Adhikarana adhyAyopakramaH (1) · Śloka 1
|१|
🔊 Audio coming soon
विषप्रक्रमात् सर्पविषप्रतिषेधं विवक्षुराह-
Adhikarana adhyAyopakramaH (1) · Śloka 1
|१|
🔊 Audio coming soon
विषप्रक्रमात् सर्पविषप्रतिषेधं विवक्षुराह-
Adhikarana sarpaviShapratiShedhAdhyAyaH ---------- bhaumapannagAnAM trividhatvam (2) · Śloka 2
अथातः सर्पविषप्रतिषेधं व्याख्यास्यामः| इति ह स्माहुरात्रयादयो महर्षयः| (गद्यसूत्रे|२| ) दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः| त्रिधा समासतो भौमाः, भिद्यन्ते ते त्वनेकधा||१|| व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगिनः| |२|
🔊 Audio coming soon
स०- दर्वीकरादिभेदेन बुजङ्गाः सङ्क्षेपेण त्रिप्रकारा भौमाः| ते तु योनिभेदेन विस्तरतोऽनेकधा भिद्यन्ते| विशेषाश्चेहानुपयोगिनो यतः, ततो न निगद्यन्ते|
Adhikarana darvIkarAdInAM viShaM krameNa rUkShakaTukAdikaM vAtAdi kopanaM ca (2-3) · Śloka 3
| विशेषाद्रूक्षकटुकमम्लोष्णं स्वादुशीतलम्||२|| विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्| |३|
🔊 Audio coming soon
स०- दर्वीकरमण्डलिराजीमन्तस्तेषां विषं रूक्षादिगुणं क्रमेण च वातपित्तकफानां कोपनं स्यात्| यद्यपि विषं रूक्षादिगुणं, तथाऽप्यतिशयार्थं पुनरिह गुणकथनम्| विशेषाच्च विषं ह्युष्णमेव कथितं न शीतलम्|
Adhikarana darvIkarAdInAM tAruNyAdiShu viSholbaNatvam (3-4) · Śloka 4
| तरुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च||३|| विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु| |४|
🔊 Audio coming soon
स०- एते च-दर्वीकराद्ययः, तारुण्यादिषु यथाक्रमं वृष्ट्यादिषु च विषोल्बणा भवन्ति| वृष्टिशब्देनेह श्रावणादयश्चत्वारो मासा गृहीताः| एवं शीतातपद्याश्चत्वारो मासा गृहीताः| व्यन्तराः-विजातयः, ऋतुसन्धिषु विषाधिकाः स्युः| ऋतुसन्धिःप्रागुक्तः (हृ. सू. अ. ३/५८)|
Adhikarana darvIkarANAM lakShaNam (4-5) · Śloka 5
| रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः||४|| फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः| |५|
🔊 Audio coming soon
स०- रथाङ्गादिधारिणः फणावन्तो द्रुतगतयो भुजङ्गा दर्वीकरा इति मुनिभिः स्मृताः|
Adhikarana maNDalinAM lakShaNam (5-6) · Śloka 6
| ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः||५|| प्रांशवो मन्दगमनाः| |६|
🔊 Audio coming soon
स०- अभोगाः-अल्पभोगाः तथा नानाप्रकारैर्मण्डलैश्चिताः प्रांशवोऽशीघ्रगतयो मण्डलिनो वेद्याः|
Adhikarana rAjImatAM lakShaNam (6) · Śloka 6
राजीमन्तस्तु राजिभिः| स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः||६||
🔊 Audio coming soon
स०- स्निग्धाभा नानाप्रकाराभिस्तिर्यगूर्ध्वगराजिभिर्विचित्रिता राजीमन्तो वेद्याः|
Adhikarana gaudherasya lakShaNam (7) · Śloka 7
विजातयोऽधुनोच्यन्ते - गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः| चतुष्पाद्|७|
🔊 Audio coming soon
स०- गोधापुत्रो गौधेरः| ननु, गौधेर इति नाम्नैव गोधासुतः प्रत्यपादि| तथा च "गोधाया ढ्रक्" इत्यपत्यार्थव्युत्पादितोऽयम्| सत्यमाह भवान्| यादृच्छिकनामशङ्कानिरासाय त्वेतत्| स च दर्वीकरैर्विषेण तुल्यः, तैरेव जातत्वात्| चतुष्पात्-चतुष्पादोऽसौ|
Adhikarana eteShAmeva sa~gkarAt vyantarAj~jeyAH (7-8) · Śloka 8
| व्यन्तरान् विद्यादेतेषामेव सङ्करात्||७|| व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपनाः| |८|
🔊 Audio coming soon
स०-व्यन्तरांश्चैतेषामेव सङ्करेण जानीयात्| यतश्च ते सङ्कीर्णलक्षणाः| तस्मात् सन्निपातप्रकोपानाः स्युः|
Adhikarana sarpadashane AhArAdikAraNAni (8-9) · Śloka 9
| आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः||८|| पापवृत्तितया वैराद्देवर्षियमचोदनात्| दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम्||९||
🔊 Audio coming soon
स०-आहारादिभिः कारणैर्भुजङ्गा दशन्ति| तेषु यथोत्तरं विषस्याधिक्यं कथितम्|
Adhikarana kAraNaM j~jAtvA yathAsvaM pratikriyA (10) · Śloka 10
आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्| |१०|
🔊 Audio coming soon
स०-आदिष्टात् सर्पात् हेतुं विदित्वा विदित्वा यथास्वं चिकित्सेत्|
