Adhikarana atha CardihRudrogatRuShNAcikitsitannAmAShTamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो छर्दिहृद्रोगतृष्णाचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तं छर्द्यादिकस्य चिकित्साप्रदर्शनार्थमध्यायारम्भः||१||
Adhikarana la~gghanam (2) · Śloka 2
आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं यतः|
लङ्घनं प्रागृते वायोः .....................||२||
सर्वासु छर्दिषु प्रथमं सर्वं लङ्घनमिष्यते| वायुप्रभवां छर्दिं वर्जयित्वा| यतः प्रायेण छर्दय आमाशये यो दोषाणामुत्क्लेशः तत्प्राभवाः||२||
Adhikarana Sodhanam (3) · Śloka 3
.........................वमनं तत्र योजयेत्|
बलिनो बहुदोषस्य लभतः प्रततं बहु|
ततो विरेकं क्रमशो हृद्यं मद्यं फलाम्बुभिः|
क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः|
शमनं चौषधं रूक्षदुर्बलस्य तदेव तु||३||
वमनं तत्रेत्यादिनाऽवस्थाविशेषेषु लङ्घनविशेषा उच्यन्ते| तत इति वमने योजिते| स हीति विरेकैः| रूक्षदुर्बलस्य तदेव शमनमेव| न तु बलिन उक्तं शोधनम्| बलवतस्तु||३||
Adhikarana annam (4) · Śloka 4
परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते|
उपवासस्तथा यूषा रसाः काम्बलिकाः खडाः|
शाकानि लेहा भोज्यानि रागषाडवपानकाः|
भक्ष्याः शुष्काः विचित्राश्च फलानि स्नानघर्षणम्|
गन्धाः सुगन्धयो गन्धफलपुष्पान्नपानजाः|
भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम्||४||
परिशुष्कं द्रवरहितम्| रसादीनां लक्षणं कृतान्न उक्तम्| घर्षणं येन चूर्णेनाङ्गमुद्घृष्यते| गन्धाः सुगन्धयः सुरभय एव गन्धादिजाः| गन्धशब्देन गन्धद्रव्याण्युच्यन्ते||४||
Adhikarana vAtajAyAM CardyAm (5) · Śloka 5
हन्ति मारुतजां छर्दिं सर्पिः पीतं ससैन्धवम्|
किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम्|
व्योषं त्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना|
सशुण्ठीदधिधान्येन पीतं तुल्याम्बु वा पयः|
व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः|
स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम्|
कोष्णं सलवणं चात्र हितं स्नेहविरेचनम्||५||
वातजां छर्दिं ससैन्धवं सर्पिर्हन्ति| तद्धि सकासादिकां छर्दिं विशेषेण हन्ति| दाडिमक्वाथेन सशुण्ठ्यादिकेन सर्पिः| तुल्याम्बु वा पयः पीतं मारुतजां छर्दिं हन्ति| व्यक्तं प्रभूतं सैन्धवं सर्पिश्च यस्मिन् वैष्किरे रसे| कोष्णं सलवणं चेति भोजनविशेषणम्| अत्र च वातजायां छर्द्यां स्नेहविरेचनं हितम्||५||
Adhikarana pittajAyAM CardyAm (6) · Śloka 6
पित्तजायां विरेकार्थः द्राक्षेक्षुस्वरसैस्त्रिवृत्|
सर्पिर्वा तैल्वकं योज्यं वृद्धञ्च श्लेष्मधामगम्|
ऊर्ध्वमेव हरेत्पित्तं स्वादुतिक्तैर्विशुद्धिमान्|
पिबेन्मन्थं यवागूं वा लाजैः समधुशर्करैः|
मुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम्||६||
पित्तजायां सुबोधम्| वृद्धं श्लेष्मस्थानाश्रितं स्वादुभिस्तिक्तैश्चौषधैः पित्तमूर्ध्वमेव हरेद्वामयेदेव न तु विरेचयेत्| यश्चैवं विशुद्धः स तदहर्लाजैः समधुशर्करैर्मन्थं यवागूं वा पिबेत्| सुबोधम्||६||
Adhikarana pittajAyAM pAnaviSeShaH (7) · Śloka 7
मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत्|
मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम्|
द्राक्षारसं रसं चेक्षोगुडूच्यम्बु पयोऽपि वा||७||
तप्तमृल्लोष्टैस्तापयित्वा शीतीकृतम्| मुद्गादिभिर्वा सह निशां स्थितं सलिलं द्वितीयोऽह्नि पेयम्||७||
