Adhikarana sandhisitAsitarogavij~jAnIyAdhyAyaH||10|| (2-3) · Śloka 3
यथोद्देशस्तथा निर्देश इति तानेव तावत्सन्धिरोगनाह अथातः सन्धिसितासितरोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|
)||३||
वर्त्मरोगप्रतिषेधादनन्तरं स्थानानुपूर्व्या सन्धिसितासितरोगविज्ञानमारभ्यते- सं-सन्धी च सितासितौ च सन्धिसितासिताः, तेषु रोगाः, तेषां विज्ञानम्| शेषं पूर्ववत्|
Adhikarana sandhirogA nava| 1 jalAsravasya lakShaNam (1-2) · Śloka 2
वायुःक्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः|
अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात्||१||
तेन नेत्रं सरुग्रागशोफं स्यात्स जलास्रवः|
|२|
स०-पवनः कुपितो जलवाहिनीः सिराः प्राप्य जलाकृति अश्रु स्रावयते| कुतः ? वर्त्मशुक्लसन्धे कनीनकात्| तेन-जलाभस्रावेण, नयनं सरुक् सरागं सशोफं च स्यात्| स च जलास्रवाख्यो रोगः|
Adhikarana 2 kaphAsravasya lakShaNam (2) · Śloka 2
|
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत्||२||
स०-कफात् कफास्रवे सति श्वेतं पिच्छिलं बहलं च स्रवेत्|
Adhikarana 3 upanAhasya lakShaNam (3-4) · Śloka 4
कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः|
पृथुमूलबलः स्निग्धः सवर्णो मृदुपिच्छिलः||३||
महानपाकः कण्डूमानुपनाहः स नीरुजः|
|४|
स०-श्लेष्मणा शोफस्तीक्ष्णाग्रादिगुणः| स उपनाहाख्यो नीरुजः स्यात्|
Adhikarana 4 raktAsravasya lakShaNam (4) · Śloka 4
|
रक्ताद् रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत्||४||
स०-रक्तेन रक्तास्रवो भवति| तस्मिंश्च ताम्रवर्णमुष्णं चाश्रु संस्रवेत्|
Adhikarana 5 parvaNyAH lakShaNam (5) · Śloka 5
वर्त्मसन्ध्याश्रया शुक्ले पिटिका दाहशूलिनी|
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी||५||
स०-वर्त्मसन्धिराश्रयो यस्याः सा वर्त्मसन्ध्याश्रया, शुक्ले पिटिका शूलदाहवती ताम्रवर्णा मुद्गसदॄशी पर्वणी भण्यते| सा च भिन्ना सती रक्तं स्रवति| एषा च रक्तसमुत्थैव वेद्या, रक्तास्रवादनन्तरमस्याः पाठात् रक्तस्रावित्वाच्च|
Adhikarana 6 pUyAsravasya lakShaNam (6) · Śloka 6
पूयास्रवे मलाः सास्रा वर्त्मसन्धेः कनीनकात्|
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्मांसपाकतः||६||
स०-पूयास्रवाख्ये दोषा रक्तसहिता वर्त्मसन्धेः कनीनकात् पुनः पुनः पूयं सास्रं त्वङ्मांसपाकाद्धेतोः स्रावयन्ति|
Adhikarana 7 pUyAlasasya lakShaNam (7) · Śloka 7
पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः|
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः||७||
स०-पूयालसो व्रण उच्यते| कीदृक् ? सूक्ष्मः तथा शोफसंरम्भपूर्वकः| क्वासौ स्यात् ? कनीनसन्धौ| तथाऽऽध्मायीआनाहवान्, पूयास्रावी सरुक् च स्यात्|
Adhikarana 8 alajyAH lakShaNam (8) · Śloka 8
कनीनस्यान्तरलजी शोफो रुक्तोददाहवान्|
|८|
स०-कनीनस्यान्तः शोफो रुक्तोददाहवान् अलजीत्युच्यते|
