Adhikarana sandhisitAsitAsitarogapratiShedhAdhyAyaH||11|| (2-3) · Śloka 3
अस्मादनन्तरं सन्धिसितासितरोगप्रतिषेध उच्यते अथातः सन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयदयो महर्षयः|
(गद्यसूत्रे|२|
)||३||
स०-प्रतिषिध्यते निराक्रियते चिकित्स्यत इति प्रतिषेधः,-चिकित्सा| शेषं पूर्ववत्|
Adhikarana upanAhe bhedanalekhanAdi (1-2) · Śloka 2
जलास्रावकफास्रावयोरसाध्यत्वादुपनाहचिकित्सामाह उपनाहं भिषक् स्विन्नं भिन्नं व्रीहिमुखेन च|
लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत्||१||
पिप्पलीक्षौद्रसिन्धूत्थैर्बध्नीयात्पूर्ववत्ततः|
पटोलपत्रामलकक्वाथेनाश्च्योतयेच्च तम्||२||
स०-वैद्यो मण्डलाग्रेणोपनाहं सन्धिरोगं लेखयेत्| किम्भूतम् ? स्विन्नं वर्त्मरोगप्रतिषेधोक्तेन प्रकारेण पोटलिकयोष्णोदकप्लुतयेति| तथा व्रीहिमुखेन भिन्नम्| ततः पिप्पल्यादिभिः प्रतिसारयेत्| [ ततः-] अनन्तरं, पूर्ववत्-प्रक्षाल्योष्णेन वारिणा घृतेन सिक्तमभ्यक्तं मधुसर्पिषा ऊर्ध्वाधः कर्णयोश्च यवसक्तुभिः पिण्डीं दत्त्वा, बध्नीयादिति| तथा पटोलपत्रामलकक्वाथेन चाश्च्योतयेत्|
Adhikarana parvaNyAM chedanapratisAraNAdi (3-4) · Śloka 4
पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः|
वृद्धिपत्रेण वर्ध्याऽर्धे स्यादश्रुगतिरन्यथा||३||
चिकित्सा चार्मवत्क्षौद्रसैन्धवप्रतिसारिता|
|४|
स०-पर्वणी बाह्यसन्धित्रिभागे बडिशेन गृहीता सती वृद्धि पत्रेण वर्ध्या-छेदनीया| कुत्र भागे वर्ध्या ? इत्याह-अर्धे| अतोऽन्यथा-अधिकच्छेदनात्, अश्रुगतिः स्यात्| चिकित्सा चेयमर्मवत्| तत्र चैवमुक्तम् (श्लो. २०)-"सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्| उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा|| बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च| करञ्जबीजसिद्धेन क्षीरेण' इति|
Adhikarana pUyAlase sirAvyadhAdi (4-5) · Śloka 5
|
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेत्||४||
कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि|
|५|
स०-पूयालसे सिरां विध्येत्| अनन्तरमुपनाहयेत्| अक्षिपाकोक्तं चाशेषं कर्म यथाविधि कुर्वीत|
Adhikarana pUyAlase cUrNA~jjanaM rasakriyA ca (5-6) · Śloka 6
|
सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः||५||
चूर्णञ्जनं प्रयुञ्जीत सक्षौद्रैर्वा रसक्रियाम्|
|६|
स०-सैन्धवादिभिश्चूर्णाञ्जनं प्रयुञ्जीत| सैन्धवादिभिरेव माक्षिकयुतै रसक्रियां वा|
Adhikarana krimigranthau bhedanalekhanAdi (6-7) · Śloka 7
|
कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च||६||
त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत्|
|७|
स०-कृमिग्रन्थि त्रिपलादिभिः प्रतिसारयेत्| किम्भूतम् ? करीषेण-गोमयादिना स्विन्नम्, तथा व्रीहिमुखादिभिर्भित्त्वा विलिख्य च|
Adhikarana shuktyAM pittAbhiShyandavat (7) · Śloka 7
|
पित्ताभिष्यन्दवच्छुक्तिं|७|
स०-शुक्त्याख्यं रोगं पित्ताभिष्यन्देन तुल्यमुपाचरेत्|
Adhikarana balasagrathitapiShTakayoH kaphAbhiShyandavat vyoShAdya~jjanaM ca (7-8) · Śloka 8
|
बलासाह्वयपिष्टके||७||
कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत्|
बीजपूररसाक्तं च व्योषकट्फलमञ्जनम्||८||
स०-बलासग्रथितं पिष्टकं च सिराव्यधं वर्जयित्वा कफाभिष्यन्दवदुपाचरेत्| तथा बीजपूरकरसेनाक्तं व्योषकट्फलमञ्जनं|
Adhikarana balasagrathitapiShTakayoH jAtImukulAdivartiH (9) · Śloka 9
जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः|
पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम्||९||
