Adhikarana nAsArogavij~jAnIyAdhyAyaH ||19|| pratishyAyasya nidAnaM samprAptishca (2-3) · Śloka 3
अथ क्रमप्राप्तं नासारोगविज्ञानं बिभणिषुराह अथातो नासारोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
)अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः|
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा||१||
अत्यम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः|
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः||२||
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्|
|३|
स०-अवश्यायादिभिर्वातोल्बणा दोषाः क्रुद्धा नासायां स्त्यानतां-घनत्वं प्राप्ताः, प्रतिश्यायं जनयन्ति| किम्भूतम् ? विवर्धमानं क्षयप्रदम्|
Adhikarana 1 vAtajasya pratishyAyasya lakShaNam (3-5) · Śloka 5
|
तत्र वातात्प्रतिश्याये मुखशोषो भृशं क्षवः||३||
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः|
कीटिका इव सर्पन्तीर्मन्यते परितो भ्रुवौ||४||
स्वरसादश्चिरात्पाकः शिशिराच्छकफस्रुतिः|
|५|
स०-[तत्र-] तेषु रोगेषु वातपित्तकफाद्युत्थेषु मध्ये, वातात् प्रतिश्याये सति मुखशोषादयः स्युः| भ्रुवौ परितः कीटिकाः सर्पन्तीरिव मन्यते| भृवौ परित इति "अभितः परितः" इति द्वितीया| स्वरसादादयश्च स्युः|
Adhikarana 2 pittajasya pratishyAyasya lakShaNam (5-6) · Śloka 6
|
पित्तात्तृष्णाज्वरघ्राणपिटिकासम्भवभ्रमाः||५||
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः|
|६|
स०-पित्तात् प्रतिश्याये सति तृष्णादयो भवन्ति| घ्राणमध्ये पिटिका घ्राणपिटिकाः, तासां सम्भवः| नासाया अग्रे पाको नासाग्रपाकः|
Adhikarana 3 kaphajasya pratishyAyasya lakShaNam (6-7) · Śloka 7
|
कफात्कासोऽरुचिः श्वासो वमथुर्गात्रगौरवम्||६||
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः|
|७|
स०-कफात् प्रतिश्याये सति कासादयः स्युः|
Adhikarana 4 sannipAtajasya pratishyAyasya lakShaNam (7) · Śloka 7
|
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान्||७||
स०-त्रिदोषजः प्रतिश्यायः सर्वदोषलक्षणैर्युतः| अकस्मात्-निमित्तं विना, वृद्धिमांश्छान्तिमांश्च|
Adhikarana 5 raktajasya pratishyAyasya lakShaNam (8-9) · Śloka 9
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक्|
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता||८||
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्|
|९|
स०-रक्तं दुष्टं नासासिराः प्राप्तं प्रतिश्यायं करोति| तस्मिन्नुरसः सुप्तत्व ताम्रनयनत्वादिकं पित्ताभिहितं च लक्षणं स्यात्|
Adhikarana 6 duShTapratishyAyasya pratishyAyasya lakShaNam duShTapratishyAyasya pakvalakShaNam (9-13) · Śloka 13
अथ दुष्टप्रतिश्यायलक्षणमाह |
सर्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः||९||
यथोक्तोपद्रवाधिक्यात्स सर्वेन्द्रियतापनः|
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः||१०||
कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोफकृत्|
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः||११||
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः|
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः||१२||
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः|
श्लेष्मा सचिक्कणः पीतोऽज्ञानं च रसगन्धयोः||१३||
स०-सर्व एव प्रतिश्याया उपेक्षिता दुष्टत्वं यान्ति| स तु-दुष्टपीनसो, यथोक्तोपद्रवाणां-मुखशोषादीनां, आधिक्याद्धेतोः सर्वेन्द्रियतापनो-नासाचक्षुरादीनां खेदकः, अग्निसादादियुतश्च स्यात्| तथा सहसैव पुनः पुनः कुप्यति| मुखदौर्गन्ध्यादिकरः, तथा नासिकाक्लेदादिकरो मुहुः पूयसदृशकृष्णरक्तपिण्डितश्लेष्मस्रुतिः| अत्र च कृमयो मूर्च्छन्ति दीर्घाः स्निग्धाः श्वेताः सुसूक्ष्माश्च| स०-तेषु-प्रतिश्यायेषु, पक्वलक्षणानि| तद्यथा,-अङ्गस्य-शरीरस्य लाघवं स्यात्, क्षुतेश्च शमः, कफः सचिक्कणः पीतो, रसगन्धयोश्चाज्ञानमिति| भृशक्षवाख्यं लक्षयितुमाह-
Adhikarana 7 bhRushakShavasya lakShaNam (14-15) · Śloka 15
तीक्ष्णाघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः|
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि||१४||
विघट्टितेऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत्|
निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः||१५||
