Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अथ क्रमप्राप्तं व्रणप्रतिषेधं व्याचिख्यासुराह-
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अथ क्रमप्राप्तं व्रणप्रतिषेधं व्याचिख्यासुराह-
Adhikarana vraNapratishedhAdhyAyaH vraNasya dvaividhyam (2) · Śloka 2
अथातो व्रणप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) व्रणो द्विधा निजागन्तुदुष्टशुद्धविभेदतः| निजो दोषैः शरीरोत्थैरागन्तुर्बाह्यहेतुजः||१|| दोषैरधिष्ठितो दुष्टः शुद्धस्तैरनधिष्ठितः| |२|
🔊 Audio coming soon
स०-व्रणो द्विप्रकारो-निजागन्तुभेदाद् दुष्टशुद्धभेदाच्च| निजो व्रणः शारीरैदोषैर्भवति| आगन्तुर्बाह्यहेतूद्भवः| दोषैरधिष्ठितो दुष्टः| शुद्धो यो दोषैरनधिष्ठितः|
Adhikarana duShTavraNasya lakShaNam (2-5) · Śloka 5
| संवृतत्वं विवृतता काठिन्यं मृदुताऽति वा||२|| अत्युत्सन्नावसन्नत्वमत्यौष्ण्यमतिशीतता| रक्तत्वं पाण्डुता कार्ष्ण्यं पूतिपूयपरिस्रुतिः||३|| पूतिमांससिरास्नायुच्छन्नतोत्सङ्गिताऽतिरुक्| संरम्भदाहश्वयथुकण्ड्वादिभिरुपद्रुतः||४|| दीर्घकालानुबन्धश्च विद्याद्दुष्टव्रणाकृतिम्| |५|
🔊 Audio coming soon
स०-संवृतत्वादिर्यो व्रणस्तं दुष्टव्रणाकृतिं विद्यात्|
Adhikarana vraNaH pa~jcadashaprakAraH (5) · Śloka 5
| स पञ्चदशधा दोषैः सरक्तैः|५|
🔊 Audio coming soon
स०-स च पञ्चदशप्रकारो रक्तसहितैर्दोषैः स्यात्| तत्र पृथग् दोषैस्त्रयः, संसर्गजास्त्रयः, सन्निपातेनैक इति [सप्त]| एवंभूता रक्तसहितैः सप्त| एवं चतुर्दश| रक्तेन केवलेनैक इति पञ्चदश| ननु, प्रागभ्यधायि (हृ.सू.अ.२९/६)-"शूलंनर्तेऽनिलाद्दाहः पित्ताच्छोफः कफोदयात्| रागो रक्ताच्च पाकःस्यात्" इत्यादि| तदिहैकदोषजत्वं द्विदोषजत्वं रक्तरहितत्वं चोच्यमानं पूर्वापरव्याहतं स्यात्| अत्रोच्यते| काससम्प्राप्तिवदत्र न्यायो बोध्यः| तथा ह्येकदोषजेऽपि कासे दोषान्तरस्यानुबन्धत्वमुररीकृत्य द्विदोषजानुसारेण यथोपक्रमस्तथेहापीति नात्र पुर्वापरव्याहतत्वम्|
Adhikarana 1 vAtajasya vraNasya lakShaNam (5-7) · Śloka 7
| तत्र मारुतात्||५|| श्यावः कृष्णोऽरुणो भस्मकपोतास्थिनिभोऽपि वा| मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रुतिः||६|| निर्मांसस्तोदभेदाढ्यो रूक्षश्चटचटायते| |७|
🔊 Audio coming soon
स०-तेषु मध्ये मारुतात् श्यावादिगुणो मस्त्वादितुल्यतन्वल्पविस्रावस्तथा निर्मांसादिगुणः स्यात्|
Adhikarana 2 pittajasya vraNasya lakShaNam (7-8) · Śloka 8
| पित्तेन क्षिप्रजः पीतो नीलः कपिलपिङ्गलः||७|| मूत्रकिंशुकभस्माम्बुतैलाभोष्णबहुस्रुतिः| क्षारोक्षितक्षतसमव्यथो रागोष्मपाकवान्||८||
🔊 Audio coming soon
स०-पित्तेन व्रणः क्षिप्रोद्भवः पीतादुगुणो मूत्रादिसदृशबहुस्रावः क्षारोक्षिततुल्यरुजो रागोष्मपाकवान्|
