Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
व्रणप्रक्रमात् सद्योव्रणप्रतिषेधं व्याचिख्यासुराह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
व्रणप्रक्रमात् सद्योव्रणप्रतिषेधं व्याचिख्यासुराह-
Adhikarana sadyovraNapratiShedhAdhyAyaH,sadyovraNAnAM kAraNam (2-1) · Śloka 1
अथातः सद्योव्रणप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) सद्योव्रणा ये सहसा सम्भवन्त्यभिघाततः| अनन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा||१||
🔊 Audio coming soon
स०-अभिघातात्सहसैव ये सद्योव्रणा जायन्ते, असङ्ख्यैरपि तैर्व्रणैः शरीरं जुष्टमष्टधा कथ्यते|
Adhikarana sadyo aShTau bhedA dhRuShTAdayaH (2) · Śloka 2
तानेवाष्टौ प्रकारानाह घृष्टावकृत्तविच्छिन्नप्रविलम्बितपातितम्| विद्धं भिन्नं विदलितं|२|
🔊 Audio coming soon
स०-घृष्टेत्यादि|
Adhikarana 1 dhRuShTasya lakShaNam 2 avakRuttasya lakShaNam 3 vicchinnasya lakShaNam 4 pravilambitasya lakShaNam 5 pAtitasya lakShaNam 6 viddhasya lakShaNam 7 bhinnasya lakShaNam 8 vidalitasya lakShaNam (2-5) · Śloka 5
अथैषामेव लक्षणान्याह | तत्र घृष्टं लसीकया||२|| रक्तलेशेन वा युक्तं सप्लोषं छेदनात् स्रवेत्| अवगाढं ततः कृत्तं, विच्छिन्नं स्यात्ततोऽपि च||३|| प्रविलम्बि सशेषेऽस्थ्नि, पतितं पातितं तनोः| सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम्||४|| भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम्| प्रहारपीडनोत्पेषात् सहास्थ्ना पृथुतां गतम्||५||
🔊 Audio coming soon
स०-तेषु मध्ये घृष्टं लसीकया रक्तलेशेन वा युक्तं स्रवेत्, छेदनात् सप्लोषम्| तस्मादवगाढमवकृत्तं स्यात्| ततोऽप्यवगाढतरं विच्छिन्नं स्यात्| प्रविलम्बि सशेषास्थि यत्| पतितं यच्छरीरात् तत् पातितं स्यात्| सूक्ष्ममुखशल्यविद्धं यत्तत् विद्धं क्थ्यते कोष्ठविवर्जितम्| अन्यत् कोष्ठे यद्विद्धं तद्भिन्नमुच्यते| विदलितं तद् गद्यते यन्मज्जरक्तपरिप्लुतं प्रहारादिभिः सहास्थ्ना पृथुतां गतम्|
Adhikarana sadyovraNacikitsA sadyovraNe tIvramyahe yaShTIShTa tena secanam sadyo balAtailena vA punaH punaH secanam (6) · Śloka 6
सद्यः सद्योव्रणं सिञ्चेदथ यष्ट्याह्वसर्पिषा| तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः||६||
🔊 Audio coming soon
स०-अथ एवं व्रणस्वरूपतां ज्ञात्वा, सद्य एवेति सद्योव्रणं तीव्रव्यथं मधुयष्टीघृतेन कोष्णेन सिञ्चेत्| बलातैलेन (हृ.शा.अ. २/४७) वा कोष्णेन पुनः पुनः सिञ्चेत्|
Adhikarana sadyo kShatoShmaNaH shAntaye kaShAyAdayolepAdayaH (7) · Śloka 7
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च| कषायशीतमधुरस्निग्धा लेपादयो हेताः||७||
🔊 Audio coming soon
स०-क्षतोष्मणश्च शान्तये तत्कालनिर्गतस्य च कषायादयो लेपाद्याः शस्यन्ते|
Adhikarana sadyo Ayate sandhAnArthaM madhusarpiH,sadyo Ayate pittandhIshcha shItAH kriyAH (8) · Śloka 8
सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः| मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः||८||
🔊 Audio coming soon
स०-सद्योव्रणेष्वायतेषु सन्धानाऱ्थं विशेषेण माक्षिकं सघृतं युञ्जीत| तथा पित्तघ्नीश्च शीताः क्रिया हिताः|
Adhikarana sadyo sasaMramme shodhanAdi dhRuShTe (9) · Śloka 9
ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्| उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम्||९||