Adhikarana jambvAmrAdikaShAyaH (8) · Śloka 8
जम्ब्वाम्र्पल्लवोशीरबटाश्वत्थाङ्कुरोद्भवः|
क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति|
छर्दिं ज्वरमतीसारं मूर्च्छां तृष्णां च दुर्जयाम्||८||
जम्ब्वाम्रादिभिश्च क्वाथो वा शीतकषायो वा पीतः छर्द्यादीन् विनियच्छति नाशयति||८||
Adhikarana mudgadalAmbupAnam (9) · Śloka 9
धात्रीरसेन शीतं वा पिबेन्मुद्गदलाम्बु वा||९||
Adhikarana kolAdilehAH (10) · Śloka 10
कोलमज्जासितालाजमाक्षिकाविट्कणाञ्जनम्|
कोलास्थिमज्जास्रोतोजलाजोत्पलरजांसि वा|
लिह्यात्क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा||१०||
Adhikarana SItAmbunA peyam (11) · Śloka 11
पिबेच्छीताम्बुना शालिस्वर्णगैरिकजं रजः|
पिष्टं वा चन्दनं द्राक्षामांसी सेव्याम्बुगैरिकम्||११||
एकोऽपि प्रयोगः क्षौद्रेण द्वितीयेऽपि| सुबोधम्| चन्दनादिकं पिष्टं शीताम्बुना पिबेत्||११||
Adhikarana madhUkAdipeyAni (12) · Śloka 12
शालितण्डुलतोयेन पिबेद्वा ससितामधु|
मधूकमधुकद्राक्षाकमलामलकाम्बुदम्|
सशारिवापरूषाक्षं मूर्वां वा मक्षिकान्विताम्|
मधुकं सात्मगुप्तं वा शीतं धात्रीरसेन वा||१२||
मधूकादिकं ससितामधु शालितण्डुलप्रक्षालनाम्बुना मूर्वायाः समाक्षिकः प्रयोगः| मधुकं सात्मगुप्तं मक्षिकान्विताम्| शीतं चन्दनं धात्रीफलरसेन||१२||
Adhikarana kaPajAyAM vamanopavAsau (13) · Śloka 13
कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः|
युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत्||१३||
निम्बादिरसयुक्तेन कोष्णतोयेन कफजायां छर्दां वमेत्| दुर्बलस्योपवासो न वमनम्||१३||
Adhikarana sauShadhamannam (14) · Śloka 14
आरग्वधादेर्निर्यूहं शीतं क्षौद्रयुतं पिबेत्|
त्रिफलागणचव्याद्वा पेयां पत्रैः करञ्जजैः|
मन्थान्यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः|
कफघ्नमन्नं हृद्यञ्च रागाः सार्जकभूस्तृणाः||१४||
आरग्वधादेर्निर्यूहः कषायः सुशीतः| त्रिफलादिकानां निर्यूहः| करञ्जपत्रैः पेया छार्दिघ्नान्यौषधानि| जालाम्लबदरदाडिमयवषष्टिकमातुलुङ्गसेव्यानि| जब्वाम्रपल्लवानि च वमिनिग्रहणानि मृत्स्ना च| एषां क्वाथेन यवाः शुष्काः शुष्काः भावयन्ते| तैः सक्तवः क्रियन्ते| आर्जकं कुठेरकम्| सूक्ष्मैः पत्रैर्भूस्तृणम्||१४||
Adhikarana vividhAH lehAH (15) · Śloka 15
लीढं मनःशिलाकृष्णमरिचं बीजपूरकात्|
स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत्|
समुस्तां मधुना शृङ्गं कोलाम्लं वा सजाम्बवम्|
तद्वद्विडङ्गत्रिफलाक्रिमिघ्नपरिपेलवम्|
तद्वद्दुरालभां खादेत् कपित्थं त्र्यूषणेन वा||१५||
मनःशिलादिकं कपित्थबीजपूरस्वरसमाक्षिकैः| कोलाम्लं सजाम्बवं मधुना| तद्वदिति मधुना विडङ्गं त्रिफला चैकः प्रयोगः| द्वितीयो विडङ्गः परिवेलवाभ्याम्| दुरालभां तद्वदिति मधुना| त्र्यूषणेन सह कपित्थं खादेत्||१५||
Adhikarana dviShTArthajA krimijA ca CardiH (16) · Śloka 16
अनुकूलोपचारेण याति द्विष्टार्थजा शमम्|
क्रिमिजा क्रिमिहृद्रोगगदितैश्च भिषग्जितैः||१६||
सुबोधम्||१६||
Adhikarana pariSiShTASCardayaH (17) · Śloka 17
यथास्वं परिशिष्टाश्च तत्कृताश्च तथामयाः||१७||
परिशेषाः छर्दयस्तृष्णामदौर्हृदजास्ता यथास्वं वाताद्यौषधेन च शमं यान्ति| तत्कृतास्तृष्णा छर्द्यादिकृता आमया यथास्वमौषधैः शमं यान्ति||१७||
Adhikarana CardistvarayA jeyA (18) · Śloka 18
त्वरमाणो जयेच्छर्दि प्रसक्तामनुबन्धिनीम्|
कोष्ठाश्रयमहामर्मपीडकरतरा हि सा||१८||
