Adhikarana karNarogavij~jAnIyAdhyAyaH||17|| 1 vAtajasya karNashUlasya lakShaNam (2-3) · Śloka 3
अथातः कर्णरोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
) प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत्|
मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः||१||
प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत्|
अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम्||२||
चिराच्च पाकं पक्वं तु लसीकामल्पशः स्रवेत्|
श्रोत्रं शून्यमकस्माच्च स्यात्सञ्चारविचारवत्||३||
नयनामयादनन्तरं दूरग्रहणसाधर्म्येण कर्णरोगानाह| यथा हि चक्षुर्दूरदेशस्थमपि पश्यति तथा श्रोत्रं दूरस्थमपि शृणोतीत्याह- स०-प्रतिश्यायेत्यादिभिः शब्दस्य च मिथ्याभियोगेन पवनः कुपितोऽपरैरपि सर्वनिदानैः कुपितः श्रोत्रसिराः प्राप्य स्रोतसि-कर्णविवरे, शूलं वेगवत् कुर्यात्| तथाऽर्धावभेदकं शिरोरोगं स्तम्भं कर्णस्यैव, तथा शीतस्यानभिनन्दनं चिरेण च पाकं कुर्यात्| पक्वं तु श्रोत्रमल्पशो लसीकां स्रवेत्| अकस्माच्च शून्यं स्यात्| सञ्चारविचारवच्च-स्थगितास्थगितं च यथा, स्यात्|
Adhikarana 2pittajasya karNashUlasya lakShaNam (4-5) · Śloka 5
शूलं पित्तात् सदाहोषाशीतेच्छाश्वयथुज्वरम्|
आशुपाकं प्रपक्वं च सपीतलसिकास्रुति||४||
सा लसीका स्पृशेद्यद्यत्तत्तत्पाकमुपैति च|
|५|
स०-पित्तेन शूलं दाहाद्यन्वितं स्यात्| तत्र ऊषा-प्रादेशिकः सन्तापः| दाहः-सर्वाङ्गीणस्तीव्रोष्मा सदाऽरतिमान्| तथाऽऽशु पाको यस्मिंस्तदेवम्| तथा प्रपक्वं च सपीतलसिकास्रुति स्यात्| सा च लसीका यद्यदङ्गं स्पृशेत् तत् तत् पाकं गच्छति|
Adhikarana 3 kaphajasya karNashUlasya lakShaNam (5-6) · Śloka 6
|
कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः||५||
कण्डूः श्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः|
|६|
स०-कफाच्छिरादिगौरवं जायते| रुजो मन्दत्वं कण्ड्वादि च स्यात्| पाकाच्छ्वेता घना च स्रुतिः स्यात्|
Adhikarana 4 raktajasya karNashUlasya lakShaNam (6-7) · Śloka 7
|
करोति श्रवणे शूलमभिघातादिदूषितम्||६||
रक्तं पित्तसमानार्ति किञ्चिद्वाऽधिकलक्षणम्|
|७|
स०-रक्तमभिघातादिदूषितं कर्णे शूलं करोति| किम्भूतं रक्तम् ? पित्तेन समा पीडा यस्मिंस्तदेवम्| किञ्चिच्चाधिकलक्षणम्|
Adhikarana 5 sannipAtajasya karNashUlasya lakShaNam (7-8) · Śloka 8
|
शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक्||७||
पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत्|
पक्वं सितासितारक्तघनपूयप्रवाहि च||८||
स०-समुदितैः-सन्निपतितैर्दोषैः, शूलं शोफादियुतं जायते| तथा पर्यायेणोष्णशीतेच्छं श्रुतिजाड्ययुक्तं च| पक्वं सितासितारक्तघनं पूयं प्रवहति|
Adhikarana 6 karNanAdasya lakShaNam (9) · Śloka 9
शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः|
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम्||९||
स०-शब्दवाहिनीषु सिरासु गते वाते मुहुः शब्दान् विविधानकस्माच्छृणोति| तं कर्णनादं वदन्ति|
Adhikarana 7 badhiratvasya lakShaNam (10) · Śloka 10
श्लेष्मणाऽनुगतो वायुर्नादो वा समुपेक्षितः|
उच्चैः कृच्छ्राच्छ्रुतिं कुर्याद्बधिरत्वं क्रमेण च||१०||