Adhikarana 3 kafajasya vraNasya lakShaNam (9) · Śloka 9
कफेन पाण्डुः कण्डूमान् बहुश्वेतघनस्रुतिः| स्थूलोष्ठः कठिनः स्नायुसिराजालततोऽल्परुक्||९||
🔊 Audio coming soon
स०-कफेन पाण्डुः कण्डूयुतो बहुशुक्लघनस्रावः स्थूलौष्ठः कठिनस्तथा स्रायुसिराजालततोऽल्परुजः|
Adhikarana 4 raktajasya vraNasya lakShaNam (10) · Śloka 10
प्रवालरक्तो रक्तेन सरक्तं पूयमुद्गिरेत्| वाजिस्थानसमो गन्धे युक्तो लिङ्गैश्च पैत्तिकैः||१०||
🔊 Audio coming soon
स०-रक्तेन विद्गुमलोहितः सरक्तं पूयं स्रवेत्| तुरगस्थानतुल्यो गन्धेन| तथा पैत्तिकैर्लिङ्गैर्युतः|
Adhikarana 5-10 dvidoShajasya vraNasya lakShaNam,11-14 tridoShajasya vraNasya lakShaNam 15 sarvajasya vraNasya lakShaNam (11) · Śloka 11
द्बाभ्यां त्रिभिश्च सर्वैश्च विद्याल्लक्षणसङ्करात्| |११|
🔊 Audio coming soon
स०-द्वाभ्यां त्रिभिः सर्वैश्च लक्षणानां सङ्करात् संसर्गजादीन् विद्यात्|
Adhikarana shuddhavraNasya lakShaNam (11-12) · Śloka 12
| जिह्वाप्रभो मृदुः श्लक्ष्णः श्यावौष्ठपिटिकः समः||११|| किञ्चिदुन्नतमध्यो वा व्रणः शुद्धोऽनुपद्रवः| |१२|
🔊 Audio coming soon
स०-जिह्वाप्रभादिगुणो व्रणोऽनुपद्रवः शुद्धः स्यात्|
Adhikarana tcagAdInAM vraNAshrayAnAmuttarottaraM duHsAdhyatvam (12-13) · Śloka 13
| त्वगामिषसिरास्नायुसन्ध्यस्थीनि व्रणाशयाः||१२|| कोष्ठो मर्म च तान्यष्टौ दुःसाध्यान्युत्तरोत्तरम्| |१३|
🔊 Audio coming soon
स०-त्वगादीनि व्रणाश्रयास्तथा कोष्ठो मर्म चेत्यष्टावृत्तरोत्तरं दुःसाध्यानि|
Adhikarana vraNAnAM susAdhyatvam (13-14) · Śloka 14
| सुसाध्यः सत्त्वमांसाग्निवयोबलवति व्रणः||१३|| वृत्तो दीर्घस्त्रिपुटकश्चतुरस्राकृतिश्च यः| तथा स्फिक्पायुमेढ्रोष्ठपृष्ठान्तर्वक्त्रगण्डगः||१४||
🔊 Audio coming soon
स०-सत्त्वादिमति व्रणः सुसाध्यः| वृत्तादिगुणस्तथा स्फिगादिषु च सुसाध्यः|
Adhikarana vraNAnAM kRucchrasAdhyatvam (15) · Śloka 15
कृच्छ्रसाध्योऽक्षिदशननासिकापाङ्गनाभिषु| सेवनीजठरश्रोत्रपार्श्वकक्षास्तनेषु च||१५||
🔊 Audio coming soon
स०-अक्ष्यादिषु स्थितः कृच्छ्रसाध्यः|
Adhikarana vraNAnAM asAdhyatvam (16-22) · Śloka 22
फेनपूयानिलवहः शल्यवानूर्ध्वनिर्वमी| भगन्दरोऽन्तर्वदनस्तथा कट्यस्थिसंश्रितः||१६|| कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्| व्रणाः कृच्छ्रेण सिध्द्यन्ति येषां च स्युर्व्रणे व्रणाः||१७|| नैव सिध्द्यन्ति वीसर्पज्वरातीसारकासिनाम्| पिपासूनामनिद्राणां श्वासिनामविपाकिनाम्||१८|| भिन्ने शिरःकपाले वा मस्तुलुङ्गस्य दर्शने| स्नायुक्लेदात्सिराच्छेदाद्गाम्भीर्यात्कृमिभक्षणात्||१९|| अस्थिभेदात्सशल्यत्वात्सविषत्वादतर्कितात्| मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्||२०|| क्षोभादशुद्धकोष्ठत्वात्सौहित्यादतिकर्शनात्| मद्यपानाद्दिवास्वप्नाद्ववायाद्रात्रिजागरात्||२१|| व्रणो मिथ्योपचाराच्च नैव साध्योऽपि सिध्यति| |२२|