स०-तीक्ष्णस्य-मरीचादेः, घ्राणात्-सिंहनात्, तथा रविरश्म्यादिभिर्वातकोपिभिरन्यैर्वा नासातरुणास्थनि विघट्टिते सति वायुः कृद्धो रुद्धः शृङ्गाटकं गच्छेत्| स निवृत्तः सन् अत्यन्तं छिक्कां कुरुते| स भृशक्षव उच्यते|
Adhikarana 8 nAsAshoShasya lakShaNam (16-17) · Śloka 17
शोषयन्नासिकास्रोतः कफं च कुरुतेऽनिलः|
शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः||१६||
स्मृतोऽसौ नासिकाशोषो|
|१७|
स०-शोषयन्नासिकास्रोतः कफं च वायुः शूकपूर्णाभनासात्वं कुरुते| ततः कृच्छ्रादुच्छ्वसनं स्यात्| असौ नासिकाशोषः स्मृतः|
Adhikarana 9 nAsAnAhasya lakShaNam (17-18) · Śloka 18
नासानाहे तु जायते|
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना||१७||
निःश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव|
|१८|
स०-नासानाहाख्ये रोगे जाते सति घ्राणस्य नद्धत्वं-आपूरमिव, जायते| श्लेष्मणा रुद्धेन वातेन निःश्वासोच्छाससंरोधात् स्रोतसी संवृते इव स्याताम्|
Adhikarana 10 ghrANapAkasya lakShaNam (18-19) · Śloka 19
|
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्||१८||
स घ्राणपाकः|
|१९|
स०-पित्तं कर्तृ नासापुटे त्वङ्मांसं सदाहशूलं पचेत् स घ्राणपाकाख्यः|
Adhikarana 11 nAsAsrAvasya lakShaNam (19) · Śloka 19
स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः|
अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते||१९||
स०-स्रावस्तु तत्संज्ञो-घ्राणस्रावाख्यः| स च कफादेव केवलाद्भवति| अच्छो जलसदृशो नित्यं स्रावो जायते, विशेषेण रात्रौ|
Adhikarana 12 apInasasya lakShaNam (20-21) · Śloka 21
कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्यपीनसम्|
कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनम्||२०||
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका|
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम्||२१||
कफो नासायां प्रवृद्धो रुद्ध्वा स्रोतांस्यपीनसं घुर्घुरश्वासयुतं पीनसाधिकरुजं कुर्यात्| तेन-अपीनसेन, अस्य रोगिणो मेषस्येवानवरतं प्रक्लिन्ना नासिका पिच्छिलादियुक्तं कफं सिङ्घाणकं स्रवति|
Adhikarana 13 dIpteH lakShaNam (22) · Śloka 22
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा|
भवेद्धूमोपमोच्छ्वासा सा दीप्तिर्दहतीव च||२२||
स०-रक्तेन नासा दग्धेव बाह्यतोऽन्तरतश्च स्पर्शनं न सहते| तथा धूमोपमोच्छ्वासा दहतीव च| सा दीप्तिसंज्ञा रोगजातिः|
Adhikarana 14 pUtinAsasya lakShaNam (23) · Śloka 23
तालुमूले मलैर्दुष्टैर्मारुतो मुखनासिकात्|
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति तम्||२३||
स०-तालुमूले दोषैर्दुष्टैर्मुखनासिकाद् वायुः कफश्च पूतिर्निर्गच्छेत्, तं पूतिनासं वदन्ति|
Adhikarana 15 pUyaraktasya lakShaNam (24) · Śloka 24
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत्|
तत्पूयर् अक्तमाख्यातं शिरोदाहरुजाकरम्||२४||
स०-सन्निपातादभिघाताद्वा नासा पूयासृक् स्रवेत्| तत्पूयरक्तस् अंज्ञं शिरोदाहरुजाकरमाख्यातम्|
Adhikarana 16 puTakasya lakShaNam (25) · Śloka 25
पित्तश्लेष्मावरुद्धोऽन्तर्नासायां शोषयेन्मरुत्|
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत्||२५||
स०-पित्तश्लेष्मावरुद्धो वायुरन्तर्नासायां शोषयेत्कफम्| स च-कफः, शुष्क(:) पुटतां प्राप्नोति| पुटकं तदुच्यते|
Adhikarana 17|18 arshorbudAnAM lakShaNam (26-27) · Śloka 27
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्|
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः||२६||
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा|
|२७|
स०-अर्शांस्यर्बुदानि च दोषलिङ्गैर्यथास्वं जानीयत्| स०-सर्वेषु-अर्शःस्वर्बुदेषु च, कृच्छ्रादुच्छ्वसनम्| तथा पीनसोऽनवरतं क्षवः, तथा सानुनासिकभाषितं, तथा पूतिनासः शिरोव्यथेति स्युः|
Adhikarana eShAmaShTAdashAnAM madhye duShTapInasasya yApanatvam (19) · Śloka 19
|
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम्||२७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगविज्ञानीयो नामैकोनविंशोऽध्यायः||१९||
स०-एषामष्टादशानां पीनसादीनां मध्ये दुष्टपीनसं यापयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने नासारोगविज्ञानीयो नामैकोनविंशोऽध्यायः समाप्तः|| १९||