Adhikarana sarvAkShirogapratiShedhAdhyAyaH||16|| abhiShyandeShu prAgrUpe tIkShNagaNDUShAdi (2-1) · Śloka 1
अधुना सर्वाक्षिरोगप्रतिषेध उपक्रम्यते अथातः सर्वाक्षिरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
प्राग्रूप एव स्यन्देषु तीक्ष्णं गण्डूषनावनम्|
कारयेदुपवासं च कोपादन्यत्र वातजात्||१||
स०-स्यन्देषु पूर्वरूपावस्थायां तीक्ष्णमेव गण्डूषादिकमुपवासं च स्यन्दवन्तं कारयेत्, वातोत्थं कोपं मुक्त्वा|
Adhikarana abhiShyandeShu dAhAdishAntyarthaM patrAdibiDAlakaH (2-3) · Śloka 3
दाहोपदेहरागाश्रुशोफशान्त्यै बिडालकम्|
कुर्यात्सर्वत्र पत्रैलामरिचस्वर्णगैरिकैः||२||
सरसाञ्जनयष्ट्याह्वनतचन्दनसैन्धवैः|
|३|
स०-दाहादिशान्त्यै बिडालकं कुर्यात्| सर्वत्र स्यन्दे पत्रैलादिभिः सैन्धवान्तैर्बिडालकं कुर्यात्|
Adhikarana vAtaje~abhiShyande saindhavAdi pittaraktaje~abhiShyande mAMsyAdilepaH kaphaje~abhiShyande manohvAdilepaH sarvaje~abhiShyande pUrvoktaH sarvalepaH (3-5) · Śloka 5
|
सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः||३||
वातजे घृतभृष्टं वा योज्यं शबरदेशजम्|
मांसीपद्मककालीययष्ट्याह्वैः पित्तरक्तयोः||४||
मनोह्वाफलिनीक्षौद्रैः कफे, सर्वैस्तु सर्वजे|
|५|
स०-सैन्धवादि घृतमण्डेन भृष्टं वा पवनजे घृतभृष्टं वा रोध्रं योज्यम्| मांस्यादिभिः पित्तरक्तयोर्बिडालकं कुर्यात्| मनःशिलादिभिः कफजे| सर्वजे तु स्यन्दे सर्वैः-पूर्वोक्तैर्मिलितैः, बिडालकं कार्यम्|
Adhikarana sarvaje~abhiShyande prakupitamAtre sitamaricAdyavaguNThanam (5) · Śloka 5
सितमरिचभागमेकं चतुर्मनोह्वं द्विरष्टशाबर्कम्|
सञ्चूर्ण्य वस्त्रबद्धं प्रकुपितमात्रेऽवगुण्ठनं नेत्रे||५||
स०-चतुर्भागप्रमाणा मनोह्वा यस्मिंस्तच्चतुर्मनोह्वम्| द्विः-द्वौ वारौ, अष्टाष्टभागप्रमाणः शाबरको यस्मिंस्तत् द्विरष्टशाबरकम्| तेन सितमरिचस्यैकं भागं मनःशिलायाश्चतुरो भागान् रोध्रस्य षोडश भागान् सञ्चूर्ण्य एतत्सूक्ष्मवस्त्रबद्धं प्रकुपितमात्रे-सद्यःप्रकुपिते, नयनेऽवगुण्ठनं हितम्| गीतिः समुखचपला|
Adhikarana sarvaje~abhiShyande prakupitamAtre kulatthacUrNAvacUrNanam (6) · Śloka 6
आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलत्थाः|
तच्चूर्णं सकृदवचूर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम्||६||
स०-आरण्याः कुलत्थाश्छगणरसे-गोशकृद्रसे, पटावबद्धाः सुस्विन्नास्तथा नखैर्वितुषीकृतास्तेषां चूर्णमेकवारमेवावचूर्णनात् सद्य एव नेत्राणां कोपं विधमति-जयति| प्रहर्षिणीवृत्तम्|
Adhikarana sarvaje~abhiShyande prakupitamAtre ghoShAdipoTalI (7) · Śloka 7