🔊 Audio coming soon
स०-फेनादिवहः शल्युक्त ऊर्ध्वनिर्वमी तथा भगन्दरोऽन्तर्मुखस्तथा कठ्यस्थिसंश्रितस्तथा कुष्ठ्यादीनां व्रणाः कृच्छ्रेण सिध्द्यन्ति| तथा येषां व्रणे व्रणाः स्युस्ते च दुःसाध्याः| स०-विसर्पज्वरादिमतां व्रणा नैव सिद्ध्यन्ति| शिरःकपाले च भिन्ने मस्तुलुङ्गदर्शने [वा] व्रणो न सिद्ध्यति| स०-स्रायुक्लेदादेः कारणात् साध्योऽपि व्रणो न सिद्ध्यति|
Adhikarana rohasya lakShaNam (22-23) · Śloka 23
| कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः||२२|| स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत्| |२३|
🔊 Audio coming soon
स०-यस्य कपोतवर्णाभाः प्रक्लेदवर्जिता अन्ताः, तथा चिपिटिकान्वन्तो-म्लानप्रायाः, तं-व्रणं, रोहतीति निर्दिशेत्|
Adhikarana vraNacikitsA vraNashophe vishodhanam (23-24) · Śloka 24
| अथात्र शोफावस्थायां यथासन्नं विशोधनम्||२३|| योज्यं शोफो हि शुद्धानां व्रणश्चाशु प्रशाम्यति| |२४|
🔊 Audio coming soon
स०-अत्र च-व्रणे, शोफावस्थायां सत्यां यथासन्नं-ऊर्ध्वमधो वा, शोधनं-वमनं विरेचनं वा, योज्यम्| शुद्धानां हि शोफो व्रणश्च शीघ्रं शाम्यति|
Adhikarana vraNashItopacAraH (24-25) · Śloka 25
| कुर्याच्छीतोपचारं च शोफावस्थस्य सन्ततम्||२४|| दोषाग्निरग्निवत्तेन प्रयाति सहसा शमम्| |२५|
🔊 Audio coming soon
स०-शोफावस्थस्य सततं शीतोपचारं कुर्यात्| तेन-शीतोपचारेण कृतेन सता, दोषाग्निरग्निरिव सहसैव शमं याति|
Adhikarana shophe vraNe ca kaThinAdiyukte raktaharaNam (25-26) · Śloka 26
| शोफे व्रणे च कठिने विवर्णे वेदनान्विते||२५|| विषयुक्ते विशेषेण जलजाद्यैर्हरेदसृक्| दुष्टास्रेऽपगते सद्यः शोफरागरुजां शमः||२६||
🔊 Audio coming soon
स०-शोफे व्रणे च कठिनादिगुणे विशेषेण जलौकःप्रभृतिभिरस्रं हरेत्| यतो दुष्टरक्तेऽपनीते सद्य एव शोफादिशमः स्यात्|
Adhikarana shophe punaH punaH srAvitarakte shIradravyairlepaH (27-28) · Śloka 28
हृते हृते च रुधिरे सुशीतैः स्पर्शवीर्ययोः| सुश्लक्ष्णैस्तदहःपिष्टैः क्षीरेक्षुस्वरसद्रवैः||२७|| शतधौतघृतोपेतैर्मुहुरन्यैरशोषिभिः| प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश्च तत्कृताः||२८||
🔊 Audio coming soon
स०-पुनः पुनः स्राविते च रक्ते सति स्पर्शवीर्ययोः सुष्ठु शीतद्रव्यैः सुश्लक्ष्णैस्तस्मिन्नेवाहनि पिष्टैः-न तु पर्युषितैः, तथा क्षीरादिद्रवैः शतधौतघृतयुक्तैर्मुहुरपरैरशोषिभिर्लेपो हितः| प्रतिलोमं-न त्वनुलोमम्| सेकाभ्यङ्गाश्च पूर्वोक्तैः कृता हिताः|
