Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. dr̥ṣṭirōgavijñānīyādhyāyaḥ

Adhikarana dRuShTirogavij~jAnIyAdhyAyaH timiraroge prathamapaTalAshritasya doShasya lakShaNam (2-1) · Śloka 1

अथातो दृष्टिरोगविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२| ) सिरानुसारिणि मले प्रथमं पटलं श्रिते| अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः||१||

🔊 Audio coming soon

अस्मादनन्तरं दृष्टिरोगविज्ञानमाह| तत्रापि पूर्वं तिमिरं लिलक्षयिषुराह- स०-[ मले- ] दोषे वाताद्यन्यतमे, सिरानुसारिणि तथा प्रथमं-बाह्यं, पटलं श्रिते सत्यव्यक्तं रूपं पश्यति| व्यक्तमपि कदाचिन्निमित्तमन्तरेण पश्यति| एष तिमिराख्यो रोग इति वक्ष्यमाणेन सम्बन्धः|

Adhikarana timiraroge dvitIyapaTalASritasya doShasya lakShaNam (2-5) · Śloka 5

प्राप्ते द्वितीयं पटलमभूतमपि पश्यति| भूतं तु यत्नादासन्नं दूरे सूक्ष्मं च नेक्षते||२|| दूरान्तिकस्थं रूपं च विपर्यासेन मन्यते| दोषे मण्डलसंस्थाने मण्डलानीव पश्यति||३|| द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधास्थिते| दृष्टेरभ्यन्तरगते ह्नस्ववृद्धविपर्ययम्||४|| मान्तिकस्थमधःसंस्थे दूरगं नोपरि स्थिते| पार्श्वे पश्येन्नपार्श्वस्थे तिमिराख्योऽयमामयः||५||

🔊 Audio coming soon

स०-द्वितीयं पटलं प्राप्तेऽभूतमपि पश्यति, न केवलं भूतम्| भूतं तु यत्नेन पश्यति, तच्चासन्नमेव| दूरे न च सूक्ष्मं पश्यति| दूरान्तिकस्थं च रूपं वैपरीत्येन मन्यते,-दूरस्थं निकटस्थं, निकटस्थं दूरस्थमित्यर्थः| दोषे मण्डलसंस्थाने द्वितीयपटलाश्रिते एव मण्डलानीवालोकते| दृष्टिमध्यस्थे दोष एकमेव वस्तु द्विप्रकारं पश्यति| बहुधास्थिते दोष एकमेव वस्तु बहुप्रकारं पश्यति| दृष्टेरभ्यन्तराश्रिते दोषे ह्रस्वं च वृद्धं च तयोर्विपर्ययः| ह्रस्वं च महान्तं, महान्तं च ह्रस्वमिति वैपरीत्येन पश्यति| अधःस्थिते दोषे समीपस्थं पदार्थं नेक्षते| उपरिष्टात्स्थिते दोषे दूरगं न पश्यति| पार्श्वस्थे दोषे पार्श्वे रूपं न पश्येत्| अयं सर्व एव तिमिरसंज्ञो रोगः|

Adhikarana timiraroge tRutIyApaTalASritasya doShasya lakShaNam (6-7) · Śloka 7

प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते| तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम्||६|| यथा वर्णं च रज्येत दृष्टिर्हीयेत च क्रमात्| |७|

🔊 Audio coming soon

स०-तृतीयं पटलं स्थिते दोषे काचत्वं प्राप्नोति| तेन काचेनोर्ध्वमीक्षते न त्वधः| तच्च तनुवस्त्रच्छन्नसदृशम्| दृष्टिश्चात्र दोषानुसारेण रज्यते| यथा वातेन श्यावेत्यादि| क्रमेण च दृष्तिर्हीयते|

Adhikarana timiraroge caturthapaTalASritasya doShasya lakShaNam (7-8) · Śloka 8

| तथाऽप्युपेक्षमाणस्य चतुर्थं पटलं गतः||७|| लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम्| |८|

🔊 Audio coming soon

स०-एवमप्युपेक्षमाणस्याचिकित्सितस्य तृतीयं पटलं मुक्त्वा चतुर्थपटलं गतो मलो-दोषः, लिङ्गनाशं-दृष्टिनाशं च, कुर्वन् दृष्टिमण्डलं छादयेत्|

Adhikarana 1vAtajasya timirasya lakShaNam 2vAtajasya kAcasya lakShaNam 3 vAtajasya li~gganASasya lakShaNam (8-12) · Śloka 12