प्रसक्तां गृहीतानुबन्धां छर्दिं त्वरमाणो जयेद्यतः सा च्छर्दिर्महामर्मणो हृदयस्य कोष्ठाश्रयत्वात् पीडाकरतरा भवति||१८||
Adhikarana ativamathau shIghramupakramAH (19) · Śloka 19
न चान्नेन विना कायस्तन्मयो वर्ततेऽपि च|
धातुक्षयोऽतिवमथौ समीरणसमीरणात्|
नियतं जायते तस्माद्द्रुतं तत्र प्रयोजयेत्|
प्रच्छर्दनातियोगोक्तं क्रमस्तम्भनबृंहणम्|
सर्पिर्गुडान्रसान् क्षीरं घृतं कल्याणजीवनम्|
धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः||१९||
अन्नस्य च वमनात्तन्मयः कायो न च वर्तते| अपि चेति समुच्चये| सुबोधम्| तत्र वमथौ वमनातियोगोक्तं क्रमं दृतं शीघ्रं योजयेत्| सुबोधम्||१९||
Adhikarana hRudrogacikitsitam tatra vAtaje tailam (20) · Śloka 20
हृद्रोगं वातजे तैलं मस्तुसौवीरतक्रवत्|
पिबेत्सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत्|
तैलं च लवणैः सिद्धं समूत्राम्लं तथागुणम्||२०||
हृद्रोग इत्यादिना हृद्रोगचिकित्सा| वातजे मस्त्वादियुक्तं तैलं पिबेत्| तच्च गुल्मादिजिद्भवति| गोमूत्रेणाम्लेन च काञ्जिकादिना सर्वैश्च लवणैः पक्वं पूर्वगुणम्| पृथक्सेहसमं कुर्यात्| पञ्चप्रभृति तु द्रवम्||२०||
Adhikarana bilvAdi tailam (21) · Śloka 21
बिल्वं रास्नां यवान् कोलं देवदारू पुनर्नवम्|
कुलत्थान् पञ्चमूलञ्च पक्त्वा तस्मिञ्जले पचेत्|
तैलं तन्नावने पाने बस्तौ च विनियोजयेत्||२१||
बिल्वादीनां क्वाथे तैलचतुर्गुणे सिद्धं तैलं हृद्रोगवतो नावनादिषु प्रयोजयेत्||२१||
Adhikarana shuNThyAdighRutam (22) · Śloka 22
शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः|
पथ्यया च शृतं पार्श्वहृद्रुजा गुल्मजिद्घृतम्||२२||
शुण्ठ्यादिनां कल्केनानुक्तेनापि जलेन स्नेहसमेन पक्वं घृतं पार्श्वहृद्रुजा गुल्मजित्||२२||
Adhikarana sauvarcalAdighRutam (23) · Śloka 23
सौवर्चलस्य द्विपले पथ्या पञ्चाशदन्विते|
घृतस्य साधितः प्रस्थो हृद्रोगश्वासगुल्मनुत्||२३||
Adhikarana dADimAdicUrNam (24) · Śloka 24
दाडिमं कृष्णलवणं हिङ्गुशुण्ठ्यम्लवेतसम्|
अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम्||२४||
सुबोधम्||२४||
Adhikarana puShkarAdikalkaH (25) · Śloka 25
पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः|
पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः|
विकर्तिकाः शूलहराः .......................||२५||
पुष्करमूलादीनां कल्कः क्षारादियुतो विकर्तिका शूलहरः| विकर्तिका विकर्तनमिव जठरे||२५||
Adhikarana yavAnyAdikvAthaH (26) · Śloka 26
.....................क्वाथः कोष्णश्च तद्गुणः|
यवानीलवणक्षारवचाजाज्यौषधैः कृतः|
सपितदारूबीजाह्वपलाशशठिपौष्करैः||२६||
यवान्यादीनां पौष्करान्तानां क्वाथः कोष्णस्तद्गुणाः||२६||
Adhikarana pa~jcakolAdikalkaH (27) · Śloka 27
पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम्|
वारुणीकल्कितं भृष्टं यमके लवणाचितम्|
हृत्पार्श्वयोनिशूलेषु खादेत् गुल्मोदरेषु च||२७||
Adhikarana upakramAntaram (28) · Śloka 28
स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च|
लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम्|
वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि|
सायामस्तम्भशूलाभे हृदि मारुतदूषिते|
क्रियैषा.................................||२८||
Adhikarana hRuddravAyAmapramohe viSeShaH (29) · Śloka 29
............सद्रवायामप्रमोहे तु हिता रसः|
स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः|
