Adhikarana unmAdapratiShedhAdhyAyaH||6|| (2-3) · Śloka 3
अथात उन्मादप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
)||३||
भूतप्रतिषेधादनन्तरमुन्मादापस्मारप्रतिषेध उच्यते, चिकित्सासामान्यात्| तत्राप्यपस्मारादुन्मादस्य पूर्वमुपन्यासो बहुवक्तव्यत्वादित्याह- स०-उन्मादस्य प्रतिषेध-चिकित्सितं, भणिष्यामः|
Adhikarana unmAdAH ShaT (1) · Śloka 1
उन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः|
|१|
स०-प्रत्येकं दोषैस्त्रयः सान्निपातिक आधिजो विषजश्चेति|
Adhikarana unmAdasya svarUpam (1) · Śloka 1
|
उन्मादो नाम मनसो दोषैरुन्मार्गगैर्मदः||१||
स०-उन्मादो दोषैः-वातपित्तकफैः, उन्मार्गगैः-अपथप्रस्थितैः, मनसो यो मदः स उन्मादो नाम रोग उच्यते|
Adhikarana unmAdasya nidAnam unmAdasya samprAptiH unmAdasya sAmyAnyaM lakShaNam (2-6) · Śloka 6
अधुना विस्तरेणोत्पत्तिक्रममुन्मादानामाह शारीरमानसैर्दुष्टैरहितादन्नपानतः|
विकृतासात्म्यसमलाद्विषमादुपयोगतः||२||
विषण्णस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात्|
क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात्||३||
आधिभिश्चित्तविभ्रंशाद् विषेणोपविषेण च|
एभिर्हि हीनसत्त्वस्य हृदि दोषाः प्रदूषिताः||४||
धियो विधाय कालुष्यं हत्व मार्गान् मनोवहान्|
उन्मादं कुर्वते, तेन धीविज्ञानस्मृतिभ्रमात्||५||
देहो दुःखसुखभ्रष्टो भ्रष्टसारथिवद्रथः|
भ्रमत्यचिन्तितारम्भः|६|
स०-शारीरमानसैर्दोषैर्दुष्टैर्यावदुपविषेण चेति| एभिः-अमीभिर्हेतुभिः, दोषा हृदये प्रदूषिताः सन्तो हीनसत्त्वस्य पुंसो बुद्धेः कालुष्यं कृत्वा तथा चित्तवहानि स्रोतांसि हत्वोन्मादं कुर्वते| तेन-उन्मादेन, देहो बुद्धिभ्रमान्नष्टसुखदुःखो भ्रष्टसारथिरिव रथो भ्रमति| अचिन्तितः-अनिरूपितक्रियः, आरम्भः-उद्यमो, यस्य स एवम्|
Adhikarana 1 vAtonmAdasya lakShaNam (6-10) · Śloka 10
इति सामान्यलक्षणमुन्मादस्योक्त्वा पवनादिजस्य विशिष्टं लक्षणमाह |
तत्र वातात्कृशाङ्गता||६||
अस्थाने रोदनाक्रोशहसितस्मितनर्तनम्|
गीतवादित्रवागङ्गविक्षेपास्फोटनानि च||७||
असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः|
आस्यात्फेनागमोऽजस्रमटनं बहुभाषिता||८||
अलङ्कारोऽनलङ्कारैरयानैर्गमनोद्यमः|
गृद्धिरभ्यवहार्येषु तल्लाभे चावमानता||९||
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः|
|१०|
स०-वातादुन्मादे सति कृशाङ्गादिलक्षणं च जीर्णे चान्ने गदोद्भव इत्यन्तम्| अस्थाने-अप्रसङ्गे, रोदनादीनि| असाम्ना औद्धत्येन, पुनःपुनः वेणुवीणादिवाद्यस्यानुकरणम्|
Adhikarana 2 pittonmAdasya lakShaNam (10-11) · Śloka 11
|
पित्तात्सन्तर्जनं क्रोधो मुष्टिलोष्टाद्यभिद्रवः||१०||
शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता|
असत्यज्वलनज्वालातारकादीपदर्शनम्||११||
स०-पित्तादुन्मादे सति सन्तर्जनक्रोधादयः स्युः| असत्यानां ज्वलनादीनां दर्शनम्|
Adhikarana 3 kaphonmAdasya lakShaNam (12-13) · Śloka 13
कफादरोचकश्छर्दिरल्पेहाहारवाक्यता|
स्त्रीकामता रहःप्रीतिर्लालासिङ्घाणकस्रुतिः||१२||
बैभत्स्यं शौचविद्वेषो निद्रा श्वयथुरानने|
उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते||१३||
स०-कफादुन्मादे सत्यरोचकादयः स्युः| तथा रात्रौ बलवान् सद्यो भुक्ते च स्यात्|
Adhikarana 4 sannipAtonmAdasya lakShaNam (14) · Śloka 14
सर्वायतनसंस्थानसन्निपाते तदात्मकम्|
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत्||१४||
