Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अथ क्रमप्राप्तं वाजीकरणाध्यायं ब्रूते|
Adhikarana adhyAyopakramaH · Śloka
🔊 Audio coming soon
अथ क्रमप्राप्तं वाजीकरणाध्यायं ब्रूते|
Adhikarana vAjIkaraNavidhiradhyAyaH (2) · Śloka 2
अथातो वाजीकरणविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||
🔊 Audio coming soon
स०-वाजीवयेन समर्थः क्रियते, तद्वाजीकरणम्, तस्याध्यायः| शेषमायुष्कामीयवद्योज्यम्|
Adhikarana vAjIkaraNaM ka icCet? (1) · Śloka 1
वाजीकरणमन्विच्छेत्सततं विषयी पुमान्| |१|
🔊 Audio coming soon
स०-विषयी यः पुरुषः, स सततं वाजीकरणमौषधमन्विच्छेत्| पुंग्रहणं स्त्रीषण्ढादिनिवृत्त्यर्थम्, अन्यथा यथा पञ्चकर्माणि ऋतुविधानादि च सामान्योक्तत्वात् स्त्र्यादीनामपि प्रसज्जति, तथेदमपि विज्ञायते, तस्मात्तद्व्यवच्छेदार्थं पुंग्रहणम्| सततग्रहणेनैतद्द्योतयति,-यथा रसायनमुपयुक्तं चिरकालमनुवर्तते न तथा वाजीकरणमिति| अपि तु यस्मिन्नेवाह्नि प्रयुज्यते तस्मिन्नेव कार्यकरणसमर्थं प्रायेण स्यादिति सततं-अनवरतं, वाजीकरणमन्विच्छेदित्युक्तम्| वाजीकरणेन कोऽर्थः स्यात् ? इत्याह-
Adhikarana vAjIkaraNasya Palam (1-2) · Śloka 2
| तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्||१|| अपत्यसन्तानकरं यत्सद्यः संप्रहर्षणम्| |२|
🔊 Audio coming soon
स०-तत्र वाजीकरणे तुष्ट्यादि संश्रितम्| अपत्यं किम्भूतम् ? गुणवत्, न तु दुरपत्यं कुलाङ्गाररूपम्| यतोऽपत्य[नां] सन्तानकरं-अविच्छेदस्थितिकरं च, यच्च सद्यः-शीघ्रमेव, संप्रहर्षणं वाजीकरणम्|
Adhikarana vAjIkaraNasya utpattiH (2-3) · Śloka 3
| वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः||२|| भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते| तद्वाजीकरणं तद्धि देहस्योर्जस्करं परम्||३||
🔊 Audio coming soon
स०-येन वाजीकरणेन तुरङ्ग इवाप्रतिहतसामर्थ्यस्तरूणीः संगच्छति, तथा येन योषितामतिवल्लभः स्यात्, तथा येनोपचयं प्राप्नोप्ति, तद्वाजीकरणमुच्यते| तद्धि शरीरस्योर्जस्करमतिशयेन| ननु, वाजीकरणमुपायहेतुर्विषयाणामिहैव बन्धनदर्शनात्| उक्तं च तन्त्रान्तरे-"कोशकारो यथैवांशूनुपादत्ते वन्धवहान्" इत्यादि| तस्मान्नार्थो वाजीकरणेनेत्याह-
Adhikarana brahrAcaryasya prashaMsA (4) · Śloka 4
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम्| अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम्||४||
🔊 Audio coming soon
स०-यतो धर्मादनपेतं-धर्म्यं, ब्रह्मचर्यं तदनुमोदामहे| तथा यशस्यादिहेतुः| तथा लोकद्वये-इहलोके परलोके च, रसायनमिव रसायनं, सदोपकारत्वात्| तथा एकान्तेनसर्वथा, निर्मलम्| यतो ब्रह्मचर्यम्| न तु ब्रह्मचर्यवत् स्वदारादि(रे)षु पुत्राद्यर्थमेव निर्मलम्| अतो हेतोस्तदनुमोदामहे| किन्त्वाभ्युदयिकं मार्गमाश्रित्य वाजीकरणोपदेशः| द्विविधो हि मार्गः,-नैःश्रेयसिक आभ्युदयिकश्च| तत्र नैःश्रेयसिकं मार्गं समनुसृत्य ब्रह्मचर्योपदेशश्च कोशकारदृष्टन्तश्च क्लेशनाशकृच्च| आभ्युदयिकं च मार्गमाश्रित्यायमुपदेश इत्यत्राह|
Adhikarana vAjIkaraNaM kimartham? (5) · Śloka 5
अल्पसर्वस्य तु क्लेशैर्बाध्यमानस्य रागिणः| शरीरक्षयरक्षार्थं वाजीकरणमुच्यते||५||
🔊 Audio coming soon
स०-स्तोकसत्त्वस्य पुंसः क्लेशैर्विषयोत्थैः पीड्यमानस्य रागिणः-कामिनः, शरीरक्षयरक्षार्थं वाजीकरण्मुच्यते| अनेन शास्त्रकृता, अपरैश्च तन्त्रकारैः|
Adhikarana vAjIkaraNase vino~ahararvyavAyo na vivAryate (6) · Śloka 6
कल्यस्योदग्रवयसो वाजीकरणसेविनः| सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते||६||
🔊 Audio coming soon
स०-कल्प(ल्य)स्य-समर्थस्य, तथा यौवनस्थस्य, वाजीकरणं सततं कुर्वतः, तस्य सर्वेष्वेव ऋतुषु दिने दिने व्यवायो मैथुनं, न निषिध्यते|
Adhikarana vAjIkaraNasevanAt pUrvaM kartavyo vidhiHtataH shukrApatyabalapradA vAjIkarA yogA yojyAH (7-8) · Śloka 8
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्| घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्||७|| योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम्| ततो वाजीकरान् योगान् शुक्रापत्यबलप्रदान्||८||
🔊 Audio coming soon
स०-अथ-कृतमङ्गलस्य, स्निग्धस्य तथा विशुद्धस्य तथा क्षीराद्याशिनो योगवित्-वैद्यः, प्राङ्ह् निरूहान् सानुवासनान् घृतादिसंयुक्तान् कारयेत्| ततः-अनन्तरं, वाजीकरान् योगान् योजयेत्| किम्भूतान् ? शुक्रादिप्रदान्|
Adhikarana nirapatyasya narasya nindA (9) · Śloka 9
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः| यथैकश्चैकशाखश्च निरपत्यस्तथा नरः||९||
🔊 Audio coming soon
स०-अच्छायत्वादिभिर्गुणैर्युक्तोऽर्थिनां यथा तरुरनाश्रयणीयः, तथा तादृशो मानवो निरपत्य इति| एकवचनेनैव एकार्थस्य लब्धत्वादेकग्रहणं केवलार्थप्रतिपत्त्यर्थम्| एकः केवलोमाधवीलतादिरहितः|
Adhikarana apatyaprashaMsA (10-11) · Śloka 11
स्खलद्गमनमव्यक्तवचनं धूलिधूसरम्| अपि लालाविलमुखं हृदयाह्लादकारकम्||१०|| अपत्यं तुल्यतां केन दर्शनस्पर्शनादिषु किं पुनर्यद्यशोधर्ममानश्रीकुलवर्धनम्||११||
🔊 Audio coming soon
स०-स्खलद्गमनादिकमपत्यं केन पदार्थेन दर्शनादिषु समानम्| किं पुनर्यद्यशादिवर्धनात् तस्य केन तुल्यता भवेत् ? अपत्यशब्दस्य पुंस्त्वमत्र चिन्त्यम्(?)| तत्किल नितरां सुखप्रदमित्यर्थः|
Adhikarana shuddhasharIre sharamUladisiddhaghRutayogaH (12) · Śloka 12
शुद्धकाये यथाशक्ति वृष्ययोगान् प्रयोजयेत्| |१२|
🔊 Audio coming soon
स०-शुद्धशरीरे पुरुषे यथाग्निबलं वृष्ययोगान् प्रयोजयेत्|
Adhikarana vAjIkaro sharamUlAdisiddhaghRutayogaH (12-21) · Śloka 21
तानेवाह शरेक्षुकुशकाशानां विदार्या वीरणस्य च||१२|| मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्| मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम्||१३|| अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्| वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम्||१४|| मधुकं शालिपर्णी च भागांस्त्रिपलिकान् पृथक्| माषाणामाढकं चैतद् द्विद्रोणे साधयेदपाम्||१५|| रसेनाढकशेषेण पचेत्तेन घृताढकम्| दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम्||१६|| घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्| वीरां स्वगुप्तां काकोल्यौ यष्टिं फल्गूनि पिप्पलीम्||१७|| द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्| तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत्||१८|| शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च| मरिचस्य प्रकुञ्चेन पृथगर्धपलोन्मितैः||१९|| त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च| पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक्||२०|| तेनारोहति वाजीव कुलिङ्ग इव हृष्यति| |२१|
🔊 Audio coming soon
स०-शरादीनां मूलानि कण्टकार्याश्च, तथा जीवकादीन्, त्रिपलिकान् भागान् पृथक्, माषाणामाढकं च, एतत्सर्वं जलद्रोणद्वये पाचयेत्| तेन रसेनाढकशेषेण घृताढकं दत्त्वा विदार्यादिरसादीनां च पृथक्पृथगाढकं दत्त्वा क्षीराढकचतुष्टयं च दत्त्वा पचेत्| वीरादीन् कल्कान् सामान्यपरिभाषोक्तप्रमाणान्निक्षिपेत्| तत्-घृतं, पक्वं पूतं पृथक् शर्करातुगयोश्चूर्णप्रस्थेन कणायाः पलचतुष्टयेन मरिचपलेन च योजयेत्| त्वगादिभिः श्लक्ष्णैः पृथगर्धपलोन्मितैः क्षौद्रस्य कुडवयुगलेन योजयेत्| ततो मिश्रितात् पलमात्रं प्रतिदिनं भक्षयेत्, मांसरसक्षीरभोजी सन्| तेनोपयुक्तेन तुरङ्ग इवारोहति| चटक इव हृष्यति|
Adhikarana vAjIkaro vidArIcUrNAdiyogaH kAntAshatagAmI (21-23) · Śloka 23
| विदारीपिप्पलीशालिपियालेक्षुरकाद्रजः||२१|| पृथक् स्वगुप्तामूलच्च कुडवांशं तथा मधु| तुलार्धं शर्कराचूर्णात् प्रस्थार्धं नवसर्पिषः||२२|| सोऽक्षमात्रमतः खादेत् यस्य रामाशतं गृहे| |२३|
🔊 Audio coming soon
स०-विदार्यादीनां चूर्णं कपिकच्छुमूलाच्च चूर्णं पृथक् कुडवमात्रं, माक्षिकस्य च कुडवः, शर्करापलानि पञ्चाशत्, प्रत्यग्रघृतस्य पलानि षोडश, अतः-संयोजितात्, कर्षमात्रं स खादेत् यस्य भवने कान्ताशतमस्ति|
Adhikarana vAjIkaro godhUmAdiyogaH (23-24) · Śloka 24
| सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान् हिमान्||२३|| माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयोऽनुपः| जागर्ति रात्रिं सकलामखिन्नः खेदयन् स्त्रियः||२४||
🔊 Audio coming soon
स०-गोधूमान् सकपिकच्छुफलान् दुग्धे साधितान् हिमान् माषान् वा घृतमाक्षिकान्वितान् खादन् गृष्टिक्षीरमनु पिबेद्यः, स सर्वां रात्रिमखिन्नो रामा रमयन् जयति(जागर्ति)|
Adhikarana vAjIkaro tilayogaH strIshatagAmI (25) · Śloka 25
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्| यः खादेत्ससितान् गच्छेत्स स्त्रीशतमपूर्ववत्||२५||
🔊 Audio coming soon
स०-छागलाण्डपक्वे क्षीरे तिलानसकृद्भावितान् सशर्करान् यः खादेत्, स कान्ताशतमपूर्व इव याति|
Adhikarana vAjIkaro vidArIcUrNayogaH strIshatadAmI (26) · Śloka 26
चूर्णं विदार्या बहुशः स्वरसेनैव भावितम्| क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति||२६||
🔊 Audio coming soon
स०-शृगालिकायाश्चूर्णं विदारीस्वरसेनैव बहुशो भावितं मधुघृतयुक्तं लीढ्वा रामाशतं याति|
Adhikarana vAjIkaro kRuShNAdhAtrIPalarajoyogaH (27-28) · Śloka 28
कृष्णाधात्रीफलरजः स्वरसेन सुभावितम्| शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत्||२७|| स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति| |२८|
🔊 Audio coming soon
स०-कृष्णामलकचूर्णं धात्रीस्वरसेन सुभावितं शर्कराक्षौद्रघृतैर्लीढ्वा योऽनु क्षीरं पिबेत्, स पुरुषोऽशीतिवर्षोऽपि तरुण इव हृष्यति|
Adhikarana vAjIkaro madhukacUrNayogo nityaveakArI (28-29) · Śloka 29
| कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्||२८|| पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्| |२९|
🔊 Audio coming soon
स०-मधुयष्टिकाचूर्णस्य कर्षं घृतक्षौद्रयुतं क्षीरानुपानं यो लेढि, सोऽप्रणष्टवेगः पुरुषः स्यात्|
Adhikarana vAjIkaro kulIrashRu~ggIkalkayogaH (29-30) · Śloka 30
| कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्||२९|| सिताघृतपयोन्नाशी स नारीषु वृषायते| |३०|
🔊 Audio coming soon
स०-कर्कटशृङ्ग्याः कल्कं क्षीरेणालोड्य यः पिबेद्छर्करासर्पिःक्षीरान्नभुक्, स रामासु वृषायते|
Adhikarana vAjIkaro payasyAyogaH (30-31) · Śloka 31
| यः पयस्यां पयःसिद्धां ख़ादेन्मधुग़ृतान्विताम्||३०|| पिबेद्बाष्कयणं चानु क्षीरं न क्षयमेति सः| |३१|
🔊 Audio coming soon
स०-क्षीरकाकोलीं क्षीरसिद्धाम् माक्षिकघृतयुतां यः खादेत्, बष्कयणीक्षीरमनुः यः पिबेत्, स शुक्रक्षयं न याति|
Adhikarana vAjIkaro svayaMgutpAdicUrNayogaH (31-32) · Śloka 32
| स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्||३१|| धारोष्णेन नरः पीत्वा पयसा रासभायते| |३२|