बलात्तैलं सहृद्रोगी पिबेद्वा सुकुमारकम्|
यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम्|
रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः|
भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत्|
दधिपादं तथाम्लैश्च लाभतः स निषेवितः|
तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः||२९||
सुबोधम्||२९||
Adhikarana tryUShaNAdighRutam (30) · Śloka 30
त्र्यूषणत्रिफलापाठामधूकं मधुकं त्रुटी|
पञ्चमूलं लघु बले मेदे ऋद्धिः शतावरी|
कण्डूकरीतामलकीजीवकं चाक्षसम्मितैः|
तैर्पचेत्सर्पिषः प्रस्थं दध्नः प्रथेन माहिषात्|
युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम्|
हृत्पाण्डुग्रहणीदोषकासश्वासहलीमकान्||३०||
त्र्यूषणादिकं सुबोधम्| तच्च सिद्धं तन्मधुना योज्यते||३०||
Adhikarana avasthAviSeShe pathyApathyaviSeShaH (31) · Śloka 31
दीप्तेऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम्|
क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम्|
एतान्येव च वर्ज्यानि हृद्रोगेषु चतुर्ष्वपि|
शेषेषु स्तम्भजाड्यामसंयुक्तेऽपि च वातिके|
कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत्क्रियाम्||३१||
Adhikarana paitte Sodhanam (32) · Śloka 32
पैत्ते द्राक्षेक्षुनिर्याससिताक्षौद्रपरूषकैः|
युक्तो विरेको हृद्यः स्यात्क्रमः शुद्धे च पित्तहा|
क्षतपित्तज्वरोक्तं च बाह्यन्तः परिमार्जनम्|
कट्वीमधुककल्कं च पिबेत् ससितमम्भसा||३२||
पैत्त इति हृद्रोगे| विरेकः कल्पे वक्ष्यमाणे द्राक्षानिर्यासादिभिर्युक्तो हृद्यः स्यात्| क्षतोक्तं पित्तज्वरोक्तं च| बाह्यपरिमार्जनमभ्यङ्गादि| अन्तःपरिशोधनं सुबोधम्||३२||
Adhikarana ghRutAni (33) · Śloka 33
श्रेयसीशर्कराद्राक्षाजीकर्षभकोत्पलैः|
बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम्|
सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम्|
प्रपौण्डरीकमधुकबिसग्रन्थिकशेरुकाः|
सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेत् घृतम्|
शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत्|
बस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम्||३३||
श्रेयस्यादिकल्कं सममाहिषक्षीरं माहिषं घृतम्| सुबोधम्| स्वादुवर्गो मधुरस्कन्धः| मधुयष्टीकल्कसाधितं सक्षौद्रं तैलं बस्तिः||३३||
Adhikarana kaPaje hRudroge (34) · Śloka 34
कफोद्भवे वमेत्स्विन्नः पिचुमन्दवचाम्भसा|
कुलत्थधन्वोत्थरसस्तीक्ष्णमद्ययवाशनः|
पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात्|
सैला यवानककणा यवक्षारात्सुखाम्बुना|
फलधान्याम्लकौलत्थयूषमात्रासवैस्तथा|
पुष्कराह्वाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्|
क्वाथे तथाऽभयाशुण्ठीमाद्रीपीतद्रुकट्फलात्|
क्वाथे रौहीतकाश्वत्थ खदिरोदुम्बरार्जुने|
सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः|
सखोदकानुपानः स्याल्लेहः कफविकारहा|
श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत्|
प्रयोजयेच्छिलाह्वं वा ब्राह्यं चात्र रसायनम्|
तथामलकलेहं वाप्राशं वाऽगस्त्यनिर्मितम्||३४||
कफोद्भवेतु हृद्रोगे स्विन्नः सन् वचादीनां चूर्णं सुखाम्बुफलधान्यादीनामन्यतमेन पिबेत्| एकः पुष्करादीनां क्वाथो द्वितीयोऽभयादीनाम्| माद्री अतिविषा| रौहीतकादिक्वाथे त्रिकटुत्रिवृच्चूर्णान्विते कृतो लेहः सखोदकानुपानस्य सतः श्लेष्मविकारहा| सुबोधम्| शिलाह्वब्राह्मौ रसायनविधी वक्ष्येते| आमलकलेहश्च्यवनप्राशः||३४||