स०-आयतनानि-निमित्तानि, संस्थानानि-लिङ्गानि, सर्वाणि त्रिदोषविषयाण्यायतनानि संस्थानानि च यस्मिन् सन्निपाते| तदात्मकं-त्रिदोषोत्थम्, उन्मादं दारुणं-मारणात्मकं, विद्यात्| तं-उन्मादं, नोपक्रमेत्|
Adhikarana 5 cittajonmAdasya lakShaNam (15-16) · Śloka 16
अथ चित्तजमुन्मादं वक्ति धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्|
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते||१५||
रोदित्यकस्मान्म्रियते तद्गुणान् बहु मन्यते|
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते||१६||
स०-धनादिनाशेन दुःसहेनाभिषङ्गवानुन्मादः स्यात्| तेन पाण्ड्वादिकः सन्निदमिदं करोति| तथा शोकखिन्नचेताः सन् ध्यायन् जागरणशीलो विचेष्टते|
Adhikarana 6 viShajonmAdasya lakShaNam (17) · Śloka 17
विषेण श्याववदनो नष्टच्छायाबलेन्द्रियः|
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्||१७||
स०-विषेणोन्मादे श्याववदनः स्यात्| तं वर्जयेत्-नोपक्रमेत्|
Adhikarana vAtonmAde cikitsA (18) · Śloka 18
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्|
पूर्वमावृतमार्गे तु सस्नेहं मृदु शोधनम्||१८||
स०-अथेदृश्युन्मादलक्षणेऽवगते सति पवनजो य उन्मादस्तस्मिन् स्नेहपानं पूर्वं कारयेत्| आवृतवर्त्मनि त्वनिले सस्नेहं मृदु शोधनं पूर्वं स्नेहपानात् कारयेत्|
Adhikarana kaphapittonmAdayoH cikitsA (19-20) · Śloka 20
कफपित्तभवेऽप्यादौ वमनं सविरेचनम्|
सस्निग्धस्विन्नस्य बस्तिं च शिरसः सविरेचनम्||१९||
तथाऽस्य शुद्धदेहस्य प्रसादं लभते मनः|
|२०|
स०-कफभवे पित्तभवे चोन्मादे स्निग्धस्विन्नस्य नरस्य यथासङ्ख्यं वमनं विरेचनं च कारयेत्| अपिशब्दान्न केवलं पवनजेस्नेहपानमादौ, यावत् कफपित्तोत्थेऽपि कार्यमिति गमयति| तथा च मुनिः(?)-"उन्मादं स्नेहपानेन पूर्वं सर्वमुपाचरेत्|" इति| बस्तिं शिरसः सविरेचनं त्रिष्वप्युन्मादेषु कारयेत्| तथा च-एवं, शुद्धशरीरस्य सतो मनः प्रसीदति|
Adhikarana evamapyanuvRuttau nAvanA~jjanAdi (20-22) · Śloka 22
|
इत्थमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम्||२०||
हर्षणाश्वासनोत्त्रासभयताडनतर्जनम्|
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः||२१||
युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः|
|२२|
स०-एवमप्युपक्रान्त उन्मादेऽस्यानुबन्धे सति तीक्ष्णं नावनाञ्जनं युञ्ज्यात्, हर्षणादि च| कुतः ? यस्मादेतानि कृतानि शुद्धदेहस्य चित्तं प्रकृतिं प्रापयन्ति|
Adhikarana unmAdAdiharaM hiMgvAdighRutam (22-23) · Śloka 23
|
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्||२२||
सिद्धं समूत्रमुन्मादभूतापस्मारनुत्परम्|
|२३|
स०-हिङ्ग्वादिभिर्द्विपलिकैर्घृतस्याढकं गोमूत्रेण सह पचेत्| तच्चोपयुक्तं परममुन्मादादिजित्|
Adhikarana unmAdAdiharaM brAhmIghRutam (23-26) · Śloka 26
|
द्वौ प्रस्थौ स्वरसाद् ब्राहया घृतप्रस्थं च साधितम्||२३||
व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः|
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः||२४||
पलवृद्ध्या प्रयुञ्जीत परं मात्रा चतुष्पलम्|
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्||२५||
वाक्स्वरस्मृतिमेधाकृद् धन्यं ब्राह्मीघृतं स्मृतम्|
|२६|
स०-ब्राह्मीस्वरसात्प्रस्थद्वयं घृतस्य प्रस्थं व्योषादिभिः कार्षिकै रजीकृतैः पक्वं पलवृद्ध्या-पलं प्रथमेऽह्नि द्विपलं द्वितीयेऽह्नि त्रिपलं तृतीयेऽह्नि चतुष्पलं चतुर्थेऽह्ने ततः परं चतुष्पलमित्येवं, प्रयुञ्जीत| तच्चोन्मादादिजिद्वन्ध्यासुतप्रदं वागादिकृच्छिवं च ब्राह्मीघृतं स्मृतम्|