घोषाभयातुत्थकयष्टिरोध्रै- र्मूती सुसूक्ष्मैः श्लथवस्त्रबद्धैः|
ताम्रस्थधान्याम्लनिमग्नमूर्ति- रर्तिं जयत्यक्षिणि नैकरूपाम्||७||
स०-घोषादिभिः सुसूक्ष्मैः श्लथवस्त्रबद्धैर्मूती-पोटलिका, ताम्रस्थकाञ्जिकनिमग्नमूर्तिः पीडां नानाविधां नेत्रे धारिता जयति| इन्द्रवज्रावृत्तम्|
Adhikarana sarvaje~abhiShyande prakupitamAtre kaTa~gkaTerIkvAthasekaH (8) · Śloka 8
षोडशभिः सलिलपलैः पलं तथैकं कटङ्कटेर्याः सिद्धम्|
सेकोऽष्टभागशिष्टः क्षौद्रयुतः सर्वदोषकुपिते नेत्रे||८||
स०-दार्व्याः पलं जलपलैः षोडशभिः शृतमष्टभागशेषः सेको मधुयुतः सर्वदोषकुपिते चक्षुषि हितः| आर्या गीतिः|
Adhikarana sarvaje~abhiShyande prakupitamAtre shigrupallavarasaH (9) · Śloka 9
वातपित्तकफसन्निपातजां नेत्रयोर्बहुविधामपि व्यथाम्|
शीघ्रमेव जयति प्रयोजितः शिग्रुपल्लवरसः समाक्षिकः||९||
स०-एकैकदोषजां सन्निपातजां वा नयनयोर्नानाविधां पीडां शीघ्रमेक एव शोभाञ्जनकरसः सक्षौद्रो जयति| रथोद्धतावृत्तम्|
Adhikarana vAtaje~abhiShyande eraNDamUlasiddhakShIram vAtaje~abhiShyande saktupiNDikA (10) · Śloka 10
तरुणमुरुबूकपत्रं मूलं च विभिद्य सिद्धमाजे क्षीरे|
वाताभिष्यन्दरुजं सद्यो विनिहन्ति सक्तुपिण्डिका चोष्णा||१०||
स०-एरण्डस्य तरुणं पत्रं मूलं च विभिद्य-संक्षुद्य, छागदुग्धसिद्धं वाताभिष्यन्दे पीडां सद्य एव निहन्ति| दोषादिवशात् सक्तुपिण्डी उष्णा वा रुजं हन्ति| आर्या गीतिः|
Adhikarana vAtaje~abhiShyande bilvAdikvAthaH Ashcyotane vAtaje~abhiShyande hrIberAdi shUlAshcyotanam raktapittaje~abhiShyande ma~jjiShThAdikvAthasekaH (11-13) · Śloka 13
आश्च्योतनं मारुतजे क्वाथो बिल्वादिभिर्हितः|
कोष्णः सहैरण्डजटाबृहतीमधुशिग्रुभिः||११||
ह्रीबेरवक्रशार्ङ्गेष्टोदुम्बरत्वक्षु साधितम्|
साम्भसा पयसाऽऽजेन शूलाश्च्योतनमुत्तमम्||१२||
मञ्जिष्ठारजनीलाक्षाद्राक्षर्द्धिमधुकोत्पलैः|
क्वाथः सशर्करः शीतः सेचनं रक्तपित्तजित्||१३||
स०-वातजेऽभिष्यन्दे बिल्वादिभिरेरण्डमूलादिभिः सह क्वाथः कृतः कोष्णो हितमाश्च्योतनम्| ह्रीबेरादिषु साधितं सजलेनाजेन पयसा उत्तमं शूलाश्च्योतनं प्रसादनं भवेत्| ह्रीबेरं-वालकम्| वक्रं-तगरम्| मञ्जिष्ठादिभिः क्वाथः ससितः शिशिरः सेको रक्तपित्तघ्नः|
Adhikarana raktapittaje~abhiShyande kaserukAdirajaHpAnIyam (14) · Śloka 14
कसेरुयष्ट्याह्वरजस्तान्तवे शिथिलं स्थितम्|
अप्सु दिव्यासु निहितं हितं स्यन्देऽस्रपित्तजे||१४||
स०-कसेरुकादिरजो वस्त्रे शिथिलं स्थितं दिव्यजले क्षिप्तं स्यन्दे रक्तपित्तजे हितम्|
Adhikarana raktapittaje~abhiShyande puNDrAdipoTalI (15) · Śloka 15