Adhikarana 9 kRumigranthe lakShaNam (8-9) · Śloka 9
|
अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान्||८||
पूयास्रावी कृमिग्रन्थिर्ग्रन्थिः कृमियुतोऽर्तिमान्|
|९|
स०-अपाङ्गे कनीने वा कण्ड्वादिमांस्तथा पूयास्रावी ग्रन्थिरेव कृमियुक्तोऽर्तिमान् कृमिग्रन्थिरुच्यते|
Adhikarana sandhirogANAmeteShAM sAdhyAdhyatvam (9-10) · Śloka 10
|
उपनाहकृमिग्रन्थिपूयालसकपर्वणीः||९||
शस्त्रेण साधयेत्पञ्च सालजीनास्रवांस्त्यजेत्|
|१०|
स०-उपनाहादींश्च्तुरः शस्त्रेण साधयेत्| आस्रवान्-जलास्रवादींश्चतुरः, अलजीं चेति पञ्च त्यजेत्|
Adhikarana sitarogAstrayodaSa| 1SuktikAyA lakShaNam (10-11) · Śloka 11
एवं सन्धिगतान्नव रोगानाख्याय सितभागस्थान् रोगानाह |
पित्तं कुर्यात्सिते बिन्दूनसितश्यावपीतकान्||१०||
मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्|
रोगोऽयं शुक्तिकसंज्ञः सशकृद्भेदतृड्ज्वरः||११||
स०-सिते नेत्रदेशे पित्तं कर्तृ बिन्दून् कृष्णश्यावपीतान् कुर्यात्| मललेपदिग्धदर्पणसमानं वा सर्वम् शुक्लम्| एवमुभयप्रकारोऽप्ययं सदाहरुक् शुक्तिकसंज्ञो रोगः, शकृद्भेदेन तृषा ज्वरेण च युक्तः|
Adhikarana 2 shuklArmaNaH lakShaNam (12) · Śloka 12
कफाच्छुक्ले समं श्वेतं चिरवृद्ध्यधिमांसकम्|
शुक्लार्म|१२|
स०-कफाच्छुक्लभागे समं-न तु विषमम्, तथा श्वेतवर्णमधिमांसकं चिरवृद्धि, तत् शुक्लार्म|
Adhikarana 3 balAsagrathitasya lakShaNam (12-13) · Śloka 13
|
शोफस्त्वरुजः सवर्णो बहलोऽमृदुः||१२||
गुरुः स्निग्धोऽम्बुबिन्द्वाभो बलासग्रथितम् स्मृतम्|
|१३|
स०-शोफस्तु नीरुजः समानवर्णो बहलादिस्तथा जलबिन्दुसमो बलासग्रथितं स्मृतम्|
Adhikarana 4 piShTakasya lakShaNam (13) · Śloka 13
|
बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत्||१३||
स०-बिन्दुभिः पिष्टवत्सितैरुत्सन्नैः पिष्टकं नामार्म वदेत्
Adhikarana 5 sirotpAtasya lakShaNam (14) · Śloka 14
रक्तराजीततं शुक्लमुष्यते यत्सवेदनम्|
अशोफाश्रूपदेहं च सिरोत्पा तः स शोणितात्||१४||
स०-रक्तराजीततं शुक्लं-शुक्लभागं, उष्यते| यत्सवेदनं शोफाश्रूपलेपरहितं स शोणितात् सिरोत्पातः|
Adhikarana 6 sirAharShasya lakShaNam (15) · Śloka 15
उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्|
कुर्यात्सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्||१५||
स०-सिरोत्पातोऽचिकित्सितस्ता एव-रक्ता एव, राजीर्वर्धयन् सिराहर्षं सास्रं कुर्यात्| तेन-सिराहर्षेण, लोचनं वीक्षणाक्षमं स्यात्|
Adhikarana 7 sirAjAlasya lakShaNam (16) · Śloka 16
सिराजाले सिराजालं बूहद्रक्तं घनोन्नतम्|
|१६|
स०-सिराजाले बृहत्तथा रक्तं घनमुन्नतं च यद् भवति, तत्सिराजालं नाम|
Adhikarana 8 shoNitArmaNaH lakShaNam (16) · Śloka 16
|
शोणितार्म समं श्लक्ष्णं पद्माभमधिमांसकम्||१६||
स०-समं-नतु विषमं, तथा श्लक्ष्णं यदधिमांसकं तच्छोणितार्म|
Adhikarana 9 arjunasya lakShaNam (17) · Śloka 17
नीरुक् श्लक्ष्णोऽर्जुनं बिन्दुः शशलोहितलोहितः|