Adhikarana unmAdAdiharaM kalyANakaM ghRutam (26-31) · Śloka 31
|
वराविशालाभद्रैलादेवदार्वेलवालुकैः||२६||
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः|
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः||२७||
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः|
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्||२८||
प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु|
पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे||२९||
अरेतस्यप्रजसि वा दैवोपहतचेतसि|
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके||३०||
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्|
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च||३१||
स०-वरादिभिः कर्षप्रमाणैर्घृतप्रस्थं पचेत्| तच्चोपयुक्तं भूतग्रहादिषु श्रेष्ठं बल्यादिगुणं च| कल्याणकाख्यमेतत्सर्पिः पुंसवनेषु च वरम्| अत्र च भद्रैला-स्थूलैला|
Adhikarana unmAdAdiharaM mahAkalyANakaM ghRutam (32-34) · Śloka 34
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम्|
रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरचतुर्गुणम्||३२||
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः|
शूर्पपर्णीयुतैरेतन्महाकल्याणकं परम्||३३||
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः|
|३४|
स०-एभ्यो-वरादिभ्यो, मध्यादाद्यानि सप्त हित्वा, द्विसारिवादीन्येकविंशतिं जले षोडशगुणे स्नेहापेक्षया पचेद्यावत्स्नेहाच्चतुर्गुणः क्वाथः| तस्मिन् स्नेहचतुर्गुणे रसे सर्पिर्गृष्टिक्षीरचतुर्गुणं वीरादिभिः स्नेहक्वथितैः पादिकैः कल्कीकृतैः पचेत्| एतन्महाकल्याणकं नाम घृतं पूर्वस्मात्-कल्याणकात्, गुणैरतिरिक्तम्| अत्र द्विसारिवादिनां पाठादेवैकविंशतित्वं चेत् अतद्गुणसंविज्ञानोऽयं बहुव्रीहिरिति कस्यचिद् भ्रान्तिः स्यात्| एवं च सारिवादिद्वयस्य ग्रहणं न प्राप्नुयादित्येकविंशतिग्रहणम्
Adhikarana unmAdAdiharaM mahApaishAcikaM ghRutam (34-38) · Śloka 38
|
जटिला पूतना केशी चारटी मर्कटी वचा||३४||
त्रायमाणा जया वीरा चोरकः कटुरोहिणी|
वयःस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा||३५||
महापुरुषदन्ता च कायस्था नाकुलीद्वयम्|
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्||३६||
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्|
महापैशाचकं नाम घृतमेतद्यथाऽमृतम्||३७||
बुद्धिमेधास्मृतिकरं बालानं चाङ्गवर्धनम्|
|३८|
स०-जटिलादिभिर्घृतं पक्वं चातुर्थिकादिनाशनम्| जटिलामांसी| पूतना-हरीतकी| केशी-गन्धमांसी| चरटी-पद्मचारिणी| मर्कटी-कपिकच्छूः| जया-अरणिका| वीरा-काकोली| चोरकः-चण्डा| वयःस्था-धात्री| शूकरी-वृद्धदारुकः| छत्रा-धान्यकम्| अतिच्छत्रा-शतपुष्पा| पलङ्कषा-लाक्षा| महापुरुषदन्ता-शतावरी| कायस्था-क्षीरकाकोली| नाकुलीद्वयं-सर्पाक्षी सर्पसुगन्धा च| महापैशाचकसंज्ञं चातुर्थिकादिनाशनम्| तथाऽमृततुल्यं महागुणत्वात्| बुद्ध्यादिकं शिशूनां च संवर्धयति|
Adhikarana unmAdAdiharaM brAhyAdivartiH (38-40) · Śloka 40
|
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम्||३८||
रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम्|
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्||३९||
काङ्क्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता|
वर्तिर्नस्याञ्जनालेपधूपैरुन्मादसूदनी||४०||