पुण्ड्रयष्टीनिशामूती प्लुता स्तन्ये सशर्करे|
छागदुग्धेऽथवा दाहरुग्रागाश्रुनिवर्तनी||१५||
स०-पुण्ड्रादिभिर्मूती स्त्रीक्षीरे सशर्करे प्लुता छागदुग्धे वा दाहादिहृत्|
Adhikarana raktapittaje~abhiShyande shvetarodhrAdipoTalI (16) · Śloka 16
श्वेतरोध्रं समधुकं घृतभृष्टं सुचूर्णितं|
वस्त्रस्थं स्तन्यमृदितं पित्तरक्ताभिघातजित्||१६||
स०-श्वेतरोध्रं समधुकं घृतभृष्टं सूक्ष्मरजीकृतं वसनस्थं स्तन्येन मृदितं पित्तादिजित्|
Adhikarana kaphaje~abhiShyande nAgarAdikvAthaH Ashcyotane sarvaje~abhiShyande mishrairetairAshcotanam (17) · Śloka 17
नागरत्रिफलानिम्बवासरोध्ररसः कफे|
कोष्णमाश्च्योतनं मिश्रैर्भेषजैः सान्निपातिके||१७||
स०-नागरादिरसः श्लेष्मण्याश्च्योतनं कोष्णं हितम्| स०-सान्निपातिकेऽभिष्यन्दे मिश्रैरौषधैः-एतैरेवानन्तरोक्तैः, आश्च्योतनं कोष्णं हितम्|
Adhikarana vAtAdyabhiShyande susnigdhaM kRutvArudhirasrAvaH vAtAdyabhiShyande punaH snigdhaM kRutvA virekaH (18-19) · Śloka 19
सर्पिः पुराणं पवने, पित्ते शर्करयाऽन्वितम्|
व्योषसिद्धं कफे पीत्वा यवक्षारावचूर्णितम्||१८||
स्रावयेद्रुधिरं भूयस्ततः स्निग्धं विरेचयेत्|
|१९|
स०-पवने पुराणं घृतं हितम्| पित्ते शर्करया युतं घृतं हितम्| कफे व्योषसिद्धं घृतं यवक्षारावचूर्णितं पीत्वा रुधिरं स्रावयेत्| भूयः स्निग्धं ततो विरेचयेत्|
Adhikarana vAtAdyabhiShyande shUladAhayorAnUpavesavAralepaH (19-20) · Śloka 20
|
आनूपवेसवारेण शिरोवदनलेपनम्||१९||
उष्णेन शूले, दाहे तु पयःसर्पिर्युतैर्हिमैः|
|२०|
स०-आनूपवेसवारेण शिरोवदनलेपनमुष्णेन कार्यं शूले सति| दाहे तु सति क्षीरघृतान्वितैः शीतैः प्रलेपः कार्यः|
Adhikarana vAtAdyabhiShyande timirapratiShedhavatpratIkAraH (20) · Śloka 20
|
तिमिरप्रतिषेधं च वीक्ष्य युञ्ज्याद्यथायथम्||२०||
स०-तिमिरप्रतिषेधं च पर्यालोच्य यथायोगं चिकित्सितं युञ्ज्यात्|
Adhikarana adhimanthAdhiShu ayameva vidhiH adhimanthe~ashAntau bhruvorupari dAhaH (21) · Śloka 21
अयमेव विधिः सर्वो मन्थादिष्वपि शस्यते|
अशान्तौ सर्वथा मन्थे भ्रुवोरुपरि दाहयेत्||२१||
स०-एष एव विधिरशेषेषु मन्थादिष्वपि शस्यते| स०-सर्वथैवाशान्तौ मन्थे भ्रुवोरुपरि दाहयेत्|
Adhikarana vAtaje~adhimanthe godadhivartiH (22) · Śloka 22
रूप्यं रूक्षेण गोदध्ना लिम्पेन्नीलत्वमागते|
शुष्के तु मस्तुना वर्तिर्वाताक्ष्यामयनाशिनी||२२||
स०-रूप्यं गोदध्ना रूक्षेण लिम्पेत्| तस्मिन् दध्नि नीलत्वमागते शुष्के च मस्तुना वर्तिर्वाताक्षिरोगनाशिनी|
