Adhikarana atha madAtyayacikitsitannAma navamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो मदात्ययचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
क्रमप्राप्तं मदात्ययं निर्णेतुमध्याय आरभ्यते||१||
Adhikarana atha madAtyayacikitsitannAma navamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो मदात्ययचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
क्रमप्राप्तं मदात्ययं निर्णेतुमध्याय आरभ्यते||१||
Adhikarana madAtyaye doShajayakramaH (2) · Śloka 2
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्| कफस्थानानुपूर्व्या वा तुल्यदोषं मदात्यये| पित्तमारुतपर्यन्तः प्रायेणहि मदात्ययः||२||
🔊 Audio coming soon
सर्वस्य मदात्ययस्य त्रिदोषजत्वादुच्यते -यं दोषमित्यादि| यत्र पुनर्न कस्यचिदाधिक्यं सर्वे समाः तत्र कफस्थानानुपूर्व्या| आदौ कफः पश्चात् पित्तं ततो वायुः| अस्मिन् क्रमे युक्तिः -पित्तमारुतेत्यादि| सर्वस्मिन् मदात्यये कालक्रमेण पित्तमारुतावाधिकीभवतः| प्रथमं तु कफस्यैवाधिक्यम्||२||
Adhikarana madyapAne mAtrAdoShe tadeva samam (3) · Śloka 3
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते| समपीतेन तेनैव स मद्येनोपशाम्यति||३||
🔊 Audio coming soon
साम्याद्धीनपीतेन वा विपरीतपीतेन वाऽतिपीतेन वा मद्येन यो व्याधिरुपजायते स तेनैव सात्मेन पीतेनोपशाम्यति||३||
Adhikarana madye madyamevauShadham (4) · Śloka 4
मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः| तीक्ष्णादिभिर्गुणैयोगाद्विषान्तरमपेक्षते||४||
🔊 Audio coming soon
कथं येनैव रोग उत्पन्नस्तेनैव शाम्यतीत्याह - मद्यस्य विषसादृश्यात्| यथा विषं तीक्ष्णादिगुणयुतं तीक्ष्णादिगुणयुतेन विषेणैव शाम्यति तद्वन्मद्यमपि मद्येन| मद्यत्वं विषस्य विशेषः| यद्विषमुत्कृष्टैस्तीक्ष्णादिभिर्योगाद्विषान्तरं विजातीयं विषमपेक्षते| मद्यं पुनः स्वल्पत्वात्तीक्ष्णादीनां सजातीयेनैवोपशाम्यति||४||
Adhikarana madyasyauShadhatve upapattiH (5) · Śloka 5
तीक्ष्णोष्णेनातिमात्रेण पीतेनान्नविदाहिना| मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः| यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्| मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः| सुतीव्रा वेदना याश्च शिरस्यस्थिषु सन्धिषु| जीर्णाममद्यदोषस्य प्रकांक्षालाघवे सति| यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान्||५||
🔊 Audio coming soon
स्वभावत एव तीक्ष्णादिगुणवता मद्येनातिमात्रपीतेनान्नरसो विदग्धः क्षारगुणः सन् यान् मदादीन् कुर्यात् तान् मदादीन् काल उपयुक्तं विशिष्टमद्यमेव नाशयति| तथा मद्योत्क्लिष्टेन दोषेण श्लेष्मणा स्रोतःसु मारुतो रुद्धः सन् शिरःप्रभृतिषु याश्च वेदनाः कुर्यात्ता अपि मद्यमेव निहन्ति| कस्मिन् काल इत्याह - जीर्णाममद्यदोषस्य| आमा अभिनवा मद्यविकारा आममद्यदोषाः| जीर्णा आमदोषा यस्य| तथा प्रकांक्षायां मद्यविषयायां लाघवे तनुत्वे सति प्रयुक्तम्| किम्भूतं मद्यं निहन्तीत्याह- यौगिकं विधिवद्युक्तं च| दोषाद्यपेक्षया यदातुरस्य योगमर्हति तद्यौगिकम्| विधिस्त्वस्मिन्नेवाध्याये वक्ष्यते||५||
Adhikarana yuktyantara~jca (6) · Śloka 6
