Adhikarana nAsArogapratiShedhAdhyAyaH||20|| sarveShu pratishyAyeShu snehasvedAdisevanam (2-5) · Śloka 5
अधुना नासाचिकित्साभणनावसर इत्याह अथातो नासारोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
) सर्वेषु पीनसेष्वादौ निवातागारगो भजेत्|
स्नेहनस्वेदवमनधूमगण्डूषधारणम्||१||
वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम्|
लघ्वम्ललवणं स्निग्धमुष्णं भोजनमद्रवम्||२||
धन्वमांसगुडक्षीरचणकत्रिकटूत्कटम्|
यवगोधूमभूयिष्ठं दधिदाडिमसारिकम्||३||
बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः|
कवोष्णं दशमूलाम्बु जीर्णां वा वारुणीं पिबेत्||४||
जिघ्रेच्चोरकतर्कारीवचाजाज्युपकुञ्चिकाः|
|५|
स०-पीनसेष्वखिलेष्वपि निवातवेश्मस्थितः सन् स्नेहनस्वेदनवमनधूमान् गण्डूषधारणं च सेवेत्| तथा वस्त्रं गुरूष्णस्वभावं कौशेयाविकादिभिर्मूर्ध्नः परिवेष्टनं सुघनं भजेत्| तथा भोजनं लघ्वादिगुणं भजेत्| दाडिमं श्रेष्ठं-दाडिमसारम्| दधिदाडिमसाधितमिति केचित् पठन्ति| बालमूलकोत्थो यूषः कुलत्थजश्च यूषः पूजितः| दशमूलाम्बु कोष्णं प्रसन्नां वा जीर्णां-पुराणां, पिबेत्| स०-चोरकादीन् जिघ्रेत्|
Adhikarana sarveShu pratishyAyeShu vyoShAdivaTakaH (5-7) · Śloka 7
|
व्योषतालीसचविकातिन्तिडीकाम्लवेतसम्||५||
साग्न्यजाजि द्विपलिकं त्वगेलापत्रपादिकम्|
जीर्णाद्गुडात्तुलार्धेन पक्वेन वटकीकृतम्||६||
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्|
|७|
स०-व्योषादिकं पृथक् द्विपलदध्नं, त्वगादिकं द्विकार्षिकं, पुराणगुडेन पञ्चाशत्पलप्रमाणेन पक्वेन वटकीकृतमेतत् पीनसादिहृत् परं रुच्यादिकृत्|
Adhikarana sarveShu pratishyAyeShu shatAhvAdidhUmaH sarveShu pratishyAyeShu saghRutasaktudhUmaH (7-8) · Śloka 8
|
शताह्वात्वग्ऽऽबला मूलं स्योनाकैरण्डबिल्वजम्||७||
सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम्|
अथवा सघृतान् सक्तून् कृत्वा मल्लकसम्पुटे||८||
स०-शताह्वादिकं वसादियुतं धूमं पिबेत्| मल्लकसम्पुटे वा सक्तून् ससर्पिष्कान् कृत्वा धूमं पिबेत्|
Adhikarana sarveShu pratishyAyeShu snAnAdivarjanam (9) · Śloka 9
त्यजेत्स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम्|
|९|
स०-स्नानादीनि त्यजेत्|
Adhikarana vAtaje pratishyAye vAtaghnAdisAdhitaghRutAni vAtaje pratishyAye arditoktaM svedanasyAdikam (9-10) · Śloka 10
इति सामान्येन चिकित्सामभिधाय विशेषेणाह |
पिबेद्वातप्रतिश्याये सर्पिर्वातघ्नसाधितम्||९||
पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा|
स्वेदनस्यादिकां कुर्यात् चिकित्सामर्दितोदिताम्||१०||
स०-वातप्रतिश्याये वातघ्नैः-रास्नादिभिः, साधितं घृतं पिबेत्| सैन्धवादिभिः पञ्चभिर्लवणैर्वा सिद्धं, 'विदारिपञ्चाङ्गुल' (हृ. सू. अ. १५|९) इत्यादिना वा सिद्धं घृतं पिबेत्| तथा, अर्दितोक्तां चिकित्सां स्वेदादिकां कुर्यात्|
Adhikarana pittaje raktaje ca svedanasyAdikam madhurasAdhitaM ghRutaM shItapariShekAdi ca pittaje raktaje ca dhavatvAditailena nAvanam (11-12) · Śloka 12
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्|
परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान्||११||
धवत्वक्ऽऽत्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः|
क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत्||१२||
स०-पित्तोत्थे रक्तजे च प्रतिश्याये मधुरद्रव्यैः शृतं सर्पिः पातव्यम्| परिषेकादीन् शीतवीर्यैः शीतलान् कुर्यात्| धवत्वगादिभिस्तैलं क्षीरे दशगुणे हरिद्रान्वितैर्नावनं पचेत्|
Adhikarana kaphaje dhavatvAditailena la~gghanalepanAdi kaphaje dhavatvAditailena paTuvyoShAdinA nAvanam sarvaje dhavatvAditailena kaTutIkShNairghRutairnasyAdIni (13-14) · Śloka 14
कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः|