स०-जातीमुकुलादिभिः प्रसन्नया पिष्टैर्वर्तिः शोफकण्डूहरमञ्जनम्|
Adhikarana sirotpAtasirAharShasirAjAlArjuneShu raktasyandavat (10) · Śloka 10
रक्तस्यन्दवदुत्पातहर्षजालार्जुनुक्रिया|
|१०|
स०-सिरोत्पातसिराहर्षसिराजालार्जुने क्रिया रक्तस्यन्द इव कार्या|
Adhikarana sirotpAte ghRutamAkShikA~jjanam sirAharShe rasA~jjanam arjune AshcyotanA~jjanAdi (10-12) · Śloka 12
|
सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम्||१०||
सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम्|
अर्जुने शर्करामस्तुक्षौद्रैराश्चयोतनं हितम्||११||
स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाऽञ्जनम्|
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह||१२||
स०-सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनं हितम्| सिराहर्षे माक्षिकेण श्लक्ष्णघृष्टं रसाञ्जनम्| अर्जुने शर्करामस्तुक्षौद्रेणाश्च्योतनं हितम्| स्पाटिकादि माक्षिकेणाञ्जनमथवा सौवीराञ्जनं मधुना हितम्| शङ्खो वा समुद्रफेनो वा शर्करया सह हितः|
Adhikarana armaNi shukravat (13) · Śloka 13
अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत्|
रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम्||१३||
स०-अर्म पञ्चप्रकारमुक्तम्| तेषु मध्ये यत्तनु धूमवदाविलं च, तथा रक्तं-रक्तवर्णं, दधिसदृशं च यत्, तस्यार्मणः शुक्रसदृशमौषधम्|
Adhikarana armaNi shastracikitsA vidhiH (14-19) · Śloka 19
अथार्मणः शस्त्रचिकित्सामाह उत्तानस्येतरत् स्विन्नं ससिन्धूत्थेन चाञ्जितम्|
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत्||१४||
इत्थं संरोषिताक्षास्य प्रचलेऽर्माधिमांसके|
धृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः||१५||
अपाङ्गमीक्षमाणस्य वृद्ध्ऽर्मणि कनीनकात्|
वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम्||१६||
नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः|
समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम्||१७||
कनीनकमुपानीय चतुर्भागावशेषितम्|
छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः||१८||
कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते|
वृद्धेऽर्मणि तथाऽपाङ्गात्पश्यतोऽस्य कनीनकम्||१९||
स०-उत्तानस्य पुंसो वामदक्षिणयोरितरत्-एकमक्षि, स्विन्नंकृतस्वेदं च, तथा बीजपूररसेन सैन्धवान्वितेनाञ्जितं निमील्यस्थगयित्वा, विमर्दयेत्-मलयेत्| अनेन प्रकारेण संरोषिताक्षस्यसतोऽर्माधिमांसे प्रचले सति मूर्ध्नि निश्चलं घृतस्य वर्त्मनोश्च विशेषेण घृतस्य कनीनकादर्मणि वृद्धे सत्यपाङ्गं पश्यतो यत्र वली स्यात् तत्रार्म बडिशेनावलम्बितं नात्यायतं-नातिदीर्घं यथाभवतितथाऽवलम्बितम्| ततः-अनन्तरं, मुचुण्ड्या सूच्या सूत्रेण वा मोचयेत्| अथ मोक्षितं च विच्छेदितं च सत् कनीनकमुपानीय चतुर्भागावशेषितं मण्डलाग्रेन छिन्द्यात्| व्यवहितानामपि पदानामर्थयोग्यतावशादेव सम्बन्धोऽत्र योज्यः| कनीनकं रक्षेत्| कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते| अपाङ्गप्रदेशाच्चार्मणि वृद्धे तथा कनीनकं वीक्षमाणस्य छिन्द्यात्|
Adhikarana armaNi bandhanavidhiH (20-22) · Śloka 22
सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्|
उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा||२०||
बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च|
करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा||२१||
सक्षौद्रैर्द्विनिशारोध्रपटोलीयष्टिकिंशुकैः|
कुरण्टमुकुलोपेतैर्मुञ्चेदेवाह्नि सप्तमे||२२||