Adhikarana shophe nyagrodhAditvAgbhiH pralepaH (29) · Śloka 29
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेत सवल्कलैः| प्रदेहो भूरिसर्पिभिः शोफनिर्वापणः परम्||२९||
🔊 Audio coming soon
स०-न्यग्रोधादित्वग्भिः प्रदेहो भूरिघृतः परं शोफनिर्वापणः|
Adhikarana shophe AnUpavesavArAdyaiH svedaH,shophe dAharUgdharAH somAstilAH (30-31) · Śloka 31
वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्| स्रुतास्रुजां च शोफानां व्रणानामपि चेद्दशाम्||३०|| आनूपवेसवाराद्यैः स्वेदः, सोमास्तिलाः पुनः| भृष्टा निर्वापिताः क्षीरे तत्पिष्टा दाहरुग्घराः||३१||
🔊 Audio coming soon
स०-वातोल्बणानां तथा स्तब्धानां कठिनानां तीव्ररुजां स्रुतरक्तानां शोफानां व्रणानामपि चेद्दक्स्वरूपाणां कुट्टितघृतादि संस्कृतानूपमांसाद्यैः स्वेदो हितः| अतसीयुक्तास्तिला भृष्टा दुग्धे निर्वापितास्तेनैव क्षीरेण पिष्टा दाहरुजाघ्नाः|
Adhikarana shophe shthiratvAdiyukte snehaH svedo mardanaM yavAdibhiH pralepashca (32-33) · Śloka 33
स्थिरान् मन्दरुजः शोफान् स्नेहैर्वातकफपहैः| अभ्यज्य स्वेदयित्वा च वेणुनाड्या शनैः शनैः||३२|| विम्लापनार्थं मृद्गीयात् तलेनाङुष्ठकेन वा| यवगोधूममुद्गैश्च सिद्ध पिष्टैः प्रलेपयेत्||३३||
🔊 Audio coming soon
स०-शोफान् स्थिरानल्पपीडान् वातकफघ्नैः स्नेहैर्म्रक्षायित्वा स्वेदयित्वा च वंशनाड्या विम्लापनार्थं शनैः शनैर्मलयेत्| तलेनाङ्गुष्ठकेन वा मलयेत्| यवादिभिः सिद्धपिष्टैः प्रदेहयेत्|
Adhikarana shophe evaM vilayanAbhAve upanAhaH (34) · Śloka 34
विलीयते स चेन्नैवं ततस्तमुपनाहयेत्| अविदग्धस्तथा शान्तिं विदग्धः पाकमश्रुते||३४||
🔊 Audio coming soon
स०-एवं कृते यदि शोफो न विलीयते, ततस्तमुपनाहयेत्| तथा कृते सत्यविदग्धः शोफण् सन् शान्तिं प्राप्नोति| विदग्धस्तु पच्यते|
Adhikarana shophe upanAhe saktupiNDikAshreShThA (35) · Śloka 35
सकोलतिलवल्लोमा दध्यम्ला सक्तुपिण्डिका| सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने||३५||
🔊 Audio coming soon
स०-बदरादियुता सक्तुपिण्डिकाऽम्लदधियुता किण्वाद्यन्विता कोष्णा उपनाहे श्रेष्ठा|
Adhikarana shophe supavkAdiyukte dAraNam (36) · Śloka 36
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते| दारणं दारणार्हस्य सुकुमारस्य चेष्यते||३६||
🔊 Audio coming soon
स०-शोफे सुपक्वे ग्रथिते पीडनैर्द्रव्यैरुपपीडिते सति दारणार्हस्य सुकुमारस्य नरस्य दारणमिष्यते|
Adhikarana shophe guggulvAdIni pavkashopha vidAraNAni (37) · Śloka 37
गुग्गुल्वतसिगोदन्तस्वर्णक्षीरीकपोतविट्| क्षौरौषधानि क्षाराश्च पक्वशोफविदारणम्||३७||
🔊 Audio coming soon