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः| मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्| तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः| सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्||६||
🔊 Audio coming soon
मद्योद्भवानां मद्येनैव शान्तेः प्रकारान्तरेण युक्तिरुच्यते- क्षारो हीत्यादि| प्रथमेन मद्येनान्नरसे क्षारतां गते रोगा उत्पद्यन्ते| क्षार-श्चाम्लोपसंहितः सन् माधुर्यं शीघ्रं याति| अम्लेषु च मद्यं श्रेष्ठ-मतस्तदेव विकारनाशनम्| तथा तीक्ष्णोष्णाद्यैः पुरा निदानस्थान-प्रोक्तैः दीपनाद्यैश्च दोषाणां विष्यन्दनात् स्रावणात्तदेव पथ्यम्| अस्य च पुरुषस्य सात्म्यत्वाद्धेतोस्तदेव परं धातुसाम्यकरम्||६||
Adhikarana pAnAtyayauShadhakAlaH (7) · Śloka 7
सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम्| जीर्यत्येतावत पानं कालेन विपथाश्रितम्||७||
🔊 Audio coming soon
यच्च मदात्ययोद्देशे औषधमुक्तं तत् सप्ताहमष्टरात्रं वा कुर्यात्| एतावता हि कालेन विमार्गस्थं मद्यं जीर्यति||७||
Adhikarana anubandhacikitsopakramaH (8) · Śloka 8
परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्| यथायथं प्रयुञ्जीत कृतपानात्ययौषधम्||८||
🔊 Audio coming soon
तत ऊर्ध्वं य एव रोगः कृतपानात्ययौषधमातुरमनुबध्नाति तस्यैव भेषजं कुर्यात्| यथायथमिति दोषाद्यपेक्षया स्वस्य प्रकरणे विहितम्||८||
Adhikarana vAtolbaNe pAnAtyaye cikitsA (9) · Śloka 9
तत्र वातोल्बणे मद्ये दद्यात्पिष्टकृतं युतम्| बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः| यवानीहपुषाजाजी व्योषत्रिलवणार्द्रकैः| शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः| उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः| आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः| गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः| आर्द्रिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः| सुरभिर्लवणा शीता निगदा वाच्छवारुणी| स्वरसो दाडिमात्क्वाथः पञ्चमूलात्कनीयसः| शुण्ठीधान्यात्तथामस्तुशुक्ताम्भोच्छाम्लकाञ्जिकम्| अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्| घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमात्| कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः| हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च||९||
🔊 Audio coming soon
तत्रेत्यादिना पानात्ययौषधं प्रदर्श्यते| शालिपिष्टं मद्यं बीजपूरकादिभिर्यथायोगं युक्तं मदात्यये वातोल्बणे दद्यात्| तत्र चोष्णादिगुणा मांसरसाः हिताः| सुबोधम्| पेश्यः खण्डाः| मृद्वादिगुणयुक्ता गोधूममाषविकृतीः चित्रा भक्ष्यादिनानेकप्रकाराः| तथा आर्द्रिकादिमिश्रा विकृतीः| कुल्माषोऽर्धस्विन्नानि सस्यानि| गर्भिणीरन्तरान्तरा युक्ताः| अच्छवारुणी सुरभित्वादिगुणयुक्ता हिता| सुबोधम्| शुण्ठीधान्यात् क्वाथः| धूपो घनः प्रभूतः| पङ्कः कर्दमः| प्रियश्च हिताः| कीदृग्भूताः कुचादिभी रमणियत्वेन याः श्लाघ्यन्ते| याश्च यौवनोष्णाङ्गयष्टयो हर्षेण प्रीत्या आलिङ्गने संवाहनेषु च युक्ताः अनुरूपाः||९||
Adhikarana pittolbaNe cikitsA (10) · Śloka 10
पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्| रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः| सुशीतं ससिता सक्तु योज्यं तादृक्च पानकम्| स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम्| शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः| सतीनमुद्गामलकपटोलीदाडिमैरपि||१०||