🔊 Audio coming soon
स०-ससंरम्भेषु व्रणेषूर्ध्वमधश्च शोधनं कार्यम्| तथोपवासो विधातव्यः| अवस्थावशात् पूर्वोक्तं भोजनं हितम्| तथा प्रततं रक्तस्रावणं हितम्|
Adhikarana eSha vidhiH (10) · Śloka 10
घृष्टे विदलिते चैष सुतरामिष्यते विधिः| तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते||१०||
🔊 Audio coming soon
स०-घृष्टे विदलिते च एषा पूर्वोक्ता चिकित्सा इष्यते| यस्मात्तयोः-घृष्टविदलितयोः, अस्रमल्पं स्रवति| तेन च कारेणेन तयोराशु शीघ्रं पाको जायते|
Adhikarana anyatra vikShate snehapAnAdi (11-12) · Śloka 12
अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते| ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे||११|| स्नेहपानपरीषेकस्वेदलेपोपनाहनम्| स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्||१२||
🔊 Audio coming soon
स०-अन्यत्र विक्षते बाहुल्येन बहु रक्तं स्रवति| न च पाकं याति| अनन्तरमत्यन्तरक्तस्रावात् पवने कुपितेऽतिरुजाकरे सति स्नेहपानादिकं स्नेहबस्तिं च वातहरौषधसाधितं कुर्वीत|
Adhikarana sadyovraNe iti sAptAhikovidhiH ,sadyo anantaraM pUrvoktovidhiH (13) · Śloka 13
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः| सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत्||१३||
🔊 Audio coming soon
स०-इति-एवं, साप्ताहिकः सद्योव्रणहितो विधिरुक्तः| सप्ताहेन निवृत्त इति "प्राग्वहतेष्ठक्" इति ठक्| सप्ताहादूर्ध्वं गतक्षोभे सति पूर्वोक्तं विधिं-व्रणप्रतिषेधोक्तं, कुर्यात्|
Adhikarana sadyo idaM sAmAnyakarmaM (14) · Śloka 14
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्| |१४|
🔊 Audio coming soon
स०-प्रायो बाहुल्येन सद्योव्रण एतत्सामान्यं कर्म| स०-पृथक्पृथग् विशेषेण कर्म भणिष्यते|
Adhikarana dhRuShTe vraNe cUrNAni (14) · Śloka 14
| घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत्||१४||
🔊 Audio coming soon
स०-घृष्टे व्रणे पीडां प्रागुपशमय्य चूर्णानि योजयेत्|
Adhikarana avakRutte vraNe kalkAdIni (15) · Śloka 15
कल्कादिन्यवकृत्ते तु| |१५|
🔊 Audio coming soon
स०-अवकृत्ते पुनर्व्रणे कल्कादीनि योजयेत्|
Adhikarana vicchinne pravilambini casIvanaMbandhanaMpIDanaM ca (15) · Śloka 15
विच्छिन्नप्रविलम्बिनोः| सीवनं विधिनोक्तेन बन्धनं चानु पीडनम्||१५||
🔊 Audio coming soon
स०-विच्छिन्ने प्रविलम्बनि च व्रणे सीवनं पूर्वोक्तेन विधानेन, तथा बन्धनं पीडनं च पश्चाद् योजयेत्|
Adhikarana sphuTitanetrasyAsAdhyatvam,asphuTitalambini netre yathA sthAnAniveshanAdi asphutisarvanetrAbhidhAtajit yaShTacAdivkamAjaM dhRutam (16-18) · Śloka 18
असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत्| सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्||१६|| पीडयेत् पाणिना पद्मपलाशान्तरितेन तत्| ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः||१७|| विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः| सपयस्कैः परं तद्वि सर्वनेत्राभिघातजित्||१८||
🔊 Audio coming soon
स०-स्फुटितं लोचनमसाध्यम्| अस्फुटितं तु यन्नेत्रमवदीर्णंलम्बते, तत् स्वे स्थाने सन्निवेश्याव्याविधसिरं पद्मपत्रान्तरितेन हस्तेन पीडयेत्| अनन्तरमस्यातुरस्य घृतं छागं सक्षीरैर्यष्ट्यादिभिः कल्कैः पक्वं सेचनादौ हितम्| यतस्तद् घृतं परं सर्वनेत्राभिघातजित्|