स०-सम्यक् छिन्नं मध्वादिभिः प्रतिसारितं घृतेनोष्णेन सिक्तं माक्षिकसर्पिषाऽभ्यक्तं बध्नीयात्| तृतीयादिदिनेषु च मुक्त्वा क्षीरेण करञ्जबीजसिद्धेन सेचयेत्| द्विहरिद्रादिभिश्च क्वथितैः शीतैश्च मधुयुतैः सेकं कुर्यात्| सप्तमे दिने मुञ्चेदेव|
Adhikarana armaNi hInAticchedaje sekA~jjanAdi (23) · Śloka 23
सम्यक् छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान् गदान्|
सेकाञ्जनप्रभृतिभिर्जयेल्लेखनबृंहणैः||२३||
स०-सम्यक् छिन्नेऽर्मणि स्वास्थ्यं भवेत्| हीनातिच्छेदजान् रोगान् सेकाञ्जनाद्यैर्यथायोगं लेखनैर्बृंहणैश्च जयेत्|
Adhikarana armaNi sitAdya~jjanam (24-25) · Śloka 25
सितामनःशिलैलेयलवणोत्तमनागरम्|
अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम्||२४||
अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशेषजित्|
|२५|
स०-सितादिभिरर्धकर्षोन्मितै रसाञ्जनं द्विकर्षोन्मितं मधुद्रुतमञ्जनं श्लेष्मतिमिरादिजित्
Adhikarana armaNi triphalAdya~jjanAni (25-27) · Śloka 27
|
त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम्||२५||
शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः|
पृथक्शेषौषधरसैः पृथगेव च भाविता||२६||
सा मषी शोषिता पेष्या भूयो द्विलवणान्विता|
त्रिण्येतान्यञ्जनान्याह लेखनानि परं निमिः||२७||
स०-त्रिफलाया एकतमस्य हरीतक्यादेर्द्रव्यस्य त्वचं पानीयकल्कितां शरावपिहितां कपाले दग्ध्वा चूर्णयेत्| तत एव त्रिफलायाः पृथक् शेषौषधरसैः पृथगेव चैकैकं भाविता सा मषी शोषिता पुनः पेष्या लवणद्वययुता| त्रीण्येतान्यञ्जनानि परं लेखनानि तिमिरघ्नानि निमिर्वक्ति|
Adhikarana sirAjAle kaThinasirAsu armavat (28) · Śloka 28
सिराजाले सिरा यास्तु कठिना लेखनौषधैः|
न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम्||२८||
स०-सिराजाले याः सिरा कठिना लेखनौषधैर्न सिध्यन्ति तासामर्मवत् चिकित्सा, पिटिकानां च|
Adhikarana shukreShu triphalAdi (29) · Śloka 29
दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम्|
तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते||२९||
स०-शुक्रेषु दोषवशात् कदाचित् रूक्षा कदाचित् स्निग्धा त्रिफला हिता| तथा घृतं तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते|
Adhikarana kShatashukre trivRuddhRutapAnam (30-32) · Śloka 32
त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत्|
सिरायाν हरेद्रक्तं जलौकोभिश्च लोचनात्||३०||
सिद्धेनोत्पलकाकोलीद्राक्षायष्टिविदारिभिः|
ससितेनाजपयसा सेचनं सलिलेन वा||३१||
रागाश्रुवेदनाशान्तौ परं लेखनमञ्जनम्|
|३२|
स०-त्रिवृत्क्वाथेन त्रीन् वारान् घृतं पक्वं क्षतशुक्रे पिबेत्| पश्चात्सिरया रक्तं हरेत्| नयनाद्वा जलौकोभिर्हरेत्| तथाऽऽजदुग्धेनोत्पलादिभिः सिद्धेन सशर्करेण सेचनं हितम्| अथवोत्पलादिक्वथितेन जलेन सेचयेत्| रागाश्रुवेदनाशान्तौ सत्यां लेखनमञ्जनं हितम्|
Adhikarana kShatashukre raktasrutiH (32-33) · Śloka 33
|
वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः||३२||
प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम्|
|३३|
स०-जातिमुकुलादिभिर्वर्तयः पित्तास्रं प्रसादयन्ति| क्षतशुक्रं च घ्नन्ति|
Adhikarana utpalAdisecanaM jAtimukulAdivartiH, dantavartiH,a~jjanAdi (33-38) · Śloka 38
|
दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः||३३||
सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः|
क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवतयेत्||३४||
तमालपत्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम्|
ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी||३५||
रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्यूषणं त्रुटिः|
करञ्जबीजं लशुनो व्रणसादि च भेषजम्||३६||
सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नमञ्जनम्|
निम्नमुन्नमयेत्स्नेहपाननस्यरसाञ्जनैः||३७||
सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम्|
|३८|
स०-गजाद्युद्भवैर्दन्तैः शङ्खमुक्ताफेनयुतैश्चुतुर्थांशकमरिचैः क्षतशुक्रकमपि व्यापि दन्तवर्तिरियं निवर्तयेत्| अपिशब्दाच्छुद्धशुक्रकमपि| स०-तमालपत्रादिभिर्वर्तिर्गोमूत्रेण सर्वशुक्रकहृत्| स०-रत्ननि-मौक्तिकादीनि, दन्ताः-गजादीनाम्, शृङ्गाणि छागादीनाम्, धातवो-गैरिकाद्याः, त्र्यूषणादीनि, तथा व्रणसादि भेषजं-स्वर्णक्षीर्यादि, एतदञ्जनं सव्रणाव्रणगम्भीरत्वक्स्थशुक्रहरम्| स०-निम्नं शुक्रकं स्नेहपानादिभिरुन्नमयेत्| सरुजं नीरुजं च तर्पणपुटपाकेनोन्नमयेत्|
Adhikarana shuddhashukre nishAdisecanam (38-39) · Śloka 39
|
शुद्धशुक्रे निशायष्टीसारिवाशाबराम्भसा||३८||
सेचनं रोध्रपोटल्या कोष्णाम्भोमग्नयाऽथवा|
|३९|
स०-शुद्धशुक्रे हरिद्रादिक्वाथेन सेचनं हितम्| अथवा रोध्रपोटाल्या कोष्णाम्बुमग्नया|
Adhikarana shuddhashukre bRuhatyAdidhUpanam (39-41) · Śloka 41
|
बृहतीमूलयष्ट्याह्वताम्रसैन्धवनागरैः||३९||
धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम्|
यवाज्यामलकीपत्रैर्बहुशो धूपयेत्ततः||४०||
तत्र कुर्वीत गुटिकास्ता जलक्षौद्रपेषिताः|
महानीला इति ख्याताः शुद्धशुक्रहराः परम्||४१||
स०- बृहतीचूर्णादिभिरामलकजलेन पिष्टैस्ताम्रभाजनं लेपितं यवादिभिर्धूपयेत्| अनन्तरं तत्र गुटिकास्तोयमाक्षिकपिष्टाः कुर्यात्| एताश्च महानीला इति प्रथिताः परं शुद्धशुक्रघ्नाः|
Adhikarana shuddhashukre mahAnIlA guTikA (42) · Śloka 42
स्थिरे शुरे घने चास्य बहुशोऽपहरेद्रसृक्|
शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः||४२||
स०-स्थिरे शुक्रे घने चातुरस्यास्य बहुशो रक्तं मोक्षयेत्| शिरोविरेकादीन् पुटपाकांश्च पुनःपुनः कुर्यात्|
Adhikarana shuddhashukre sthire ghane shukre raktasrutiH (43) · Śloka 43
कुर्यान्मरिचवैदेहीशिरीषफलसैन्धवैः|
हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा||४३||
स०-मरिचादिभिर्हर्षणं कुर्यात्| त्रिफलाक्वाथपीतेन सैन्धवेन वा|
Adhikarana shuddhashukre maricAdinA harShaNam (44-45) · Śloka 45
कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ|
शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः||४४||
सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः|
|४५|
स०-इमौ श्लोकार्धौक्तौ योगौ घ(ह)र्षणाय कुर्यात्| शङ्खादिभिर्माक्षिकान्तैरेको योगः, सुरादिभिः कुसुमान्तैरन्यः|
Adhikarana shuddhashukre shukraharShaNAnya~jjanAni (45-46) · Śloka 46
|
धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः||४५||
उषितः शोषिततश्चूर्णः शुक्रहर्षणमञ्जनम्|
|४६|
स०-धात्र्यादिरसे क्षारो लाङ्गलिकज उषितः शोषितश्चूर्णः शुक्रहर्षणमञ्जनम्|
Adhikarana shuddhashukre hRuShTashukranAshinI vartiH (46-48) · Śloka 48
|
मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः||४६||
सारो मधूकान्मधुमान् मज्जा वाऽक्षात्समाक्षिका|
गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः||४७||
वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी|
|४८|
स०-शङ्खमधुयुता मुद्गा निस्तुषाः पिष्टा अथवाऽञ्जनम्| मधूकात्सारो मधुयुतोऽञ्जनम्| अथवा बिभीतकान्मज्जा माक्षिकान्विता| सं-गवादिदन्ताः शङ्खः समुद्रफेनो वा पार्थजलेन पिष्टावर्तिहृष्टशुक्रहृत्|