🔊 Audio coming soon
स०-कपिकच्छ्विक्षुरकबीजचूर्णं शर्करासहितं धारोष्णेन क्षीरेण पीत्वा नरो बालेय इवाचरति|
Adhikarana vAjIkaro uccaTAcUrNayogaH,vAjIkaro SatAvarIcUrNayogaH (32) · Śloka 32
| उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत्||३२||
🔊 Audio coming soon
स०-उच्चटायाः शतावर्याश्च चूर्णमेवमेव योजयेत्|
Adhikarana vAjIkaro dadhisArAdiyogaH (33) · Śloka 33
चन्द्रशुभ्रम् दधिसरं ससिताषष्टिकौदनम्| पटे सुमार्जितं भुक्त्वा वृद्धोऽपि तरुणायते||३३||
🔊 Audio coming soon
स०-दध्नः सरं शशिधवलं शर्कराषष्टिकौदनयुक्तं वस्त्रेण सुभावि(मार्जि)तं भुक्त्वा वृद्धोऽपि तरुण इवाचरति|
Adhikarana vAjIkaro shvadaMShTrAdiyogaH strIshatagAmI (34) · Śloka 34
श्वदंष्ट्रेक्षुरमाषात्मगुप्ताबीजशतावरीः| पिबन् क्षीरेण जीर्णोऽपि गच्छति प्रमदाशतम्||३४||
🔊 Audio coming soon
स०-श्वदंष्ट्रादीन् क्षीरेण पिबन् वृद्धोऽपि रामाशतं याति|
Adhikarana vRuShyasya lakShaNam (35) · Śloka 35
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्| मनसो हर्षणं यच्च तत्सर्व वृष्यमुच्यते||३५||
🔊 Audio coming soon
स०-यत्किञ्चिद्वस्तु मधुरादिगुणं चित्तहर्षजननं च, तत्सर्वमपि वृष्यं कथ्यते|
Adhikarana evaM vidhairdravyairdarpitaH pramadA vrajet (36) · Śloka 36
द्रव्यैरेवंविधैस्तस्माद्दर्पितः प्रमदां व्रजेत्| आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३६||
🔊 Audio coming soon
स०-तस्मादेवंप्रकारलिर्द्रव्यैः कृतदर्पः शतं ललनानां यायात्| न केवलं वृष्यद्रव्यैर्दर्पितो यावदात्मवेगेन चोदीर्णः-प्रेरितः| न तु वाजीकरणं मे युक्तमिति योषितं गच्छेत्| स्त्रीगुणैः-लावण्यकौमल्यादिभिः , कृतप्रहर्षः सन्|
Adhikarana sarvendriyasukhA viShayAH sevyAH (37) · Śloka 37
सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः| विषयातिशयाः पञ्च शराः कुसुमधन्वनः||३७||
🔊 Audio coming soon
स०-तथा विषयातिशयाः-मनोहराः शब्दस्पर्शरूपरसगन्धाः, सेवनीयाः \\\\\ किम्भुताः ? सर्वेन्द्रियाणां सुखहेतवः, तथा धर्म एव कल्पवृक्षेऽङ्कुरा इवाङ्कुराः| तथा पुष्पचापस्य पञ्चशिलीमुखा इति वाक्यरूपकम्|
Adhikarana strIsharIre sa~gghAsena sthitA viShayAH paraM harShaprItikarAH (38) · Śloka 38
इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम्| किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||३८||
🔊 Audio coming soon
स०-यस्मादेकैस्कशोऽपि-व्यस्ता अपि, अर्थाः-शब्दादयः सेव्यमानाः, परं हर्षप्रीत्युत्पादकाः| किमुत स्त्रियाः शरीरे ये समुदायेन व्यवस्थिताः|
Adhikarana vRuShatvakAriNyAH striyA lakShaNam vRuShatvakAriNyAH striyA lakShaNam (39-40) · Śloka 40
नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिरनाप्तपूर्वा| सर्वेन्द्रियाकर्षणपाशभूता काण्तानुवृत्तिव्रतदीक्षिता या||३९|| कलाविलासाङ्गवयोविभूषा शुचिः सलज्जा रहसि प्रगल्भा| प्रियंवदा तुल्यमनःशया या सा स्त्री वृषत्वाय परं नरस्य||४०||
🔊 Audio coming soon
स०-यस्याः स्त्रिया नामापि हृदयोत्सवाय| यं स्त्रियमालोकयतामनाप्तपूर्वा तृप्तिः स्यात्| तथा याऽशेषाणां करणानामाकर्षणपाशः| तथा कान्तस्य-भर्तुः, अनुवर्तनं तदेव व्रतं तत्र या दीक्षिता| इन्द्रवज्रावृत्तम्| तथा कलादय एव विभूषा यस्याः सैवम्| तथा शुचिः-अन्तर्बहिश्च, लज्जान्विता, रहसिसुरते, प्रौढा| तथा सौम्यवचना| तथा तुल्यः-समो, मनःशयो-मनसिजो, यस्याः सैवं या, सा स्त्री-वामलोचना, परं अतिशयेन, पुंसो वृषत्वाय कल्पते| उपजातिः|
Adhikarana kAmashAstravihitaraticaryAcaraNam (41) · Śloka 41
आचरेच्च सकलां रतिचर्या कामसूत्रविहितामनवद्याम्| देशकालबलशक्त्यनुरोधा- द्वैद्यतन्त्रसमयोक्त्यविरुद्धाम्||४१||
🔊 Audio coming soon
स०-तथा कामसूत्रे विहिता या सकला रतिचर्या तामगर्ह्यां देशादिवशादाचरेत्| तथा वैद्यकशास्त्राचारेऽविरुद्धाम्| स्वागतावृत्तम्|
Adhikarana vAjIkarA aBya~jjanAdayaH (42-45) · Śloka 45
अभ्यञ्जनोद्वर्तनसेकगन्ध- स्रक्चित्रवस्त्राभरणप्रकाराः| गान्धर्वकाव्यादिकथाप्रवीणाः समस्वभावा वशगा वयस्याः||४२|| दीर्घिका स्वभवनान्तनिविष्टा पद्मरेणुमधुमत्तविहङ्गा| नीलसानुगिरीकूटनितम्बे काननानि पुरकण्ठगतानि||४३|| दृष्टिसुखा विविधा तरुजातिः श्रोत्रसुखः कलकोकिलनादः| अङ्गसुखर्तुवशेन विभूषा चित्तसुखः सकलः परिवारः||४४|| ताम्बूलमच्छमदिरा कान्ता कान्ता निशा शशाङ्काङ्का| यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत्||४५||
🔊 Audio coming soon
स०-तथाऽभ्यञ्जनादि वाजीकरणमिति वक्ष्यमाणेन सम्बन्धः| गीतादिकुशलास्तुल्यस्वभावा वशगाः सहायाः| तथा दीर्घिकाक्रीडापुष्करिणी, स्वगृहसमीपे कृता| पद्मरेणुमधुद्भ्यां मत्ता विहङ्गा यस्यां सैवम्| हरितसमभूभागं यत्पर्वतशृङ्गं, तस्य नितम्बः, तत्र च यानि काननानि, तानि पुरसमीपभूतानि| उपजातिस्वागते वृत्ते| दृष्टिसुखकारिणी तथा नानाप्रकारा महीरुहजातिः| कलकण्ठकूहितं श्रवणसुखकारि| अङ्गे सुखानुरोधेन ऋत्वनुरोधेन च भूषणम्| तथा सकलः परिवारो मनःसुखहेतुः| तथा ताम्बूलादिकं वाजीकरणम्| न च केवलं ताम्बूलादिकम्, अपि तु यद्यच्च किञ्चिच्चेतसः प्रियं तत्तत् वाजीकरणम्| दोधकमुद्गीतिरार्या|
Adhikarana kAmasyotpAdakAH padArthAH (46-47) · Śloka 47
मधु मुखमिव सोत्पलं प्रियायाः कलरणना परिवादिनी प्रियेव| कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा||४६|| देशे शरीरे च न काचिदर्ति- रर्थेषु नाल्पोऽपि मनोविघातः| वाजीकराः सन्निहिताश्च योगाः कामस्य कामं परिपूरयन्ति||४७||
🔊 Audio coming soon
स०-तथा मार्द्वीकं सजलजं दयितावदनमिव| परिवादिनी-वीणा, मधुरक्वणना वल्लभेव| पुष्पनिकररमणीया शय्यापल्लववती कुसुमप्रधाना लतेव| पुष्पिताग्रेति वृत्तनामश्लेषः| देश इत्यादि| एते पदार्थाः कामस्य कामं-इच्छां पूरयन्ति, काममुत्पादयन्तीत्यर्थः| पुष्पिताग्रेन्द्रवज्रे वृत्ते|
Adhikarana agryasa~ggrahaH (48-58) · Śloka 58
अधुनाऽग्र्यसङ्ग्रहमाह मुस्तापर्पटकं ज्वरे, तृषि जलं मृद्भृष्टलोष्टोद्भवं, लाजाश्छर्दिषु, बस्तिजेषु गिरिजं, मेहेषु धात्रीनिशे| पाण्डौ श्रेष्ठमयोऽभयाऽनिलकफे, प्लीहामये पिप्पली, सन्धाने कृमिजा, विषे शुकतरुर्मेदोनिले गुग्गुलुः||४८|| वृषोऽस्रपित्ते, कुटजोऽतिसारे, भल्लातकोऽर्शःसु, गरेषु हेम| स्थूलेषु तार्क्ष्यं, क्रिमिषु कृमिघ्नं, शोषे सुरा च्छागपयोऽथ मांसम्||४९|| अक्ष्यामयेषु त्रिफला, गुडूची वातास्ररोगे, मथितं ग्रहण्याम्| कुष्ठेषु सेव्यः खदिरस्य सारः, सर्वेषु रोगेषु शिलाह्वयं च||५०|| उन्मादं घृतमनवं शोकं मद्यं, व्यपस्मृतिं ब्रह्मी| निद्रानाशं क्षीरं जयति, रसाला प्रतिश्यायम्||५१|| मांसं कार्श्यं, लशुनः प्रभञ्जनं, स्तब्धगात्रतां स्वेदः| गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांसबाहुरुजम्||५२|| नवनीतखण्दमर्दितमौष्ट्रं मूत्रं पयश्च हन्त्युदरम्| नस्यं मूर्धविकारान्, विद्रधिमचिरोत्थमस्रविस्रावः||५३|| नस्यं कवलो मुखजान्, नस्याञ्जनतर्पणानि नेत्ररुजः| वृद्धत्वं क्षीरघृते, मूर्च्छां शीतम्बुमारुतच्छायाः||५४|| समशुक्तार्द्रकमात्रा मन्दे वह्नौ, श्रमे सुरा स्नानम्| दुःखसहत्वे स्थैर्ये व्यायामो, गोक्षुरुर्हितः कृच्छ्रे||५५|| कासे निदिग्धिका, पार्श्वशूले पुष्करजा जटा| वयसः स्थापने धात्री, त्रिफला गुग्गुलुर्व्रणे||५६|| बस्तिर्वातविकारान्, पैत्तान् रेकः, कफोद्भवान् वमनम्| क्षौद्रं जयति बलासं, सर्पिः पित्तं, समीरणं तैलम्||५७|| इत्यग्र्यं यत्प्रोक्तं रोगाणामौषधं शमायालम्| तद्देशकालबलतो विकल्पनीयं यथायोगम्||५८||
🔊 Audio coming soon
स०-मुस्तापर्पटकं ज्वरे श्रेष्ठं-रोगोपशमनहेतुः| एवं शेषेष्वपि योज्यम्| सन्धाने-उरःसन्धाने, कृमिजा-लाक्षा, श्रेष्ठा| शुकतरुः-शिरीषः| शार्दूलविक्रीडितं वृत्तम्| वृषादयो रक्तपित्तादिषु श्रेष्ठाः| उपजातिः| अक्ष्यामयादिषु त्रिफलादीनि सेव्यानि| इन्द्रवज्रा| अनवं-पुराणं, सर्पिः कर्तृभूतमुन्मादं जयति| व्यपस्मृतिं-अपस्मारं, ब्राह्मी जयति| एवं क्षीरादयो निद्रानाशादीन् जयन्तीतियोज्यम्| गुडमञ्जरी-काला शाल्मली, तस्याः खपुरो-निर्यासो, नस्येन स्कन्धादिजां रुजं हन्ति| नवनीतयुक्तं खण्डमर्दितम्| औष्ट्रं पयो मूत्रं च जठरं पराकरोति| औष्ट्रमिति चिन्त्यम्| उष्ट्राद्रुञि प्राप्ते केचित्तु तस्येदमिति विवक्षया अण्प्रत्ययः कार्य इत्याहुः| नस्यादयो मूर्धविकारादीन् जहतीति सम्बन्धः| ननु, वृद्धत्वं क्षीरघृते हत इत्यनुपपन्नम्| तथाहि-"एकरसाभ्यासो दौर्बल्यकराणाम्|" (च. सू. अ. २५) इत्युक्तम्| दौर्बल्यकरणं च कथं वृद्धत्वहृत् स्यात् ? ब्रूमः| उत्सर्गत्वात्तस्य वचसः, अपवादरूपं त्विदं वचनम्| तस्मात् क्षीरघृतादन्यत्रैकरसाभ्यासस्य दौर्बल्यकरण्त्वं वेद्यम्| गीतयस्तिस्रः(पञ्च)| कासेत्यादि| [ बस्तिरित्यादि|] आर्या| इति-उक्तेन प्रकारेण, यच्छ्रेष्ठमौषधमुक्तम्, तद् रोगाणां शमाय-शान्त्यै, अलं-समर्थम्| तच्च-अग्न्यं, देशादीनां बलेन यथास्वं कल्पनीयम्| जघनचपलाऽऽर्या| एतच्च यथास्वं चिकित्सितेषु कथितं सङ्क्षेपतया पुनः कथितम्| शास्त्रं हि व्यासेन समासेन च विमतयो विरुन्धते| तस्मात् पूर्वं व्यासेनोपदेशः, इदं(अयं) तु समासेनेत्यवबुध्यस्व|
Adhikarana saMshayAnAgniveshasya prashnaH (59) · Śloka 59
इत्यात्रेयादागमय्यार्थसूत्रं तत्सूक्तानां पेशलानामतृप्तः| भेडादीनां सम्मतो भक्तिनम्रः पप्रच्छेदं संशयानोऽग्निवेशः||५९||
🔊 Audio coming soon
सं-आत्रेयात्-भगवतः पुनर्वसोः, इति-उक्तेन प्रकारेण, अर्थसूत्रं-अभिधेयतत्त्वं च, आगमय्य-अवबुध्य, अग्निवेशः संशयानो-न तु शास्त्रावबोधाहंकृतः, इदं-वक्ष्यमाणं, पप्रच्छ| किम्भूतः ? तस्य-आत्रेयस्य मुनेः, सूक्तानि-सुभाषितानि, युक्तियुक्तार्थप्रतिपादनात्तेषां सूक्तानां मधुराणामतृप्तःसाकाङ्क्षः| तथा च किम्भूतः ? भेडजातूकर्ण्यादीनां पुनर्वसुशिष्याणां सम्मतः| तथा भक्तिनम्रो-न तु ज्ञानोद्धतः सन्, स पप्रच्छ| शालिनीवृत्तम्|
Adhikarana punarvasudattamuttaram (60-62) · Śloka 62
किं पृष्टवान् ? इत्याह दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः| द्रव्योपस्थातृसम्पन्ना वृद्धवैद्यमतानुगाः||६०|| क्षीयमाणामयप्राणा विपरीतास्तथाऽपरे| हिताहितविभागस्य फलं तस्मादनिश्चितम्||६१|| किं शास्ति शास्त्रमस्मिन् इति कल्पयतोऽग्निवेशमुख्यस्य| शिष्यगणस्य पुनर्वसु- राचख्यौ कार्त्स्न्यतस्तत्त्वम्||६२||
🔊 Audio coming soon
सं-भगवन्-पुनर्वसो, केचिन्नरा आत्मवन्तो हिताहारविहारा अपि रोगिणः प्रत्यक्षानुमानाद्यैरुपलभ्यन्ते| आत्मवन्तोऽपीत्यपिशब्दादनात्मवन्तोऽपि| कदाचित् शेषपादत्रयविकलत्वेन रोगित्वं स्यात्, नेत्याह-द्रव्योपस्थातृसम्पन्ना वृद्धवैद्यमतानुगा इति| तथाऽऽमयाश्च प्राणाश्चामयप्राणाः, क्षीयमाणा आमयप्राणा येषां त एवम्, केचिद्रोगाद्विमुच्यमानाः केचिच्च म्रियमाणा इत्यर्थः| विपरीतास्तथाऽपर इति अनात्मवन्तो द्रव्योपस्थातृविकला वृद्धवैद्यमताननुसारिणश्चैवंभावा दृश्यन्ते| तस्मात्-अनन्तरोक्तात्कारणात्, हिताहितविभागस्य तन्त्रोक्तं फलमनिश्चितं-अनैकान्तिकम्| अनिश्चितफलत्वाच्च कारणात् शास्त्रं-आयुर्वेदाख्यं, किं शास्ति ? न-किञ्चिच्छिक्षयतीति| अतश्चैतदारम्भो निष्फलः काकदन्तपरीक्षाशास्त्रवत्| इति विकल्पयतः शिष्यगणस्य-जातूकर्ण्यभेडादेः, भगवान् पुनर्वसुस्तत्त्वं-परमार्थं, कार्त्स्न्येन-सामस्त्येन, जगाद| किम्भूतस्य शिष्यगणस्य ? अग्निवेशो मुख्यः-प्रधानो, यस्य तस्येति|