Adhikarana avasanne netre galapIDAdi,avasanne kShatanetrava~jja kriyA (19) · Śloka 19
गलपीडाऽवसन्नेऽक्ष्णि वमनोत्कासनक्षवाः| प्राणायमोऽथवा कार्यः क्रिया च क्षतनेत्रवत्||१९||
🔊 Audio coming soon
स०-गलपीडनमवसन्ने नेत्रे वमनादयः कार्याः, प्राणायामो वा| तथा क्षनेत्रक्रिया चात्र हिता|
Adhikarana karNe sthAnAccyute tailena pUraNam (20) · Śloka 20
कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत्| |२०|
🔊 Audio coming soon
स०-कर्णे स्थानाद् भ्रष्टे स्यूते सति तैलेन श्रोतः पूरयेत्|
Adhikarana kRukATiyAM chinnAyAM sIvanAdi,kRukA Ajena sarpiShA pariShekaHkRukA uShNAno~annAni bhu~jjItakRukA tuyantritaH svapyAt (20-22) · Śloka 22
| कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते||२०|| समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निरन्तरम्| आजेन सर्पिषा चात्र परिषेकः प्रशस्यते||२१|| उत्तानोऽन्नानि भुञ्जीत, शयीत च सुयन्त्रितः| |२२|
🔊 Audio coming soon
स०-कृकाटिकायां छिन्नायां वातेऽपि निर्याते सति समं स्थापयित्वा स्यूत्वा च निरन्तरं शीघ्रं बध्नीयात्| अत्राजेन घृतेन च परिषेकः श्रेष्ठः| उत्तानाः सन् भोजनं भुञ्जीत| सुयन्त्रितश्च स्वप्यात्|
Adhikarana shAkAsu tiryaksthe dhAte sIvanAdi (22-23) · Śloka 23
| घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते||२२|| स्यूत्वा वेल्लितबन्धेन बध्नीयाद्धनवाससा| चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे||२३||
🔊 Audio coming soon
स०-शाखासु हतमातुरं तिर्यक्स्थितं शरीरे सम्यक्स्थापिते स्यूत्वा वेल्लितबन्धेन घनेन वाससा बध्नीयात्| असङ्गते व्रणे चर्मणा गोष्फणाबन्धो विधेयः|
Adhikarana vilambimuShkasya sIvanAdi (24-25) · Śloka 25
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा| प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्नसंज्ञया||२४|| कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्| स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः||२५||
🔊 Audio coming soon
स०-विलम्बुमुष्कस्य पादौ नेत्रे च वारिणा प्रेक्ष्य वृषणौ प्रवेश्य सीव्येत्| कथम् ? तुन्नसंज्ञया सेवन्या| तथा कट्यां पट्टकमासज्य गोष्फणाबन्धं कुर्यात्| स्नेहसेकं न कुर्वीत| यतः स्नेहसेके सत्यस्मिन् व्रणः क्लिद्यति|
Adhikarana vilambi kAlAnusAryAditailenaropaNam (26) · Śloka 26
कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः| शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्||२६||
🔊 Audio coming soon
स०-कालानुसार्यादिभिः कल्कितैः पक्वं तैलं वृषणयो रोपणम्|
Adhikarana niHsheShataH cchinnAyAM shAkhAyAM tailAna dgdhvA koshabandhanAdi (27) · Śloka 27
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः| बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्||२७||
🔊 Audio coming soon
स०-निःशेषेण छिन्नां शाखां दग्ध्वा तैलेन युक्त्या कोशबन्धेन बध्नीयात्| अनन्तरं व्रणमिवाचरेत्|
Adhikarana viddhe shalyAhrate vraNavat kriyA (28) · Śloka 28
कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया| |२८|
🔊 Audio coming soon
स०-विद्धे शल्याहृते सति भङ्गाद्विदलिते क्रिया कार्या|
Adhikarana vidalite shalye~apahrate vraNavat kriyA,vidalite bha~ggavat kriyA shirasaH shalye~aparate bAlavartipraveshanAdi (28-29) · Śloka 29