🔊 Audio coming soon
पित्तोल्बणे मदत्यये बहुना जलेन मिश्रितं शार्करं मधु मार्द्वीकं वा बहुजलं दाडिमादिजै रसैर्युक्तं उभयमपि योज्यम्| पानकमपि तादृक्सशर्करं ससक्तु च||१०||
Adhikarana kaPapittolbaNe cikitsA (11) · Śloka 11
कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदहवान्| पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरसमं युतम्| द्राक्षारसं वा संसर्गी तर्पणादिः परं हितम्| तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः||११||
🔊 Audio coming soon
कफपित्तमित्यादि सुबोधम्| संसर्गी शोधनक्रमाख्या तर्पणादिका हिता| तर्पणाः सक्तवः पेयास्थाने तत्र योज्याः न तु पेयाः| तथा शोधनसंसर्गीक्रमेणाग्निर्दीप्यते योऽग्निर्दोषशेषमन्नं च पचति||११||
Adhikarana kAsAdiyukte cikitsA (12) · Śloka 12
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च| तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि| गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम्| सनागरं योजयेत तित्तिरिप्रतिभोजनम्||१२||
🔊 Audio coming soon
कासादिके गुडूच्यादीनां क्वाथः सनागरः| भोजनं तित्तिरिणां रसादिप्रयुक्तेन||१२||
Adhikarana tRuShNAyukte cikitsA (13) · Śloka 13
तृष्यते चातिबलवद्वातपित्ते समुद्धते| दद्याद् द्राक्षारसं पानं शीतं दोषानुलोमनम्| जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च| तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्| मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्| पारस्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्||१३||
🔊 Audio coming soon
तृष्यत इति सुबोधम्| जीर्ण इति द्राक्षारसे| तृषि सत्यां अल्पमल्पं मद्यं पिबेत्| यदा पिबेत्तदा बहुनोदकेन युक्तं पिबेत्| मदं रक्षन् मुस्ताद्यम्बुना पर्णिनीचतुष्टयकृतं वा जलम्| केवलमेव वा स्वभावशीतम्||१३|
Adhikarana tRuShANAtivRuddhau tasya samprAptiH cikitsA ca (14) · Śloka 14
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते| यः शुष्कगलताल्वोष्ठौ जिह्वां निष्क्रम्य वेष्टते| पाययेत् कामतोऽम्भस्तं निशीतपवनाहतम्| कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः| पञ्चाम्लको मुखालेपः सद्यतृष्णां नियच्छति||१४||
🔊 Audio coming soon
मद्यातिपानादित्यादि सुबोधम्| कामतो यथेच्छं तमातुरमम्भः पययेद्रात्रौ प्रवातस्थितम्| कोलदिको मुखालेपो नाम्ना पञ्चाम्लकस्तृष्णां सद्यो नियच्छति||१४||
Adhikarana pAnAtyayajadAhasamprAptiH tasya saMprAptiH (15) · Śloka 15
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्च्छितः| दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति||१५||
🔊 Audio coming soon
पानकृत ऊष्मा पित्तरक्ताभ्यां मिश्रितः सन् त्वचं प्राप्तो घोरं दाहं प्रकुरुते| येन दाहेन विह्वलो येन मुह्यति||१५||
Adhikarana tatra cikitsAkramaH (16) · Śloka 16
तृष्णादाहपरीतस्य तस्य दाहज्वरापहम्| विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम्||१६||
🔊 Audio coming soon
तस्य तृष्णया दाहेन च परीतस्य यथोक्तं बाह्यान्तः परिमार्जनं दाहज्वरहरं विधिं कुर्वीत||१६||