Adhikarana vyantarasya mArgAshrayatvam (10) · Śloka 10
| व्यन्तरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति||१०||
🔊 Audio coming soon
स०-व्यन्तरो भुजङ्गमः पापस्वभावत्वाद्वर्त्म आश्रित्यास्ते|
Adhikarana tuNDAhatasya lakShaNam, vyAlIDhasya lakShaNam, vyAlutpasya lakShaNam dashTakasya lakShaNam dashTanipIDitasya lakShaNam, eShAM sAdhyAsAdhyatvam (11-14) · Śloka 14
यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते| न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत्||११|| एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्| दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं, त्रीणि तानि तु||१२|| मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्| दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम्||१३|| निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्| |१४|
🔊 Audio coming soon
स०- यस्मिन् काये लालापरिक्लेदमात्रम् उपलभ्यते, न पुनर्दंष्ट्राकृतं दंशम्| तत्-एवंभूतं, तुण्डाहतं कथयन्ति| एकं दंष्ट्रापदं द्वे वा दंष्ट्रापदे रक्तवर्जिते तद् व्यालीढसंज्ञम्| द्वे दम्ष्ट्रापदे सशोणिते व्यालुप्तं विद्यात्| त्रीणि तु दंष्ट्रापदानि मांसच्छेदात् सन्ततास्रवाहीनि दष्टकमादिशेत्| दंष्ट्रापदानि चत्वारि तद्वत्-दष्टकमिव, दष्टनिपीडितं स्यात्| एषु मध्ये द्वयमादिकथितं निर्विषं वदेत्| पश्चिमं-दष्टनिपीडिताख्यं, असाध्यं वदेत्| व्यालुप्तदष्टकं तु कृच्छ्रसाध्यमित्यर्थाद्गम्यते|
Adhikarana sarpaviShasya raktaprAptyaiva vardhanam (14-15) · Śloka 15
| विषं नाहेयमप्राप्य रक्तं दूषयते वपुः||१४|| रक्तमण्वपि तु प्राप्तं वर्धते तैलमम्बुवत्| |१५|
🔊 Audio coming soon
स०- सर्पजं विषं न शोणितमप्राप्य शरीरं दूषयते, अपि तु प्राप्य| किन्तु रक्तं स्तोकमपि प्राप्य विषं वर्धते| यथा तैलं जलं प्राप्य प्रसरति तथैव| आहेयमिति "दृतिकुक्षि" इत्यादिना भवार्थे ढञ्|
Adhikarana sarpA~ggAbhihatasya lakShaNam (15-16) · Śloka 16
| भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः||१५|| कदाचित्कुरुते शोफं सर्पाङ्गाभिहतं तु तत्| |१६|
🔊 Audio coming soon
स०- भीरोः-सभयस्य पुंसः, सर्पसंस्पर्शाद्धेतोर्यद्भयं तेन वायुः क्रुद्धः कदाचिच्छोफं विधत्ते| तत् सर्पाङ्गाभिहतं स्यात्|
Adhikarana sha~gkaviShasya lakShaNam (16-17) · Śloka 17
| दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया||१६|| विषोद्वेगो ज्वरश्चर्दिर्मूर्च्छा दाहोऽपि वा भवेत्| ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते||१७||
🔊 Audio coming soon
स०- दुर्गान्धकारे केनचित्प्राणिना विद्धस्य दष्टशङ्कया विषोद्वेगादयः स्युः, तच्छङ्काविषं निगद्यते|
Adhikarana saviShadaMshasya lakShaNam , nirviShadaMshasya lakShaNam (18) · Śloka 18
तुद्यते सविषो दंशः कण्डूशोफरुजन्वितः| दह्यते ग्रथितः किञ्चिद्विपरीतस्तु निर्विषः||१८||
🔊 Audio coming soon
स०- सविषो दंशो व्यथ्यते, कण्ड्वादियुतो दह्यते, जालकवत् किञ्चित् ग्रथितः| अस्माद्विपरीतश्च निर्विषः स्यात्|
Adhikarana darvIkarANAM prathamavegasya lakShaNam, dvitIyavegasya lakShaNam, tRutIyavegasya lakShaNam, caturthavegasya lakShaNam, pa~jcamavegasya lakShaNam, ShaShThavegasya lakShaNam, saptamavegasya lakShaNam (19-22) · Śloka 22
पूर्वे दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक्| श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः||१९|| द्वितीये ग्रन्थयो वेगे, तृतीये मूर्ध्नि गौरवम्| दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः||२०|| सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्| दाहो हिध्मा च, षष्ठे तु हृत्पीडा गात्रगौरवम्||२१|| मूर्च्छा विपाकोऽतीसारः, प्राप्य शुक्रं तु सप्तमे| स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम्||२२||
🔊 Audio coming soon