|१७|
स०-नीरुजः श्लक्ष्णो बिन्दुः शशलोहितताम्रोऽर्जुनं नाम|
Adhikarana 10 prastAryarmaNaH lakShaNam (17-18) · Śloka 18
|
मृद्वाशुवृद्ध्यरुड्मांसं प्रस्तारि श्यावलोहितम्||१७||
प्रस्तार्यर्म मलैः सास्रैः|
|१८|
स०-मांसं प्रस्तारितं तथा मृदु तथा आशुवृद्धि तथा नीरुक् श्यावलोहितं प्रस्तार्यर्मेत्युच्यते| तच्च त्रिभिर्दोषैः सशोणितैः स्यात्|
Adhikarana 11 snAvArmaNaH lakShaNam (18) · Śloka 18
स्नावार्म स्नावसन्निभम्|
|१८|
स०-स्नावसदृशं तु स्नावार्मेत्युच्यते|
Adhikarana 12 adhimAMsArmaNaH lakShaNam (18-19) · Śloka 19
|
शुष्कसृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु||१८||
अधिमांसार्म तद्|
|१९|
स०-शुष्करक्तपिण्डवच्छ्यावं यन्मांसं तथा बहलं पृथु च स्यात्, तदधिमांसार्म भण्यते|
Adhikarana 13 sirAsaMj~jAnAM lakShaNam (19) · Śloka 19
दाहघर्षवत्यः सिरावृताः|
कृष्णासन्नाः सिरासंज्ञाः पिटिकाः सर्षपोपमाः||१९||
स०-पिटिका दाहादिमत्यस्तथा सिराचिताः कृष्णभागासन्नाः सर्षपसंस्थानाः सिरासंज्ञाः|
Adhikarana sitarogANAmeteShAM sAdhyAsAdhyatvam (20-21) · Śloka 21
सितभागोत्थानामेषां त्रयोदशानां साधनं सूत्रयति शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम्|
साधयैदौषधैः षट्कं शेषं शस्त्रेण सप्तकम्||२०||
नवोत्थं तदपि द्रव्यैः|
|२१|
स०-शुक्त्यादीन् षडौषधैः साधयेत्| शेषान् सप्त शस्त्रेण साधयेत्| नवोत्थितानेतानपि भेषजैरुपक्रमेत् न केवलं पूर्वोक्तं षट्कमित्यर्थः|
Adhikarana kRuShNarogAH pa~jca| (21-22) · Śloka 22
अर्मोक्तं यच्च पञ्चधा|
तच्छेद्यमसितप्राप्तं मांसस्नवसिरावृतम्||२१||
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं च वर्जयेत्|
|२२|
स०-यच्च पञ्चप्रकारमर्मोक्तं-शुक्लार्म शोणितार्म प्रस्तार्यर्म स्नावार्माधिमांसार्म, एतच्छेदनार्हम्| यत् कृष्णभागप्राप्तं मांसस्नावसिरावृतं चर्मोद्दालवदुच्छ्रायि तद्वर्जयेत्-न चिकित्सेत्| यच्च दृष्टिप्राप्तं तदपि वर्जयेत्|
Adhikarana 1 kShatashukrasya trividhaM lakShaNam (22-25) · Śloka 25
अथ कृष्णरोगानाह |
पित्तं कृष्णेऽथव दृष्टौ शुक्रं तोदाश्रुरागवत्||२२||
छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम्|
पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम्||२३||
तत्कृच्छ्रसाध्यं, याप्यं तु द्वितीयपटलव्यधात्|
तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता||२४||
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः|
|२५|
स०-पित्तं कर्तृ कृष्णभागे दृष्टौ वा शुक्रं जनयति| किम्भूतम् ? तोदाश्रुरागयुक्तम्| किं कृत्वा ? त्वचं-प्रथमं पटलं छित्त्वा, तेन कृष्णमण्डलं पक्वजम्बूसदृशं निम्रं च क्षतशुक्रकं स्यात्| तच्च कृच्छ्रसाध्यम्| द्वितीयपटलव्यधात्तु याप्यं स्यात्| तत्र-द्वीतीयपटलव्यधे, तोदादीनां बाहुल्यं तथा सूचीविद्धोपमकृष्णमण्डलत्वं च| तोदादिभूयस्त्वेन सेवनीविद्धोपमकृष्णमण्डलतया च द्वितीयपटलव्यधोऽनुमीयत इत्यर्थः| तृतीयपटलच्छेदात् व्रणैर्निचितमसाध्यं क्षतशुक्रकम्| एवं क्षतशुक्रकं त्रिधाऽभिधाय शुद्धशुक्रमाचष्टे|