स०-गुग्ल्गुल्वादीनि, तथा क्षारौषधानि-क्षारविध्युक्तानि (हृ.सू.अ. ३०१८), क्षाराश्च, पक्वशोफविदारणं स्यात्| गोदन्तो-हरितालम्|
Adhikarana vraNe pUyagarbhAdiyukte pIDanam (38) · Śloka 38
पूयगर्भानणुद्वारान् सोत्सङ्गान्मर्मगानपि| निःस्नेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्||३८||
🔊 Audio coming soon
स०-पूयगर्भान् सूक्ष्मद्वारान् सोत्सङ्गान् मर्माश्रितान् स्नेहरहितैः पीडनद्रव्यैः परितः प्रतिपीडयेत्|
Adhikarana vraNe pIDanapralepasya shuShkatve samupekShAdi (39) · Śloka 39
शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति| न मुखे चैनमालिम्पेत् तथा दोषः प्रसिच्यते||३९||
🔊 Audio coming soon
स०-पीडनं प्रति यो लेपस्तं शुष्यन्तं समुपेक्षेत| मुखे चैनं व्रणं नालिम्पेत्| तथा च-एवं, दोषः, प्रसिच्यते-निर्याति|
Adhikarana vraNe kalAyAdiyukte surasAdinA kShAlanAdi (40) · Śloka 40
कलाययवगोधूममाषमुद्गहरेणवः| द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडनम्||४०||
🔊 Audio coming soon
स०-कलायादयः पिच्छिलानां द्रव्याणां त्वचो मूलानि च प्रपीडनं स्यात्|
Adhikarana vraNe avishuddhe paTolInimbavkA thena kShAlanam (41) · Śloka 41
सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ| भृशं दुष्टे व्रणे योज्यौ मेहकुष्ठव्रणेषु च||४१||
🔊 Audio coming soon
स०-सप्तसु क्षालनादिषु-क्षालनमालेपो घृतं तैलं रसक्रिया चूर्णो वर्तिश्चेति सप्त तेषु, सुरसादिरारग्वधादिश्चेति (हृ.सू.अ. १५) दुष्टे व्रणे भृशं योज्यौ तथा मेहादिषु च|
Adhikarana vraNe vishuddhe nyagrodAdivkAhena kShAlanam (42) · Śloka 42
अथवा क्षालनं क्वाथः पटोलीनिम्बपत्रजः| अविशुद्धे, विशुद्धे तु व्यग्रोधादित्वगुद्भवः||४२||
🔊 Audio coming soon
स०-अथवाऽविशुद्धे व्रणे पटोलीनिम्बपत्रजः क्वाथः क्षालनं हितः| विशुद्धे तु व्रणे न्यग्रोधादित्वगुद्भवः क्वाथः क्षालनादौ हितः|
Adhikarana vraNe paTolyAdilepo vraNashodhanaH (43) · Śloka 43
पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्| निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः||४३||
🔊 Audio coming soon
स०-पटोलादिभिर्लेपः सैन्धवयुतो व्रणशोधनः|
Adhikarana vraNe sUkShmAsyAdiyukte trivRutAdivartyA vishodhanam (44) · Śloka 44
व्रणान् विशोधयेद्वर्त्या सूक्ष्मास्यान् सन्धिमर्मगान्| कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः||४४||
🔊 Audio coming soon
स०-व्रणान् सूक्ष्ममुखान् सन्धिमर्माश्रितान् वर्त्या त्रिवृतादिभिः कृतया विशोधयेत्|
Adhikarana vraNe vAtAbhIbhUtAdau yavAjyAdibhirdhUpanam (45) · Śloka 45
वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्| यवज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः||४५||