स०- दर्वीकराणां प्रथमे विषवेगे श्याववर्णं दुष्टं च रक्तं स्यात्| तेन च-तादृशा रक्तेन, मुखनयनादौ श्यावता स्यात्| कीटकाश्च गात्रे सर्पन्तीव| द्वितीये विषवेगे ग्रन्थयः स्युः| तृतीये शिरोगुरुत्वादयः स्युः| चतुर्थे ष्ठीवनादयः| पञ्चमे सन्धिविश्लेषणं तन्द्रा पर्वभेदनं दाहो हिक्का च| षष्ठे च वेगे हृदयपीडाद्याः| सप्तमे शुक्रं प्राप्य स्कन्धादिभङ्गः सर्वचेष्टानिवर्तनं स्यात्|
Adhikarana maNDalidaShTasya prathamavegasya lakShaNam, dvitIyavegasya lakShaNam, trutIyaIvegasya lakShaNam, caturthavegasya lakShaNam, pa~jcamavegasya lakShaNam, ShaShThavegasya lakShaNam, saptamavegasya lakShaNam (23-24) · Śloka 24
अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्| तेन पीताङ्गता दाहो, द्वितीये श्वयथूद्भवः||२३|| तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते| चतुर्थे ज्वर्यते, दाहः पञ्चमे सर्वगात्रगः||२४||
🔊 Audio coming soon
स०- मण्डलिना दष्टस्य प्रथमे वेगे रक्तं दुष्टं पीतीभवति| तेन च रक्तेन पीताङ्गता दाहश्च| द्वितीये श्वयथूद्भूतिः| तृतीये दंशविक्लेदादयः| चतुर्थे वेगे ज्वरो दाहः| पञ्चमे सर्वशरीरगतो दाहः|
Adhikarana rAjImaddaShTasya prathamavegasya lakShaNam, dvitIyavegasya lakShaNam, tRUtIyavegasya lakShaNam, caturthavegasya lakShaNam, pa~jcamavegasya lakShaNam, ShaShThasaptamavegayoH lakShaNam (25-27) · Śloka 27
दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्| पाण्डुता तेन गात्राणां, द्वितीये गुरुताऽति च||२५|| तृतीये दंशविक्लेदो नासिकाक्षिमुखस्रवाः| चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च, पञ्चमे||२६|| गात्रभङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्| |२७|
🔊 Audio coming soon
स०- राजिमता दुष्टस्य रक्तं दुष्टं पाण्डुतां गच्चति| तेन हेतुना गात्राणां पाण्डुता| द्वितीये वेगेऽतिगात्रगुरुत्वम्| तृतीये दंशविक्लेदादयः| चतुर्थे मूर्ध्नो गरिमादयः| पञ्चमे गात्रभङ्गादयः| स०- शेषयोः-षष्ठसप्तमयोर्लक्षणं, पूर्ववत्-दर्वीकरवत्, वदेत्|
Adhikarana pa~jcasu vegeShu cikitsA kAryA ShaShThasaptamayorna kAryA (27) · Śloka 27
| कुर्यात्पञ्चसु वेगेषु चिकित्सां, न ततः परम्||२७||
🔊 Audio coming soon
स०- पञ्चसु वेगेषु चिकित्सितं कुर्यात्| न तु तस्मात्परम्, असाध्यत्वात्|
Adhikarana alpaviShasarpANAM lakShaNam (28-30) · Śloka 30
जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः| शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः||२८|| तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाः| कुषौषधीकण्टकवद्ये चरन्ति च काननम्||२९|| देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताः| |३०|
🔊 Audio coming soon
स०-जलाप्लुतादयः सर्पा अल्पविषा ज्ञेयाः| दिव्याध्युषितो देशो-यत्र देवताः कृतसन्निधानाः, तं देशं चरन्ति| [ "श्मशानचैत्यवल्मीकयज्ञाश्रयसुरालये| चतुष्पथे जलस्थाने जीर्णोद्यानेषु कोठरे|| क्षीरद्रुमे निम्बतरौ निर्झरे गिरिगह्वरे| चक्रवज्रगदाकुन्तत्रिशूलाङ्कजटाधराः|| रक्तास्यनयना ये च ते स्युराशीविषोपमाः| न तेषु कालनियमो न च वेगेष्वनुक्रमः| मन्त्रतन्त्रबलान्नापि प्रसह्य विनिवर्तनम्|" वृद्धवाग्भटात्| ] (सं.उ.अ. ४१)
Adhikarana shmashAnAdiShu marmasu ca daShTasyAsAdhyatvam (30-32) · Śloka 32
| श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु||३०|| अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च| याम्याग्नेयमघाश्लेषाविशाखापूर्वनैःऋते||३१|| नैः-ऋताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्| |३२|
🔊 Audio coming soon
स०- श्मशानादिषु दष्टं मर्मसु च दष्टं त्यजेत्| याम्यं-भरणी| आग्नेयं-कृत्तिका| नैः-ऋतं-मूलम्| नैः-ऋताख्यो मुहूर्तो-सन्ध्योदय एव|
Adhikarana sarpadaShTo sitAsyAkShAdiyuto na jIvati (32-33) · Śloka 33
| दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः||३२|| स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति| |३३|
🔊 Audio coming soon
स०- यः शुक्लमुखनयनः पतत्कचः स्तब्धरसनः पुनःपुनर्मूर्च्छन् शीतोच्छ्वासः, स न जीवति| [ "वेपथुर्वेदनास्तीव्रा ग्रीवाभङ्गोऽक्षिरक्तता| मूर्च्छा गलग्रहश्छर्दिः प्रेतराजस्य किङ्कराः|| जाम्बवप्रतिमो दंशः कूर्मपृष्ठवदुन्नतः| रक्तं खेभ्यः समस्तेभ्यो वर्तते न तु दंशतः|| रोमहर्षो न शिशिरैः श्वयथुर्लोहितोऽसितः| हृष्टमेहनता वक्रवक्त्रत्वं यस्य तं त्यजेत्||" वृद्धवाग्भटात्| } (सं.उ. अ. ४१)