| शिरसोऽपहृते शल्ये वालवर्तिं प्रवेशयेत्||२८|| मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा| व्रणे रोहति चैकैकं शनैरपनयेत्कचम्||२९||
🔊 Audio coming soon
स०-शिरसः शल्ये निपतिते सति वालवर्तिं प्रवेशयेत्| अन्यथा-वालवर्तेरप्रवेशात्, मस्तुलुङ्गस्रावाद्वायुः ऋद्धः एनं- व्रणिनं, हन्यात्| व्रणे रोहति सत्येकैकं कचं शनैर्नयेत्|
Adhikarana mastulu~ggastrutou mastiShkabhakShaNam (30) · Śloka 30
आचरमोच्छ्वासादातुरं समुपाचरेदिति वचनान्मस्तुलुङ्गस्रुतावप्युपक्रममाह मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान्| |३०|
🔊 Audio coming soon
स०-मस्तुलुङ्गस्य-मज्जाख्यस्य, स्रुतावन्यजीवजान् मस्तिष्कान् खादेत्|
Adhikarana hratashalye~a~gge snehavartiH (30) · Śloka 30
| शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत्||३०||
🔊 Audio coming soon
स०-अङ्गादन्यस्माच्छल्ये हृते सति तत्र व्रणे स्नेहवर्तिं निधापयेत्|
Adhikarana vraNe dUrAvagADhAdau cakratai lena secanam (31) · Śloka 31
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः| सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्||३१||
🔊 Audio coming soon
स०-ये व्रणा दूरावगाढादिगुणास्तांश्चक्रतैलेन-कोह्लकाद्युद्भवेन तैलेन, सेचयेत्| किम्भूतेन ? सूक्ष्मनेत्रेणार्पितेन-क्षिप्तेन|
Adhikarana bhinnakoShThasya raktapUrNasya lakShaNam (32-33) · Śloka 33
भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छाहृत्पार्श्ववेदनाः| ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्||३२|| सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता| लोहगन्धित्वमास्यस्य स्याद् गात्रे च विगन्धता||३३||
🔊 Audio coming soon
स०-भिन्ने कोष्ठे रक्तेन पूर्णे सति मूर्च्छाद्याः स्युः|
Adhikarana bhinnakoShThasya AmAshayastharudhirasya (34) · Śloka 34
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि| आध्मानेनातिमात्रेण शूलेन च विशस्यते||३४||
🔊 Audio coming soon
स०-आमाशयस्थे रुधिरे रक्तमुद्वमत्यप्याध्मानेनातिमात्रेण शूलेन च विशस्यते-व्यापद्यते|
Adhikarana bhinnakoShThasya pakvAshayastha rudhirasya lakShaNam (35) · Śloka 35
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्| नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः||३५||
🔊 Audio coming soon
स०-पक्वाशयस्थे लोहिते शूलसहितं गौरवं भवेत्| नाभेरधोभागे शैत्यम्| छिद्रेभ्यो रुधिरस्यैवागमनम्|
Adhikarana abhinnAshayasyApi raktena pUrNatvam (36) · Śloka 36
अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते| असृजा स्यन्दमानेन पार्श्वे मूत्रेण बस्तिवत्||३६||
🔊 Audio coming soon
स०-आशयोऽभिन्नोऽपि सूक्ष्मैः स्रोतोभिर्लोहितेन स्यन्दमानेनाभिपूर्यते| पार्श्वे मूत्रेण बस्तिरिव|
Adhikarana tatrAntarlohitAderasAdhyatvam (37) · Śloka 37
तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्| रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत्||३७||
🔊 Audio coming soon
स०-तेषु मध्येऽन्तर्लोहितं व्रणिनं शीतपादं शीतोच्छ्वासं शिशिरकरं शीतवक्रं लोहिताक्षं पाण्डुवदनमानद्धं च वर्जयेत्|
Adhikarana AmAshayasthe rakte vamanam,pavkAshayasthe rakte vireko nirUhashcha (38) · Śloka 38