🔊 Audio coming soon
स०-वाताभिभूतान् सास्रावान् दारुणवेदनान् यवादिभिर्धूपयेत्|
Adhikarana pittadyulbaNe shItatairnirvApaNam (46) · Śloka 46
निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान्| |४६|
🔊 Audio coming soon
स०-पित्ता[द्य]धिकान् शीतैर्भृशं निर्वापयेत्|
Adhikarana pittashuShkAlpamAMsAdau nyagrodhAdibhirutsAdanaM mAMsAdamAMsAnAM bhakShaNaM ca (46-48) · Śloka 48
| शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्||४६|| न्यग्रोधपद्मकादिभ्यामश्वगन्धाबलातिलैः| अद्यान्मांसादमांसानि विधिनोपहितानि च||४७|| मांसं मांसादमांसेन वर्धते शुद्धचेतसः| |४८|
🔊 Audio coming soon
स०-व्रणे शुष्काल्पमांसे गम्भीर उत्सादनं हितं व्यग्रोधादिभिः| तथा मांसादीनां प्राणिनां मांसानि सुष्ठु संस्कृतानि भक्षयेत्| यतः शुद्धमनसो मांसादमांसेन पिशितं वर्धते|
Adhikarana pitta utsannamRudumAMse jAtyAdibhiravasAdanam (48-49) · Śloka 49
| उत्सन्नमृदुमांसानां व्रणानामवसादनम्||४८|| जातीमुकुलकासीसमनोह्वालपुराग्निकैः| |४९|
🔊 Audio coming soon
स०-व्रणानामुत्सन्नमृदुमांसानां जातीमुकुलादिभिरवसादनं हितम्|
Adhikarana pitta utsannamAMsAdau kShArakarmaNA shodhanam (49-50) · Śloka 50
| उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्||४९|| व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा| |५०|
🔊 Audio coming soon
स०-उत्सन्नमांसादिका व्रणास्तथा ये तु सुष्ठु दुर्विशोध्यास्तान् क्षारकर्मणा विशोधयेत्|
Adhikarana phitta ashmaryAdau agnikarmaNA sAdhanam (50-51) · Śloka 51
| स्रवन्तोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः||५०|| छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च शोधनैः| शोध्यमाना न शुध्द्यन्ति शोध्याः स्युस्तेऽग्निकर्मणा||५१||
🔊 Audio coming soon
स०-अश्मरिजा व्रणा मूत्रं स्रवन्तो, ये चान्ये रक्तवाहिनो, येषां च सन्धयस्छिनाः, ये च यथोक्तैः शोधनैः शोध्यमाना न शुद्ध्यन्ति, तेऽग्निकर्मणा शोध्याः स्युः|
Adhikarana phitta shuddhautsAdanadravyeNa ropaNam (52) · Śloka 52
शुद्धानां रोपणं योज्यमुत्सादाय यदीरितम्| |५२|
🔊 Audio coming soon
स०-यदुत्सादार्थं द्रव्यं कथितं तदेव शुद्धानां व्रणानां रोपणं योज्यम्|
Adhikarana pitta ashvagandhAdikaM paramaM ropaNam (52-53) · Śloka 53
| अश्वगन्धा रुहा रोध्रं कट्फलं मधुयष्टिका||५२|| समङ्गा धातकीपुष्पं परमं व्रणरोपणम्| |५३|
🔊 Audio coming soon
स०-अश्वगन्धादिकं व्रणरोपणं परम्|
Adhikarana pittaa petapUtimAMsAdau tilakalkaha saMrohaNaH (53-54) · Śloka 54