Adhikarana cikitsA~acikitsA cana tulyA (63) · Śloka 63
किं तदुक्तवान्? इत्याह न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति| विनाऽपि क्रियया स्वास्थ्यं गच्छतां षोडशांशया||६३||
🔊 Audio coming soon
स०-चिकित्सा-चतुष्पात्षोडशगुणयुक्ता, अचिकित्सा-हिताहितविभागापरामर्शे यत्किञ्चनकारिता, सा तुल्या भवितुं नार्हति| केषाम् ? क्रियां विना स्वास्थ्यमपि गच्छताम्| अपिशब्दो भिन्नक्रमः, स्वास्थ्यमपीऽत्यतोऽनन्तरं द्रष्टव्यः| किम्भूतया क्रियया ? षोडशांशया| तदयं भावः,-षोडश भागया चिकित्सया विना यत्र रोगोपशान्तिः स्यात्, तत्रापि चिकित्सया क्षिप्रतरं तत्साधनं चिकित्सा विशिष्टा| तथा चिकित्सासाध्यानां रोहिणिकादीनां चिकित्सामन्तरेण शान्तिर्नास्ति| तदेवमपि चिकित्सया तुल्याऽचिकित्सा न भवितुमर्हतीति|
Adhikarana Ata~gkapa~gkamagnAnAM BiShagjitaM hastAlambaH (64) · Śloka 64
आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम्| जीवितं म्रियमाणानां सर्वेषामेव नौषधात्||६४||
🔊 Audio coming soon
स०-तस्मादातङ्क एव पङ्को दुरुत्तरत्वात्तस्मिन् मग्नानां तप्तानां, भिषग्जितं-तदुपदेशकशास्त्रं, उपचारादेवमुक्तम्| तद्भिषग्जितं हस्तालम्बो-हस्तालम्बतुल्यम्| म्रियमाणानां सर्वेषामेवासाध्यानामपि भेषजाज्जीवितं न च भवति|
Adhikarana sarve rogA upAyaM nApekShante (65) · Śloka 65
न ह्युपायमपेक्षन्ते सर्वे रोगा, न चान्यथा| उपायसाध्याः सिध्यन्ति,नाहेतुर्हेतुमान् यतः||६५||
🔊 Audio coming soon
स०-यस्मात् सर्वे रोगाः-असाध्या अपि, उपायं-चतुष्पादलक्षणं चिकित्सितं, नापेक्षन्ते, असाध्यरोगाणां चिकित्सानिरपेक्षत्वात्| ये चोपायसाध्या रोगाः-रोहिण्यादयः, तेऽन्यथा चिकित्सामन्तरेण, नैव सिध्यन्ति| यतो योऽहेतुः स हेतुमान्न भवति| अपि तु निर्युक्तिक एवायं हेतुवादः, यच्चिकित्साख्येन हेतुना विनैव रोगोपशान्तिर्द्दश्य इति|
Adhikarana upAyasAdhyA rogAH sidhyanti (66) · Śloka 66
यदुक्तं सर्वसम्पत्तियुक्तयाऽपि चिकित्सया| मृत्युर्भवति, तन्नैवं नोपायेऽस्त्यनुपायता||६६||
🔊 Audio coming soon
स०-यत्तूक्तं सर्वसम्पत्तियुक्तयाऽपि चिकित्सया मृत्युर्भवति| दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः| यावत्क्षीयमाणामयप्राणाः इत्यादि| तदेवं न भवति, यथा त्वं वदसि| यस्मान्न उपायेऽनुपायताऽस्ति| यो हि यस्य यया युक्त्योपायः प्रथितः, स न कदाचित्तस्यानुपायः| यथा,-घटस्य मृद्दण्डचक्रादिसामग्रीविशेषो न कदाचिदनुपायो भवितुर्महति| तस्माच्चतुष्पाच्चिकित्सासाध्यस्य रोगस्योपाय एव चिकित्सा, न त्वनुपायः|
Adhikarana upAye~anupAyatA nAsti,daivavaiguNyAt kadAcinna siddhiH (67) · Śloka 67
अपि चोपाययुक्तस्य धीमतो जातुचित् क्रिया| न सिध्येद्दैववैगुण्यान्न त्वियं षोडशात्मिका||६७||
🔊 Audio coming soon
स०-धीमतः-प्राज्ञस्य नरस्य, उपाययुक्तस्यापि दैवापराधात् इयं षोडशात्मिका क्रिया कदाचिन्न सिध्यति| त(य)स्मादायुः परीक्ष्य साध्यासाध्यविभाग्ज्ञो ज्ञानपूर्वं चिकित्सायां वैद्यः प्रवर्तते तस्माद्दैववैगुण्यम्| विमलविपुलमत्या सम्यक् परिच्छेदाच्चिकित्साया रोगविषये प्रवृत्तायाः सिद्धिरेव स्यान्नासिद्धिः| यस्माद्यो यत्रोपायः, स तत्रानुपायो न भवति| मुनिनाऽप्युक्तम् (च.सू. अ. १०/७)-"साध्यासाध्यवीभागज्ञो ज्ञानपूर्वं चिकित्सकः| काले चारभते कर्म यत्तत्साधयति ध्रुवम्||" इति|
Adhikarana eteShAmudAharaNAni (68-70) · Śloka 70
एतदेव प्रतिपादयन्नाह कस्यासिद्धोऽग्नितोयादिः स्वेदस्तम्भादिकर्मणि| न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम्||६८|| कस्य माषात्मगुप्तादौ वृष्यत्वे नास्ति निश्चयः| विण्मूत्रकरणाक्षेपौ कस्य संशयितौ यवे||६९|| विषं कस्य जरां याति मन्त्रतन्त्रविवर्जितम्| कः प्राप्तः कल्यतां पथ्यादृते रोहिणिकादिषु||७०||
🔊 Audio coming soon
स०-कस्य पुरुषस्य वह्निः स्वेदकर्मणि, स्तम्भनकर्मणि च तोयं, न सिद्धम्| आदिशब्दान्मूर्च्छापगमादौ शीतानिलादिः| अपि तु सर्वस्यैव सिद्धोऽन्वयव्यतिरेकात्| एवं यावद्रोहिणिकादिष्विति व्याख्येयम्| एवं निश्चितफला चिकित्सेति स्थितम्|
Adhikarana cikitsA vinA~akAlamaraNaM kathaM vAryatAm? (71) · Śloka 71
अपि चाकालमरणं सर्वसिद्धान्तनिश्चितम्| महताऽपि प्रयत्नेन वार्यतां कथमन्यथा||७१||
🔊 Audio coming soon
स०-न केवलं पूर्वोक्ताद्धेतोश्चिकित्सातन्त्रं सफलम्| यतश्चाकालमरणं सर्वसिद्धान्तनिश्चितम्| तदन्यथा-चिकित्साशास्त्रमन्तरेण, परमेणापि यत्नेन कथं-केन प्रकारेण, निर्वायताम् ? न केनचिदित्यर्थः|
Adhikarana jvare la~gghanabRuMhaNaM shAstrAdeva siddhiM gatam (72) · Śloka 72
न चाकालमृत्युरक्षैव प्रयोजनमस्य तन्त्रस्येत्याह चन्दनाद्यपि दाहादौ रूढमागमपूर्वकम्| शास्त्रादेव गतं सिद्धिं ज्वरे लङ्घनबृंहणम्||७२||
🔊 Audio coming soon
स०-दाहादौ विषये चन्दनादि चागमपूर्वकमेव लोकरूढम्, न त्वेवमेव| तथा शास्त्रादेव-चिकित्साख्यात्, सकललोकप्रसिद्धं ज्वरे लङ्घनबृंहणं भक्तच्छेदक्षीरादि सिद्धिमुपगतम्, नान्यस्मात्|
Adhikarana samyakcikitsite saMshayaM mA kRuthAH (73) · Śloka 73
चतुष्पाद्गुणसम्पन्ने सम्यगालोच्य योजिते| मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते||७३||
🔊 Audio coming soon
स०-तस्माच्चतुष्पादा[नां] ये गुणाः-आयुष्कमीयोक्ताः (हृ.सू.अ. १/२७), तैः सम्पन्ने-युक्ते, तथा सुष्ठु निरूप्य देशकालादीन् योजिते चिकित्सिते, व्याधिनिर्घातं प्रति विचिकित्सां-संशयं, मा कृथाः|
Adhikarana akANDe mRutyupAshAnAM dRuDhaCedanametat (74) · Śloka 74
एतद्धि मृत्युपाशानामकाण्डे छेदनं दृढम्| रोगोन्त्रासितभीतानां रक्षासूत्रमसूत्रकम्||७४||
🔊 Audio coming soon
स०-यतश्चाकाण्डे-अकाले, मृत्युपाशाः-ज्वरादयस्तेषां एतत्-चिकित्साशास्त्रं, दृढं-सारं, छेदनम्| तथा समुत्पन्नेभ्यो ज्वरादिभ्यस्त्रस्तानां शङ्कया भीतानां सूत्ररहितं रक्षासूत्रकं, तत्कार्यकरणादित्यर्थः| तस्मादध्येतव्यं चिकित्साशास्त्रम्|
Adhikarana etaccikitsAshAstraM sAkShAdamRutam,tadevadurBAjanasthaM hAlAhalatvaM yAti (75) · Śloka 75
एतत्तदमृतं साक्षाज्जगदायासवर्जितम्| याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम्||७५||
🔊 Audio coming soon
स०-तथैतत्-चिकित्साशास्त्रं, तत्-सकललोकप्रसिद्धं, साक्षात्-स्वरूपेण, अमृतं मृत्युजये, त(य)त् लोकप्रसिद्धं जगतः सुरासुररूपस्य, आयासादुत्पन्नं क्षीरोदमथनकाले, तेन वर्जितमिदम्| अमृतमपि दुर्भाजनस्थितं सद्यः-शीघ्रमेव, विषत्वं याति|
Adhikarana BiShagpAshAn dUrAtyajet (76) · Śloka 76
तदेव दुर्भाजनं दर्शयति अज्ञातशास्त्रसद्भावान् शास्त्रमात्रपरायणान्| त्यजेद्दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव||७६||
🔊 Audio coming soon
स०-अज्ञातः शास्त्रसद्भावः-परमार्थो, यैस्तांस्तथाविधान् भिषक्पाशान् दूरतस्त्यजेत्| तथा शास्त्रमात्रपरायणान्-शास्त्रपाठमात्रशरणान्| अत एव विषसामान्यतः शास्त्रपाठमात्रत्वेन निषिद्धम्| तथा शास्त्रपरमार्थानवबोधाच्च विषत्वम्| कानिव ? वैवस्वातान्-यमसम्बन्धिनः, पाशान् यथा| इति तावदसम्पूर्णान्|
Adhikarana sAdhuvRuttAnAM BiShajAM Badram (77) · Śloka 77
सम्यग्भिषजः श्लाघमानो ब्रूते भिषजां साधुवृत्तानां भद्रमागमशालिनाम्| अभ्यस्तकर्मणां भद्रं भद्रं भद्राभिलाषिणाम्||७७||
🔊 Audio coming soon
स०-सुवैद्यानां सच्चरितानामिह लोकेऽन्यत्र च सदैव भद्रम्| किंविधानाम् ? आगमेन-ग्रन्थतोऽर्थतः, श्लाघितुं शीलं येषां तेषाम्| ईदृशा अप्यनभ्यस्तकर्माणो न श्लाघार्हाः स्युरित्याह, अभ्यस्तं-असकृत्तैललेहादिपाकाद्यनुवासननिरूहादियोजनं च, [कर्म] यैस्तेषां लोकद्वयेऽपि भद्रम्| सर्वसत्त्वानां पुत्रमित्रादिरूपेण भद्रमिव हितं सुखं चाभिलषन्ति-इच्छन्ति ये, तेषामपि भद्रं-शस्तम्|
Adhikarana aShTA~ggahRudayasya tantrasya sa~ggre hAt pRuthakkaraNe pryojanam (78-80) · Śloka 80
इति तन्त्रगुणैर्युक्तं तन्त्रदोषैर्विवर्जितम्| चिकित्साशास्त्रमखिलं व्याप्य यत् परितः स्थितम्||७८|| विपुलामलविज्ञानमहामुनिमतानुगम्| महासागरगम्भीरसङ्ग्रहार्थोपलक्षणम्||७९|| अष्टाङ्गवैद्यकमहोदधिमन्थनेन योऽष्टाङ्गसङ्ग्रहमहामृतराशिराप्तः| तस्मादनल्पफलमल्पसमुद्यमानां प्रीत्यर्थमेतदुदितं पृथगेव तन्त्रम्||८०||
🔊 Audio coming soon
स०-तन्त्र्यते-धार्यते शरीरमनेनेति तन्त्रम्, तस्य गुणास्तन्त्रगुणाः,-यैस्तन्त्रमलङ्क्रियते तन्त्रयुक्त्यादयः, तैरेवZंप्रकारैर्युक्तम्| तथा चोक्तं सङ्ग्रहे (उ. अ.५०)-"अलङ्कृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम्| षट्त्रिंशताऽर्थदुर्गेषु भिषजां सङ्क्रमैरिव|| तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च| प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्|| उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः| प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः|| पूर्वपक्षविधानानुमतव्याख्यानसंशयाः| अतीतानागतापेक्षास्वसंज्ञोह्यसमुच्चयाः|| निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्| प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः||" इति|
Adhikarana tantrayuktayaH ShaTtrIshat 1 adhikaraNasya lakShaNam · Śloka
🔊 Audio coming soon
तत्र १ अधिकरणं नाम,-यदधिकृत्य प्रवर्तते शास्त्रं स्थानमध्यायः प्रकरणं वाक्यं वा| तत्र शास्त्राधिकरणं-यदधिकृत्य शास्त्रं प्रवर्तते| यथा-अष्टावङ्गान्यधिकृत्य हृदयाख्यं सर्वं शास्त्रं प्रवृत्तम्| यथोक्तम् (हृ.सू. अ. १/५)-"कायबाल" इत्यादि| स्थानाधिकरणं यथा (हृ.सू.अ. ३०/५३)-"अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः|" इति| अध्यायोऽपि यदधिकृत्य प्रवर्तते तदध्यायाधिकरणं| यथा (हृ. सू. अ . २)_"अथातो दिनचर्याध्यायं व्याख्यास्यामः|" इति| प्रकरणं यदधिकृत्य प्रवर्तते तत् प्रकरणाधिकरणम्| यथा (हृ.शा. अ.३/१८)-"दश मूलसिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः|" इत्यादि यावत् "इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः|" इत्यादि| एवं वाक्यमपि यदधिकृत्य प्रवर्तते तद्वाक्याधिकरणं वेद्यम्|
Adhikarana 2 yogasya lakShaNam · Śloka
🔊 Audio coming soon