स०-ब्राह्म्यादिभिर्गजमूत्रपिष्टा वर्तिश्छायायां विशोषिता नस्यादिभिरुन्मादहृत्| विषघ्ना-अतिविषा| विशल्या-लाङ्गली| नागविन्ना-नागदन्ती| काङ्क्षी-सौराष्ट्रिका|
Adhikarana unmAdAdiharaM avapIDAdayaH (41-42) · Śloka 42
अवपीडाश्च विविधाः सर्षापाः स्नेहसंयुताः|
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः||४१||
सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः|
|४२|
स-"कल्काद्यैरवपीडस्तु" (हृ.सू.अ. २०/७) इति कथितोऽवपीडः| तेऽवपीडाः सर्षपतैलयुता हिताः| अभ्यङ्गश्च सर्षपतैलेन| तथाऽस्य तद्रजः-सर्षपचूर्णं, घ्राणे ध्मापयेत्| तथा सूत्रस्थानोक्तस्तीक्ष्णो धूमो (अ. २१/१७) हिङ्गुना सह हितः|
Adhikarana unmAdAdiharaM shRugAlAdimUtrAdibhirdhUpAdikam (42-43) · Śloka 43
|
शृगालशल्यकोलूकजलौकावृषबस्तजैः||४२||
मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्|
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्||४३||
स०-शृगालादिमूत्रादिभिर्धूपादिकमाचरेत्| अत्र जलौकाचर्मचटिका|
Adhikarana vAtakaphAtmake shvagomatsyairdhUpaH (44) · Śloka 44
धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः|
वातश्लेष्मात्मके प्रायः|४४|
स०-एनं-चोन्मादिनं, पुनःपुनश्च गोमत्स्यादिभिः सुष्ठु पूतिंगन्धिभिर्धूपयेत्| वातश्लेष्मात्मके बाहुल्येनैष उपक्रमः|
Adhikarana pittAtmake tiktakaghRutAdi (44-45) · Śloka 45
|
पैत्तिके तु प्रशस्यते||४४||
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः|
शीतानि चान्नपानानि मधुराणि लघूनि च||४५||
स०-पैत्तिके तून्मादे तिक्तकं सर्पिर्जीवनीयं च शस्यते| तथा मिश्रको-यमकः स्नेहः, प्रशस्यते| तथा शिशिराणि मधुराण्यन्नपानानि लघूनि च शस्यन्ते|
Adhikarana shirAvyadhAdi (46) · Śloka 46
विध्येच्छिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा|
निवाते शाययेदेवं मुच्यते मतिविभ्रमात्||४६||
स०-तथा शिराव्यधविध्युक्तां शिरां विध्येत्| मेदुरमांसस्य तृप्तं निवाते स्वापयेच्च| एवं कृते सति मतिविभ्रमात् मुच्यते|
Adhikarana asalile kUpe prakShepaNAdi (47-52) · Śloka 52
प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया|
आश्वासयेत्सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः||४७||
बृयादिष्टविनाशं वा दर्शयेदद्भुतानि वा|
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे||४८||
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्|
कशाभिस्ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत्||४९||
अथवा वीतशस्त्राश्मजने संतमसे गृहे|
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्||५०||
(त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः|
) अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्|
भापयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया||५१||
देहदुःखभयेभ्यो हि परं प्राणभयं मतम्|
तेन याति शमं तस्य सर्वतो विप्लुतं मनः||५२||