| अपेतपूतिमांसानां मांसस्थानामरोहताम्||५३|| कल्कं संरोहणं कुर्यात् तिलानां मधिकान्वितम्| |५४|
🔊 Audio coming soon
स०-अपगतपूतिमांसानां मांसस्थानां व्रणानामरोहतां तिलकल्कं समधुकं संरोहणं कुर्यात्|
Adhikarana pitta sakShaudranimbapatrayuktaH paraM saMshodhanam,pitta sapUrvAbhyAM sarpiShA ca yuktaH shIdhraM ropaNaH (54-55) · Śloka 55
| स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्||५४|| स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनं परम्| पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः||५५||
🔊 Audio coming soon
स०-एष तिलकल्कः स्निग्धादिगुणैः सर्वरोगजित्| स माक्षिकनिम्बपत्राभ्यां युतस्तिलकल्कः परं संशोधनम्| पूर्वाभ्यां-क्षौद्रनिम्बपत्राभ्यां, सर्पिषा चासौ तिलकल्को युतः शीघ्रं संरोहणः स्यात्|
Adhikarana pitta tilavat yavakalko~api (56) · Śloka 56
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः| |५६|
🔊 Audio coming soon
स०-केचिद् व्रणस्वरूपाभिज्ञा यवकल्कं तिलकल्कवदिच्छन्ति|
Adhikarana pitta sAstrapittAdau kShIraropaNasiddhadhRutena ropaNam,pitta kaphavAtaje ropaNasiddhatailena ropaNasiddha tailena ropaNam (56-57) · Śloka 57
| सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्||५६|| क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्| रोपणौषधसिद्धेन तैलेन कफवातजान्||५७||
🔊 Audio coming soon
स०-सास्रपित्तादीन् व्रणान् क्षीरयुक्तरोपणद्रव्यपक्वेन घृतेन रोपयेत्| रोपणद्रव्यसिद्धेन तैलेन कफवातोत्थान् रोपयेत्|
Adhikarana pitta kAcchcAyAdikaM shreShThaM ropaNam (58) · Śloka 58
काच्छीरोध्राभयासर्जसिन्दूराञ्जनतुत्थकम्| चूर्णितं तैलमदनैर्युक्तं रोपणमुत्तमम्||५८||
🔊 Audio coming soon
स०-काछ्छ्यादिकं सूक्ष्मरजीकृतं तैलमदनैर्युक्तं रोपणम्|
Adhikarana pitta samAdau cUrNaH (59) · Śloka 59
समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते| |५९|
🔊 Audio coming soon
सं-समानां व्रणानां स्थिरमांसानां त्वक्स्थानां चूर्णमिष्टम्|
Adhikarana pitta kakuBAdipralepastvagvishuddhikaraH param (59-60) · Śloka 60
| ककुभोदुम्बराश्वत्थजम्बूकट्फलरोध्रजैः||५९|| त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः| |६०|
🔊 Audio coming soon
सं-ककुभादिजैश्चूर्णैर्व्रणाश्चूर्णिताः शीग़्रमेव त्वचं निगृह्णनन्ति|
Adhikarana pitta lAkShAdipralepastvagviSuddhikaraH param (60-61) · Śloka 61
| लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः||६०|| प्रलेपः सग़ृतक्षौद्रस्त्वग्विशुद्धिकरः परम्| |६१|
🔊 Audio coming soon
सं-लाक्षादिभिर्ग़ृतक्षौद्रसहितो लेपः परं त्वग्विशुद्धिकरः|