इति सामान्यलक्षणमुक्त्व विशेषमाह | तत्र वातेन तिमिरे व्याविद्धमिव पश्यति||८|| चलाविलारुणाभासं प्रसन्नं चेक्षते मुहुः| जलानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च||९|| काचीभूते दृगरुणा पश्यत्यास्यमनासिकम्| चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते||१०|| वृद्धः काचो दृशं कुर्याद्रजोधूमावृतामिव| स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम्||११|| स लिङ्गनाशो| |१२|

🔊 Audio coming soon

स०-तत्र-तिमिरेषु मध्ये, पवनेन तिमिरे सति व्याविद्धमिव पश्यति| तथा चलं धूमाविलमरुणाभासं मुहुः-पुनः-प्रसन्नं चालोकते-प्रकृतिस्थनयनेन पश्यति, पवनस्य चलरूपत्वात्| तथा जालादीनि मुहुः पश्यति| आस्यं-मुखं, अनासिकं-नासिकारहितं, पश्यति| तथा चन्द्रदीपादीनामनेकत्वं वक्रमवक्रमिव च मन्यते| वृद्धः काचो रजोधूमावृतामिव च दृष्टिं कुर्यात्| तथा स्पष्टाऽरुणाऽऽभा यस्यास्ताम्| तथा विस्तीर्णां सूक्ष्मां वा| तथा हतदर्शनाम्| स एवंभूतो लिङ्गनाशः| इति वातजास्तिमिरकाचलिङ्गनाशा उक्ताः|

Adhikarana 4 gambhIrAyA dRushaH lakShaNam (12) · Śloka 12

अधुना वायुसामान्यां गम्भीरां दृष्टिं व्याचष्टे वाते तु सङ्कोचयति दृक्सिराः| दृग्मण्डलं विशत्यन्तर्गम्भीरा दृगसोउ स्मृता||१२||

🔊 Audio coming soon

स०-वाते तु दृक्सिराः सङ्कोचयति सति दृष्टिमण्डलमन्तः प्रविशति| सा गम्भीरा दृष्टिः स्मृता| 'मुनिभिः' इति शेषः|

Adhikarana 5pittajasya timirasya lakShaNam 6pittajasya kAcasya lakShaNam (13-14) · Śloka 14

पित्तजे तिमिरे विद्युत्खद्योतद्योतदीपितम्| शिखितित्तिरिपत्राभं प्रायो नीलं च पश्यति||१३|| काचे दृक् काचनीलाभा तादृगेव च पश्यति| अर्केन्दुपतिवेषाग्निमरिचीन्द्रधनूंषि च||१४||

🔊 Audio coming soon

स०-पित्तोद्भवे तिमिरे विद्युदादिदीपितं तथा मयूरतित्तिरिपत्राभं प्रायेण नीलं च पश्यति| काचे काचनीलसदृशी दृष्टिः स्यात्| तादृगेव-काचनीलाभासं, पश्यति| काचे काचनील सदृशी दृष्टिः श्यात्| तादृगेव काचनीलाभसं पश्यति| तथाऽर्केन्दु परिवेषादीन् पश्यति|

Adhikarana 7 pittajasya li~gganAshasya lakShaNam 8hrasvAkhyAyA dRushaH lakShaNam (15) · Śloka 15

भृङ्गनीला निरालोका दृक् स्निग्धा लिङ्गनाशतः| दृष्टिः पित्तेन ह्रस्वाख्या सा हृस्व ह्रस्वदर्शिनी||१५||

🔊 Audio coming soon

स०-लिङ्गनाशाद् दृष्टिश्च भ्रमरनीला निरालोका स्निग्धा च स्यात्| पित्तेन ह्रस्वसंज्ञा दृष्टिः स्यात्| सा च ह्रस्वा-ह्रस्वसंस्थाना, तथा ह्रस्वदर्शिनी-अल्पदर्शिनी|

Adhikarana 9 pittavidagdhAyAH lakShaNam (16) · Śloka 16

भवेत्पित्तविदग्धाख्या पीता पीताभदर्शना| |१६|

🔊 Audio coming soon

स०-पित्तबिदग्धसंज्ञा दृष्टिः पीतवर्णा स्यात्| तथा पीताभं दर्शनं यस्याः सा पीताबदर्शना च|

Adhikarana 10 kaphajasya timirasya lakShaNam 11kaphajasya kAcasya lakShaNam 12kaphajasya li~gganAshasya lakShaNam (16-20) · Śloka 20

| कफेन तिमिरे प्रायः स्निग्धं श्वेतं च पश्यति||१६|| शङ्खेदुकुन्दकुसुमैः कुमुदैरिव चाचितम्| काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम्||१७|| सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते| मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः||१८|| बिन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः| उष्णे सङ्कोचमायाति छायायां परिसर्पति||१९|| शङ्खकुन्देन्दुकुमुदस्फटिकोपमशुक्लिमा| |२०|