Adhikarana candanasya dAhanASakatvam (17) · Śloka 17
प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः| स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः||१७||
🔊 Audio coming soon
मलयगिरौ ये चन्दनादयः पादपाः ते स्मर्यमाणा अपि दाहं घ्नन्ति| किम्भूताः प्रभातमारुतेन निशान्तवातेनोद्धूताः कम्पितास्तथा प्रालेयजलमवश्यायाम्भो ये वर्षन्ति ते तथाविधाः||१७||
Adhikarana muktAkalApAdInAM tRuDdAhAdinASanatvam (18) · Śloka 18
मुक्ताकलापाः शशिरश्मिशुभ्राः मृणालपद्मोत्पलपत्ररम्याः| सेकावगाहाः सजलाजलार्द्रा वाताः सुशीता मणयो महार्हाः| अलिञ्जराः पद्मपुटाभिधानाः प्रवालवर्णाहिमवारिपूर्णाः| परिस्रवन्तो दृतयोमहान्तः पुत्राः प्रियादर्पणमण्डलानि| नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिवस्पृशन्त्यः| मनोनुकूला हरिचन्दनार्द्रा स्तृड्दाहमूर्च्छादवथूञ्जयन्ति||१८||
🔊 Audio coming soon
मुक्ताकलापादयस्तृड्दाहादीन् जयन्ति| शशिरश्मिवद्धिमरश्मि किरणवच्छुभ्राः शुक्लाः| सेकावगाहाश्च मृणालादिभिश्चित्राः रम्याः ते च सजलाः बलाहकाः| तथा जलार्द्रा सिक्तापरा| महार्हा उत्कृष्टाः| अलिञ्जरा मणिका महामृन्मया जलाधाराः| ते च पक्वत्वात् प्रवालवर्णाः| महान्तश्च जलपूर्णत्वात् स्रवन्तो दृतयः| नेत्राण्येवोत्पलानि तान्येवायतत्वात् कर्णपूरा यासाम्| मध्यं वयः किञ्चिदिव स्पृषन्त्यः ईषद्विलसितनवयौवनाः| दवथुश्चक्षुरादिदाहः||१८||
Adhikarana sindhusmaraNAdikam (19) · Śloka 19
करेणुकाभिः परिवारितेन विक्षोभणं वरणयूथपेन| आस्फालनं शीकरवर्षणञ्च सिन्धोः स्मरन्दाहतृषोरगम्यः| सरिद्ध्रदानां हिमवद्यरीणाञ्चन्द्रोदयानां कमलाकराणाम्| मनोरमान्यापि कथा प्रवृत्तदाहञ्च तृष्णाञ्च निहन्ति सद्यः||१९||
🔊 Audio coming soon
तस्य सिन्धौस्तस्माद्वा सिन्धोर्वारणयूथपेन करियूथपतिना विक्षोभणं जलास्फालनं करेण च शीकरवर्षणं स्मरन् पुरुषो दाहतृष्णोरगम्यो भवति| किम्भूतेन करेणुकाभिर्वारणवधूभिः परिवारितेन| सरिद्ध्रदादीनां कथा अन्याश्च मनोरमाः कथाः सद्यो दाहं तृष्णाञ्च नियच्छन्ति| ह्रदः नदीप्रवाहेष्वन्तरान्तरा महान्तो दूरावगाढाः| शिशिरमन्दमन्दसञ्चारजलाशयाः| दरयो गिरिगुहाः||१९||
Adhikarana lAjAdyambupAnam (20) · Śloka 20
लाजोत्पलोशीरकुचन्दनाम्बुशीताभिधानं मधुशर्कराढ्यम्| मद्योद्भवां पित्तकृताञ्च तृष्णां सदाहशोषां विनिहन्ति पीतम्||२०||
🔊 Audio coming soon
लाजादिमिश्रमम्बु प्रभूतघृतशर्करं नाम्ना शीतं मद्यादितृष्णां निहन्ति||२०||
Adhikarana priya~ggvAdilepaH (21) · Śloka 21
प्रियङ्गुपत्रप्लवलोध्सेव्यह्रीबेरकलेयकनागपुष्पैः| शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः||२१||
🔊 Audio coming soon
प्रियङ्ग्वादिभिः शीताम्बुपिष्टैर्नवकर्परस्थैश्च सर्वशरीरलेपः तृड्दाहहा| पत्रं गन्धपत्रम्| सेव्यमुशीरम्| कर्परग्रहणं वाताहतियोग्यपात्रोपलक्षणार्थम्||२१||
Adhikarana sirAvyadhaH (22) · Śloka 22
अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः| शाख़ाश्रयां यथान्यायं रोहिणीं व्यध्येत्सिराम्||२२||
🔊 Audio coming soon
एवमप्यशाम्यति दाहे जाङ्गलै रसैः कृततृप्तेः पुरुषस्य रोहिणीं शुद्धशोणितवहां सिरां शाख़ाश्रायां व्यधयेत्| यथान्यायं सिराव्यधं शास्त्रोक्तेन विधानेन||२२||
Adhikarana kaPaje madAtyaye cikitsA tatra kramaH (23) · Śloka 23