Adhikarana shuddhashukre utsannAdishukre lekhanam (48) · Śloka 48
|
उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर्लिखेत्||४८||
स०-उत्सन्नं वा सशल्यं वा शुक्रं वालशाकपत्रादिभिर्लिखेत्|
Adhikarana sirAshukre vraNashukravat (49) · Śloka 49
सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत्|
|४९|
स०-सिराशुक्रे पुनरदृष्टिघ्ने चिकित्सा व्रणशुक्र इव कार्या|
Adhikarana sirAshukre puNDrAdivartiH (49-50) · Śloka 50
|
पुण्ड्रयष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम्||४९||
कल्कितं छागदुग्धेन सग़ृतैर्धूपितं यवैः|
धात्रीपत्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम्||५०||
स०-पाण्ड्रादिकं छागदुग्धेन पिष्टं ससर्पिष्कैर्यवैरामलकपत्रैश्च पर्यायेण धूपिता वर्तिर्ने(र)त्राञ्जनं परम्|
Adhikarana ajakAyAM SastraprayogaH (51) · Śloka 51
अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत्|
|५१|
स०-अशान्तौ सत्यामर्मवदजकाख्ये च शस्त्रं प्रयोजयेत्|
Adhikarana ajakAshukreShu asAdhyeShu snehapAnAdinA vedanopashamAdi (51-52) · Śloka 52
|
अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे||५१||
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः|
कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम्||५२||
स०-असाध्यायामजकायां शुक्रे चान्यत्र रोगे तत्प्रकारेऽसाध्ये वेदनोपशमं स्नेहपानादिभिर्विदधीत| बीभत्सतां-निन्द्यतां, जेतुं शुक्रस्योत्सेधसाधनं कुर्यात्|
Adhikarana ajakAshukreShu nAlikerAdya~jjanam (53-54) · Śloka 54
नालिकेरास्थिभल्लाततालवंशकरीरजम्|
भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्||५३||
चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम्|
साध्येषु साधनायालमिदमेव च शीलितम्||५४||
स०-नालिकेरास्थ्यादिजं भस्म अद्भिः स्रावयेत्| ताभिरद्भिः करभास्थिजं चूर्णं भावयेत्| तच्चूर्णमञ्जनमसाध्येषु शुक्रेषु वैवर्ण्यहरम्| शीलितं चैतदेव शुक्राणां साधनायालं-श्रेष्ठम्|
Adhikarana shukreShu pAnAdau yathAsvaM ghRutam (11) · Śloka 11
अजकां पाऱ्श्वतो विध्वा सूच्या विस्राव्य चोदकम्|
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्||५५||
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च|
सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिरे||५६||
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा|
तथाऽपि पुनराध्माने भेदच्छेदादिकां क्रियाम्||५७||
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्|
५७ १/२|
नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात्|
न हीयते लब्धबला तथाऽन्त- स्तीक्ष्णाञ्जनैर्दृक् सततं प्रयुक्तैः|
५८ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने सन्धिसितासितरोगप्रतिषेधो नामैकादशोऽध्यायः||११||
स०-अजकां पार्श्वतः सूच्या विध्वा जलं च निःस्राव्यानन्तरमङ्गुष्ठेन समं वसार्द्रेण-वसया द्रवीकृत्य, व्रणं गोमांसचूर्णेन पूरयेत्| बद्धं बद्धं विमुच्य स सप्तरात्राद् व्रणे रूढे सति तथा कृष्णभागे समे स्थिते सति स्नेहाञ्जनं च कर्तव्यम्| क्षीरघृते च नस्यम्| एवमपि कृते पुनराध्माने सति भेदच्छेदादिकां क्रियां युक्त्या कुर्यात्| यथाऽतिच्छेदेन दृष्टेर्निमज्जनं न स्यात्| स०-शुक्रेषु च नित्यं घृतं यथायोगं पक्वं पानादौ विदध्यात्| किम् ? इत्याह-तथा घृतपानसेचनेन लब्धबला दृगन्तः प्रततं प्रयुक्तैस्तीक्ष्णाञ्जनैर्न हीयते-न हानिं यायादिति| उपजातिर्वृत्तम्| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सन्धिसिता- सितरोगप्रतिषेधो नामैकादशोऽध्यायः समाप्तः|| ११||