२ योगो नाम,-योजना, उद्देशनिर्देशयोः सूत्रभाष्यर्योर्वा| यथा (हृ.शा. अ.३)-"अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः|" इत्युद्दिश्याङ्गानि विभजते-"शिरोऽन्तराधिर्द्वौ बाहू सक्थिनी च समासतः| षडङ्गम्" इत्यादि| युक्तिर्वा योगः, प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनमिति पञ्चविधः| यथा-अग्निः शरीरस्थितेर्मूलमिति प्रतिज्ञा| अग्निपक्वाहारे सति तस्त्थितेरिति हेतुः, "तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः|" (हृ.शा. अ.३/५४) इति वचनात्| यथा-शाल्यङ्कुरस्य बीजमिति दृष्टान्तः| उपनयो यथा-चिकित्साशास्त्रस्य प्रयोजनत्वसाधनाय बहुधा दृष्टान्तोपनयं कृतवांस्तन्त्रकृत्, "कस्यासिद्धोऽग्नितोयादिः" (हृ.उ. अ.४०/६८) इत्यादयः| तस्मात् सप्रयोजनमेव चिकित्साशास्त्रं प्रत्यक्षफलत्वादित्युपनयः| तस्मादारम्भणीयमिति प्रमाणपदोपदर्शनमुखेन निगमनम्| यथोक्तम्(हृ.उ. अ. ४०/७३)-चतुष्पाद्गुणसम्पन्ने सम्यगालोच्य योजिते| मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते||" साध्यव्याधिचिकित्सायां संशयानुपपत्त्या प्रतिपादितया प्रमाणफलोपसंहारकरणम्|
Adhikarana 3 hetvardhasya lakShaNam · Śloka
🔊 Audio coming soon
३ हेत्वर्थो नाम,-यदन्यप्रस्तावोक्तमन्यत्रापि तथैवोपपद्यते| यथा (हृ. शा. अ.३/२०)-"तत्रैकैकं च शाखायां शतं तस्मिन्न वेधयेत्| सिरां जालन्धरां नाम तिस्रश्चाभ्यन्तराश्रिताः||" इत्यादि| तथा (हृ.शा.अ.३/३४)-"अवेध्याः सङ्कीर्णा ग्रथिताः क्षुद्राः इत्यादि| तदेतेभ्यो विशेषवचनेभ्योऽनुमीयते शेषा वेध्या इति| अन्यथैतानि वचांसि निरर्थकानि स्युरिति|
Adhikarana 4 padArthasya lakShaNam (80) · Śloka 80
४||८०||
🔊 Audio coming soon
४ पदार्थो नाम,-पदेनार्थो गम्यते| यथा-द्रव्यमिति पदम्, तस्यार्थो भूजलादिः| गुण इति पदम्, तस्यार्थो गुर्वादिः|
Adhikarana 5 pradeshasya lakShaNam · Śloka
🔊 Audio coming soon
५ प्रदेशो नाम,-येषामर्थानामतिबहुत्वात् साकल्येनाभिधानस्याशक्यत्वात् स्तोकमुच्यते| यथोक्तम् (हृ.सू.अ.५/८४)-"इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः|" इति|
Adhikarana 6 uddeshasya lakShaNam (80) · Śloka 80
६|८०|
🔊 Audio coming soon
६ उद्देशो नाम,-सङ्क्षेपाभिधानम्| यथा (हृ. सू. अ. १/६)-"वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः| इत्यादि|
Adhikarana 7 nirdeshasya lakShaNam (80) · Śloka 80
७|८०|
🔊 Audio coming soon
७ निर्देशो नाम,-तस्यैव विस्तारोक्तिः| यथोक्तम् (हृ.सू. अ. १/११)-"तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः|" इति|
Adhikarana 8 prayojanasya lakShaNam (80) · Śloka 80
८|८०|
🔊 Audio coming soon
८ वाक्यशेषो नाम,-यस्मिन् सूत्रे लाघविकेनार्थाद्गम्य मानमनुक्तपूरणार्थमध्याह्रियते| यथा (हृ.शा. अ.३/३)-"तत्र खात् खानि देहेऽस्मिन्" 'भवन्ति' इति वाक्यशेषः| "आप्या जिह्वारसकलेदाः" (हृ.शा. अ.३/४) इत्युत्तरत्र भवार्थे तद्धितश्रवणात्|
Adhikarana 9 vAkyasheShasya lakShaNam (80) · Śloka 80
९|८०|
🔊 Audio coming soon
९ प्रयोजनं नाम,-यदर्थं शास्त्रादि प्रवर्तते| यथा (हृ.उ. अ. ४०/६४)-"आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम्|" इति| अनेन प्रयोजनेन चिकित्साशास्त्रमध्येयमित्यादि|
Adhikarana 10 upadeshasya lakShaNam (80) · Śloka 80
१०|८०|
🔊 Audio coming soon
१० उपदेशो नाम,-आप्तवचनम्| यथा(हृ.सू. अ.१७/२९)-"स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीना ये च शाखास्थिसंस्थाः| दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक्शुद्धिभ्Vइर्निर्ह्रियन्ते||" इत्यादि|
Adhikarana 11 apadeshasya lakShaNam (80) · Śloka 80
११|८०|
🔊 Audio coming soon
११ अपदेशो नाम,-यदाचार्यः किञ्चिदर्थं प्रतिज्ञाय हेतुमुपदिशति| यथा (हृ.उ. अ.४०/६४)-"जीवितं म्रियमाणानां सर्वेषामेव नौषधात्|" इति प्रतिज्ञाय हेतुमाह(हृ.उ. अ. ४०/६४)-"न ह्यपाययपेक्षन्ते सर्वे रोगाः" सर्वरोगाणामुपायापेक्षाभावात्|
Adhikarana 12 atideshasya lakShaNam (80) · Śloka 80
१२|८०|
🔊 Audio coming soon
१२ अतिदेशो नाम,-यत् किञ्चिदेवार्थजातमुक्त्वाऽनुक्तार्थसाधनाय एवमन्यदपि प्रत्येतव्यमिति परिभाषायां स्थापयति| यथोक्तं कर्णरोगप्रतिषेधे (हृ.उ. अ. १८/४)-"महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात्| तैलसिक्तात्प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः|| योज्यश्चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच्च सारलात्|" इत्यादि|
Adhikarana 13 arthApatterlakShaNam (80) · Śloka 80
१३|८०|
🔊 Audio coming soon
१३ अर्थापत्तिर्नाम,-योऽन्येनार्थेनोक्तेन ततोऽपरोऽप्यर्थो गदित इव ज्ञायते| यथा (हृ.सू. अ.५/३१)-"नैवाद्यान्निशि नैवोष्णम्" इत्युक्तम्, न तूक्तं दिवा भुञ्जीतेति| एतच्चार्थापत्त्या गम्यते| [ननु,] कः पुनरर्थः ? का चास्यापत्तिः ? ब्रूमः| दध्यभ्यवहारोऽर्थस्तत्र तन्त्रकृता 'नैवाद्यान्निशि' इति कालो निषिद्धो न तु दधिभक्षणम्| ततो योऽयमप्रतिषिद्धोऽर्थः, सआपद्यते दिवा दधिभोजनार्थः, रात्रिप्रतिषेधे दिनव्यतिरेकेण कालान्तराभावात्| सर्वथा अनभ्यवहरणीयस्याहारप्रस्तावे प्रतिषेधानुपपत्तेः| एवमन्यत्रापि व्याख्येयम्|
Adhikarana 14 nirNayasya lakShaNam (80) · Śloka 80
१४|८०|
🔊 Audio coming soon
१४ निर्णयो नाम,-यन्निवारितस्यार्थस्य प्रतिष्ठापनम्| यथा(हृ.उ. अ.४०/६०)-"दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः|" इत्यादिना चिकित्साशास्त्रफलं प्रति संशयकरणे पश्चान्निर्णयार्थमुक्तम्| यथा (हृ.उ. अ.४०/६३)-"न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति|" इत्यादि|
Adhikarana 15 prasa~ggasya lakShaNam (80) · Śloka 80
१५|८०|
🔊 Audio coming soon
१५ प्रसङ्गो नाम,-पूर्वाभिहितस्यार्थस्य केनचित् सम्बन्धान्तरेण पुनरभिधानम्| यथोक्तं सिराव्यधविधौ (हृ.सू. अ. २७/२)-"लोहितं प्रवदेच्छुद्धं तनोस्तेनैव च स्थितिः|" इत्युक्त्वा पुनः शारीरे शुद्धार्तवप्रसङ्गेनोक्तम् (हृ. शा. अ.१/१)-"शुद्धे शुक्रार्तवे सत्त्वः स्वकर्मक्लेशचोदितः| गर्भः सम्पद्यते युक्तिवशादग्निरिवारणौ||" इति| न च पुनरुक्तता तस्य| यस्मात् सिराव्यधे शरीरप्रभवत्वमेव रक्तस्योक्तम्, न तु क्रमो वर्णितः| शारीरे तु ययाऽऽनुपूर्व्या शरीरहेतुः स्यात् तद्विस्तरेणोक्तम्| यथा(हृ.शा. अ.१/२)-"बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्त्वानुगैश्च सः| मातुश्चाहाररसजैः क्रमात् कुक्षौ विवर्धते||" इति|
Adhikarana 16 ekAntasya lakShaNam (80) · Śloka 80
१६|८०|
🔊 Audio coming soon
१६ एकान्तो नाम,-य एकमेव पक्षमव्यभिचारेण श्रयति नान्यम्| तद्यथा (हृ.सू. अ. ४/३१)-"ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः| रोगद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः||" इति|
Adhikarana 17 naikAntasya lakShaNam (80) · Śloka 80
१७|८०|
🔊 Audio coming soon
१७ नैकान्तो नाम,-अन्यतरपक्षानवधारणात्| यथा (हृ.सु. अ.४०/६४)-"जीवितं म्रियमाणानां सर्वेषामेव नौषधात्|" एकान्तेन (हृ.उ. अ. ४०/६४)-"न ह्युपा यमपेक्षन्ते सर्वे रोगाः" इत्यादि|
Adhikarana 18 apavargasya lakShaNam (80) · Śloka 80
१८|८०|
🔊 Audio coming soon
१८ अपवर्गो नाम,-साकल्येनोत्सृष्टस्य यत्पुनस्तदेकदेशापकर्षणम्| यथा (हृ.सू. अ.२७/४)-"शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः| सम्यक् साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः|| तेषु स्रावयितुं रक्तमुद्रिक्तं व्यधयेत्सिराम्|" इत्युत्सर्गमभिधाय एकदेशेऽपवादं वक्ति (हृ.सू. अ. २७/६)-"न तूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्|" इत्यादि|
Adhikarana 19 viparyayasya lakShaNam (80) · Śloka 80
१९|८०|
🔊 Audio coming soon
१९ विपर्ययो नाम,-यथोपदिष्टविपर्ययेण लक्षणादिकरणम्| यथोक्तम् (हृ.सू. अ.१६/३०)-"वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| स्नेहोद्वेगः क्लमः सम्यक् स्निग्धे, रूक्षे विपर्ययः||" इति|
Adhikarana 20 pUrvapakShasya lakShaNam (80) · Śloka 80
२०|८०|
🔊 Audio coming soon
२० पूर्वपक्षो नाम,-प्रतिज्ञातार्थसंदूषणं वाक्यम्| यथा हिताहितविभागं प्रत्याचिख्यासन्नाह| यथा (हृ.उ. अ.४०/६०)-"दृश्यन्ते भगवन् केचित्" इत्यारभ्य यावत् "हिताहितविभागस्य फलं तस्मादनिश्चितम्|" इत्यादि|
Adhikarana 21 vidhAnasya lakShaNam (80) · Śloka 80
२१|८०|
🔊 Audio coming soon
२१ विधानं नाम,-यत्प्रकरणानुपूर्वं विधानमावेक्ष्यते|
Adhikarana 22 anumatasya lakShaNam (80) · Śloka 80
|८०|
🔊 Audio coming soon
२२ अनुमतं नाम,(हृ.सू. अ.९-१०)-"उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षतेऽपि च| नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ||" इत्यादिना ह्यनुमतम्, न विघातः कृतः|
Adhikarana 23 vyAkhyAnasya lakShaNam (80) · Śloka 80
२३|८०|
🔊 Audio coming soon
२३ व्याख्यानं नाम,-यन्मादृशेभ्यो विशिष्टतरबुद्धिगम्यम्| यथा (हृ.शा. अ. १/३७)-"सप्तहात् कललीभवेत्|" (हृ.शा. अ. १/४९)-"द्वितीये मासि कललात् घनः पेश्यथवार्बुदम्| पुंस्त्रीक्लीबाः क्रमात्" इति| न ह्यत्र गर्भस्यावर्तमाना भावाः शक्या विज्ञातुं योगिदृष्टिं मुक्त्वा|
Adhikarana 24 saMshayasya lakShaNam (80) · Śloka 80
२४|८०|
🔊 Audio coming soon
२४ संशयो नाम,-साकाङ्क्षत्वमनिश्चितवस्तुविज्ञानम्| यथा (हृ. शा. अ. ५/१२८)-"संशयं प्राप्तमात्रयो जीवितं तस्य मन्यते|" इत्यादि|
Adhikarana 25 atItApekShaNasya lakShaNam (80) · Śloka 80
२५|८०|
🔊 Audio coming soon
२५ अतीतापेक्षणं नाम,-यदतिक्रान्तमपेक्ष्य प्रस्तुतस्य साधनमुच्यते| यथोक्तं हृद्रोगचिकित्सिते (हृ.चि. अ.६/३९)-"रास्नाजीवक" इत्यादि यावत् "महास्नेहं विपाचयेत्||" इति| अत्र च न ज्ञायते कतमो माहास्नेह इति| तदेतदतिक्रान्तमपेक्ष्य प्रसाध्यते स्नेहविध्युक्तम्| यथा (हृ.सू. अ. १६/४)-"द्वाभ्यां त्रिभिश्चतुर्भिस्तैर्यमकस्त्रिवृतो महान्|" इत्यपेक्ष्य व्याख्यायते|
Adhikarana 27svasaMj~jAyAH lakShaNam (80) · Śloka 80
२६|८०|
🔊 Audio coming soon
२६ [अनागतापेक्षा नाम,-] ............................ २७ स्वसंज्ञा नाम,-या तन्त्रकारैः स्वतन्त्रसंव्यवहारार्थं प्रणिता सती परतन्त्रेषु न व्यवहरति| यथा (हृ.सू. अ.१२/४४)-"शाखा रक्तादयस्त्वक् च" इति|
Adhikarana 28UhrAsya lakShaNam (80) · Śloka 80
२८|८०|
🔊 Audio coming soon
२८ ऊह्यं नाम,-यदप्रतिबद्धं ग्रन्थे स्वयं प्रज्ञया तर्कयित्वा योज्यम्| यथोक्तम् (हृ.सू. अ.१५/४६)-"त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः| युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||' [इति|]
Adhikarana 29samuccayasya lakShaNam (80) · Śloka 80
२९|८०|
🔊 Audio coming soon
२९ समुच्चयो नाम,-यथा(हृ.सू. अ.१८/२९)-"पेयां विलेपीमकृतं कृतं च यूषं रसं" च समुच्चिनोति, तथा-"त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः||" इति|
Adhikarana 30 nidarshanasya lakShaNam (80) · Śloka 80
३०|८०|
🔊 Audio coming soon
३० निदर्शनं नाम,-यन्निदर्शयितव्यं सूक्ष्ममप्यर्थं स्वधर्मसादृश्यात् स्पष्टीकरोत्यादर्श इव मुखविधुम्| यथोक्तम् (हृ.सू. अ.१९/८४)-"यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः| तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्||" इत्यादि|