स०-अथवा जलवर्जिते कूपे प्रक्षिप्य क्षुधा शोषयेत्| अथवा तं-उन्मादवन्तं, सुहृत् धर्मार्थयुतैर्वाक्यैराश्वासयेत्-सान्त्वयेत्| अथवाऽस्य पुत्रादेर्विनाशं-विघातं, तं ब्रूयात्| अद्भुतानि वा तं दर्शयेत्| अथवा कटुतैलेनाभ्यक्तं बध्वा तमुत्तानं कृत्वाऽऽतपे न्यसेत्| कपिकच्छ्वा, अथवा तप्तैर्लोहादिभिः| अथवा चर्मकशाभिरहत्य बद्धं सन्तमवटे विनिःक्षिपेत्| शस्त्रादिवर्जिते त्वगारे(ऽन्धकारे) भवने वा बध्वा विनिक्षिपेत्| ननु च, एकस्य शून्यगृहे स्थितिरुन्मादस्य निदानमुक्तम्| यच्च यस्य निदानं तदेव तस्य कथं चिकित्सितं स्यात् ? नैषदोषः| तदर्थकारिभेषजत्वात्| तदर्थकारिणि हि भेषजेयदेव निदानं तदेवौषधम्| यथा,-तुच्छदग्धेऽग्निप्रतपनम्, मदात्यये मद्यपानमिति| तद्वदिहाप्यवगन्तव्यम्| अथवा समुत्पाटितदंष्ट्रेण सर्पेण भापयेत्, दान्तैर्गजादिभिर्वा| राजपुरुषा बहिर्नीत्वा तं सुष्टु यन्त्रितं कृत्वा राजाज्ञया तर्जयन्तो वधेन भापयेयुः| यतो देहदुःखभयेभ्यः सकाशात् परं-अतिशयेन, प्राणभयं मतम्| तेन-भयेन, इतश्चेतश्चित्तं विप्लुतमुन्मादिनः शममेति|
Adhikarana siddhA kriyA prayojyA (53) · Śloka 53
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया|
|५३|
स०-इयं क्रिया देशाद्यपेक्षया सिद्धा प्रयोजनीया
Adhikarana iShTavinAshe tatsadRushaprAptyAdi (53-54) · Śloka 54
|
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते||५३||
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्|
|५४|
स०-इष्टद्रव्यविनाशाद् यस्य मानसमुपहन्यते तस्य तत्सदृशा-तुल्या, प्राप्तिः कार्या| तथा सान्त्वनैश्चाश्वासनैश्च शममुन्मादिनं नयेत्|
Adhikarana kAmAdije tatpratidvandvena shamanam (54-55) · Śloka 55
|
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्||५४||
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्|
|५५|
स०-कामादिजानुन्मादान् अन्योन्यप्रतिक्षैरेभिरेव-कामादिभिः, शमं नयेत्|
Adhikarana bhUtAnubandhe bhUtanirdiShTamauShadham (55-56) · Śloka 56
|
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्||५५||
यद्युन्मादे ततः कुर्याद्भूतनिर्दिष्टमौषधम्|
|५६|
स०-भूतैः-देवादिभिः पूर्वोक्तैः, अनुबन्धः-अनुषङ्गः, तमनन्तरोक्त आगन्तावुन्मादे यदीक्षेत ततो भूतप्रतिषेधोक्तमौषधं कुर्यात्| ननु, कथमीक्षणं कर्तुं शक्यते ? इति विशेषणद्वारेण हेतुमाह-प्रोक्तलिङ्गाधिकाकृतिमिति| प्रोक्तानि पूर्वं षड्विधस्योन्मादस्य यानि लिङ्गानि तेभ्योऽधिकाऽऽकृतिः-लक्षणं, यस्य-भूतानुबन्धस्य, तं तथाविधम्|
Adhikarana bhUtAnubandhe bhUtanirdiShTamauShadham (56-58) · Śloka 58
|
बलिं च दद्यात्पललं यावकं सक्तुपिण्डिकाम्||५६||
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्|
पक्वामकानि मांसानि सुरां मैरेयमासवम्||५७||
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च|
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च||५८||
स०-तथाऽत्र भूतानुबन्धे पललयावकादि च यावत् पुष्पाणि सहचरस्य चेति बलिं दद्यात्| क्व ? चतुष्पथे, तथा गोतीर्थे नद्योर्वा सङ्गमे|
Adhikarana bhUtAnubandhe catuShpathAdau balirdeyaH (59) · Śloka 59
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः|
निजागन्तुभिरुन्मादैः सत्ववान्न स युज्यते||५९||
स०-यः पुरुषो निवृत्तमद्यमांसो हितभोजी प्रयतः शुचिः स्यात्| स सात्विको निजागन्तुभिरुन्मादैर्न युज्यते| तस्मादीदृशेन भाव्यमिति भावः|
Adhikarana unmAde pathyam vigatonmAdasya lakShaNam (6) · Śloka 6
प्रसाद इन्द्रियार्थानां बुद्ध्यात्ममनसां तथा|
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्||६०||
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने उन्मादप्रतिषेधो नाम षष्ठोऽध्यायः||६||
स०-इन्द्रियार्थानां प्रसन्नत्वं तथाबुद्ध्यात्ममनसां च, धातूनां प्रकृतिस्थत्वं चेति विगतोन्मादस्य लक्षणमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने उन्मा- दप्रतिषेधो नाम षष्ठोऽध्यायः समाप्तः|| ६||