अमाशयस्थे वमनं हितं, पक्वाशयाश्रिते| विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः||३८||
🔊 Audio coming soon
स०-आमाशयस्थे रक्ते वमनं हितम्| पक्वाशयगते विरेचनं निरूहं च विगतस्नेहैरुष्णैश्च विशोधनैर्हितम्|
Adhikarana pakvAshaya annabhakShaNaprakAraH (39) · Śloka 39
यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः| भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्||३९||
🔊 Audio coming soon
स०-यवादीनां रसैः स्नेहरहितैरन्नं भक्षयेत्| पेयां सैन्धवान्वितां वा पिबेत्|
Adhikarana atiniH strutarakte rudhirapAnam (40) · Śloka 40
अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्| |४०|
🔊 Audio coming soon
स०-अतिनिःस्रुतलोहितो भिन्नकोष्ठो रुधिरं पिबेत्|
Adhikarana koShThabhedanasya dvaividhyam kliShTAntre mUrcchAdayo~alpAH chinnAntre mUrcchAatibAdhakAH kliShTacchinnAntrayoH saMshayAsAdhyatvam (40-41) · Śloka 41
| क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः||४०|| मूर्च्छादयोऽल्पाः प्रथमेद्वितीये त्वति बाधकाः| क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति||४१||
🔊 Audio coming soon
स०-क्लिन्नान्त्रभेदेन भिन्नान्त्रभेदेन च कोष्ठभेदो द्विप्रकार उक्तः| प्रथमे-क्लिन्नान्त्राख्ये, मूर्च्छदयोऽल्पाः-किञ्चिदेव, स्युः| द्वितीये-भिन्नान्त्राख्ये, अतिशयेन बाधकाः स्युः| क्लिन्नान्त्रो देही संशयी स्याद् जीवने| भिन्नान्त्रो न जातु जीवति|
Adhikarana bhinnakoShTasya sAdhyalakShaNam (42) · Śloka 42
यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः| व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम्||४२||
🔊 Audio coming soon
स०-यस्य विण्मूत्रमारुता यथायथं मार्गं प्राप्ताः विगतोपद्रवश्च स नरो भिन्नकोष्ठोऽपि सन् जीवति|
Adhikarana antrakoShThasya matadvayam (43-44) · Śloka 44
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा| उत्पङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु||४३|| प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः| प्रवेशयेत्क्लृप्तनखो घृतेनाक्तं शनैः शनैः||४४||
🔊 Audio coming soon
स०-अन्त्रमभिन्नं निष्क्रान्तं प्रवेशनीयमन्तरे| न त्वतोऽन्यथा-भिन्नमित्यर्थः| अन्ये त्वेवमाचक्षते,-उत्पङ्गिलशिरसामर्कोटशीर्षेण, ग्रस्तं भिन्नमप्यन्त्रं प्रवेश्यम्| सं-अन्त्रं निष्क्रान्तं तृणादिभिर्दिग्धं पयसा प्रक्षाल्य सर्पिषाऽभ्यक्तं क्लृप्तनखः शनैः शनैः प्रवेशयेत्|
Adhikarana annapravEshavidhiH (45-46) · Śloka 46
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम्| अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि||४५|| तथाऽन्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च| |४६|
🔊 Audio coming soon
स०-शुष्कमन्त्रं क्षीरेणार्द्रीकृतं बहुघृतपरिप्लुतमङ्गुल्या गलं प्रमृशेत् जलेनोद्वेजयेत्| तथा-एवं, अन्त्राण्यन्तः प्रविशन्ति तत्कालं च पीडयन्ति|
Adhikarana yathAsthAnaM syite~antre vraNaM sIvyet ,sthAnAcyute~antre maraNam kupite~antre paTTena veShTayetvA dhRutena paripecayet kupite tatashchitrAtailapayasA pAnam kupite vraNayantraNAM varShamanuvarteta (46-50) · Śloka 50