Adhikarana sarpadaShTo yugapat hidhmAdiyuto na jIvati (33-34) · Śloka 34
| हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः||३३|| जायन्ते युगपद्यस्य स हृच्छूली न जीवति| |३४|
🔊 Audio coming soon
स०- यस्य देहिन एककालमेव हिध्मादयो हृच्छूलं च स्यात्, स न जीवति|
Adhikarana sarpadaShTo viShapItAdishca phenavamanAdilakShaNayuto na jIvati (34-36) · Śloka 36
| फेनं वमति निःसंज्ञः श्यावपादकराननः||३४|| नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसन्धिता| विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च||३५|| भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये| |३६|
🔊 Audio coming soon
स०- यश्च फेनं वमति निश्चेतनः श्यावपादादिस्तथा नासावसादादयश्च, यस्य पुंसो विषपीतस्य तथा दष्टमात्रस्य विषलिप्तकेनाभिहतस्य च सामान्येनैतानि रूपाणि तस्य जीवितक्षये सम्प्राप्ते स्युः| विषपीतस्येत्याहिताग्निषूक्तत्वात् परनिपातः|
Adhikarana sarpadaShTo tIkShNanasyaishcetanAbhAvAdirna jIvati (36-37) · Śloka 37
| न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः||३६|| दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्| |३७|
🔊 Audio coming soon
स०-तीक्ष्णैर्नस्यैर्न चेतना-न चैतन्यम्| तथा क्षताच्छिन्नाद्रक्तागमो न भवति| तथा दण्डेन-लगुडेन, आहतस्य राजिः-लेखा, न भवति| यमसमीपं प्रयातस्य-गमिष्यतो नरस्य| प्रयात स्येति "वर्तमानसामीप्ये वर्तमानवद्वा" इति भविष्यति क्तः|
Adhikarana ato~anyathA viShamAshu shamaM nayet (37-38) · Śloka 38
| अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक्||३७|| रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्| |३८|
🔊 Audio coming soon
स०- अतोऽन्यथा-साध्यत्वे सति, त्वरया-सद्यो द्रागेव, कण्ठगतान् प्राणान् ज्वलितगृहमिव रक्षन् विषं शीघ्रं शान्तिं नयेत्|
Adhikarana daShTasya viShaM mAtrAshatAddehaM prakramate (38-39) · Śloka 39
| मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः||३८|| देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्| |३९|
🔊 Audio coming soon
स०- शरीरिणो दष्टस्य दंशे मात्राशरतुल्यकालं विषं स्थित्वा देहं प्रक्रमते रुधिरादीन् धातून् दूषयत्| प्रक्रमत इति "प्रोपाभ्याम्" इति तङ्|
Adhikarana etasminnantare daMshasyotkartanAdikaM kAryam (39-40) · Śloka 40
| एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम्||३९|| कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति| |४०|
🔊 Audio coming soon
स०- अस्मिन्नन्तरे-अवसरे, दंशस्योत्कर्तनादिकं कर्म चपलं विदधीत, यथा विषवल्ली काये न रोहति| विषं वल्लीवेति "उपमितं व्याघ्रादिभिः" इति समासः|
Adhikarana daShTamAtrastameva sarpamAshu dashedityAdi (40-41) · Śloka 41
| दष्टमात्रो दशेदाशु तमेव पवनाशिनम्||४०|| लोष्टं महीं वा दशनैस्छित्त्वा चानु ससम्भ्रमम्| निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा||४१||
🔊 Audio coming soon
स०- दष्टमात्रः पुरुषस्तमेव सर्पं-दष्टारं, शीघ्रमेव खादेत् (दशेत्)| अथवा लोष्टं धरणीं दशनैश्छित्त्वा पश्चाच्च झटिति निष्ठीवेन दंशमालिम्पेत्| कर्णमलेन वाऽऽलिम्पेत्|
Adhikarana bandhanena viShastambhanaprakAraH (42-43) · Śloka 43
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले| क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्||४२|| अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्| न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः||४३||
🔊 Audio coming soon
स०- दंषस्योपरिष्टाच्चतुरङ्गुलेऽरिष्टां क्षौमादिभिर्वेणिकया सिद्धैश्च मन्त्रैरुपलक्षितो मन्त्रैरुपलक्षितो मन्त्रज्ञो बध्नीयात्| बन्धेन हि विषं स्तभ्यते| जलं यथा सेतुबन्धेन| अस्य च दष्टस्य, सिरा विषं बन्धनपीडिता न वहन्ति|
Adhikarana anu niShpIDya daMshamuddharet (44) · Śloka 44
निष्पीड्यानूद्धेरद्दंशं मर्मसन्ध्यगतं तथा| न जायते विषाद्वेगो बीजनाशादिवाङ्कुरः||४४||