उल्लेख़नोपवासाभ्यां विजयेत कफोल्बणम्||२३||
🔊 Audio coming soon
कफोल्बणं तु मदात्ययमुल्लेख़नोपवासाभ्यां जयेत्| उल्लेख़नं वमनम्| दोषाद्यपेक्षयैतयोरुपयोगः||२३||
Adhikarana jalapAnam (24) · Śloka 24
तृषितोऽम्बु पिबेच्छीतं मुस्तया पर्पटेन वा| स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा| सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते||२४||
🔊 Audio coming soon
तृषितश्च सन् कफमदात्ययी मुस्तया पर्पटकेन वा सिद्धमम्बु शीतं पिबेत्| स्थिरादीनामन्यतमेन वा सिद्धम्| एतच्चाम्बु सर्वत्र मदात्यये शुद्धस्य दोषशेषे शस्यते||२४||
Adhikarana nirAme~ariShTapAnAdi (25) · Śloka 25
निरामं क्षुधितं काले पाययेद्बहुमाक्षिकम्| शार्करं मधु वा जीर्णमरिष्टं शीधुमेव वा| रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्||२५||
🔊 Audio coming soon
निरामं मदात्ययिनं क्षुधितं रूक्षैरस्नेहैस्तर्पणैर्लाजसक्तुभिः संयुक्तं शार्करं वा जीर्णं Vवा मधु द्राक्षारसमरिष्टं सीधुमेव वा बहुना माक्षिकेण युक्तं काले पाययेत्| तच्च सर्वं यवानीनागराभ्यां समन्वितम्||२५||
Adhikarana yUShAdyannam (26) · Śloka 26
यूषेण यवगोधूमं तनुनाऽल्पेन भोजयेत्| उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा| शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम्| साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः||२६||
🔊 Audio coming soon
कौलत्थेन च यूषेण तनुना स्वल्पेन चोष्णादिगुणेनाल्पसर्पिषा यवगोधूमं भोजयेत्| रसैर्वा भोजयेत्| कैरित्याह- शुष्कमूलकच्छागकृतैर्धन्वचारिणां सम्बन्धिभिः||२६||
Adhikarana mAMsamadyAdyannam (27) · Śloka 27
प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्| बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम्| करीरकरमर्दादि रोचिष्णु बहुशावनम्| प्रव्यक्ताष्टाङ्गलवणंविकल्पितनिमर्दकम्| यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत्||२७||
🔊 Audio coming soon
तस्मिंश्च मदात्यये यथाग्नि मांसं भक्षयन्निगदं निर्दोषं माधवं पिबेत्| तच्च मांसं प्रभूतशुण्ठ्यादिकम्| आर्द्रकपेशिका आर्द्रकदलानि| बीजपूररसादिना चाम्लम्| भृष्टं घृते| नीरसवर्तितं निर्गतो रसोऽस्येति नीरसं वर्तितं वृत्ततां यातं परिशुष्कव्यञ्जनमिति यावत् - इति जेज्जटः| नीरसवर्तितं समचिक्कणपक्वम्| करीरादिकं रोचिष्णु बहु च शावनमुपदंशो यस्मिन् मांसे| तथा प्रव्यक्तं प्रभूतमष्टाङ्गाख्यं वक्ष्यमाणं लवणं यत्र| विकल्पिता विमर्दका येन मांसेन| मांसहरितकवर्गादिनानारसोऽच्छागोधूमवेष्टितो वटकाकृत्या छिन्नो निमर्दक उच्यते||२७||
Adhikarana aShTA~ggalavaNam (28) · Śloka 28
सितासौवर्चलाजाजितिन्तिणीकाम्लवेतसम्| त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्| स्रोतोविशुद्ध्यग्निकरं कफप्राये मदात्यये||२८||
🔊 Audio coming soon
सितादिकमष्टाङ्गं लवणाख़्यं कफप्राये मदात्यये हितं स्रोतोविशुद्ध्यग्निकरञ्च| एको भागः सितादीनां ततोऽर्धेन द्वितीयस्त्वगादीनाम्||२८||
Adhikarana mRudvIkArAgaH (29) · Śloka 29
कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम्| रसेन मातुलुङ्गस्य कल्कयेद्दाडिमस्य वा| तया क्षौद्रयुतो रागः कृतो दीपनपाचनः||२९||
🔊 Audio coming soon