Adhikarana 31 nirvacanasya lakShaNam (80) · Śloka 80
३१|८०|
🔊 Audio coming soon
३१ निर्वचनं नाम,-निर्णयार्थं वचनं निरुक्तम्| यथोक्तं विषविधाने (हृ.उ. अ.३५/१)-"मथ्यमाने जलनिधावमृतार्थं सुरासुरैः|" यावत् "जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः||" इति| विषस्य निर्वचनं जगद्विषदनाद्विषमिति|
Adhikarana 32 niyogasya lakShaNam (80) · Śloka 80
३२|८०|
🔊 Audio coming soon
३२ नियोगो नाम,-यो यस्यानुष्ठेयः| यथा (हृ.सू. अ. १६/२६)-"उष्णोदकोपचारी स्यात्" इत्यादि|
Adhikarana 33 vikalpasya lakShaNam (80) · Śloka 80
३३|८०|
🔊 Audio coming soon
३३ विकल्पो नाम,-विविधं कल्पनम्, इदं कार्यमिदं वा कार्यम्| यथोक्तं पूर्वरूपदर्शने ज्वरादौ [वा] हितं लघ्वशनमपतर्पणं वा|
Adhikarana 34 pratyutsArasya lakShaNam (80) · Śloka 80
३४|८०|
🔊 Audio coming soon
३४ प्रत्युत्सारो नाम,-यत्रोपपत्तिं दर्शयन्तः परस्परमतानि निवारयन्ति| तद्यथा (हृ.शा. अ.३/१६)-"अस्थ्नां शतानि षष्ठिश्च त्रीणि दन्तनखैः सह| धन्वन्तरिस्तु त्रीण्याह, सन्धीनां च शतद्वयम्|| दशोत्तरं, सहस्रे द्वे निजगादात्रिनन्दनः|" इति पूर्वमतात् षष्टिं प्रयुत्सारयति| धन्वन्तरेरपि मतं दशोत्तरं सन्धिशतद्वयमिति पुनर्वसुः प्रत्युत्सारयति सन्धिसहस्रद्वयं साधयन्|
Adhikarana 35 uddhArasya lakShaNam (80) · Śloka 80
३५|८०|
🔊 Audio coming soon
३५ उद्दारो नाम,-शास्त्रारम्भप्रत्याख्यानादिचोद्यस्य समाधानम्| तद्यथा (हृ.उ. अ.४०/६०)-"दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः|" यावत् "हिताहितविभागस्य फलं तस्मादनिश्चितम्|" इति कृते चोद्ये (हृ.उ. अ.४०/६३)-"न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति|" इति परिहारः|
Adhikarana 36 samBavasya lakShaNam (80) · Śloka 80
३६|८०|
🔊 Audio coming soon
३६ सम्भवो नाम,-उपपत्तिर्यस्मिन्नुपपद्यते अनुपदिष्टे| यथा (हृ.सू. अ.२६/४७)-"दुष्टरक्तापगमनात् सद्यो रागरुजां शमः|" इत्युक्तम्| प्रच्छानालाबुजलौकाशृङ्गसिराव्यधैर्यथासम्भवं रक्तमपनीयते| यथोक्तम् (हृ.सू. अ.२६/५३)-"प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः| हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि सिराव्यधैः||" इति| एवमन्यत्रापि सम्भवार्थो योज्यः|
Adhikarana vyAkhyA 14 pa~jca dashavidhA (80) · Śloka 80
१|८०|
🔊 Audio coming soon
व्याख़्या अपि तन्त्रस्य गुणः| ताभिरपि तन्त्रमलङ्क्रियते| ताश्च पञ्चदशप्रकाराः| तद्यथा,-पिण्डपदपदार्थाधिकरणप्रकरणार्थकृच्छ्रफलोच्चितकन्यासप्रयोजनानुलोमप्रतिलोमातिसूत्रसमस्तव्याख़्याः|
Adhikarana 1 piNDavyAkhyAyAH lakShaNam (80) · Śloka 80
१|८०|
🔊 Audio coming soon
तत्र १ पिण्डव्याख्या नाम,-सङ्क्षेपतया सूत्ररूपेणाध्यायादिनां व्याख्या| यथा (हृ.शा. अ. ५/४)-"रूपेन्द्रियस्वरच्छयाप्रतिच्छायाक्रियादिषु| अन्येष्वपि च भावेषु प्राकृतेष्वनिमित्ततः|| विकृतिर्या समासेन रिष्टं तदिति लक्षयेत्|" इत्यनेन सूत्रेण सकलरिष्टाध्यायसमास उक्तः|
Adhikarana 2 padavyAkhyAyAH lakShaNam (80) · Śloka 80
२|८०|
🔊 Audio coming soon
२ पदव्याख्या नाम,-यत्पदानां छेदं कृत्वोच्चारणम्| यथा (हृ.सू. अ. १)-"अथ अतः आयुष्कामीयं अध्यायं वि आ ख्यास्यामः|" इति सप्तपदं सूत्रं पूर्वं व्याख्यातम्|
Adhikarana 3 padArthavyAkhyAyAH lakShaNam (80) · Śloka 80
३|८०|
🔊 Audio coming soon
३ पदाऱ्थव्याख्या नाम,-तेषामेव पदानां विवरणम्| यथा-अथशब्द आनन्तर्ये अधिकारे वा, अतःशब्दो हेता वित्यादि|
Adhikarana 4 adhikaraNavyAkhyAyAH lakShaNam (80) · Śloka 80
४|८०|
🔊 Audio coming soon
४ अधिकरणव्याख्या नाम,-यद्वस्तुप्रकृतमारभ्यतदनुषङ्गेण व्याख्यानमारभ्यते| यथा (हृ.सू. अ.२)-"अथातो दिनचर्याध्यायं व्याख्यास्यामः|" इति प्रस्तुत्य "ब्राह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः|" इत्यादिना सैव दिनचर्या विवृत्य व्याख्यायते सविस्तरा|
Adhikarana 5 prakaraNavyAkhyAyAH lakShaNam (80) · Śloka 80
५|८०|
🔊 Audio coming soon
५ प्रकरणव्याख्या नाम,-यस्मिन्नर्थे सूत्रे वा प्रकृतेनाप्रकृतं साध्यते, यथा-त्रिलवणाद्ये चूर्णे गुणानुक्त्वाऽभयाख्ये एवमाह 'समानं पूर्वेण'इति| तत्र समानगुणता व्याख्याता|
Adhikarana 6 arthavyAkhyAyAH lakShaNam (80) · Śloka 80
६|८०|
🔊 Audio coming soon
६ अर्थव्याख्या नाम,-यत्र प्रकरणे सूत्रे वा स्वभावस्योपवर्णनं क्रियते| तद्यथा,-प्रकृतिरुच्यते स्वभावः| स पुनराहारौषधद्रव्याणां स्वाभाविको गुर्वादिगुणयोगः| तद्यथा,-माषमुद्गयोः सूकरैणयोश्च|
Adhikarana 7 kRuCravyAkhyAyAH lakShaNam (80) · Śloka 80
७|८०|
🔊 Audio coming soon
७ कृच्छ्रव्याख्या नाम,-यत्र लेशत उक्तानामविस्पष्टनां प्रकरणे सूत्रे वा अर्थानां यत्नत उद्भावनं क्रियते| तद्यथा (हृ.सू. अ. २/३०)-"अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्|" इति लेशतो ब्रुवाणः शास्त्रकारः सर्वेषु हेतुलिङ्गौषधादिषु मध्यमा प्रतिपदाश्रयणीयेति सूचयति|
Adhikarana 8 PalavyAkhyAyAH lakShaNam (80) · Śloka 80
८|८०|
🔊 Audio coming soon
८ फलव्याख्या नाम,-यत्र वस्तुनि बहुष्वनिश्चितार्थेष्वेकीयमतेषु प्रस्तुतेषु वस्तुसारभूतं स्वमतं स्वमर्थमुपनिक्षिप्यैकीयमतानि तस्मिन्नेव स्वमतेऽन्तर्भावं नयति| यथा-निरूहमात्रापुटकादिष्वियत्तायां साध्यायां च निश्चितानि महर्षिर्भिर्बहूनि मतानि प्रशस्तानि| यथा-"द्वादशप्रसृतो निरूहः कार्यः" इत्येके| "मात्रां त्रिपलिकां कुर्यात् स्नेहमाक्षिकयोः पृथक्|" (हृ.सू. अ.१९/४४) इत्याद्यन्ये| तदेतानि मतानि दोषौषधबलापेक्षया स्वमतान्तर्भावितानि प्रमाणानि च| यथोक्तम् (हृ.सू. अ.१९/६२)-"दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्|" अन्योन्यविरुद्धमपि "सम्यङ्निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्||" इति|
Adhikarana 9 uccitakavyAkhyAyAH lakShaNam (80) · Śloka 80
९|८०|
🔊 Audio coming soon
९ उच्चितकव्याख्या नाम,-यस्मिन् सूत्रे निदर्शनभूतान्युदाहरणानि तन्त्रान्तः समकृष्यार्थः शस्यते| यथा-पृथिव्यादिषु च महाभूतसंज्ञा स्थापिता, रसादिषु च धातुसंज्ञा निवेशिता| "रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः|" (हृ.सू. अ. १/१३) इति| पुनरुच्यते (हृ.शा. अ.३/६५)- "परस्परोपसंस्तम्भाद्धातुस्नेहपरम्परा|" इति| अत्र किं धातोर्ग्रहणेन भूतान्यपि धातुशब्दवान्यानि भवन्ति ? इति|
Adhikarana 10 nyAsavyAkhyAyAH lakShaNam (80) · Śloka 80
१०|८०|
🔊 Audio coming soon
१० न्यासव्याख्या नाम,-यस्मिन्नधिकारे वर्तमाने तेनाधिकारणार्थेन सहितं सम्बन्धमभिवीक्ष्यान्यस्यार्थो विनिक्षिप्यते| यथा (हृ.उ. अ.४०/६०)-"दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः|" इति हिताहितविभागस्य फलं प्रति संशयमभिवीक्ष्य "न चिकित्साऽचिकित्सा तुल्या भवितुमर्हति|" (हृ.उ. अ.४०/६३) इत्यादिना उत्तरं दत्त्वा तेनैव प्रसङ्गेनान्योऽर्थो निक्षिप्यते| यथा (हृ.उ. अ. ४०/७५)-"एतत्तदमृतं साक्षाज्जगदायासवर्जितम्| याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम्||" इति| एवमन्येषामप्यर्थानां सम्बन्धमवधार्य व्याख्यार्थार्हा कल्पनीया|
Adhikarana 11 prayojanavyAkhyAyAH lakShaNam (80) · Śloka 80
११|८०|
🔊 Audio coming soon
११ प्रयोजनव्याख्या नाम,-यत्सूत्रमभिधीयमानं स्वार्थत्य निष्पत्तौ निमित्तभावमुपैति| यथा-उक्तोऽङ्गविभागेऽनेकधासिराविस्तरः| न च तेन सिराविस्तरेणोक्तेन किञ्चिदिहोपकारो दृश्यते| यदि प्रकरणावसरे प्रयोजनमिदं ब्रूयात् "इत्यवेध्य विभागार्थं प्रत्यङ्गं वर्णिताः सिराः|" (हृ.शा. अ. ३/३३) एतदर्थं सिराविवरणं प्रवृत्तम्| कश्चिदयं वैद्यो वेध्यावेध्यविभागं सिराणां जानीयादिति|
Adhikarana kalpanA 7 saptavidhA 1/2 pradhAnakalpanAyA lakShaNam (80) · Śloka 80
१२|८०|
🔊 Audio coming soon
१२ आनुलोम्यं नाम,-येन.....तत्र १-२ प्रधानकल्पना द्विधा,-प्रधानस्य कल्पना प्रधानेन वा कल्पना प्रधानकल्पना| प्रधानस्य कल्पना यथासर्पिः स्नेहनम्, क्षीरं जीवनम्, मधु सन्धानकृत्, इत्यत्र मध्ये प्रकृष्टगुणत्वात् सर्पिःक्षीरे स्नेहनजीवने कल्प्येते, न तु तैलतोयादिष्वपि स्नेहनजीवनत्वं नास्तीति| माक्षिकं च सन्धाने प्रधानत्वात् सन्धानकृदित्युक्तम्, न तु सिक्यकमधुयष्टिकादिष्वपि सन्धानकृत्त्वं नास्तीति| प्रधानेन तु कल्पना यथा-क्षीरदधितक्रमस्तुनवनीतक्षीरघृतपुराणघृतकिलाटापीयूषकूचीकामोरणादिवर्गः सर्वः क्षीरवर्ग इत्युक्तः, क्षीरप्राधान्यात्| प्रधानेन कल्पनाव्यपदेश इत्येकोऽर्थः|
Adhikarana 3 guNakalpanAyAH lakShaNam (80) · Śloka 80
३|८०|
🔊 Audio coming soon
३ गुणकल्पना नाम,- येन धर्मेणोपेतोऽर्थः प्रयुज्यमानः समर्थो भवति, तेन धर्मेण युक्तस्य तस्यासावगुणोऽपि गुर्वादिष्वपाठाद्गुण इति कल्प्यते| यथोक्तम् (हृ.सू. अ.१/२६)-"भिषक् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम्|| इत्यादि| दक्षत्वादिचतुर्गुणनिर्देशः सर्वथा प्रशंसागुण इति गम्यते|
Adhikarana 4 leshakalpanAyAH lakShaNam (80) · Śloka 80
४|८०|
🔊 Audio coming soon
४ लेशकल्पना नाम,-अनुपदिष्टस्य विधेः कण्ठपाठेन यत्किञ्चिसूत्रावयवान्तरमाश्रित्यार्थः कल्प्यते| यथा-नात्र शास्त्रे कालमृत्योरकालमृत्योर्वा किञ्चिल्लक्षणं प्रणीतम्| तत्तु लेशतोऽनुमीयते| कथमिति, यदा हि कालनियतमायुः क्षयं प्राप्तं भवति, तदा रिष्टमुत्पद्यते, न विषमापरिहारेण म्रियमाणे नरे| उक्तं हि (हृ.शा. अ. ५/६०)-"भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये| वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः||" इति| अत्र विकृतिविज्ञानीये गुरुमित्रद्विषश्चेति चशब्दोऽस्माच्छ्लोकात् पूर्वकाणि यानि चोत्तराणि तानि सर्वाण्येव समुच्चिनोति| समवर्ती हि कालो मृत्युरिष्टः, इतरस्त्वसमवर्ती| अत एव चाचष्टे तन्त्रान्तरे-"कालमृत्योरेव रिष्टानि नाकालमृत्योः|" इति स्वाभिप्रायप्रकाशनार्थं तन्त्रकारः शकटोदाहरणं दत्तवान्| यथा-सम एव वाह्यमानः स्वप्रमाणक्षये भङ्गपूर्वरूपाण्याप्नोति| तथा नियतायुषः स्वप्रमाणक्षये रिष्टसम्भवः| यथा च-स एवातिभारक्रान्तत्वाद्विषमपथाश्रितत्वादकालेऽपि क्षयमाप्नोति| तथा अनियतायुषो रिष्टोत्पत्तिमन्तरेण मृत्युः| यदि पुनरनियता युष्टोऽपि रिष्टोत्पत्तिपूर्वं मरणं कल्प्येत, तदा वार्षिके षाण्मासिके वाऽरिष्टे समुत्पन्ने शुभहेतुयोगान्न मृत्युः स्यात्| अनियतायुषो हि सम्यगुपचाराज्जीवितानुवृत्तिः| विषमहेत्वपरिहारान्मृत्युः| अत एवानियतायुषमधिकृत्य रसायनान्युपदिष्टनि| तद्योगादयं बहून्यपि वर्षाणि जीवेत्| नियतायुषस्तु कालमृत्युवर्षशतात् परेण जीवितं न निर्दिष्टम्| यथोक्तं शारीरे (हृ.शा.अ. ५/१३२)_'मरणं प्राणिनां दृष्टमायुःपुण्योभयक्षयात्| तयोरप्यक्षयाद् दृष्टं विषमापरिहारिणाम्||" इति| तस्मादविशेषोक्तावपि नियतायुष एवारिष्टोत्पत्तिपूर्वं मरणमिति निश्चितम्| तथा च "ऋतुचर्याध्यायं व्याख्याख्यास्यामः|" (हृ.सू. अ.३) इति प्रतिज्ञायां षडृतुविशेषे प्रतिपत्तिर्भवति| न तु "ऋतुस्तु द्वादश निशाः" (हृ.शा. अ.१/२६) अस्य ऋतोरिति|