🔊 Audio coming soon

स०-कफेन तिमिरे सति प्रायः स्निग्धं शुक्लं चालोकते| तथा शङ्खादिभिरिवाचितं पश्यति| काचे तु निष्प्रभेन्द्वर्कादिभिरिवाचितं पश्यति| दृक् शुक्लाभा स्यात् लिङ्गनाशे तु दृश्यते मूर्तः कफो दृष्टिगतः स्निग्धस्तथा दृष्टिविनाशनश्च| जलस्येव बिन्दुश्चलः पद्मिनीपुटसंस्थितः| आतपे चासोउ बिन्दुः सङ्कुचति| छायायां प्रसरति| तथा शङ्खादिशुक्लिमा स्यात्|

Adhikarana 13 raktajasya timirasya lakShaNam 14 raktajasya kAcasya lakShaNam 15raktajasya li~gganAshasya lakShaNam (20-21) · Śloka 21

| रक्तेन तिमिरे रक्तं तमोभूतं च पश्यति||२०|| काचेन रक्ता कृष्णा वा दृष्टिस्तदृक् च पश्यति| लिङ्गनाशेऽपि तादृग् दृङ् निष्प्रभा हतदर्शना||२१||

🔊 Audio coming soon

स०-रक्तेन तिमिरे सति रक्ताभं तथा तम इव च पश्यति| काचेन रक्ता कृष्णा वा दृष्टिः स्यात्| तादृगेव-रक्त कृष्णं वा, पश्यति| लिङ्गनाशे च तादृश्येव-काचवत्, दृष्टिस्तथा निष्प्रभा हतदर्शना च स्यात्|

Adhikarana 16 saMsargajasya timirasya lakShaNam 17saMsargajasya kAcasya lakShaNam 18saMsargajasya li~gganAshasya lakShaNam 19sannipAtajasya timirasya lakShaNam 20sannipAtajasya kAcasya lakShaNam 21sannipAtajasya li~gganAshasya lakShaNam (22-23) · Śloka 23

संसर्गसन्निपातेषु विद्यात्सङ्कीर्णलक्षणान्| तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः||२२|| तिमिरे, शेषयोर्दृष्टौ चित्रो रागः प्रजायते| |२३|

🔊 Audio coming soon

स०-संसर्गसन्निपातेषु सङ्कीर्णलक्षणान्-व्यामिश्रलक्षणान्, तिमिरकाचलिङ्गनाशान् विद्यात्| तथाऽकस्मात्-निमित्तमन्तरेण, तैः-संसर्गसन्निपातैः, व्यक्तं-स्पष्टं, कदाचिदाकुलमीक्षणंदर्शनं, यस्य स एवंभूतो नरस्तिमिरे स्यात्| शेषयोः-काचलिङ्गनाशयोः दृष्टौ चित्रो रागः स्यात्|

Adhikarana 22 nakulAndhasya lakShaNam (23-24) · Śloka 24

| द्योत्यते नकुलस्येव यस्य दृङ् निचिता मलैः||२३|| नकुलान्धः स तत्राह्नि चित्रं पश्यति नो निशि| |२४|

🔊 Audio coming soon

स०-यस्यातुरस्य नकुलस्येव दृष्टिर्दोषैर्निचिता द्योत्यते-देदीप्यते, स नकुलान्धः| तत्र-नकुलान्धे, दिवा चित्रं पश्यति, न तु निशि-रजान्याम्|

Adhikarana 23 doShAndhasya atra divAdarshane yuktiH (24-26) · Śloka 26

| अर्केऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः||२४|| स्थगयन्ति दृशं दोषा दोषान्धः स गदोऽपरः| दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः||२५|| विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम्| |२६|

🔊 Audio coming soon

स०-अर्केऽस्तपर्वतस्य मस्तके न्यस्ता गभस्तयो येन तस्मिन् सति स्तम्भं प्राप्ता दोषा दृशं छादयन्ति| स एवंभूतो दोषान्धो नाम रोगः| दिवा कथं पश्यति ? इत्यत्र युक्तिमाह- सं-मला अह्नि दिवाकररश्मिभिः स्पृष्टास्तथा दृष्टिपथाद्भ्रष्टा विलीनाः सन्तः, अत्र-रात्र्यन्धे, स्पष्टं दर्शनं ददति| दिवाकरकरस्पृष्टा इति हेतौ प्रथमा|