सक्षारं वा घृतं पीत्वा वमेत्, पिष्टैस्तु नावनम्||१३||
बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः|
कटुतीक्ष्णैर्घृतैर्नस्यैः कवलैः सर्वजं जयेत्||१४||
स०-कफजे लङ्घनं हितम्| तथा शिरसो गौरसर्षपैर्लेपः| घृतं सयवक्षारं पीत्वा वमेत्| छागमूत्रेण च पिष्टैः सैन्धवादिभिर्नस्यं हितम्| घृतैः कटुतीक्ष्णैर्नस्यैः कवलैश्च सान्निपातिकं प्रतिश्यायं जयेत्|
Adhikarana duShTaprtishyAye yakShmakRumikramaH duShTaprtishyAye vyoShAdivartidhUmaH (15-17) · Śloka 17
यक्ष्मकृमिक्रमं कुर्वन् यापयेद्दुष्टपीनसम्|
व्योषोरुबूककृमिजिद्दारुमाद्रीगदेङ्गुदम्||१५||
वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः|
अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च||१६||
अश्वविड्ऽऽरसमूत्राभ्यां हस्तिमूत्रेण चैकतः|
क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत्||१७||
स०-दुष्टपीनसं यापयेत्, यक्ष्महरं कृमिहरं च चिकित्सितं कुर्वन्| व्योषादिशिग्रुफलान्तानि तुरगविड्ऽऽरसमूत्राभ्यां हस्तिमूत्रेण चैकतः पिष्टानि क्षौमगर्भां कृतां वर्तिं नासया मुखेन च पिबेत्|
Adhikarana bhRushakShavathau puTake ca tIkShNaiH pradhamanam bhRushakShavathau puTake ca shuNThyAdisAdhitatailena nasyam (18-19) · Śloka 19
क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम्|
शुण्ठीकुष्ठकणावेल्लद्राक्षाकल्ककषायवत्||१८||
साधितं तैलमाज्यं वा नस्यं क्षवपुटप्रणुत्|
|१९|
स०-क्षवथौ पुटकाख्ये च रोगे तीक्ष्णैः प्रधमनं हितम्| शुण्ठ्यादिकल्कक्वाथवत् तैलं घृतं वा साधितं नस्यं क्षवं पुटं च हन्ति|
Adhikarana nAsAshoShe balAtailAdi nAsAnAhe~apyayaM vidhiH ghrANapAke dIptau ca pittaghnam nAsAsrAve tIkShNaM nasyAdi (19-20) · Śloka 20
|
नासाशोषे बलातैलं पानादौ भोजनं रसैः||१९||
स्निग्धो धूमस्तथा स्वेदो नासानाहेऽप्ययं विधिः|
पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ||२०||
स०-नासाशोषे बलातैलं पाननस्यादौ हितम्| भोजनं मांसरसैर्हितम्| तथा स्निग्धो धूमः स्वेदश्च हितः| स०-नासानाहेऽप्येष एव विधिः-चिकित्सेत्यर्थः| स०-नासापाके दीप्तौ च पित्तघ्नं चिकित्सितम्| संस्रुतौ-स्रावे, तीक्ष्णं नस्यादि हितम्|
Adhikarana pUtinAse~apInase ca kaphapInasavat pUtinAse~apInase ca lAkShAdibhirnasyam pUtinAse~apInase ca kRutavamane shigrvAditailena nasyam (21-23) · Śloka 23
कफपीनसवत्पूतिनासापीनसयोः क्रिया|
लाक्षाकरञ्जमरिचवेल्लहिङ्गुकणागुडैः||२१||
अविमूत्रद्रुतैर्नस्यं कारयेद्वमने कृते|
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः||२२||
सवेल्लसुरसैस्तैलं नावनं परमं हितम्|
|२३|
स०-पूतिनासापीनसयोः कफपीनसवदुपक्रमः| लाक्षादिभिरुरभ्रमूत्रद्रुतैः कृते वमने नस्यं कारयेत्| शिग्र्वादीनां बीजैर्व्योषादियुतैस्तैलं पक्वं पूतिनासापीनसयोर्नस्यं हितम्|
Adhikarana pUyarakte nave raktapInasavat pUyarakte atipravRuddhe nADIvat (23-24) · Śloka 24
|
पूयरक्ते नवे कुर्याद् रक्तपीनसवत् क्रमम्||२३||
अतिप्रवृद्धे नाडीवत्|
|२४|
स०-पूयरक्ते नवोत्थे रक्तपीनस इव चिकित्सितं कुर्यात्| अतिप्रवृद्धे चास्मिन्नाडीव्रणवदुपक्रमः|
Adhikarana arshorbudeShu dagdheShu nikumbhAdivartiH arshorbudeShu shigrvAdinasyam (20) · Śloka 20
दग्धेष्वर्शोर्बुदेषु च|
निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः||२४||
कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्|
शिग्र्वादि नावनं चात्र पूतिनासोदितं भजेत्||२५||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधो नाम विंशोऽध्यायः||२०||
स०-अर्शोर्बुदेषु च दग्धेषु निकुम्भादिभिः कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्| शिग्र्वादिकं च नस्यं पूतिनासोक्तं भजेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधो नाम विंशोऽध्यायः समाप्तः|| २०||