🔊 Audio coming soon
स०- अनु-पश्चात्, निष्पीड्य दंशमुद्धरेत् मर्मसन्धिं वर्जयित्वा| तथा-एवं कृते सति, विषवेगो न जायते| यथा-अङ्कुरो बीजनाशात्|
Adhikarana maNDalItaradaMshasya prataptahemAdinA dahanam (45-46) · Śloka 46
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्| प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा||४५|| करोति भस्मसात्सद्यो वह्निः किं नाम तु क्षतम्| |४६|
🔊 Audio coming soon
स०- मण्डलिनां च दंशं पित्तलत्वाद्धेतोर्मुक्त्वा, अथापरं दंशं हेमादिभिः प्रतप्तैः शीघ्रं दहेदुल्मुकेन वा| यतोऽग्निः सद्य एव भस्मतां सर्वमेव वस्तु नयति| क्षतं तु कियन्मात्रम्|
Adhikarana maNDalItaradaMshasya mRudAdipUrNavatkreNa vA~a~acUShaNam, agadairmuhura~ggalepaH, candanAdisalilena secanam (46-48) · Śloka 48
| आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः||४६|| प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः| अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः||४७|| चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्| |४८|
🔊 Audio coming soon
स०- अथवा पित्तलप्रायः स्यात् तदा मृदादिभिः पूर्णवदनोऽरिष्टामध्यं प्रच्छाय-प्रच्छानं कृत्वा, आचूषेत्| मांसलं तु स्थानं विशेषेण प्रच्छायाचूषेत्| तथा दंशेन सार्धमङ्गमगदेन पुनःपुनर्लेपयेत्| चन्दनोशीरान्वितेनोदकेन सेचयेच्च शरीरम्|
Adhikarana maNDalItaradaMshasya viShe pravisRute sirAvyadhaH (48-49) · Śloka 49
| विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया||४८|| रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रीयते विषम्| |४९|
🔊 Audio coming soon
स०- विषे प्रविसृते सति सिरां विध्येत्| सा हि उत्तमा क्रिया| यतोऽस्यासृजि निर्ह्रियमाणे विषं सर्वमेव निर्ह्रियते, तदाश्रितत्वात्|
Adhikarana saviShaparaktasya lakShaNam (49-50) · Śloka 50
| दुर्गन्धं सविषं रक्तमग्नौ चटचटायते||४९|| यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्| |५०|
🔊 Audio coming soon
स०-सविषं शोणितं दुर्गन्धं स्यात्| वह्नौ च क्षिप्तं चटचटायते| विशुद्धं च रक्तं दोषानुसारेण पूर्ववत्-सिराव्यधविध्युक्तेन (हृ.सू. अ. २७) लक्षणेन, विद्यात्|
Adhikarana sirAsvadRushyamAnAsu shRu~ggAdinA raktamokShaNam (50) · Śloka 50
| सिरास्वदृष्यमानासु योज्याः शृङ्गजलौकसः||५०||
🔊 Audio coming soon
स०- सिरासु तु शोफादिनाऽनुपलभ्यमानासु शृङ्गं जलौकसो वा युञ्ज्यात्|
Adhikarana srutasheSharaktasya shItalepAdinA stambhanam (51) · Śloka 51
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा| लेपसेकैः सुबहुशः स्तम्भयेद्भृशशीतलैः||५१||
🔊 Audio coming soon
स०- स्रुतशेषं च लोहितं विषोष्मणा प्रविलीनं लेपादिभिः पुनःपुनरुपयुक्तैरतिशीतलैः स्तम्भयेत्|
Adhikarana askanne rakte mUrcchAdayaH, teShu shItopacArAdishca (52) · Śloka 52
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः| भवन्ति तान् जयेच्छीतैर्बीजेच्चारोमहर्षतः||५२||
🔊 Audio coming soon
स०- अस्कन्ने-अस्रुतेऽस्त्याने, हि रक्ते विषवेगेन मूर्च्छाद्या भवन्ति| तांश्च शीतैर्लेपादिभिर्जयेत्| तथा रोमाञ्चो यावच्छीते न स्यात् तावद्बीजेच्च|
Adhikarana skanne rakte viShavegashAntiH (53) · Śloka 53
स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यति| |५३|
🔊 Audio coming soon
स०- अस्रे तु स्कन्ने सति विषवेगः शीघ्रमेव प्रशाम्यति|
Adhikarana viShaM tIkShNatvAt hRudayakarShaNam, hRudayarakShaNAya ghRutAdi pAnam, hRudayAvaraNe hRudishleShmopacayaH (53-54) · Śloka 54
| विषं कर्षति तीक्ष्णत्वाद् हृदयं तस्य गुप्तये||५३|| पिबेद्धृतं घृतक्षौद्रमगदं वा घृताप्लुतम्| हृदयावरणे चास्य श्लेष्मा हृद्युपचीयते||५४||
🔊 Audio coming soon
स०- विषं तीक्ष्णादियोगाद् हृदयं कर्षति| तस्य-हृदयस्य, गुप्तये-रक्षणाय, घृतं घृतक्षौद्रमगदं वा पिबेत् घृताप्लुतम्| अस्य-पुरुषस्य, हृदयावरणे सति श्लेष्मा हृदये चयं याति|
Adhikarana tataH pravRuttagauravAdervamanam (55-56) · Śloka 56