Adhikarana AvasthikaM cikitsitam (35) · Śloka 35
स्याच्छूलं यस्य भुक्तेऽपि जीर्यत्यल्पं जरां गते|
शाम्येत् सकुष्ठकृमिजिल्लवणद्वयतिल्वकैः|
सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत्|
यस्य जीर्णेऽधिकं स्नेहैः सः विरेच्यः फलैः पुनः|
जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके|
प्रायोऽनिलो रुद्धगतिः कुप्यत्यामाशये यतः|
तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः|
कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये||३५||
यस्य भुक्तेऽपि शूलं जीर्यत्यन्ने मन्दीभवति जरां गते शाम्यति स पुरुषः कुष्ठादिभिश्चूर्णमुष्णाम्बुना पिबेत्| यस्य जीर्णे शूलमधिकं सः स्नेहैरेरण्डादिभिः| जीर्यत्यन्तेऽधिके शूले हरीतक्यादिभिर्विरेच्यः| सदाधिके शूले तीक्ष्णैर्मूलैर्विरेच्यः||३५||
Adhikarana tRuShNAcikitsitam tatrAdau cikitsAkramaH (36) · Śloka 36
तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते|
सर्वासु शीतो बाह्यन्तस्तथा शमनशोधनः||३६||
तृष्णास्वित्यादि सुबोधम्||३६||
Adhikarana siddhajalAni (pAnArthe) (37) · Śloka 37
दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम्|
निर्वापितं तप्तलोष्टकपालसिकतादिभिः|
सशर्करं वा क्वथितं पञ्चमूलेन वा जलम्||३७||
तप्तलोष्टादिभिर्निर्वापितं यत्र ते मग्नाः| दर्भपूर्वेण पञ्चमूलेन क्वथितं सशर्करम्||३७||
Adhikarana manthayavAgvAdiBojanam (38) · Śloka 38
दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः|
वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः|
यवागूः शालिभिस्तद्वत् कोद्रवैश्च चिरन्तनैः|
शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम्|
हिमाम्बुपरिषिक्तस्य पयसा ससितामधु|
रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः|
मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः||३८||
वाट्यो यवौदनः| शीतेनेत्यादि पयसो विशेषणम्| हिमाम्बुपरिषिक्तस्य पुरुषस्य ससिता मधु भोजनम्||३८||
Adhikarana nasyam (39) · Śloka 39
नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः|
नारीक्षीरेण वा घृष्टमुष्ट्रास्थि मसितं हितम्||३९||
शीतैरौषधैः सिद्धं क्षीरोद्भवं घृतं नस्यम्| इक्षुरसः केवलः एकः| सुबोधम्||३९||
Adhikarana gaNDUShAdyanye upacArAH (40) · Śloka 40
निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः|
दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः|
महासरिद्धृदादीनां दर्शनस्मरणादि च||४०||
निर्वापणाः संशमनाः| ज्वरघ्ना लेपसेकादयः| निरीहत्वमास्यासुखम्||४०||
Adhikarana vAtajatRuShNAyAm (41) · Śloka 41
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते|
रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च||४१||
सुबोधम्||४१||
Adhikarana pittajatRuShNAyAm (42) · Śloka 42
पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः|
तत्क्वाथोवा हिमस्तद्वच्छारिवादिगणाम्बु वा|
तद्विधैश्च गणैः शीतकषायान् ससितामधून्|
मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान्|
बीजपूरकमृद्वीकावटवेतसपल्लवान्|
मूलानि कुशकाशानां यष्ट्याह्वञ्च जले शृतम्|
अपाकशर्कराच्छिन्नरूहालोधाञ्जनाम्बु वा|
कार्पासीफलकल्कं वा ससितक्षीरभोजनः|
ज्वरोदितं वा द्राक्षादि पञ्चसाराम्बु वा पिबेत्||४२||