Adhikarana pittaraktaje~adhimanthe sumanaHkorakAdivartiH (23) · Śloka 23
सुमनःकोरकाः शङ्खस्त्रिफला मधुकं बला|
पित्तरक्तापहा वर्तिः पिष्टा दिव्येन वारिणा||२३||
स०-सुमनःकलिकादयो वर्तिर्दिव्येन जलेन पिष्टा पित्तरक्तहृत्|
Adhikarana kaphaje~adhimanthe saindhavAdivartiH (24) · Śloka 24
सैन्धवं त्रिफला व्योषं शङ्खनाभिः समुद्रजः|
फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षिरोगनुत्||२४||
स०-सैन्धवादिभिर्वर्तिः श्लेष्माक्षिरोगजित्|
Adhikarana sarvaje~adhimanthe pAshupato yogaH (25-27) · Śloka 27
प्रपौण्डरीकं यष्ट्याह्वं दार्वी चाष्टपलं पचेत्|
जलद्रोणे रसे पूते पुनः पक्वे घने क्षिपेत्||२५||
पुष्पाञ्जनाद्दशपलं कर्षं च मरिचात्ततः|
कृतश्चूर्णोऽथवा वर्तिः सर्वाभिष्यन्दसम्भवान्||२६||
हन्ति रागरुजाघर्षान् सद्यो दृष्टिं प्रसादयेत्|
अयं पाशुपतो योगो रहस्यं भिषजां परम्||२७||
स०-प्रप्रौण्डरीकादिकमष्टपलं पृथग्जलद्रोणे पचेत्| रसे पूते पुनः शृते घने च पुष्पाञ्जनाद्दश पलानि, मरीचात्कर्षं च क्षिपेत्| कृतश्चूर्णोऽथवा वर्तिः सर्वाभिष्यन्दोत्थान् रागादीन् हन्ति| तथा सद्य एव दृष्टिं प्रसादयेत्| एष पाशुपताख्यो योगो भिषजां परं रहस्यम्|
Adhikarana shuShkAkShipAke ghRutapAnatarpaNAdi (28-29) · Śloka 29
शुष्काक्षिपाके हविषः पानमक्ष्णोश्च तर्पणम्|
घृतेन जीवनीयेन नस्यं तैलेन वाऽणुना||२८||
परिषेको हितश्चात्र पयः कोष्णं ससैन्धवम्|
|२९|
स०-शुष्काक्षिपाके घृतस्य पानमक्ष्णोश्च जीवनीयसिद्धेन घृतेन तर्पणं हितम्| अणुना तैलेन नस्यं हितम् अत्र च क्षीरं कोष्णं सैन्धवयुतं परिषेको हितः|
Adhikarana shuShkAkShipAke mahauShadhA~jjanam shuShkAkShipAke AnUpasattvotthA vasA~a~jjanam (29-30) · Śloka 30
|
सर्पिर्युक्तं स्तन्यपिष्टमञ्जनं च महौषधम्||२९||
वसा वाऽऽनूपसत्त्वोत्था किञ्चित्सैन्धवनागरा|
|३०|
स०-नागरं स्तन्यपिष्टं घृतान्वितमञ्जनं हितम्| आनूपप्राणिजा वा वसा किञ्चित्सैन्धवशुण्ठीयुता [ अञ्जनं ] शस्यते|
Adhikarana shuShkAkShipAke keshamaShI a~jjanam (30-31) · Śloka 31
|
घृताक्तान् दर्पणे घृष्टान् केशान् मल्लकसम्पुटे||३०||
दग्ध्वाऽऽज्यपिष्टा लोहस्था सा मषी श्रेष्ठमञ्जनम्|
|३१|
स०-केशान् घृताक्तान् दर्पणे घृष्टान् मल्लकसम्पुटे दग्ध्वा घृतपिष्टा लोहपात्रस्था सा मषी श्रेष्ठमञ्जनम्|
Adhikarana sashophe alpashophe ca snigdhasya sirAvyadhaH sashophe alpashophe punaHsnigdhaM kRutvA virekaH (31-32) · Śloka 32
|
सशोफेवाऽल्पशोफे च स्निग्धस्य व्यधयेत्सिराम्||३१||
रेकः स्निग्धे पुनर्द्राक्षापथ्याक्वाथत्रिवृद्घृतैः|
|३२|