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः| द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः||५५|| वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः| |५६|
🔊 Audio coming soon
स०-प्रवृत्ताः-सञ्जाताः, गौरवोत्क्लेशहृल्लासा यस्य स एवं भूतस्तं द्रवैः काञ्जिकादिरहितैर्वमनैर्वामयेत् विषहरैश्च वामयेत्| एवं कृते सति तस्य-विषार्तस्य, शरीरं विषं न व्याप्नोति|
Adhikarana bhuja~ggadoShAdyavalokanapUrvaM vishiShTA kriyA (56-57) · Śloka 57
| भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः||५६|| सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्| |५७|
🔊 Audio coming soon
स०- भुजङ्गदोषादिकं सुसूक्ष्मया बुद्ध्या सम्यगालोच्य विशिष्टां क्रियां समाचरेत्|
Adhikarana darvIkarairdaShTe sinduvAritamUlAdikaM pAnaM nasyaM ca (57-58) · Śloka 58
| सिन्दुवारितमूलानि श्वेता च गिरिकर्णिका||५७|| पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम्| |५८|
🔊 Audio coming soon
स०- सिन्दुवारितमूलादिकं जलान्वितं दर्वीकरैर्दष्टे पानं नस्यं माक्षिकं कुष्ठसहितं हितम्|
Adhikarana kRuShNasarpeNa daShTe cAraTyAdi lepaH kShaudrAdiyutaghRutapAnaM ca (58-59) · Śloka 59
| कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि||५८|| चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा| पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम्||५९||
🔊 Audio coming soon
स०- कृष्णभुजङ्गदष्टस्य रक्ते हृते सति दंशं गुञ्जानाकुलीभ्यां लिम्पेत्| तीक्ष्णेन मूलविषेन वा लिम्पेत्| क्षौद्रादियुतं च सर्पिः पानम्|
Adhikarana phaNinAM rAjImatAM ca viShe tandulIyakAdyagadaH (60-61) · Śloka 61
तन्दुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः| मातुलुङ्गी सिता शेलुः पाननस्याञ्जनैर्हितः||६०|| अगदः फणिनां घोरे विषे राजीमतामपि| |६१|
🔊 Audio coming soon
स०- तन्दुलीयकादिकः पानादिभिरगदः फणिनां राजीमतां च दारुणे विषे हितः|
Adhikarana maNDaliviShe sugandhAdyagadaH (61-62) · Śloka 62
| समाः सुगन्धामृद्वीकाश्वेताख्यागजदन्तिकाः||६१|| अर्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्| सक्षौद्रो मण्डलिविषे विशेषादगदो हितः||६२||
🔊 Audio coming soon
स०-सुगन्धादयः समाः-समभागाः, अर्धभागेन सुरसपत्रादिकमिति समाक्षिको मण्डलिनो विषे विशेषेणागदो हितः|
Adhikarana maNDaliviShe himavAnnAmAgadaH (63-64) · Śloka 64
पञ्चवल्कवरायष्टीनागपुष्पैलवालुकम्| जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम्||६३|| सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम्| लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा||६४||
🔊 Audio coming soon
स०- पञ्चवल्कादिको माक्षिकयुतो हिमवान्नामागदो मण्डलिविषं लेपेन हन्ति, शोफादिहा च| शिरीषपिप्पलवटप्लक्षवेतसानां पञ्चानां त्वक्-पञ्चवल्कमुच्यते|
Adhikarana maNDaliviShe kAshmaryAdipAnam (65) · Śloka 65
काश्मर्यं वटशुङ्गानि जीवकर्षभकौ सिता| मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत्||६५||
🔊 Audio coming soon
स०- काश्मर्यादिकं मण्डलिदष्टो नरः पिबेत्|
Adhikarana gonasaviShe vaMshatvagAdiko~aShTA~ggo~agadaH (66-67) · Śloka 67
वंशत्वग्बीजकटुकापाटलीबीजनागरम्| शिरीपबीजातिविषे मूलं गावेधुकं वचा||६६|| पिष्टो गोवारिणाऽष्टाङ्गो हन्ति गोनसजं विषम्| |६७|
🔊 Audio coming soon
स०- वंशत्वगादिकोऽष्टाङ्गोऽगदो गोमूत्रपिष्टो गोनसविषं हन्ति| वंशस्य त्वग्बीजे|
Adhikarana rAjImatAM viShe kaTukAdayaH (67-68) · Śloka 68
| कटुकातिविषाकुष्ठगृहधूमहरेणुकाः||६७|| सक्षौद्रव्योषतगरा घ्नन्ति राजीमतां विषम्| |६८|
🔊 Audio coming soon
स०-कटुकादयो राजीमतां विषं घ्नन्ति|
Adhikarana kANDacitrAyA viShe daMshaM bhuvi nikhanet tataH pracchitaM sarpiH - pralepAdi (68-70) · Śloka 70
| निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि||६८|| उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्| पिबेत्पुराणं च घृतं वराचूर्णावचूर्णितम्||६९|| जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्| |७०|
🔊 Audio coming soon