(कटुस्कन्धयुतामित्यत्र युतग्रहणेन कटुस्कन्धानामल्पमात्रत्वं दर्शयतीति जेज्जटः ) श्वेतां मृद्वीकां निष्कुलीकृतां त्वगस्थिरहितां कटुस्कन्धेन संयोज्य मातुलुङ्गरसेन दाडिमरसेन वा कल्कयेत्| तया कल्कितया क्षौद्रयुतो रागः कृतो रोचनो दीपनश्च भवति|
Adhikarana kAravyAH rAgaH (30) · Śloka 30
सौवर्चलैलामरिचदीप्यकाजाजिचोचवत्| कारव्याः कल्पयेदेवं शुक्तं मत्स्यण्डिकान्वितम्| आम्रामलकपेशीभिः कुर्याद्रागान् पृथक् पृथक्| धान्यसौवर्चलाजाजी कारवी मरिचाचितान्| सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान्||३०||
🔊 Audio coming soon
कारव्याः कल्केन सौवर्चलादियुतं शुक्तं मत्स्यण्डिकान्वितं रागं कल्पयेत्| आम्रामलकख़ण्डैः पृथग्धान्याद्यन्वितान् रागान् कल्पयेत्| मधु माक्षिकम्| कारवी द्राक्षीविशेषो या गोस्तनिकेत्युच्यते- इति जेज्जटः||३०||
Adhikarana udvartanAdyupacArAH (31) · Śloka 31
रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्गनैः| सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च||३१||
🔊 Audio coming soon
मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति| रूक्षोष्णादिभिः कफप्रायो मदात्ययः शीघ्रं समुपशाम्यति||३१||
Adhikarana sannipAtamadAtyaye (32) · Śloka 32
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति| सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्||३२||
🔊 Audio coming soon
पृथग्वातादिदोषबलं प्रति निर्दिष्टं यत् कर्म तन्मिश्रीकृत्य तारतम्यविकल्पेन च शेषे दशविधे सन्निपातेऽपि विकल्पयेत्| पूर्वं हि त्रयोदशविधः सन्निपात उक्तः| तत्र एकदोषातिशयेन यः सोऽत्र प्रदर्शितः| द्व्यतिशयेन त्रयस्तुल्याधिकैश्चैकः सन्निपातः तारतम्यविकल्पनाच्च षट्त्वमित्येतद्दशकम्||३२||
Adhikarana trayaH pAnakayogAH (33) · Śloka 33
त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः| परूषकमधुकैलासुराह्वैश्च सितान्वितैः| सकपित्थरसं हृद्यं पानकं शशिबोधितम्| मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्| तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः| सबीजपूरकरसैर्बिडसौवर्चलान्वितम्| फलैर्वा विविधैरम्लैः सन्निवृच्चूर्णशर्करम्||३३||
🔊 Audio coming soon
त्वगादिना शशिबोधितं नाम पानकम्| शशीकर्पूरम्| दाडिमादिभिः सौवर्चलान्वितं द्वितीयं पानकम्|विविधैः फलैस्तृतीयम्||३३||
Adhikarana kacCudArA~gkurAdicUrNam (34) · Śloka 34
कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम्| मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम्| पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम्||३४||
🔊 Audio coming soon
कच्छुदाराङ्कुरादिकं दुग्धेनालोड्य सूक्ष्मवस्त्रगालितं पिबेत्||३४||
Adhikarana madAtyayeShu harShaNI kriyA (35) · Śloka 35
नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा| कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया| सेव्याः सर्वेन्द्रियसुख़ा धर्मकल्पद्रुमाङ्कुराः| विषयातिशयाः पञ्च शराः कुसुमधन्वनः||३५||
🔊 Audio coming soon
सर्वस्मिन् मदात्यये हर्षणी क्रियेष्यते यस्मान्मद्यं मनो नाक्षोभ्य अपि तु संक्षोभ्य मदात्ययं कुरुते| शरीरं चाविहन्यापि तु विहन्य उभयत्रापि हर्षणी क्रिया हिता| तथा पञ्चविषयाणां शब्दादीनामतिशयाः सेव्याः त एव पञ्च कुसुमचापस्य शराः| धर्म एव कल्पद्रुमः तस्याङ्कुराः फलप्ररोहास्ते||३५||