Adhikarana 5 vidyAkalpanAyAH lakShaNam (80) · Śloka 80
५|८०|
🔊 Audio coming soon
५ विद्याकल्पना नाम,-यथा सर्वविद्यानुगतार्थनिर्देशे शास्त्रकारस्य सर्वविद्यास्थानानुप्रवेश इह शास्त्रे हित इति वचनाद्विनाऽपीष्यते| तत्र "आर्द्रसन्तानतात्यागः" (हृ.सू. अ. २/४५) इत्यादिना वाक्येन बुद्धिवचनविषय अध्यात्मविद्यासङ्ग्रह इङ्ग्यते| "अर्चयेद्देवगोविप्र" (हृ.सू. अ. २/२३) इत्यादिना धर्मशास्त्रोपदेशसङ्ग्रहः| तथा "जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः|" (हृ.उ. अ. ३५/२) इत्यादिना पदव्युत्पादनान्निरुक्तकरणाच्च शब्दविद्याया निरक्तेश्चोपसङ्ग्रहः| "साधकेऽहनि" (हृ.शा. अ. १/७३) सूतिकां गृहं प्रवेशयेत्| तथा-"भरणीकृत्तिकाश्लेषापूर्वार्द्रापितृनैर्रूते|" इति ज्योतिःशास्त्रोपरोधः| विचित्रभूषितशास्त्रस्योत्प्रेक्षणीयम्|
Adhikarana 6 BkShyakalpanAyAH lakShaNam (80) · Śloka 80
६|८०|
🔊 Audio coming soon
६ भक्ष्यकल्पना नाम,-"एतत्तदमृतं साक्षात्" (हृ.उ. अ. ४०/७५) इत्यादि|
Adhikarana 7 Aj~jAkalpanAyAH lakShaNam (80) · Śloka 80
७|८०|
🔊 Audio coming soon
७ आज्ञाकल्पना नाम,-यस्यानुष्ठाने हेतुः सम्यगवन्तुं न शक्यः, केवलमाप्तवचनं प्रमाणीकृत्यानुष्ठीयते| यथा-"नछिन्द्यात्तृणम्, न भुवं लिखेत्|" इति| न ह्यत्र हेतुर्वक्तुं शक्यते, एतदनुष्ठेयमिति|
Adhikarana saptavidhA kalpanAviMshatyAshrayA (80) · Śloka 80
इयम्१|८०|
🔊 Audio coming soon
इयं सप्तविधा कल्पना विंशत्याश्रया भवति| यथा-१ आदिलोपः, २ मध्यलोपः, ३ अन्तलोपः, ४ उभयपदलोपः, ५ आदिमध्यान्तलोपः, ६ वर्णोपजननम्, ७ ऋषिक्लिष्टम्, ८ तन्त्रशीलम्, ९ तन्त्रसंज्ञा, १० प्राकृतम्, ११ समानतन्त्रप्रत्ययः, १२ परतन्त्रप्रत्ययः, १३ हेतुहेतुकधर्मः, १४ कार्यकारणधर्मः, १५ आद्यन्तविपर्ययः, १६ शब्दान्तरम्, १७,प्रत्ययः १८ उपनयः १९ सम्भवः २० विभवः, [इति|]
Adhikarana 1 Adilopasya lakShaNam (80) · Śloka 80
२|८०|
🔊 Audio coming soon
तत्र १ आदिलोपो [नाम],-यथा (हृ.सू. २|अ.६/३२)-"बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः|" इत्यत्रमांसशब्दलोपेन| तथा च (हृंइ. अ. १/१४)-"धारणोदीरणनिशा" इत्यादौ धारणं-वेगधारणम्, उदीरणं-वेगोदीरणमिति|
Adhikarana 2 madhyalopasya lakShaNam (80) · Śloka 80
२|८०|
🔊 Audio coming soon
२ मध्लोपो [नाम],- यथा(हृ.सू. अ. ५)-"द्रवद्रव्यविजाजानीयमध्यायं व्याख्यास्यामः|" इत्यत्र द्रवद्रव्यस्वरूप विज्ञानीयो द्रवद्रव्यविज्ञानीय इत्युक्तः, अनन्तरं "अन्नस्वरूपविज्ञानीयः" (हृ.सू. अ.६) इत्यत्र स्वरूपशब्दश्रवणात्|
Adhikarana 3 antalopasya lakShaNam (80) · Śloka 80
३|८०|
🔊 Audio coming soon
३ अन्तलोपो नाम,-यथा (हृ.शा. अ. ३/३७)-"कफं पुनः| गौर्यः स्निग्धाः शिराः शीता वहन्ते" इत्यत्रास्रशब्दस्य लोपो द्रष्टव्यः, पूर्वत्रास्रशब्दस्य प्रकृतत्वात्| यथोक्तम् (हृ.शा. अ.३/३६)-"तत्र श्यावारुणाः सूक्ष्माः पूर्णरिक्ताः क्षणात् सिराः| प्रस्पन्दिन्यश्च वातास्रम्" इति| एवमिहापि कफास्रं वहन्त इत्यनुमेयम्, तुल्यजातीयत्वात्|
Adhikarana 4 uBayapadalopasya lakShaNam (80) · Śloka 80
४|८०|
🔊 Audio coming soon
४ उभयपदलोपो [नाम],-यथा (हृ.शा. अ. ३/५७)-"आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्|" इति वचने 'मध्ये' "विधाहादम्लतां ततः|| पित्तमामाशयात्कुर्याच्च्यवमानं च्युतं पुनः|" 'अन्ते' अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम्||" इति| आदिशब्दश्रवणात् मध्यान्तशब्दावत्र लुप्तनिर्दिष्टौ द्रष्टव्यौ|
Adhikarana 5 AdimadhyAntalopasya lakShaNam (80) · Śloka 80
५|८०|
🔊 Audio coming soon
५ आदिमध्यान्तलोपो [नाम], यथा(हृ.शा. अ.३/५५)-"अन्नं कालेऽभ्यवहृतं" आदौ "कोष्ठं प्राणानिलाहृतम्|" मध्ये, अन्ते च "द्रवैः" इत्यादि|
Adhikarana 6 varNopajanasya lakShaNam (80) · Śloka 80
६|८०|
🔊 Audio coming soon
६ वर्णोपजननं नाम,- यत्रानुक्तो ग्रन्थे वर्ण आचार्येण पश्चाद् व्याख्याकाल उपजन्यार्थोऽभिधीयते| [यथा] (हृ.शा. अ. ३/३)-"तत्र खात्खानि देहेऽस्मिन् श्रोत्रं शब्दो विविक्तता|" तथा-"वातात्स्पर्शत्वगुच्छ्वासा वह्नेर्दृग्रूपपक्तयः||" 'भवन्ति' इति वर्णत्रयमुपजन्य व्याख्या करणीया| "आप्या जिह्वारसकलेदा घ्राणगन्धास्थि पार्थिवम्|" इति द्वयोर्भूतयोर्भवार्थे तद्धितप्रत्ययश्रवणात्| वाक्यशेषोऽप्ययमेवंप्राय एव|
Adhikarana 7 RuShikliShTasya lakShaNam (80) · Śloka 80
७|८०|
🔊 Audio coming soon
७ ऋषिक्लिष्टं नाम,-यदृषी ऋषिपुत्रो वाऽसमाहितचित्ततयाऽशक्त्या वा किञ्चित्पदजातम(जातं)भ्रष्टमुच्चारितवान् तथैव तल्लोके प्रयुञ्यते| यथा-'रोम लोम' इत्यादि|
Adhikarana 8 tantrashIlasya lakShaNam (80) · Śloka 80
८|८०|
🔊 Audio coming soon
८ तन्त्रशीलं नाम,-या तन्त्रकाराणां प्रकृतिःस्वभाव इत्यर्थः| यथा-किञ्चिच्छष्यानुग्रहार्थं विस्तीर्णं सङ्क्षिपन्ति, यथा (हृ.शा. अ. ३/१६)-"अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनखैः सह|" इति न तान्यङ्गुलिहस्तपादमणिबन्धादिविभागेन विस्तारितानि| किञ्चिद्विस्तारयन्ति, यथा-तत्रैवाङ्गविभागे सिरा विस्तारिताः (हृ.शा. अ. ३/३३)-"इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः|" इति वचनादिति|
Adhikarana 9 tantrasaMj~jAyAH lakShaNam (80) · Śloka 80
९|८०|
🔊 Audio coming soon
९ तन्त्रसंज्ञा नाम,-यत्कस्मिंश्चिदर्थे मध्ये व्याख्यायमाने स्वतन्त्रसिद्धोदाहरणं तत्प्रमाणार्थमुच्यते| यथा-नवज्वरे कषाया अपक्वेषु दोषेषु वर्जनीया उक्ताः, (हृ.चि. अ.१/३९)- "ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते| कषायो दोषशेषस्य पाचनः शमनोऽथवा||" इति विशेषवचनात्तत्र स्वरसादेः पञ्चविधस्य कषायस्य प्रतिषेधः प्रसक्तः| ततः स्वरन्त्रसंज्ञया विशेषः प्रतिषिध्यते (हृ.चि. अ. १/४०)-"तिक्तः पित्ते विशेषेण प्रयोज्यः, कटुकः कफे|" इत्यादि| तस्मात् स्वतन्त्रसंज्ञया तिक्तकटुकषयौ निषिद्धौ पञ्चविधया स्वरसादिकल्पनया|
Adhikarana 10 prAkRutasya lakShaNam (80) · Śloka 80
१०|८०|
🔊 Audio coming soon
१० प्राकृतं नाम,-"ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्|" (हृ.सू. अ. १५/२३) इत्यौषधाधिकारात् सैन्धवंलवणम्, न त्वश्वादिकम्||
Adhikarana 11 samAnatantrapratyayasya lakShaNam (80) · Śloka 80
११|८०|
🔊 Audio coming soon
११ समानतन्त्रप्रत्ययो नाम,-यत्साध्यस्य कस्यचिदर्थस्य साधनायानुपलभ्यमाने स्वन्त्रात् प्रत्यये समानेभ्यस्तन्त्रेभ्यः प्रत्यय इति| उदाहरणं यथा (हृ.सू. अ. २/३१)- "नीचलोमनखश्मश्रुः" इत्याचारेषूक्तम्| इयद्भिरियद्भिर्दिनैः केशनखश्मश्रुण्यवतार्य नीचलोमादिना भवितव्यमिति नोक्तम्| ततो व्याख्याकाराः क्षारपाणिप्रभृतयः प्रसिद्ध्या दशरात्रेण केशादिणां संहरणमिति निश्चिन्वन्ति| मुनिस्त्ववादीत् (च.सू. अ. ८/१८)-"त्रिः पक्षस्य केशश्मश्रुलोमनखान् संहारयेत्|" इति|
Adhikarana 12 paratantrapratyayasya lakShaNam (80) · Śloka 80
१२|८०|
🔊 Audio coming soon
१२ परतन्त्रप्रत्ययो नाम,-यस्यार्थस्य प्रसिद्धितो न स्वकीयमुदाहरणं शक्यमभिधातुं नाप्यन्येभ्यो भिषक्तन्त्रेभ्यः| ततस्तस्मिन् द्वये परतन्त्रादुदाहरणं कल्प्यते| यथा (हृ.सू. अ. १/१९)-"कालार्थकर्मणां योगो हीनमिथ्यातिमात्रकः| सम्यग्योगश्च विज्ञेयो रोगारोग्यैककारणम्||" इत्युक्तम्| योगस्य च लक्षणं नोक्तं तन्त्रे अन्यत्र वा भिषक्तन्त्रे| तत्र बौद्धतन्त्रप्रत्ययेन निश्चीयते-"स्वहेतुभ्यः शीतोष्णादिलक्षणेन कालस्योत्पत्तिरेव योगः|" इति|
Adhikarana 13 hetu hetukadharmasya lakShaNam (80) · Śloka 80
१३|८०|
🔊 Audio coming soon
१३ हेतुहेतुकधर्मौ नाम,-यो हेतुहेतुकेन धर्मो ज्ञायते| यथा-पित्तातिसारिणः पित्तलातिसेवनात् पित्तमुद्रिक्तं रक्तातिसाराय न चिरादस्य भविष्यतीत्यनुमीयते, समर्थस्य हेतोः स्वकार्यस्याव्यभिचारात्|
Adhikarana 14 kAryakAraNadharmasya lakShaNam (80) · Śloka 80
१४|८०|
🔊 Audio coming soon
१४ कार्यकारणधर्मो नाम,-यत्र कार्यसंज्ञया कारणं निर्दिश्यते कारणसंज्ञया वा कार्यम्, तत्र कार्यसंज्ञया तावत्कारणं निर्दिश्यते| यथा-दोषा अपि रोगशब्दं लभन्ते| तत्र दोषाः कारणम्, "सर्वेषामेव रोगाणां निदानं कुपिता मलाः|" (हृंइ. अ.१/१२) इति वचनात्| स चेदानीं दोषो रोग इति व्यपदिश्यमानः कारणे दोषे कार्यं रोग उपचरितो भवति| एवं कार्यं कारणसंज्ञया निर्दिश्यते|
Adhikarana 15 Adyantaviparyayasya lakShaNam (80) · Śloka 80
१५|८०|
🔊 Audio coming soon
१५ आद्यन्तविपर्ययो नाम,-यथा-अन्नस्वरूपविज्ञानं प्राप्तुमुज्झित्वा पानमेव प्रथममुक्तं द्रवद्रव्यविज्ञानं कुर्वता, तोयादीनां पञ्चानां वर्गाणामल्पवक्तव्यत्वात्| समुद्रोपमतया शास्त्रस्यानुपूर्वसुखावगाहनार्थम्, पूर्वं ह्यल्पं सुखेनावगाह्यते पश्चात्प्रभूतमिति न्यायात्|
Adhikarana 16 shabdAnyatvasya lakShaNam (80) · Śloka 80
१६|८०|
🔊 Audio coming soon
१६ शब्दान्यत्वं नाम, यदर्थं पर्यायशब्दं वर्णयन्ति शास्त्रकृतः| यथा (हृंइ. अ. १/१)-"रोगः पाप्मा ज्वरोव्याधिर्विकारो दुःखमामयः| यक्ष्मातङ्कगदाबाधाः शब्दाः पर्यायवाचिनः||' इत्यादि|
Adhikarana 17 pratyayadharmasya lakShaNam (80) · Śloka 80
१७|८०|
🔊 Audio coming soon
१७ प्रत्ययधर्मो नाम,-यो न च हेतुर्हेतुधर्मोपपत्तिमात्रेण च केनचिद्धेतुत्वेन व्यपदिश्यते| यथा-देवदानवगन्धर्वाद्युन्मादापस्मारादिविचित्रग्रहविकारा उक्ताः| यथोक्तम् (हृ.उ. अ.४/१३)-"फुल्लपद्मोपममुखं सौ-म्यदृष्टिमकोपनम्|" यावत् "अनिद्रमप्रधृष्यं च विद्याद्देववशीकृतम्||" इत्यादि| नचैते परमार्थतो हेतवः, किं तर्हि ? प्रज्ञापराधः| तथा चोक्तम् (हृ.उ. अ. ४/३)-"हेतुस्तदनुषक्तौ तु सद्यः पूर्वकृतोऽथवा| प्रज्ञापराधः सुतराम्" इति|
Adhikarana 18 upanayasya lakShaNam (80) · Śloka 80
१८|८०|
🔊 Audio coming soon
१८ उपनयो नाम,-सूत्रहेतुप्रस्तावेन यत्रान्यत्प्रकरणमुपनीयते| यथा-मात्राशितीये आहारमात्रालक्षणप्रस्तावे अतिमात्रभोजननिमित्ताया विसूचिकायाश्चिकित्सा उपनीता| मात्रायां हि विभज्यमानायामवश्यमूनातिमात्रेऽपि विभजनीये तदपेक्षया मात्रायाः सम्यक् प्रतिपादनसौकर्यात् तत्प्रस्तावेन च विसूचिकायाश्चिकित्सा|
Adhikarana 19 samBavasya lakShaNam (80) · Śloka 80
१९|८०|
🔊 Audio coming soon
१९ सम्भवो नाम,-यत्सूत्रं प्रकरणं वा विधीयमानमर्थस्य व्यापकत्वात् सकलेन शास्त्रेण व्याख्यायते| यथा (हृ.सू. अ. १/५)-"कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्| अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता||" इति| एतान्यष्टावङ्गानि सकलेन शास्त्रेणोपदिश्यन्त इत्याचार्यः प्रतिजानीते|
Adhikarana 20 viBavasya lakShaNam (80) · Śloka 80
२०|८०|
🔊 Audio coming soon
२० भङ्ग्या....विभवकल्पनाया श्चास्यायं विशेषः| अयं व्याख्याया विभवो भवति| स तु विनैव व्याख्यायाः पठ्यमान एवेति|
Adhikarana tAcCIlyAdIni 17 saptadasha (80) · Śloka 80