स०-वायुः श्लेष्मणाऽनुगतः कर्णनादो वा समुपेक्षितः-अचिकित्सितः, कर्णे-श्रोत्रे, उच्चैः कृच्छ्राच्छ्रुतिं-श्रवणं, कुर्यात्| क्रमेण बधिरत्वं-बाधिर्यं च, कुर्यात्|
Adhikarana 8pratInAhasya lakShaNam (11) · Śloka 11
वातेन शोषितः श्लेष्मा श्रोतो लिम्पेत्ततो भवेत्|
रुग्गौरवं पिधानं च स प्रतीनाहसंज्ञितः||११||
स०-वातेन श्लेष्मा शोषितः श्रोतो लिम्पेत्| ततो रुग्गौरवं तस्य स्रोतसो गुरुत्वं स्यात्, स्थगनं च| स प्रतीनाहसंज्ञको गदः|
Adhikarana 9 kaNDUkarNasya lakShaNam 10shophakarNasya lakShaNam (12) · Śloka 12
कण्डूशोफौ कफाच्छ्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ|
|१२|
स०-कफात् कण्डूशोफौ कर्णे स्थिरौ तत्संज्ञौ कण्डूशोफाख्यौ भवतः|
Adhikarana 11pUtikarNakasya lakShaNam (12-13) · Śloka 13
|
कफो विदग्धः पित्तेन सरुजं नीरुजं त्वपि||१२||
घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम्|
|१३|
स०-कफः पित्तेन विदग्धः सरुजं नीरुजं वा घनपूतिबहुक्लेदं पूतिकर्णकमनुगतार्थं कुरुते|
Adhikarana 12 kRumikarNakasya lakShaNam (13-14) · Śloka 14
|
वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजा रुजम्||१३||
खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः|
|१४|
स०-वातादिभिः दूषितं श्रोत्रं जन्तवो भक्षयन्तो मांसादिक्लेदजां तीव्रां रुजं कुर्युः| स कृमिकर्णकाख्यः|
Adhikarana 13 karNavidradheH lakShaNam (14-15) · Śloka 15
|
श्रोत्रकण्डूयनाज्जाते क्षते स्यात्पूर्वलक्षणः||१४||
विद्रधिः, पूर्ववच्चान्यः|
|१५|
स०-श्रोत्रकण्डूयनाज्जाते क्षते पूर्वोक्तलक्षणो विद्रधिः स्यात्| निदाने ह्येवमुक्तम् (हृ. नि. अ. ११| २)- "यः शोफो बहिरन्तर्वा महामूलो महारुजः| वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः||" इति| तद्वदिह विद्रधिसामान्यात् कर्णविद्रधिरेक एवोक्तः|
Adhikarana 14 karNArshasaH lakShaNam 15karNArbudasya lakShaNam (15) · Śloka 15
शोफोऽर्शोऽर्बुदमीरितम्|
तेषु रुक् पूतिकर्णत्वं बधिरत्वं च बाधते||१५||
स०-अर्शोऽर्बुदं च तदीरितमिति कर्णार्शः कर्णार्बुदमिति| तत्र ह्युक्तम् (हृ. उ. अ. ८|१३)- "अर्शोऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक्| रक्तं रक्तेन तत्स्रावि छिन्नं छिन्नं विवर्धते||" इति| अर्बुदस्य तु लक्षणम् (हृ. उ. अ. ८|२४)- "वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितोऽरुजः| सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः||" इति| तेषु-अर्शोऽर्बुदेषु, रुग् बाधते पूतिकर्णत्वं बधिरत्वं च|
Adhikarana 16 kucikarNakasya lakShaNam (16) · Śloka 16
गर्भेऽनिलात्सङ्कुचिता शष्कुली कुचिकर्णकः|
|१६|
स०-वाताद्गर्भे-अभ्यन्तरे, सङ्कुचिता शष्कुली कुचिकर्णसंज्ञः|
Adhikarana 17 pippalIkarNasya lakShaNam (16-17) · Śloka 17
|
एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः||१६||
पिप्पली पिप्पलीमानः|
|१७|
स०-मांसांङ्कुरो गर्भे स्थिर एकोऽनेको वा नीरुजः पिप्पलीत्युच्यते, कर्णपिप्पलीत्यर्थः| स च मांसांङ्कुरः पिप्पलीमानः|
Adhikarana 18 vidArikAyAH lakShaNam (17-18) · Śloka 18
सन्निपाताद्विदारिका|
सवर्णः सरुजः स्तब्धः श्वयथुः, स उपेक्षितः||१७||