स०-सशोफेऽल्पशोफे वा स्निग्धस्य सिरां विध्येत्| स्निग्धस्य पुनर्द्राक्षादिभिर्विरेकः|
Adhikarana saSoPe alpaSoPe SUlaharaH SvetarodhrapoTalIsekaH (32-33) · Śloka 33
|
श्वेतरोध्रं घृते भृष्टं चूर्णितं तान्तवस्थितम्||३२||
उष्णाम्बुना विमृदितं सेकः शूलहरः परम्|
|३३|
स०-श्वेतरोध्रं घृते भृष्टं चूर्णितं वस्त्रस्थितमुष्णाम्बुना मृदितं सेकः शूलहृत्परम्|
Adhikarana sashophe alpashophe dArvyAdikvAthaH Ashcyotane (33) · Śloka 33
|
दार्वीप्रपौण्डरीकस्य क्वाथो वाऽऽश्च्योतने हितः|३३|
स०-दार्वीप्रपौण्डरीकयोश्च क्वाथ आश्च्योतने हितः|
Adhikarana sashophe alpashophe gharShAdiharA vakShyamANAH sandhAvAH (33) · Śloka 33
सन्धवांश्च प्रयुञ्जीत घर्षरागाश्रुरुग्घरान्|
||३३||
स०-सन्धावांश्च वक्ष्यमाणान् घर्षादिहरान् प्रयुञ्जीत|
Adhikarana sashophe alpashophe gharShAdiharA tAmraghRuShTAdiH sandhAvaH sashophe alpashophe gharShAdiharA gavyadadhisarAdiH sandhAvaH (34.5) · Śloka
ताम्रं लोहे मूत्रघृष्टं प्रयुक्तं नेत्रे सर्पिर्धूपितं वेदनाघ्नम्|
ताम्रे घृष्टो गव्यदध्नः सरो वा युक्तः कृष्णासैन्धवाभ्यां वरिष्ठः||३४.५||
स०-लोहभाण्डे ताम्रं गोमूत्रेण घृष्टं सर्पिर्धूपितं नेत्रे प्रयुक्तं पीडाहृत्| गव्यदधिसरस्ताम्रे घृष्टः कृष्णासैन्धवयुक्तो नेत्रे प्रयुक्तो वरीयान् वेदनाघ्नः सन्धावः|
Adhikarana sashophe alpashophe gharShAdiharA sha~gkhaghRuShTAdiH sandhAvaH (35.5) · Śloka
शङ्खं ताम्रे स्तन्यघृष्टं घृताक्तैः शम्याः पत्रैर्धूपितं तद्यवैश्च|
नेत्रे युक्तं हन्ति सन्धावसंज्ञं क्षिप्रं घर्षं वेदनां चातितीव्राम्||३५.५||
स०-शङ्खं स्तन्येन ताम्रे घृष्टं शमीपत्रैर्यवैश्च घृताक्तैर्धूपितं तत्सन्धावसंज्ञं नेत्रे प्रयुक्तं शीघ्रं घर्षं वेदनामतिदारुणां च हन्ति| शालिन्यौ वृत्ते|
Adhikarana sashophe alpashophe gharShAdiharA udumbaraphalAdiH sandhAvaH (36-37) · Śloka 37
|
उदुम्बरफलं लोहे घृष्टं स्तन्येन धूपितम्||३६||
साज्यैः शमीच्छदैर्दाहशूलरागाश्रुहर्षजित्|
|३७|
स०-उदुम्बरफलं लोहे स्तन्येन घृष्टं घृताक्तैः शमीपत्रैर्धूपितं दाहादिजित्|
Adhikarana sashophe alpashophe gharShAdiharA shigrupallavaniryAsAdiH sandhAvaH (37-38) · Śloka 38
|
शिग्रुपल्लवनिर्यासः सुघृष्टस्ताम्रसम्पुटे||३७||
घृतेन धूपितो हन्ति शोफघर्षाश्रुवेदनाः|
|३८|
स०-शिग्रुपल्लवरसः सुघृष्टस्ताम्रसम्पुटे घृतेन धूपितः शोफादीन् हन्ति|
Adhikarana sashophe alpashophe gharShAdiharA mRutkapAlAdiH sandhAvaH (38-39) · Śloka 39
|
तिलाम्भसा मृत्कपालं कांस्ये घृष्टं सुधूपितम्||३८||
निम्बपत्रैर्घृताभ्यक्तैर्घर्षशूलाश्रुरागजित्|