स०- काण्डचित्रायाः-सर्पविशेषस्य, दंशं यामद्वयं भुवि निखनेत्| तत उद्धृत्य प्रच्छितं सर्पैर्धान्यमृद्भ्यां प्रलेपयेत्| धान्यस्य मृद् धान्यमृत्| तथा पुराणं घृतं त्रिफलाचूर्णयुतं पिबेत्| जीर्णे विरिक्तो यवान्नं शाल्यादिकं सूपेन संस्कृतमद्यात्|
Adhikarana vyantaradaShTaviShe karavIrAdyagadaH (70-71) · Śloka 71
| करवीरार्ककुसुममूललाङ्गलिकाकणाः||७०|| कल्कयेदारनालेन पाठामरिचसंयुताः| एष व्यन्तरदष्टानामगदः सार्वकार्मिकः||७१||
🔊 Audio coming soon
स०- करवीरार्कयोः कुसुममूलं लाङ्गलिकादींश्च काञ्जिकेन कल्कयेत्| एषोऽगदः सार्वकार्मिको व्यन्तरदष्टानां हितः| सार्वकार्मिक इति "अनुशतिकादित्वात्(दीनां च)" [इति] उभयपदवृद्धिः|
Adhikarana sarpadaShTaviShe bhAvitasitamaricasya pAnanasyA~jjanam (72) · Śloka 72
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्| भावितं सर्पदष्टानां पाननस्याञ्जने हितम्||७२||
🔊 Audio coming soon
स०-शिरीषकुसुमरसे सप्तवासराणि सितमरिचं भावितं भुजङ्गदष्टानां पानादौ हितम्|
Adhikarana takShakadaShTaviShe natAdipAnam (73) · Śloka 73
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्| अपि तक्षकदष्टानां पानमेतत्सुखप्रदम्||७३||
🔊 Audio coming soon
स०-तगरकुष्ठयोर्द्वे पले घृतमाक्षिकयोश्चत्वारि पलानि| तक्षकेणापि दष्टानां तत्पीतं शर्मदम्|
Adhikarana darvIkRutAM prathame vege raktasrAvAdi (74) · Śloka 74
अथ दर्वीकृतां वेगे पूर्वे विस्त्राव्य शोणितम्| अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्||७४||
🔊 Audio coming soon
स०- दर्वीकृतां च प्रथमे वेगे पूर्वं रक्तं विस्राव्यानन्तरं मधुघृतयुतमगदं शीघ्रमेव पिबेत्|
Adhikarana darvIkRutAM dvitIye vege vamanAdi (75) · Śloka 75
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्| |७५|
🔊 Audio coming soon
स०- द्वितीये वेगे वमनं विधाय तथैवागदं पिबेत्|
Adhikarana darvIkRutAM tRutIye vege viShaghnama~jjanAdi (75) · Śloka 75
| विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने||७५||
🔊 Audio coming soon
स०- तृतीये वेगे विषघ्नमञ्जनादि दद्यात्|
Adhikarana darvIkRutAM caturthe vege vamanaM yavAgUshca (76) · Śloka 76
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते| |७६|
🔊 Audio coming soon
स०- चतुर्थे वेगे कृतवमनः पूर्वोक्तां यवागूं पिबेत्|
Adhikarana darvIkRutAM pa~jcame ShaShThe ca vege vamanaM, yavAgU, shItalepAdi¶É (76-77) · Śloka 77
| षष्ठपञ्चमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः||७६|| पाययेद्वमनं तीक्ष्णं यवागूं च विषापहैः| |७७|
🔊 Audio coming soon
स०- षष्ठपञ्चमयोर्वेगयोः पुरुषं शिशिरैर्मुहुर्लिप्तं सिक्तं च तीक्ष्णं वमनं पाययेत्| यवागूं च विषघ्नैः कृतां पाययेत्|
Adhikarana darvIkRutAm saptame vege tIkShNA~jjanAdi (77-78) · Śloka 78
| अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः||७७|| कृत्वाऽवगाढं शस्त्रेण मूर्ध्नि काकपदं ततः| मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत्||७८||
🔊 Audio coming soon
स०- सप्तमे वेगे तीक्ष्णमगदमञ्जने नस्ये च युञ्ज्यात्| ततः शस्त्रेण काकपदमवगाढं मूर्ध्नि विधाय ततस्तस्य-दष्टस्य, तस्मिन् काकपदे मांसं सशोणितं न्यसेत्, अथवा चर्म निक्षिपेत्|
Adhikarana maNDalinAM tRutIye vege vamanaM peyA ca (79) · Śloka 79
तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत्| |७९|
🔊 Audio coming soon
स०- तृतीये मण्डलिनां वेगे वमितः पेयां पिबेत्|
Adhikarana maNDalinAM ShaShThe vege tIkShaNAgadAdi (79) · Śloka 79
| अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम्||७९||
🔊 Audio coming soon
स०- षष्ठेऽतीक्ष्णमगदं पद्मकादिं वा गणं (हृ.सू. अ. १५/१२) योजयेत्|
Adhikarana rAjImatAM prathame vege raktasrAvAdi (80) · Śloka 80
अद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः| अलाबुना हरेद्रक्तं पूर्ववच्चागदं पिबेत्||८०||
🔊 Audio coming soon
स०- राजीमतां प्रथमे वेगेऽतिशयेन प्रच्छायालाबुना रक्तं हरेत्| पूर्ववच्चागदं पिबेत्|
Adhikarana rAjImatAM ShaShThe vege tIkShNA~jjanAdi (81) · Śloka 81