सप्ता दश१|८०|
🔊 Audio coming soon
सप्तदश ताच्छील्यादी[नी]त्युक्तम्| तद्यथा-१ ताच्छील्यम्, २ अवयवः, ३ विकारः, ४ सामीप्यम्, ५ भूयस्त्वम्, ६ प्रकारः, ७ गुणिगुणविभवः, ८ संसक्तता, ९ तद्धर्मता, १० स्थानम्, ११ तादर्थ्यम्, १२ साहचर्यम्, १३ कर्म, १४ गुणनिमित्तता, १५ चेष्टानिमित्तता, १६ मूलसंज्ञा, १७ तात्स्थ्यम्, इति|
Adhikarana 1 tAcCIlyasya lakShaNam (80) · Śloka 80
तत्र १........१|८०|
🔊 Audio coming soon
तत्र १ ताच्छील्यं नाम,-यत्केनचिदेव धर्मसादृश्येन युक्तो भावस्ताच्छील्यमुच्यते| यथा (हृंइ. अ. १५/१५)- "सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्| स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्|| कुपितोऽनिलः करोति|" इत्यन्ते न चाङनि स्वपन्ति| किं तर्हि ? देवदत्तः स्वपिति| तद्धर्मसादृश्यादङ्गानि स्वापशब्देनोच्यन्ते| तद्यथा-"पुरुषः सुप्तो न किञ्चिद्वेदयते| न चेतयते| तथाऽङ्गमपि यत्किञ्चिन्न वेदयते नखतोदादि| तत्सुप्तमिव सुपतमित्युच्यते|" [इति|]
Adhikarana 2 avayavasya lakShaNam (80) · Śloka 80
१|८०|
🔊 Audio coming soon
२ अवयवो नाम,-यत्रैकदेशोदाहरणे क्रियमाणेऽनुक्तोऽन्योऽपि तज्जातीयकोऽर्थो लभ्यते| यथा (हृ.चि. अ.१/३)_"लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति| स्वास्थ्यं क्षुत्तृड्रुचिः पक्तिर्बलमोजश्च जायते||" इत्यनेनैकदेशोदाहरणेन लङ्घनेन दोषक्षपणेन लाघवे सति स्वास्थ्याद्युत्पत्तिः| तत्प्रतिपक्षेण त्वलङ्घनेन दोषक्षपणे न जाते सत्यस्वास्थ्यादयोऽनुक्ता अपि लभ्यन्ते|
Adhikarana 3 vikArasya lakShaNam (80) · Śloka 80
३|८०|
🔊 Audio coming soon
३ विकारो नाम,-विपरीतक्रिया| यथा-विकारसंज्ञया प्रकृतिरपि लभ्यते| प्रकृतिसंज्ञया च विकारः| तत्र विकारसंज्ञया च प्रकृतिर्यथा (हृ.सू. अ. ६/११४)-"पुष्पे पत्रे फले नाले कन्दे च गुरुता क्रमात्|" [इति] शाकमधिकृत्योक्तम्| अत्र प्रकृतिः पाठाशूका(षा)दीनां पत्रादीनि| तानि हि पाकेन विक्रियमाणानि चावस्थान्तरं प्रतिपद्यमानानि शाकसंज्ञां लभन्ते| तदयं शास्त्रकारस्तेषां विकारसंज्ञां, यवादिमण्डदिसंज्ञाया यवादिकं चोक्तवान्|
Adhikarana 5 BUyastvasya lakShaNam (80) · Śloka 80
१|८०|
🔊 Audio coming soon
४ [समीप्यं नाम,-] ..................५ भूयस्त्वं नाम,-यदेकस्मिन् वर्तमानमाधिक्येन क्वचिल्लभ्यते| यथा तन्त्रे (च.सू. अ.२६/४२)-"अम्लो भक्तं रोचयति" इत्युक्तम्, न च मधुरादिरपि न रोचयतीति| कस्यचिच्चाम्लविद्वेषिणोऽम्लो रसो भक्तविद्वेषमेव कुर्यात्| तत्र भूयस्त्वमाश्रित्येदमुक्तम्-'अम्लो रोचयति|' कदाचित् कस्यचिद्वा नासौ रोचयेन्न तावता तन्न रोचनम्|
Adhikarana 6 prakArasya lakShaNam (80) · Śloka 80
६|८०|
🔊 Audio coming soon
६ प्रकारो नाम,-यो यस्य समानदर्मा स तस्य प्रकारः| यथा-"कण्ठमेरण्डनालेन स्पृशन् वमेत्|" इत्युक्तम्| न च तत्प्रकाराणां सुवर्चलाशतपुष्पादिनालानां न ग्रहणम्|
Adhikarana 7 guNigaNaviBavasya lakShaNam (80) · Śloka 80
७|८०|
🔊 Audio coming soon
७ गुणिगुणविभवो नाम,-क्वचित् गुणीनि गुणशब्देनोक्तानि| यस्मादाह (हृ.शा. अ. ३/६०)-"पार्थिवाः पार्थिवानेव" इति| न हि पार्थिवा गुणाः सन्ति केचित्, ये पठ्येरन्| गुणश्च गुणिवद्यथा (हृ.उ. अ. ३९/२३)-"मेधास्मृतिबलोपेता बभूवुरमितायुषः|" इति| अत्रायुर्गुणोपेतममितत्वम्| नायुषः परिमाणगुण आयुर्गुणेनैव शक्यः|
Adhikarana 8 saMsaktatAyAH lakShaNam (80) · Śloka 80
८|८०|
🔊 Audio coming soon
८ संसक्तता नाम,-यदेकस्य बहुभिः सम्बन्धः| यथाविद्यमानेष्वपि तत्रान्येषु सम्बन्धेषु तस्यैव व्यपदेशः क्रियते| यथा-मधुरस्कन्धनिर्देशेन माक्षिकादयो गुणिताः कषायादिरसोपेतो अपि मधुरप्रायत्वान्मधुरसंसक्ततया|
Adhikarana 9 taddharmatAyAH lakShaNam (80) · Śloka 80
९|८०|
🔊 Audio coming soon
९ तद्धर्मता नाम,-येन तथाभूतं सत्तद्धर्मतामासाद्य दर्शनात्तामेवाख्यां लभते| यथा (हृ.उ. अ. ४०/७६)-"विवर्जयेद्भिषक्पाशान् पाशान् वैवस्वतानिव|" इति| मारणधर्मो हि वैवस्वतपाशेन समानो दृष्ट इत्यतस्तेऽपि तथैवोक्ताः|
Adhikarana 10 sthAnasya lakShaNam (80) · Śloka 80
१०|८०|
🔊 Audio coming soon
१० स्थानं नाम,-यत्र स्थानिना स्थानं स्थानेन वा स्थानी व्यपदिश्यते| तत्र स्थानिना स्थानं यथा-कर्णनादः श्रोत्ररोग इत्युक्तः| न च श्रोत्रेन्द्रियस्यास्तिनादः, किं तर्हि ? तदधिष्ठानस्य कर्णस्य| तस्मादयं श्रोत्रेण स्थानिना कर्णमधिष्ठानमुक्तवान्| स्थानेन स्थानी यथा-जिह्वा रसं गृह्णाति| तत्र न जिह्वा रसं गृह्णाति, किं तर्हि ? रसना|
Adhikarana 11 tAdarthyasya lakShaNam (80) · Śloka 80
११|८०|
🔊 Audio coming soon
११ तादर्थ्यं नाम,-यत्प्रयोजनार्थं प्रवर्तते यो भावस्तेनैव व्यपदिश्यते| यथा (हृ.सू. अ. १५/१)-"मदनमधुकलम्बा" इत्यादीनि छर्दनानि,-छर्दनप्रयोजनानीत्यर्थः|
Adhikarana 12 sAhacaryasya lakShaNam (80) · Śloka 80
१२|८०|
🔊 Audio coming soon
१२ साहचर्यं नाम,-यो येन नित्यं सम्बन्ध उपलभ्यते, स तस्मात् सम्बन्धात्तमेव सम्बन्धिशब्दं लभते| तथा-'मथ्यमानाद् धूमं दृष्ट्वा ज्वलद्भासुरं वह्निद्रव्यमवश्यमभ्युत्थितो वह्निरित्येव|
Adhikarana 13 karmaNaH lakShaNam (80) · Śloka 80
१३|८०|
🔊 Audio coming soon
१३ कर्म नाम,-यत्र कर्मकर्मेति चोपचर्यते| यथोच्यते "मुनयः प्रशमं जग्मुः|" न चाग्रामस्थानीयः कश्चित्प्रशमोऽस्ति| किं तर्हि ? इन्द्रियाणां विषयेभ्यः केवलं शक्तिनियमः प्रशमः| अथ च गतिः-कर्मविषयेभ्यस्तिवन्द्रियाणां क्रियानिवृत्तिः| तदेव च कर्मेत्युक्तम्|
Adhikarana 14 guNanimittasya lakShaNam (80) · Śloka 80
१४||८०||
🔊 Audio coming soon
१४ गुणनिमित्तं नाम,-यत्कस्य विभूतिः प्रशंसादिका ख्याप्यते| "धर्म्यं यशस्यमायुष्यं लोकद्वपरायणम्| अनुमोदामहे ब्रह्मचर्यमेकान्तिनिर्मलम्||" (हृ.उ. अ. ४०/४) इति ब्रह्मचर्यस्य प्रशंसाविभूतिः ख्याप्यते| व्रह्मचर्यस्य हीमे गुणाः, नाब्रह्मचर्यस्येति|
Adhikarana 15 ceShTanimittasya lakShaNam (15) · Śloka 15
||१५||
🔊 Audio coming soon
१५ चेष्टानिमित्तं नाम,-यस्मिन्नाममात्रं कस्यचित् क्रियया भवति भावस्य| नात्र प्रस्पन्दक्रियेष्टा| यथा-"दीपवदस्य ज्ञानं ज्वलति|" इत्युच्यते| न च ज्ञानस्य प्रदीपस्येवार्चींषि सन्ति ऊर्ध्वगामीनि, दीपवद्वा सन्निकृष्टानि द्रव्यान्तराणि दहन्ति| रूपं वा स्पर्शं वा तैलादिकोपादानम्| किन्तु प्रकाशक्रियामात्रं परिगृह्य ज्वलतीति प्रशंसाकर्मणि क्रोधभयशोकलोभहर्षेर्ष्यामोहादिभिरुपहतं विज्ञानं मलोपहतदर्पणवदप्रकाशवृत्ति भवेत्|
Adhikarana 16 mUlasaMj~jAyAH lakShaNam (80) · Śloka 80
१६|८०|
🔊 Audio coming soon
१६ मूलसंज्ञा नाम,-या लोकेऽन्यस्मिन्नर्थे प्रसिद्धा तन्त्रे चान्यस्मिन् [अर्थे] निवेशिता| यथा (हृंइ. अ. १/२)-"निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा| सम्प्राप्तिश्च" इति| रूपं च लोके नीलपीतलोहितादि प्रसिद्धम्, स्वशास्त्रे संज्ञया तु रूपं-लिङ्गं लक्षणमिति|
Adhikarana 17 tAtsthyasya lakShaNam (80) · Śloka 80
१७|८०|
🔊 Audio coming soon
१७ तात्स्थ्यं नाम,-यदन्यस्यैवार्थस्य तत्स्थत्वादन्यस्यैव कल्प्यते| तद्यथा (हृ. नि. अ.१०/२३)-"बस्तिमेहनयोः शूलम्" इति| तत्र पुंसंस्थेन कारणेन बस्तिमेहनयोरिति कल्प्यते| चैतन्याभावे बस्तिमेहनयोः सतोरपि शूलाभावात् तत्प्रदेशस्थि तत्वात्तयोरित्युचर्यते|
Adhikarana tantradoShAH 15 pa~jcadasha (80) · Śloka 80
तथ१|८०|
🔊 Audio coming soon
तथा तन्त्रदोषैः पञ्चदशभिरप्रसिद्धशब्दादिभिर्वर्जितम्| [ तद्यथा-]१ अप्रसिद्धशब्दम्, २ दुःप्रणीतम्, ३ असङ्गतार्थम्, ४ असुख़ारोहि, ५ विरुद्धम्, ६ अतिविस्तृतम्, ७ अतिसंक्षिप्तम्, ८ अप्रयोजनम्, ९ भिन्नक्रमम्, १० संदिग्धम्, ११ पुनरुक्तम्, १२ निःप्रमाणकम्, १३ असमाप्तार्थम्, १४ अपा(न)र्थकम्, १५ व्याहतम्, [इति]|
Adhikarana 1 aprasiddhAshabdasya lakShaNam (80) · Śloka 80
तत्र१|८०|
🔊 Audio coming soon
तत्र १ अप्रसिद्धशब्दम् नाम,-यल्लोके नातीव प्रसिद्धम्| यथा-"उदक्यागमनलक्षणमसुखानाम्|" इति| यथा वा "आधारस्यासिपाणिधारेष्वकुशलयोगता|" इति| अस्यार्थः,-अकुनाम वृक्षः तस्य शलमिति|
Adhikarana 2 duHpraNItasya lakShaNam (80) · Śloka 80
१|८०|
🔊 Audio coming soon
२ दुःप्रणीतं नाम,- सूत्रभाष्यप्रयोजनरहितम्|
Adhikarana 3 asa~ggatAthaMsya lakShaNam (80) · Śloka 80
३|८०|
🔊 Audio coming soon
३ असङ्गतार्थं नाम,- यत्सूत्रेणासम्बद्धम्|
Adhikarana 4 asukhArohipadasya lakShaNam (80) · Śloka 80
४||८०||
🔊 Audio coming soon
४ असुख़ारोहि पदं नाम,-यत्पदसन्निवेशस्य विषमतया दुःख़ेनोच्चार्यते, चर्करीतादिप्रायम्| यथा-"धातर्यरिप्रदम्|" इति|
Adhikarana 5 viruddhasya lakShaNam (5) · Śloka 5
५||५||
🔊 Audio coming soon
५ विरुद्धं नाम,-यद् दृष्टान्तसिद्धान्तसमयैर्विरुद्धम्| यथा कश्चिद्वदेन्नित्यः पुरुषोऽकृतकत्वादिति हेतुः, ग़ट इति दृष्टान्तविरुद्धम्| तथा-मधुराम्ललवणाः कफं शमयन्ति, कटुतिक्तकषाया वातं जयन्ति, इति वैद्यकसिद्धान्तविरुद्ध मेतत्| समयविरुद्धं नाम,-यथा-यः समयः पूर्वाचार्यैस्तत्त्वदर्शिभिः कृतस्तं व्युत्क्रम्यागच्छति| यथा-"न लोष्टं विमृद्गीयात्, न तृणं छिन्द्यात्," इति| एतत् तत्त्वदर्शिभिरुक्तत्वाल्लोष्टमर्दनादि न क्रियते| न तु हेतुरत्रास्ति|
Adhikarana 6 ativistRutasya lakShaNam (6-80) · Śloka
🔊 Audio coming soon
६ अतिविस्तृतं नाम,-यथा-मधुरादिस्कन्धं ब्रुवन् यावन्ति मधुराणि जगति सन्ति मधुरप्रायाणि मधुरप्रभवाणि तान्यशेषाणि यद्यभिदधाति, तदाऽतिविस्तृतत्वं स्यात्|
Adhikarana 7 atisaMkShitpasya lakShaNam · Śloka
🔊 Audio coming soon
७ अतिसंक्षिप्तं नाम,-यथा-योगशतकप्रायम्| यथा वा-हेतुलिङ्गौषधोद्देश एव क्रियते, न तु तदवबोधकवाक्यानामिति शेषः|
Adhikarana 8 aprayojanasya lakShaNam (8-80) · Śloka
🔊 Audio coming soon
८ अप्रयोजनं नाम,-यथा (हृ.सू. अ. २/४८)-"इत्याचारः समासेन" इत्येतावद्यदि वदेत्, न तु ब्रूयात् "यं प्राप्नोति समाचरन्| आयुरारोग्यमैश्वर्यम्" इत्यादि, तदा न कश्चिदनुतिष्ठेदिति|
Adhikarana 9 Binnakramasya lakShaNam (80) · Śloka 80
९|८०|
🔊 Audio coming soon
९ भिन्नक्रमं नाम,-पूर्वं येनानुक्रमेणोक्तं न तेनैव निर्दिश्यते प्रयोजनान्तरासम्भवेऽपि| यथा-वातपित्तकफानुद्दिश्य "तत्र रूक्षो लघुः (हृ.सू. अ.१/११) इत्यादौ वातगुणनिर्देशमकृत्वैव पित्तस्य विदधीत| एवं क्रमो भिन्नो भवेत्
Adhikarana 10 saMdigdhasya lakShaNam (80) · Śloka 80
१०|८०|
🔊 Audio coming soon
१० संदिग्धं नाम,-यथा-'किमकालमृत्युरस्ति उतनास्ति ?" इत्युभयत्र हेत्वाभासपरिग्रहात् संशयः|
Adhikarana 11 punaruktasya lakShaNam (80) · Śloka 80
११|८०|
🔊 Audio coming soon
११ पुनरुक्तं नाम,-योऽर्थ उक्तोऽपि पुनरुच्यते|
Adhikarana 12 niHpramANasya lakShaNam (80) · Śloka 80
१२|८०|
🔊 Audio coming soon
१२ निःप्रमाणं नाम,-यथा (हृ.चि. अ. १/४६)-"पाक्यं शीतकषायं वा मुस्तापर्पटकम्" इति| .........