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति|
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम्||१८||
स०-सन्निपातेन विदारिकाख्यः श्वयथुः स्तब्धस्तथा सवर्णः सरुजः| स उपेक्षितः सन् कटुतैलनिभं स्रवेत्| कृच्छ्रेण रोहति| सा च विदारिका रूढा सती निश्चितं कर्णशष्कुलीं सङ्कोचयति|
Adhikarana 19 pAlIshoShasya lakShaNam (19) · Śloka 19
सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम्|
|१९|
स०-सिरास्थो वायुः पालीशोषं तदाह्वयं-पालीशोषसंज्ञं, कुरुते|
Adhikarana 20 tantrikAyAH lakShaNam 21paripoTasya lakShaNam (19-21) · Śloka 21
|
कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका||१९||
सुकुमारे चिरोत्सर्गात्सहसैव प्रवर्धिते|
कर्णे शोफः सरुक् पाल्यामरुणः परिपोटवान्||२०||
परिपोटः स पवनात्|
|२१|
स०-वातेन पाली कृशा दृढा च तन्त्रीव स्यात्| सा तन्त्रीकेत्युच्यते| स०-सुकुमारे कर्णे चिरोत्सर्गात् सहसैव-न तु शनैः, प्रवर्धिते श्वयथुः पाल्यां सरुक् तथा लोहितः परिपोटवांश्च| परिपोटः-स्फुटनम्| स वातात् परिपोटसंज्ञः स्यात्|
Adhikarana 22 utpAtasya lakShaNam (21-22) · Śloka 22
उत्पातः पित्तशोणितात्|
गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान्||२१||
श्वयथुः स्फोटपिटिकारागोषाक्लेदसंयुतः|
|२२|
स०-पित्तशोणितात् स एवोत्पातसंज्ञः| गुर्वाभरणभारादिभिर्हेतुभूतैः प्रकुपितात् पित्तशोणितात् शोफो रुगादिमान् स्फोटादिसंयुतः| श्यावोऽनुगतार्थः|
Adhikarana 23 unmanthasya lakShaNam (22-23) · Śloka 23
|
पाल्यां शोफोऽनिलकफात्सर्वतो निर्व्यथः स्थिरः||२२||
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः|
|२३|
स०-वातकफात् पाल्यां शोफः सर्वतो निर्व्यथः स्थिरः स्तब्धः समानवर्णः कण्डूयुत उन्मन्थ उच्यते| स एव गल्लिराख्यः|
Adhikarana 24 duHkhavardhanasya lakShaNam (23-24) · Śloka 24
|
दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक्||२३||
श्वयथ् उः सन्निपातोत्थः स नाम्ना दुःखवर्धनः|
|२४|
स०-कर्णे दुर्विद्धे सति कण्ड्वादिसंयुतः शोफः सन्नि प्पातात्मको दुःखवर्धनसंज्ञः|
Adhikarana 25 lehyAkhyAyAH lakShaNam (24-25) · Śloka 25
|
कफासृक्ऽऽकृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः||२४||
लेह्याख्याः पिटिकास्ता हि लिह्युः पालीमुपेक्षिताः|
|२५|
स०-कफरक्तजकृमिजाः सूक्ष्माः कण्ड्वादियुता लेह्याख्याः पिटिकाः| यस्मात्ता उपेक्षिताः पालीं लिह्युः|
Adhikarana eteShAM pa~jcaviMshatirogANAM sAdhyAsAdhyatvam (17) · Śloka 17
|
पिप्पली सर्वजं शूलं विदारी कुचिकर्णकः||२५||
एषामसाध्याः, याप्यैका तन्त्रिकाऽन्यांस्तु साधयेत्|
पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः||२६||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः||१७||
स०-पिप्पल्यादयश्चत्वारो रोगा एषां मध्येऽसाध्याः| तन्त्रिका याप्या| अन्यांस्तु विंशतिरोगान् साधयेत्| इति-एवं प्रागुक्तेन प्रकारेण, पञ्चविंशतिरामया विभागेनोक्ताः| अनेनान्यतन्त्रकृतां सङ्कीर्णकर्णरोगकथनं सूचयति| सङ्ख्यानं च सुखस्मरणार्थमत्र कृतमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने कर्णरोगविज्ञानीयो नाम सप्तदशोऽध्यायः समाप्तः|| १७||