Adhikarana 24 uShNavidagdhAyAH lakShaNam (26-28) · Śloka 28

| उष्णतप्तस्य सहसा शीतवारिनिमज्जनात्||२६|| त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोऽक्षिणि| दाहोषे मलिनं शुक्लमहन्याविलदर्शनम्||२७|| रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता| |२८|

🔊 Audio coming soon

स०-उष्णेन तप्तस्य सहसा-झटित्येव, शिशिरजलनिमज्जनात् त्रिदोषरक्तसंपृक्त ऊष्मोर्ध्वमक्ष्णि याति| ततः-ऊष्मण ऊर्ध्वगमनात्, अक्ष्णि दाहोषे भवतः| शुक्लभागश्च मलिनो भवति| अहनि-दिने, आविलं दर्शनं जायते, रात्रौ चान्ध्यम्| सा दृष्टिरुष्णविदग्धाख्या|

Adhikarana 25 amlavidagdhAyAH lakShaNam (28-29) · Śloka 29

| भृशमम्लाशनाद्दोषैः सास्रैर्या दृष्टिराचिता||२८|| सक्लेदकण्डूकलुषा विदग्धाऽम्लेन सा स्मृता| |२९|

🔊 Audio coming soon

स०-अत्यन्तमम्लाशनात्-अम्लभक्षणात्, दोषैः सरक्तैर्या दृष्टिराचिता क्लेदकण्डूकलुषान्विता स्यात्| सा विदग्धाम्लेति दृष्टिः स्मृता|

Adhikarana 26 dhUmarasya lakShaNam (29-30) · Śloka 30

| शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः||२९|| धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः| |३०|

🔊 Audio coming soon

स०-शोकादिसन्तप्तस्य नरस्य वातादयो धूमेनेवाविलां धूमदर्शनां दृष्टिं कुर्युः| स धूमरो नाम रोगः|

Adhikarana 27 aupasargikali~gganAshasya lakShaNam (30-32) · Śloka 32

| सहसैवाल्पसत्त्वस्य पश्यतो रूपमद्भुतम्||३०|| भास्वरं भाश्करादिं वा वाताद्या नयनाश्रिताः| कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम्||३१|| वैदूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम्| ओउपसर्गिक इत्येष लिङ्गनाशो|३२|

🔊 Audio coming soon

स०-सहसैव-अतर्कितस्य, पुंसोऽल्पसत्त्वस्य रूपमद्भुतं पश्यतो भास्वरं भास्करप्रकारं पश्यतो वा वातादयो लोचनाश्रिता दृष्टिं मुषितदर्शनां वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिव पीडारहितां कुर्वन्ति| किं कृत्वा ? तेजः संशोष्य| इत्येष औपसर्गिको लिङ्गनाशः|

Adhikarana saptaviMshatirogANAmeteShAM sAdhyAsAdhyatvam (12) · Śloka 12

| ऽत्र वर्जयेत्||३२|| विना कफाल्लिङ्गनाशान् गम्भीरां ह्ऱस्वजामपि| षट् काचा नकुलान्धश्च याप्याः, शेषांस्तु साधयेत्||३३|| द्वादशेति गदा दृष्टोउ निर्दिष्टाः सप्तविंशतिः| ३३ १/२| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने दृष्टिरोगविज्ञानीयो नाम द्वादशोऽध्यायः||१२||

🔊 Audio coming soon

स०-अत्र-एषु मध्ये, कफाद्विना लिङ्गनाशान्-वातपित्तसंसर्गसन्निपातरक्तजोउपसर्गिकान् षट्, तथा गभीरां ह्रस्वजामपिदृष्टिमित्यष्टौ वर्जयेत्| षट् काचाः-वातपित्तकफसंसर्गसन्निपातरक्तजाः, नकुलान्धश्चेति सप्त याप्याः| शेषांश्च द्वादश साधयेत्, तत्र वातपित्तकफरक्तसंसर्गसन्निपातैः पृथक् तिमिराणीति षट्, सप्तमः कफेन च लिङ्गनाशः, अष्टमः पित्तविदग्धा दृष्टिः, नवमो दोषान्धः, दशम उष्णविदग्धा, एकादशो विदग्धाम्ला, द्वादशो धूमरः, इति| एवं दृष्टिमण्डले रोगाः सप्तविंशतिसङ्ख्याः कथिताः| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने दृष्टिरोग- विज्ञानीयो नाम द्वादशोऽध्यायः समाप्तः|| १२||