Adhikarana pitta kAlIyAdilepaH savarNakaraNaH (61-62) · Śloka 62
| कालीयकलताम्रास्थिहेमकालारसोत्तमैः||६१|| लेपः सगोमयरसः सवर्णकरणः परम्| |६२|
🔊 Audio coming soon
स०-कालीयकादिभिर्लेपः सगोशकृद्रसः परं सवर्णकरणः|
Adhikarana pitta vAraNadantAdilepo romobhdavakaraH ,pittaa catuShpAnnakhAdimaShIlepo (62-63) · Śloka 63
| दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्||६२|| रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता| चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी||६३||
🔊 Audio coming soon
स०-वारणदन्तोऽन्तर्धूमं दग्धस्तैलं रसाञ्जनं च लेपो रोमोद्भवकरः| तथैव तैलपरिप्लुता चतुष्पान्नखादिजा मषी पूर्वगुणा|
Adhikarana pitta shastrakarmoktaM pathyApathyAnnam (64) · Śloka 64
व्रणिनः शस्त्रकर्मोक्तं पथ्यापथ्यान्नमादिशेत्| |६४|
🔊 Audio coming soon
स०-व्रणिनः शस्त्रकर्मविधिकथितं (हृ.सू.अ. २९/३४) पथ्यापथ्यान्नमादिशेत्|
Adhikarana vAtaje vraNe dvipa~jjamUlAdiH pittaje vraNe nyagrodhAdiH kaphaje vraNe AragvadhAdiH mishraje vraNe mishraH (64-65) · Śloka 65
| द्वे पञ्चमूले वर्गश्च वातघ्नो वातिके हितः||६४|| न्यग्रोधपद्मकाद्यौ तु तद्वत्पित्तप्रदूषिते| आरग्वधादिः श्लेष्मघ्नः कफे, मिश्रास्तु मिश्रजे||६५||
🔊 Audio coming soon
स०-द्वे पञ्चमूले तथा वर्गो वातघ्नो वाताधिके हितः| तथा पैत्तिके न्यग्रोधादिपद्मकादी(हृ.सू.अ. १५/४९ अ. १५/१२) हितौ| श्लैष्मिक आरग्वधादिः (हृ.सू.अ. १५/१७) कफघ्नो हितः| मिश्रे तु मिश्र उपक्रमो हितः|
Adhikarana vraNe prakShAlanAdi saptayathAsvaM yojyAH (66) · Śloka 66
एभिः प्रक्षालनं लेपो घृतं तैलं रसक्रिया| चूर्णो वर्तिश्च संयोज्या व्रणे सप्त यथायथम्||६६||
🔊 Audio coming soon
स०-एभिः-पूर्वोक्तैः, प्रक्षालनादयः सप्त व्रणे सति यथास्वं योज्याः|
Adhikarana vraNe sUkShmavadanAdau jAtyAdidhRutena shodhanaM ropaNaM ca (25) · Śloka 25
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा- मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजान्वितैः| सर्पिः साध्यमनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो गम्भीराः सरुजो व्रणाः सगतयः शुध्द्यन्ति रोहन्ति च||६७|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भट- विरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने व्रणप्रतिषेधो नाम पञ्चविंशोऽध्यायः||२५||
🔊 Audio coming soon
सं-जात्यादिभिः सर्पिः साध्यम्| अभयं-उशीरमत्र| अनेन सर्पिषा सूक्ष्ममुखा मर्मस्थादयश्च व्रणाः शुद्ध्यन्ति रोहन्ति चेति| शार्दूलविक्रीडितं वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने व्रणप्रति- षेधो नाम पञ्चविंशोऽध्यायः समाप्तः|| २५||