तदित्युदुम्बरपरामर्शः| तद्विधा गणाः सारिवादिसमाः दाहादिशमनाः| मधुरैरौषधैस्तद्वदिति शीतकषायान् ससितामधून्| क्षीरवृक्षैः वटादिभिः| बीजपूरपल्लवादीनां क्वाथः| सुबोधम्| अपाकशर्कराः कुम्भकारचुल्लीषत्पक्वलोषत्पक्वलोष्टानि| बालिशा शर्करेत्यन्ये| ज्वरोदितो द्राक्षादिः शीतकषायः| पञ्चसाराम्बु मधुख़र्जूरादिरक्तपित्तपठितम्||४२||
Adhikarana kaPajatRuShNAyAm (43) · Śloka 43
कफोद्भवायां वमनं निम्बप्रसववारिणा|
बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम्|
जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम्|
मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम्|
यवामं तीक्ष्णकवलनस्यलेहांश्च शीलयेत्||४३||
कफोद्भवायामित्यादि सुबोधम्| बिल्वादिसाधितं जलं पिबेत्| आढकी तुवरी||४३||
Adhikarana sannipAtajA kriyA (2) · Śloka 2
सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा|
त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः||२||
Adhikarana annAtyayajAyAm (1) · Śloka 1
अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित्||१||
Adhikarana SramajAyAm (2) · Śloka 2
तृषि श्रमान्मांसरसं मन्थं यवकोलजसक्तुभिः|
सर्वण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः||२||
Adhikarana SItasnAnajAyAm (1) · Śloka 1
शीतस्नानाच्च मध्वाम्बु पिबेत्तृड्वान् गुडाम्बु वा||१||
Adhikarana madyajAyAm (44) · Śloka 44
मद्यादर्धजलं मद्यं स्नातोऽम्ललवणैर्युतम्||४४||
सर्वैः सन्निपातेन आमाच्च या तृष्णा तस्यां तद्धन्त्री सन्निपातग़्न्यामग़्नी च क्रिया हिता| त्र्यूषणादिकं फलाम्लाद्यन्यतमेन वमनम्| अन्नात्ययादन्नस्याभावात्तृष्णा| कालविदिति ग्रीष्मादिके पित्तकफादिके वा| सर्वं पञ्चम्यन्तं तत्र हेतुर्विज्ञेयः| सुबोधम्||४४||
Adhikarana tRuShNAntarAsu kramaH (45) · Śloka 45
स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम्|
स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णन्मण्डं पिपासितः|
पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम्|
गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिख़ेत्|
क्षयजायां क्षयहितं सर्वं बृंहणमौषधम्|
कृशदुर्बलरूक्षाणां क्षीरं छागो रसोऽथवा|
क्षीरं च सौर्ध्ववातायां क्षयकासहरैः शृतम्||४५||
स्नेहेत्यादिना स्नेहादिसंस्कृतस्य तृष्युक्तम्| अजीर्णात् स्नेहात् पिपासित उणाम्बु पिबेत्| जीर्णान्मण्डम्| स्निग्धान्नं मांसान्न-क्षीरपेयादि| तदिति गुर्वाद्यन्नम्| उल्लिख़ेद्वमेत्||४५||
Adhikarana rogopasargajAyAM tRuShNAyAm (46) · Śloka 46
रोगोपसर्गजातायां धान्याम्बु ससितामधु|
पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया||४६||
रोगोपसर्गजातायां ससितामधुधान्याम्बुपानं सुबोधम्||४६||
Adhikarana tRuShNA tvarayA jeyA (47-8) · Śloka 8
तृष्णक्पूर्वामयक्षीणो न लभेत जलं यदि|
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं ततः|
सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुरः|
तस्याञ्जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम्||४७||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने छर्दिहृद्रोगतृष्णाचिकित्सितन्नामाष्टमोऽध्यायः||८||
तत्र ह्युपसर्गजातायां तृष्णगतितृट् सन् पूर्वामयेन क्षीणो यदुपसर्गात्तृडुत्पन्ना स यदि जलं न प्राप्नुयात् अवश्यं मरणं दीर्घरोगं वाऽप्नुयात्| अतस्तस्य तां तृषं शीघ्रमेव सात्म्यैरन्नपानादिभिर्जयेत्| सुबोधम्||४७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने अष्टमोऽध्यायः