षष्ठेऽञ्जनं तीक्ष्णतममवपीडं च योजयेत्| |८१|
🔊 Audio coming soon
स०-षष्ठेऽञ्जनमतितीक्ष्णं योजयेदवपीडं च| ननु, अत्र केचिद्वेगा नोदिता एव| तेषु किं विधेयम् ? इत्याह-
Adhikarana anuktavegeShu darvIkarakriyA (81) · Śloka 81
| अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम्||८१||
🔊 Audio coming soon
स०-अकथितेषु दर्वीकरोक्तां क्रियां योजयेत्|
Adhikarana garbhiNyAdiShu mRudukriyAdi (82) · Śloka 82
गर्भिणीबालवृद्धेषु मृदुं, विध्येत्सिरां न च| |८२|
🔊 Audio coming soon
स०-गर्भीण्यादिषु मृदुं क्रियां योजयेत्| सिरां च न व्यधयेत्|
Adhikarana sarvaviShaghnaM vajram (82-83) · Śloka 83
| त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः||८२|| तमालः केसरं शीतं पीतं तन्दुलवारिणा| हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान्||८३||
🔊 Audio coming soon
स०- त्वगादिकमिदं ज्येष्ठाम्भसा पीतं सर्वाणि विषाणि हन्ति| वज्रिवज्रमिवासुरानित्युपमालङ्कारः|
Adhikarana sarvaviShaghnaM bilvamUlAdya~jjanAdi (84-85) · Śloka 85
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम्| फलत्रिकं व्योषनिशाद्वयं च वस्तस्य मूत्रेण सुसूक्ष्मपिष्टम्||८४|| भुजङ्गलूतोन्दुरवृश्चिकाद्यैर्विसूचिकाजीर्णगरज्वरैश्च| आर्तान्नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः||८५||
🔊 Audio coming soon
स०- बिल्वमूलादिकं छागमूत्रेण सुश्लक्ष्णपिष्टमञ्जनादिभिर्भुजङ्गादिभिरार्तान् पुरुषान् भूतोपद्रुतांश्च स्वस्थयति| उपजातिवृत्ते|
Adhikarana daMshAdapi niHsheShaM viShamuddharet, sheShaM hi viShaM punarvegAya jAyeta (86) · Śloka 86
प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषम्| भूयो वेगाय जायेत् शेषं दूषीविषाय वा||८६||
🔊 Audio coming soon
स०- दंशादपि-किं पुनः कायात्, सर्वं विषमुद्धरेत्| शेषं हि विषं पुनर्वेगाय सम्पद्यते, दूषीविषाय वा|
Adhikarana viShApAye kupitavAyvAdInAM snehAdyupakramaH (87-88) · Śloka 88
विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्| तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः||८७|| पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः| समाक्षिकेण वर्गेण कफमारग्वधादिना||८८||
🔊 Audio coming soon
स०-विषापगमे सति वायुं कुपितं स्नेहादिभिरुपक्रमेत्, तैलादिवर्जितैर्वातनाशनैः| पित्तं पित्तज्वरहरैः क्वाथैः स्नेहबस्तिभिश्चोपक्रमेत्| आरग्वधादिगणेन (हृ. सू. अ. १५/१७) समाक्षिकेण कफमुपाचरेत्|
Adhikarana sarpA~ggABihate Sa~gkAviShArdite ca sitAdipAnaM prokShaNAdi (89-90) · Śloka 90
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु| पानं समन्त्रपूताम्बु प्रेक्षणं सान्त्वहर्षणम्||८९|| सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते| |९०|
🔊 Audio coming soon
स०- सितादिकं मन्त्रपूतजलेन सहितं पानम्| प्रोक्षणं प्रकृतत्वान्मन्त्रपूतजलेन वेगशोऽङ्गशश्च| तथा सान्त्वनहर्षणं सर्पाङ्गाभिहते युञ्ज्यात्, शङ्काविषपीडिते च युञ्ज्यात्|
Adhikarana viShashAntyarthaM karketanAdidhAraNam (90-92) · Śloka 92
| कर्केतनं मरकतं वज्रं वारणमौक्तिकम्||९०|| वैढूर्यं गर्दभमणिं पिचुकं विषमूषिकाम्| हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम्||९१|| तथा द्रोणां महाद्रोणां मानसीं सर्पजं मणिम्| विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत्||९२||
🔊 Audio coming soon
स०-कर्केतनादीनि विषाणि च वीर्यवन्ति विषशान्त्यर्थं धारयेत्|
Adhikarana rAtrisa~jcAre chatrajharjharadhAraNam (36) · Śloka 36
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः| तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः||९३|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्पविषप्रतिषेधो नाम षट्त्रिंशोऽध्यायः||३६||
🔊 Audio coming soon
स०- छत्रवान् झर्झरहस्तश्च चरेत्, विशेषेण रात्रौ| तयोः छत्रझर्झरयोः, यथासङ्ख्यं छायाशब्दाभ्यां वित्रस्ताः सर्पाः प्रणश्यन्ति, तस्मादेवमाचरणीयमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सर्पविषप्रतिषेधो नाम षट्त्रिंशोऽध्यायः समाप्तः|| ३६||