Adhikarana 2 shuddhashukrasya lakShaNam (25) · Śloka 25
|
शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम्||२५||
स०-शङ्खवच्छुक्लं शुद्धशुक्रकम्| तच्च कफाज्जायते| न चातिवेदनम्|
Adhikarana 3 ajakAyAH lakShaNam (26) · Śloka 26
आताम्रपिच्छिलास्रस्रुदाताम्रपिटिकाऽतिरुक्|
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्याऽसृजाऽजका||२६||
स०-आताम्रं-ईषत्ताम्रवर्णं, पिच्छिलं चास्रं स्रवति याऽसौ आताम्रपिच्छिलास्रस्रुत्| तथा आताम्रपिटिका तथाऽतिपीडावती तथाऽजाविट्सदृशे उच्छ्रायकार्ष्ण्ये यस्याः सैवम्| अजकाख्या रक्तेन स्यात्| सा च वर्ज्याऽसाध्यत्वात्|
Adhikarana 4 sirAshukrasya lakShaNam (27-28) · Śloka 28
सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम्|
सतोददाहताम्राभिः सिराभिरवतन्यते||२७||
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत्|
|२८|
स०-सरक्तैर्मलैः सिराशुक्रं स्यात्| तेन सिराशुक्रेण जुष्टं कृष्णमण्डलं सिराभिरवतन्यते| किम्भूताभिः ? सतोददाहताम्राभिः| अनिमित्तं-अकस्मात्, अस्मिन् कदाचिदुष्णमच्छं घनं वाऽस्रं स्रवति| तच्च त्यजेदसाध्यत्वात्|
Adhikarana 5 tIvravedanasya lakShaNam (28-30) · Śloka 30
|
दोषैः सास्रैः सकृत्कृष्णं नीयते शुक्लरूपताम्||२८||
धवलाभ्रोपलिप्ताभं निष्पावर्धदलाकृति|
अतितीव्ररुजारागदाहश्वयथुपीडितम्||२९||
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम्|
|३०|
स०-दोषैः सरक्तैः सकृत्-एकहेलयैव, कृष्णमण्डलं शुक्लरूपतां नीयते| किम्भूतम् ? धवलाभ्रोपलिप्ताभम्| तथा निष्पावार्धदलस्येवाकृतिर्यस्य तदेवम्| तथा तीव्रवेदनारागदाहश्वयथुभिः पीडितम्| तच्च शुक्रं पाकात्ययेन तीव्ररुजं वर्जयेत्-नोपक्रमेत्|
Adhikarana kRuShNarogANAmeteShAM sAdhyAsAdhyatvam (10) · Śloka 10
|
यस्य वा लिङ्गनाशोऽन्तः श्यावं यद्वा सलोहितम्||३०||
अत्युत्सेधावगाढं वा साश्रु नाडीव्रणावृतम्|
पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम्||३१||
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः|
३१ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सन्धिसितासितरोगविज्ञ्हानीयो नाम दशमोऽध्यायः||१०||
स०-यस्य च शुक्रस्य लिङ्गनाशः-अन्तर्दृष्टिविनाश इत्यर्थः, यच्च श्यावमन्तः, यच्च किञ्चिल्लोहितम्, तथाऽत्युन्नतमवगाढं वा, साश्रुनाडीव्रणावृतं वा, तथा पुराणं-वत्सरातीतम् तथा विषमसंस्थानम्, तथा मध्ये विच्छिन्नं यच्च शुक्रकं, तत्सर्वं वर्जयेत्| स०-कृष्णमण्डले इति-पूर्वोक्तेन प्रकारेण, पञ्च रोगाः साध्यासाध्यविभागेनोक्ताः| सुखग्रहणधारणार्थं सङ्ख्योपादानमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्ग- हृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तर- स्थाने सन्धिसितासिरतोगविज्ञानीयो नाम दशमोऽध्यायः समाप्तः|| १०||