Adhikarana 13 asamAptArthasya lakShaNam (80) · Śloka 80
१३|८०|
🔊 Audio coming soon
१३ [असमाप्तार्थं नाम,-]............अत्र तावदुच्यते| परतोऽपि चेदित्येतत्ततः समाप्तार्थत्वान्न ज्ञायते किमनेन कार्यमिति|
Adhikarana 14 anarthakasya lakShaNam (1) · Śloka 80
१|८०|
🔊 Audio coming soon
१४ अनर्थकं नाम,-यदन्यार्थेनापि पदेनापगताभिधेयम्||१|
Adhikarana 15 vyAhatasya lakShaNam (80) · Śloka 80
१५||८०||
🔊 Audio coming soon
१५ व्याहतं नाम,-यथा-पूर्वया वाक्ययुक्त्याऽपरा व्याहन्यते, अपरया पूर्वा वा| यथा-"अनास्थाप्या मेहिनः" (हृ.सू. अ. १९/४) इत्युक्त्वा पुनरास्थापनमनुजज्ञे| मुस्तादेर्निर्यूहे पपाठ (हृ.क. अ. ४/४०)-"वातासृक्शोफमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम्|" इत्यादि| तदत्र विधिप्रतिषेधयोः परस्परविरोधाद्व्याहतत्वम्| अत्र समाधानार्थं विपुलमतय एवमभिदधुः,-प्रमेहिणमास्थाप्यनिषेधाद्बस्तिकल्पे पुनरनुज्ञानात् तन्त्रकृतोऽभिप्रायविशेष ईदृगनुमीयते,-मेहिनो वातस्य प्रबलत्वेन बस्तिमन्तरेण नान्यस्तथाविध उपक्रमोऽति, तस्मात्तस्यावस्थातुरवशाद्योज्यो बस्तिः| यदाऽऽर्तमेहिनो दृश्यते पवनस्याल्पत्वे(त्वं), तदोपक्रमान्तरेणैव चिकित्सितुं शक्य इति, तदा बस्तिर्न योज्य इति प्रतिपादयितुमेवंविधो विन्यासः कृतः| इति-पूर्वोक्तैः, तन्त्रगुणैः-तन्त्रयुक्त्याख्यैर्युक्तम्, तन्त्रदोषैः-अप्रसिद्धशब्दादिभिर्वर्जितम्, अल्पसमुद्यमानां-स्तोकव्यायामानां, प्रीत्यर्थं पृथगेवेदं तन्त्रमुक्तम्| किम्भूतम् ? चिकित्साशास्त्रम्,-शतसहस्रं ब्रह्मप्रोक्तमग्निवेशादिप्रणितं वा, व्याप्य परितः-समन्तात्, स्थितम्| न चैतत् स्वमनीषानिरूपितमित्याह-विपुलेत्यादि| विपुलं-विस्तीर्णं समस्तवस्तुविषयं, अमलं निर्मलमविपर्यस्तं, विजानं येषां महामुनीनां-आत्रेयादीनां, त एवम्| ते च ते विपुलामलविज्ञानमहामुनयश्च| तेषां मतं अभिप्रायः, तदनु गच्छति-अनुवर्तते, यत्तत् विपुलामलविज्ञानमहामुनिमतानुगम्| ननु, सङ्ग्रहेणैव महामुनितं सङ्गृहीतम्| तत्किमनेन ? इत्याह-महासागर इव गम्भीरो यः सङ्ग्रहाख्यस्तस्योपलक्षणं-उपाय[न]भूतमेतत्| तस्मात् पृथगेतत् तन्त्रमुदितम्| अष्टावङ्गानि यस्य तदेवम्, अष्टाङ्गं च तद्वैद्यकं च, तदेव महोदधिरष्टाङ्गवैद्यकमहोदधिः, तस्य मन्थनमिव मन्थनं-पाठश्रवणचिन्तनादिभिर्विक्षोभणात्, तेन करणभूतेन| योऽष्टाङ्गसङ्ग्रह एव महानमृतराशिराप्तः| तस्मात्-अष्टाङ्गसङ्ग्रहमहामृतराशेः सकाशात्, पृथगेतत्तन्त्रमुदितम्| कीदृशम् ? अनल्पं फलं-आयुरारोग्यैश्वर्यसुखादिकं यस्य तदेवं, महाफलमित्यर्थः| तदयं भावः,-तन्त्रस्यास्याल्पत्वात् पाठादिषु स्वल्प एवायासो भवति महच्च फलं यतः स्यात्, ततोऽयमादरणीय इत्यर्थः| वसन्ततिलकं वृत्तम्|
Adhikarana idaM tantraM mantravatsaM prayoktavyam (81) · Śloka 81
इदमागमसिद्धत्वात्प्रत्यक्षफलदर्शनात्| मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथञ्चन||८१||
🔊 Audio coming soon
सं-इदं-अनन्तराभिहितं तन्त्रं, मन्त्रवदाचरितं संप्रयोक्तव्यम्| न कथञ्चिदपि मीमांस्यम्,-किमिदं स्याद्वा नवेति संशयो न कार्य इत्यर्थः| कस्मात् ? सुविशुद्धज्ञानेभ्यो महामुनिभ्य आगमेन शुद्धत्वात्, तथा प्रत्यक्षफलस्य-ज्वरचिकित्सादिकस्य, दर्शनात्|
Adhikarana kathattantrasya pAThAvabodhAnuShThAne Palam (82) · Śloka 82
दीर्ग़जीवितमारोग्यं धर्ममर्थं सुख़ं यशः| पाठावबोधानुष्ठानैरधिगच्छत्यतो ध्रुवम्||८२||
🔊 Audio coming soon
सं-अतः-अष्टाङ्गहृदयाख़्यात्तन्त्रात्, पाठावबोधानुष्ठानैः-रोगचिकित्सालक्षणेन, ध्रुवं-अवश्यं, दीर्ग़जीवितादीन् प्राप्नोति| न च तानेव प्राप्नोति| किं तर्हि ? परमपीत्याह-
Adhikarana etattantrapaThanasya Palam (83) · Śloka 83
एतत्पठन् सङ्ग्रहबोधशक्तः स्वभ्यस्तकर्मा भिषगप्रकम्प्यः| आकम्पयत्यन्यविशालतन्त्र- कृताभियोगान् यदि तन्न चित्रम्||८३||
🔊 Audio coming soon
सं-एतत्-अनन्तरोक्तमष्टाङ्गहृदयाख़्यं तन्त्रं, अधीयानः(पठन्)-कण्ठे दधत्, सङ्ग्रहबोधशक्तः-एतद्ग्रन्थार्थविशेष-शेषवस्त्ववबोधार्थम्| तस्मात् स्वभ्यस्तकर्मा अत एव पाठावबोधः| स्वभ्यस्तकर्मा-तस्य गुणशतयोगादष्टाङ्गहृदयस्य व्याख़्यानामन्येषां भेषजकर्मजेन सत्स्वभ्यस्तकर्मणा चिकित्सकः, अक्षोभ्यः सन्, अन्येषु-चरकादिषु, विशालतन्त्रेषु विहिताभियोगान् वैद्यान् यदि कम्पयति-क्षोभयति, तन्नाश्चर्यम्| उपजातिर्वृतम्| यथा चाकम्पयन्तेऽपरे भिषजस्तथा दर्शयन्नाह-
Adhikarana carakAdyekaikaragranthAByAse na samyakj~jAnam (84) · Śloka 84
यदि चरकमधीते तद् ध्रुवं सुश्रुतादि- प्रणिगदितगदानां नाममात्रेऽपि बाह्यः| अथ चरकविहीनः प्रक्रियायामखिन्नः किमिव खलु करोतु व्याधितानां वराकः||८४||
🔊 Audio coming soon
सं-यदि केवलं चरकं पठति ततस्तस्मात् सुश्रुतादिप्रणिगदितानां-वर्त्मसन्धिसितादिजानां रोगाणां, ध्रुवं संज्ञामात्रावबोधेऽपि बाह्यः| किन्तु हेतुलक्षणोपक्रमेणानभिज्ञ इत्यपिशब्दार्थः| अथ चरकविहीनः केवलं सुश्रुतपाठसाध्यप्रक्रियायां दोषदूष्यकालबलशरीरसत्त्वसात्म्यादिलक्षणायां, अखिन्नः सन् व्याधितानां-कासश्वासाद्यभिभूतानां, किमिव वराकः-अल्पधीः, विदधातु ? न किञ्चिद्विदधातुं शक्त इत्यर्थः| इह तु चरकोक्तप्रक्रियायाः प्रतिपादनात् सुश्रुतोक्तामयाभिधानाच्च तदध्येता रोगचिकित्सायां प्रवर्तमानो रोगशान्ति ध्रुवं विदधात्येव| मालिनीवृत्तम्|
Adhikarana yadyaBiniveshastArhi AdyaM vaidyakaM paThatu (85) · Śloka 85
अथैव मन्यसे यद्यपि तत्र तन्त्रमेतद्गुणम्, तथाऽप्यार्षतन्त्राध्ययने समाधानातिशय इति| तत इदमाह अभिनिवेशवशादभियुज्यते सुभणितेऽपि न यो दृढमूढकः| पठतु यत्नपरः पुरुषायुषं स खलु वैद्यकमाद्यमनिर्विदः||८५||
🔊 Audio coming soon
सं-अभिनिवेशो-वस्तुपक्षपातः, तस्य वशः-सामर्थ्यं, तस्मात्| अन्यत्र गुणदोषावभियोक्ता शोभनोक्तेऽपि तन्त्रे योनाभियुज्यते-ऋषिप्रणीते प्रीतिं करोति, स नर आदौ भवमाद्यं,-प्रथमप्रणीतं ब्रह्मोक्तं शतसाहस्रं, वैद्यकं यत्नपरस्तथा अनिर्वेदः सन् पुरुषायुषं-वर्षशतं, पठतु| किलास्मिन् काले हीयमानबुद्धिमेधाजीवितस्य पुरुषस्य श्रवणचिन्तनावबोधानुष्ठानानि सुदूरोत्सारितान्येवेत्यर्थः| पुरुषायुषमित्यचतुरादिसूत्रे निपातितम्| [ द्रुतविलम्बितं वृत्तम्| ]
Adhikarana aBidhAtRuvashAd kiM dravyashaktirvishiShyate? (86) · Śloka 86
अथैवं मन्यसे वक्तृत्वविशेषादवश्यमेवार्थातिशयो भवति| तस्मादाद्येषु सुकृतेष्वेवाभियोगो युक्तो, न त्विदानीन्तनकविकृतेष्विति, तदेतन्न वाच्यम्| कुतः ? इत्याह वाते पित्ते श्लेष्मशान्तौ च पथ्यं तैलं सर्पिर्माक्षिकं च क्रमेण| एतद् ब्रह्मा भाषतां ब्रहजो वा का निर्मन्त्रे वक्तृभेदोक्तिशक्तिः||८६||
🔊 Audio coming soon
सं-वाते तैलं पथ्यं, पित्ते घृतं पथ्यं, श्लेष्माक्षिकं पथ्यं, यथाक्रमम्| इत्येवं भगवान् ब्रह्मा भाषताम्, ब्रह्मजो वा-सनत्कुमारादिः, भाणतु| निर्मन्त्रे-अशब्दस्वभावे तैलादिके स्वाकरत उत्पन्ने, वातादिशमनशक्तेर्वक्तृविशेषोक्त्या शक्तिर्न काचिदित्यर्थः| शालिनीवृत्तम्|
Adhikarana ato mAdhyasthyamavalambyatAm (87) · Śloka 87
तदेवोपसंहरन् स्पष्टयति अभिधातृवशात् किं वा द्रव्यशक्तिर्विशिष्यते| अतो मत्सरमुत्सृज्य माध्यस्थ्यमवलम्ब्यताम्||८७||
🔊 Audio coming soon
स०-वक्तृवशात् किं तैलादेर्द्रव्यस्य शक्तिर्विशिष्यते ? अपि तु न कश्चिदेव विशेष उत्पद्यते| यतः स्वभावहेतुभ्य एव एतच्छक्तियुक्ताश्चोत्पन्नाः| अतो-विधातृशाद् द्रव्यशक्तिविशेषलक्षणाद्धेतोः, मत्सरमुत्सृज्य-विद्वेषं विहाय, माध्यस्थ्यमाश्रीयताम्| मध्यस्थो हि पुरुषः कालबुध्द्याद्यनुरूपमिदमेव शास्त्रमुपकारकं मम, न त्वतोऽपरं शास्त्रमुपकारकं बुद्ध्या परामर्श्याध्येष्यते, न त्वज्ञानाभिनिवेशाग्रहमेतीत्यर्थः|
Adhikarana RuShipraNIte prItiScet BeDAdyAH kiMna paThacante? tasmAtsuBAShitaM grAhrAm (88) · Śloka 88
ननु, किमस्माकमुपकारकत्वादिद्वारेण ऋषिप्रणीतमेव तन्त्रमनुरागवशादध्येष्यम् ? इत्याशङ्क्याह ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ| भेडाद्याः किं न पठ्यन्ते तस्माद्ग्राह्यं सुभाषितम्||८८||
🔊 Audio coming soon
स०-यदि ऋषिप्रणीते प्रीतिस्ततश्चरकसुश्रुताख्यौ हित्वा भेडजातूकर्ण्यादिमुनिप्रणीतानि शास्त्राणि किमिति न पठ्यन्ते सर्वेणैव वैद्यवृन्देन| अपि तु सुभाषितप्रियतया चरकसुश्रुतौ बाहुल्येन यथा पठ्येते, न तथा भेडादयः| तस्मात्स्थितमेतत् सुभाषितं ग्राह्यम्, न तु मुनिप्रणीतमेव तन्त्रम्| अतश्चरकसुश्रुतवदनार्षमपीदं गुणवत्त्वान्मतिमद्भिर्ग्राह्यमेव|
Adhikarana sarvAyurvedasArabhUtametat hRudayaM kRutvA yacchubhaM prAptaM tena jagataH shubhamastu (89-40) · Śloka 40
हृदय हृदयमेतत्सर्वायुर्वेदवाङ्मयपयोधेः| कृत्वा यच्छुभमाप्तं शुभमस्तु परं ततो जगतः||८९|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर- चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर- स्थाने वाजीकरणविधिर्नाम चत्वा- रिंशोऽध्यायः||४०||
🔊 Audio coming soon
सं-एतत्-हृदयाख़्यं तन्त्रं, हृदयमिव| कस्य ? सर्वायुर्वेदवाङ्मयपयोधेः| यथा हृदयं शरीरस्यैकदेशमपि दशभिर्मूलसिराभिः सकलं कायं व्याप्नोति, तथेदमपि षड्भिः स्थानैः सकलमष्टाङ्गायुर्वेदवाङ्मयं व्याप्य स्थितमिति साधर्म्यात्| तदेवमीदृशं हृदयं कृत्वा-विधाय, यत्कल्याणं परं-श्रेष्ठं, प्राप्तं [ ततः- ] तस्माच्छुभात्, जगतः-भुवनस्य, मङ्गलं भवत्विति| आर्या| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय- टीकायां सर्वाङ्गसुन्दराख़्यायां षष्ठे उत्तरस्थाने वाजीकरण- विधिर्नाम चत्वारिंशोऽध्यायः समाप्तः|| ४०|| इति वाजीकरणमष्टममङ्गं समाप्तं|