|३९|
स०-मृत्कपालं तिलाम्भसा कांस्ये घृष्टं तथा निम्बपत्रैर्घृताभ्यक्तैर्धूपितं घर्षादिजित्|
Adhikarana sandhAvenA~jjite netre stanyAshcyotanam (39-40) · Śloka 40
|
सन्धावेनाञ्जिते नेत्रे विगतौषधवेदने||३९||
स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच्च तैः|
|४०|
स०-सन्धावेन नेत्रेऽञ्जिते विगतौषधवेदने सति स्तन्येनाश्च्योतनं हितं कार्यं त्रीन् वारान्| तैश्च-सन्धावैः, परं-त्रिभ्यो वारेभ्यो, नाञ्जयेत्|
Adhikarana sashophe alpashophe gharShAdiharA tAlIsapatrAdiguTikA sandhAvaH (40-42) · Śloka 42
|
तालीसपत्रचपलानतलोहरजोञ्जनैः||४०||
जातीमुकुलकासीससैन्धवैर्मूत्रपेषितैः|
ताम्रमालिप्य सप्ताहं धारयेत्पेषयेत्ततः||४१||
मूत्रेणैवानु गुटिकाः कार्याश्छायविशोषिताः|
ताः स्तन्यघृष्टा घर्षाश्रुशोफकण्डूविनाशनाः||४२||
स०-तालीसपत्रादिभिर्मूत्रपिष्टैस्ताम्रमालिप्य सप्ताहं धारयेत्| ततः सप्ताहादूर्ध्वं गोमूत्रेणैव गुटिकाः कुर्यात्| ताश्च छायाविशोषिताः स्तन्यघृष्टा घर्षादिघ्नाः|
Adhikarana sashophe alpashophe vyAghryAdikaH sandhAvaH (43) · Śloka 43
व्याघ्रीत्वङ्ऽऽमधुकं ताम्ररजोऽजाक्षीरकल्कितम्|
शम्यामलकपत्राज्यधूपितं शोफरुक्प्रणुत्||४३||
स०-व्याघ्र्यादिकमजाक्षीरकल्कितं शम्यामलकपत्रैर्घृतान्वितैर्धूपितं शोफरुक्प्रणुत्|
Adhikarana amloShite pittAbhiShyandacikitsA (44) · Śloka 44
अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्दसाधनम्|
|४४|
स०-अम्लोषिते नेत्ररोगे पित्ताभिष्यन्दचिकित्सितं कुर्यात्|
Adhikarana dIrghakAlAnubandhitvAdukliShTAdayo~aShTAdasha rogAH pillasaMj~jAH (44-46) · Śloka 46
|
उत्क्लिष्टाः कफपित्तास्रनिचयोत्थाः कुकूणकः||४४||
पक्ष्मोपरोधः शुष्काक्षिपाकः पूयालसो बिसः|
पोथक्यम्लोषितोऽल्पाख्यः स्यन्दमन्था विनाऽनिलात्||४५||
एतेऽष्टादश पिल्लाख्या दीर्घकालानुबन्धिनः|
|४६|
स०-उत्क्लिष्टादयोऽष्टादश रोगा इमे पिल्लाख्या दीर्घकालानुबन्धिनः|
Adhikarana pilleShu vakShyamANA sAmAnyacikitsA pilleShu vartmanirlekhanam (46-48) · Śloka 48
|
चिकित्सा पृथगेतेषां स्वंस्वमुक्ता अथ वक्ष्यते||४६||
पिल्लीभूतेषु सामान्यात् अथ पिल्लाख्यरोगिणः|
स्निग्धस्य छर्दितवतः सिराव्यधहृतासृजः||४७||
विरिक्तस्य च वर्त्मानु निर्लिखेदाविशुद्धितः|
|४८|
स०-एतेषां पृथक् चिकित्सा यथास्वमुक्ता| स०-अथ भणिष्यते चिकित्सा पिल्लीभूतेषु सामान्येन| स०-अथ पिल्लाख्याक्षिरोगवतः स्निग्धस्य छर्दितवतो नरस्य विद्धसिरस्य विरिक्तस्य च वर्त्म निर्लिखेदाविशुद्धेः|
Adhikarana pilleShu tutthakAdinA sekaH (48-50) · Śloka 50