| व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमनाविशत्||४६|| तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्| यथास्थानं स्थिते सम्यगन्त्रे सीव्येदनु व्रणम्||४७|| स्थानादपेतमादत्ते जीवितं कुपितं च तत्| वेष्टयित्वाऽनु पट्टेन घृतेन परिषेचयेत्||४८|| पाययेत ततः कोष्णं चित्रातैलयुतं पयः| मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये||४९|| अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्| |५०|
🔊 Audio coming soon
स०-व्रणसूक्ष्मात्वादन्त्रस्य बहुत्वात् [वा] कोष्ठमनाविशदन्त्रं जठरं तत्प्रमाणेन पाटयित्वा प्रवेशयेत्| यथास्थानं स्थिते सम्यगन्त्रे सति पश्चाद् व्रणं सीव्येत्| स्थानाच्च्युतमन्त्रं जीवितं हरति| कुपितं च तत्-अन्त्रं, पट्टेन वेष्टयित्वा पश्चाद्घृतेन परिषेचयेत्| अनन्तरं चित्रातैलान्वितं कोष्णं क्षीरं पिबेत्| शकृतो म्ऱृदूकरणाय पवमानस्य च प्रवर्तनाय| यथोक्तां च व्रणयन्त्रणां संवत्सरं यावदनुवर्तेत|
Adhikarana udarAnmedovartinirgamane cikitsA (50-54) · Śloka 54
| उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा||५०|| अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम्| दृढं बध्वा च सूत्रेण वर्द्धयेत्कुशलो भिषक्||५१|| तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु| स्यान्दन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया||५२|| सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्| क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्||५३|| रुग्दाहजित्सयष्ट्याह्वैः परं पूर्वोदितो विधिः| मेदोग्रन्थ्युदितं तत्र तैलमभ्यञ्जने हितम्||५४||
🔊 Audio coming soon
स०-जठरान्मेदसो वर्तिं निर्गतां भस्मना वा मृदाऽवकीर्याथवा श्लक्ष्णचूर्णैः कषायैर्मूलैरवकीर्य ततो मूलेन समं दृढं च कृत्वा सूत्रेण बध्वा तीक्ष्णेन वह्निप्रतप्तेन शस्त्रेण कुशलो वैद्यः सकृदेव वर्द्धयेत्| अन्यथा छिन्नया रुजाऽऽटोपो मृत्युर्वा स्यात्| ततो व्रणे समाक्षिके बद्धेऽन्ने च सुजीर्णे सति घृतं पिबेत्| अथवा शर्करादिभिः शृतं दुग्धं पिबेत्| तच्च घृतं क्षीरं वा रुजादाहहृत्| अनन्तरं पूर्वोक्तो विधिः| तत्र मेदोग्रन्थिषु कथितं तैलमभ्यञ्जने हितम्|
Adhikarana sadyovraNeShu tAlIsAditailaM ropaNam (55-56) · Śloka 56
तालीसं पद्मकं मांसीहरेण्वगुरुचन्दनम्| हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः||५५|| पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्| |५६|
🔊 Audio coming soon
स०-तालीसादिभिः कल्कितैः पक्वं तैलं सद्योव्रणेषु रोपणं परमुक्तम्|
Adhikarana gUDhaprahArAbhihatAdau vAtAstrajit karma (56-57) · Śloka 57
| गूढप्रहाराभिहते पतिते विषमोच्चकैः||५६|| कार्यं वातास्रजित् तृप्तिमर्दनाभ्यञ्जनादिकम्| |५७|
🔊 Audio coming soon
स०-गूढप्रहारेणाभिहते, तथा विषमं पतिते, तथोच्चकैः पतिते च, वातरक्तहरादिकं कार्यम्|
Adhikarana vishliShTadehAdau tailadroNyAM vAsayet (26) · Śloka 26
| विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम्||५७|| वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्| ५७ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनूश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने सद्योव्रणप्रतिषेधो नाम ष- ड्विंशोऽध्यायः||२६||
🔊 Audio coming soon
स०-विश्लिष्टदेहादिकं नरं तैलद्रोण्यां मांसरसाशिनं वासयेदिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामाष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सद्योव्रणप्रति- षेधो नाम षड्विंशोऽध्यायः समाप्तः|| २६||