपातलो यो वा| जयतीन्द्रनीलममलं भग्नोऽप्यतिकान्तिमत्त्वेन|| श्रेष्ठः प्रयोगोऽस्य तुला पलान्नैवाधिकं पिबेत्| आत्रेयमुनिगीतश्च मन्त्रोऽयं कर्मसिद्धिकृत्|| 'भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः| आज्ञापयन्ति सम्यक्त्वां प्रभावं चादिशन्ति ते|| जरामरणदुःखेभ्यो यथा तेऽभ्युत्थिताः सुराः| उपयोक्तुस्तथैवास्य भव त्वं हि महाबलः||' इति| पञ्चमूलस्य महतः क्वाथेन हितभोजिना| गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान्|| लघीयसोऽपि तद्वच्च सुखोष्णेन जलेन वा| मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा|| वरणादेस्तु बाधिर्यं दन्तकर्णशिरोरुजः| स्वरभेदोदरश्चासवर्ध्मान्तर्गुल्मविद्रधीन्|| वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते| क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा|| क्वाथेनोत्पलमृद्वीकारक्तचन्दनजन्मना| वातपित्तं निहन्त्येष पद्मकादिगणस्य वा|| चव्यकुष्ठविडङ्गानां यवान्या नागरस्य वा| प्रसारण्याश्च तोयेन गुग्गुलुः कफवातजित्|| त्र्यूषणाग्निघनवेल्लवराभिर्भक्षयन् समधृतं महिषाक्षम्| आशु हन्ति कफमारुतमेदोदोषजान् बलवतोऽपि विकारान्|| पटोलनिम्बत्रिफलागुडूचीगायत्रिरात्रिद्वयबीजकानाम्| क्वाथैः पृथक् पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगान्|| विशेषाच्छोफवीर्सर्पदुष्टव्रणभगन्दरान्| शुक्रार्तवमनोदोषप्रमेहश्वित्रपाण्डुताः|| पटोलारिष्टनिर्यूहपिष्टस्तुल्यरसाञ्जनः| गलरोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत्|| शिलाजतुसमः पीतः पयसा वातशोणितम्| निवर्तयत्यतिबलं क्षीरमांसघृताशिनः|| रसेन पयसा मूत्रैर्वातपित्तकफापहः| ब्राह्मीमण्डूकशङ्खानां पृथङ्ह् मेधादिकृद्रसैः|| मागधिकाग्निविडङ्गकलिङ्गैर्बिल्वधृतैः सवचापलषट्कैः| गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः|| पिबेत्पलशतं योऽस्य विधिना नियतो यतिः| नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम्|| कल्पयेदोषधैः स्वैः स्वैर्व्याधिषु व्याधिनाशनैः| शिलाजतुविधानं च गुग्गुलोः सर्वमिष्यते|| गुणनिधिरपि कुर्यात् सोऽतिमात्रोपयुक्तस्तिमिरवदनशोषक्लीबताकार्श्यमेहान्| शमलशिथिलभावं देहरौक्ष्यं च तस्माद्रजनिचरनिषेवी स्यान्न रोगेष्वमीषु||" [इति|]

Adhikarana kuTIpraveshavidherviShayaH,sauryamArUtikavidherviShayaH (143) · Śloka 143

कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः| अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः||१४३||

🔊 Audio coming soon

स०-क्षणिनां-व्यापारकरणं प्रति स्वतन्त्राणाम्, तथा परिच्छदवतां-सपरिवाराणाम्, कुटीप्रवेशलक्षणो विधिर्हितः| अतः-अस्मात्, येऽन्यथा-परतन्त्राः परिवाररहिताः, तेषां सौर्यमारुतिको विधिर्हितः|

Adhikarana ato vAtAtapasahA yogAH (144) · Śloka 144

वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः| सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः||१४४||

🔊 Audio coming soon

स०-अतः-अस्माच्च हेतोः, ये वातातपसहा योगास्ते विशेषेण वक्ष्यन्ते| तथा ये न दुःखावहाः, भ्रंशेऽपि-व्यापत्तावपि, शरीरस्य न पीडाकृतः|

Adhikarana vayaH sthApakAH shItodakAdiyogAH (145) · Śloka 145

शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः| त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः||१४५||

🔊 Audio coming soon

स०-शिशिरजलादिकमेकैकशो द्विशस्त्रिशो वा प्राग्भोजनात् पीतं वयः स्थापयेत्| तेन शीताम्भो वा, क्षीरं वा, मधु-माक्षिकं वा, सर्पिर्वा, पीतमथवा शीताम्भःपयसी, शीतजलक्षौद्रे, शीतदलघृते, इत्येवं यथासम्भवं द्वे संयुक्ते प्राक्पीतेऽथवा त्रीणि संयुक्तानि पीतानि समस्तं वा चतुष्टयमित्येवमवतिष्ठते|

Adhikarana varShashatajIvano harItakIyogaH (146) · Śloka 146

गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा| द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी||१४६||

🔊 Audio coming soon

स०-गुडादिना प्रत्येकं द्वे द्वे हरीतक्यौ सर्वदा भक्षयन् समाशतं सुखं जीवेत्|

Adhikarana cirasthAyibalakaro kIyogAH (147) · Śloka 147

हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबेतो घृतं च| भवेच्चिरस्थायि बलं शरीरे सकृत् कृतं साधु यथा कृतज्ञे||१४७||

🔊 Audio coming soon

स०-घृते हरीतकीं सम्यक् तापयित्वा भक्षयतस्तच्च घृतं पिबतो देहेऽतिदृढं बलं स्थिरतरं भवेत्| यथा कृतज्ञे नरे सकृत्-एकवारं, शोभनं कृतं चिरस्थायि भवेत्| उपेन्द्रवज्रा|