|
तुत्थकस्य पलं श्वेतमरिचानि च विंशतिः||४८||
त्रिंशता काञ्जिकपलैः पिष्ट्वा ताम्रे निधापयेत्|
पिल्लानपिल्लान् कुरुते बहुवर्षोत्थितानपि||४९||
तत्सेकेनोपदेहाश्रुकण्डूशोफांश्च नाशयेत्|
|५०|
स०-तुत्थकस्य पलं, विंशतिः श्वेतमरिचानि-सौभाञ्जनबीजानि, काञ्जिकपलैस्त्रिंशता पिष्ट्वा ताम्रे निधापयेत्| तत्सेकेन पिल्लान् बहुवर्षोत्थितानप्यपिल्लान् कुरुते| उपदेहादींश्च नाशयेत्|
Adhikarana pilleShu kara~jjabIjAdirasakriyA~a~jjanam (50-51) · Śloka 51
|
करञ्जबीजं सुरसं सुमनःकोरकाणि च||५०||
संक्षुद्य साधयेत्क्वाथे पूते तत्र रसक्रिया|
अञ्जनं पिल्लभैषज्यं पक्ष्मणां च प्ररोहणम्||५१||
स०-करञ्जबीजादीनि संक्षुद्य जले साधयेत्| क्वाथे पूते तत्र रसक्रिया| अञ्जनं पिल्ले औषधं पक्ष्मणां च प्ररोहणम्|
Adhikarana pilleShu rasA~jjanAdi a~jjanam (52-53) · Śloka 53
रसाञ्जनं सर्जरसो रीतिपुष्पं मनःशिला|
समुद्रफेनो लवणं गैरिकं मरिचानि च||५२||
अञ्जनं मधुना पिष्टं क्लेदकण्डूघ्नमुत्तमम्|
|५३|
स०-रसाञ्जनादिकं मधुना पिष्टमञ्जनं परं क्लेदकण्डूहृत्|
Adhikarana pilleShu tagarAdi a~jjanam pilleShu devadArvAdi a~jjanam (53-54) · Śloka 54
|
अभयारसपिष्टं वा तगरं पिल्लनाशनम्||५३||
भावितं बस्तमूत्रेण सस्नेहं देवदारु च|
|५४|
स०-हरीतकीक्वाथपिष्टं तगरं परं पिल्लघ्नम्| देवदारुसस्नेहं बस्तमूत्रेण भावितं तद्वत्|
Adhikarana pilleShu saindhavAdivartiH (54-55) · Śloka 55
|
सैन्धवत्रिफलाकृष्णाकटुकाशङ्ख्नाभयः||५४||
सताम्ररजसो वर्तिः पिल्लशुक्रकनाशिनी|
|५५|
स०-सैन्धवादयस्ताम्रजःसहिता वर्तिः पिल्लशुक्रहृत्|
Adhikarana pilleShu puShpakAsIsAdi a~jjanam (55-56) · Śloka 56
|
पुष्पकासीसचूर्णो वा सुरसारसभावितः||५५||
ताम्रे दशाहं तत् पैल्ल्यपक्ष्मशातजिदञ्जनम्|
|५६|
स०-पुष्पकासीसचूर्णः सुरसारसेन दशाहं भावितस्तदञ्जनं पैल्ल्यपक्ष्मशातघ्नम्| सुरसा-मूर्वा|
Adhikarana pilleShu alAdicUrNaH (56) · Śloka 56
अलं च सौवीरकमञ्जनं च ताभ्यां समं ताम्ररजः सुसूक्ष्मम्|
पिल्लेषु रोमाणि निषेवितोऽसौ चूर्णः करोत्येकशलाकयाऽपि||५६||
स०-हरितालं सौवीराञ्जनं [च]| ताभ्यां द्वाभ्यां तुल्यं ताम्रचूर्णं सूक्ष्मम्| एष चूर्णो निषेवित एकयाऽपि शलाकया पिल्लेषु रोमाणि करोति| उपजातिः|
Adhikarana pilleShu lAkShAdimaShI (57) · Śloka 57
लाक्षानिर्गुण्डीभृङ्गदार्वीरसेन श्रेष्ठं कार्पासं भावितं सप्तकृत्वः|
दीपः प्रज्वाल्यः सर्पिषा तत्समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा||५७||
स०-लाक्षादिरसेन श्रेष्ठं कार्पासं सप्तवारान् भावितम्| तेन कार्पासेन सर्पिषा दीपः प्रज्वाल्यः| तत्समुत्था मषी पिल्लानां रोपणार्थे श्रेष्ठा| वैश्वदेवीवृत्तम्|
Adhikarana pilleShu punaHpunarvartmAvalekhanAdi (58-59) · Śloka 59
|
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम्||५८||
पुनःपुनर्विरेकं च नित्यमाश्च्योतनाञ्जनम्|
नावनं धूमपानं च पिल्लरोगातुरो भजेत्||५९||
स०-पिल्लरोगी वर्त्मावलेखादिकं पुनःपुनर्भजेत्|
Adhikarana pilleShu pUyAlase~ashAnte dAhaH (60) · Śloka 60
पूयालसे त्वशान्तेऽन्ते दाहः सूक्ष्मशलाकया|
|६०|
स०-पूयालसे पुनरशान्ते सत्यन्ते सूक्ष्मशलाकया दाहो हितः|
Adhikarana iti caturNavatirnetrarogAH (60-61) · Śloka 61
|
चतुर्णवतिरित्यक्ष्णो हेतुलक्षणसाधनैः||६०||
परस्परमसङ्कीर्णाः कार्त्स्न्येन गदिता गदाः|
|६१|
स०-इत्येवमक्ष्णश्चतुर्णवति गदा लक्षणहेतुसाधनैरन्योन्यमसङ्कीर्णाः कार्त्स्न्येनोक्ताः|
Adhikarana svasthasyApi nayanapriyasya sadA purANayavAdisevanam (61-65) · Śloka 65
|
सर्वदा च निषेवेत स्वस्थोऽपि नयनप्रियः||६१||
पुराणयवगोधूमशालिषष्टिककोद्रवान्|
मुद्गादीन् कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान्||६२||
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम्|
सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम्||६३||
आतपत्रं पदत्राणं विधिवद्दोषशोधनम्|
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च||६४||
क्रोधशोकदिवास्वप्नरात्रिजागरणातपान्|
विदाहि विष्टम्भकरं यच्चेहाहारभेषजम्||६५||
स०-स्वस्थोऽपि नयनवल्लभः सन् सदैव पुराणयवादिकं निषेवेत| एवंविधं कफपित्तघ्नं शाकं च| विधिर्विद्यते यस्मिंस्तच्च शोधनं-विरेचनादि, भजेत्| तथा वेगसंरोधादिकं वर्जयेत्|
Adhikarana svasthasyApi pAdamrakShaNAdi (66) · Śloka 66
द्वे पादमध्ये पृथुसन्निवेशे शिरे गते ते बहुधा च नेत्रे ता म्रक्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान्नयने नयन्ति||६६||
स०-द्वे पादस्य मध्ये पृथुरूपे सिरे| ते च बहुधा नेत्रगते| ताः सिराः अभ्यङ्गादीन् पादप्रयुक्तान्नेत्रं(त्रे)प्रापयन्ति|
Adhikarana svasthasyApi upAnadAdisevanam (16) · Śloka 16
मलौष्ण्यसङ्घट्टनपीडनाद्यै- स्ता दूषयन्ते नयनानि दुष्टाः|
भजेत्सदा दृष्टिहितानि तस्मा- दुपानदभ्यञ्जनधावनानि||६७||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगप्रतिषेधो नाम षोडशोऽध्यायः||१६||
स०-ताश्च मलौष्ण्यादिभिर्दुष्टा नयनानि दूषयन्ते| यत एवं तस्माद् दृष्टिहितानि सर्वदा उपानदभ्यञ्जनादीनि भजेत्| उपजाती वृत्ते| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगप्रतिषेधो नाम षोडशोऽध्यायः समाप्तः|| १६||