Adhikarana madAtyaye kShIraviShayaH (36) · Śloka 36
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि| न चेच्छाम्येत्कफे क्षीणे जाते दौर्बल्यलाघवे| तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च| ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः| मद्यक्षीणस्य हि क्षीरः क्षीणमाश्वेव पुष्यति| ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः||३६||
🔊 Audio coming soon
संशुद्धीत्यादिना क्षीरस्य विषय उच्यते| मद्येन क्षीणस्य पुरुषस्य यत्किञ्चित् क्षीणमोजस्तत् क्षीरं शीघ्रमेव पुष्यति| यतस्तत्क्षीरमोजसो गुणैः सर्वैस्तुल्यं मद्यस्य च विपरीतम्||३६||
Adhikarana tataH krameNa madyasevanam (37) · Śloka 37
पयसा विहते रोगे बले जाते निवर्तयेत्| क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्| न विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर्यथा| तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः| अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्||३७||
🔊 Audio coming soon
ततः क्षीरेण मद्यरोगे विहते बले च जाते क्षीरप्रयोगं क्रमेण निवर्तयेत् क्रमेणैव चाल्पाल्पं मद्यमाचरेत्| सहसा मद्यपानात् ध्वंसकविक्षयोपद्रवोद्भवः| तयोस्तु ध्वंसकविक्षययोर्घृतादिकं वातजित् स्यात्||३७||
Adhikarana yuktamadyasevanam (38) · Śloka 38
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते| अतोऽस्य वक्ष्यते योगो यः सुख़ायैव केवलम्||३८||
🔊 Audio coming soon
उपयुक्तमद्यस्य पुंसो मद्योत्थो व्याधिर्नोपजायत एव यतोऽतः कारणादस्य मद्यस्य योगो वक्ष्यते यः सुख़ायैव केवलम्||३८||
Adhikarana madyapraSaMsA (39) · Śloka 39
आश्विनं या महत्तेजो बले सारस्वतं च या| दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवञ्च या| अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या| सौत्रामण्यां द्विजमुख़े हुताशे हूतये च या| या सर्वौषधिसम्पूर्णान्मथ्यमानात्सुरासुरैः| महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह| मधुमाधवमैरेयसीधुगौडासवादिभिः| मदशक्तिमनुज्ञन्ती या रूपैर्बहुभिः स्थिता| यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति| कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा| अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि| तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः| एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्| यथाकामभटावाप्तिपरिहृष्टाप्सरोगणे| तृणवत्पुरुषा युद्धे यामास्वाद्य जहत्यसून्| यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम्| नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते| शोकोद्वेगरतिभयैर्या दृष्ट्वा नाभिभूयते| गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना| स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया| अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या| अपीन्द्रं मन्यते दुस्स्थं हृदयस्थितया यया| अनिर्देश्यसुख़ास्वादा स्वसंवेद्यैव या परम्| इति चित्रास्ववस्थासु प्रियामनुकरोति या| प्रियातिप्रियतां याति यत्प्रियस्य विशेषतः| या प्रीतिर्या रतिर्या वाग्या पुष्टिरिति च स्तुता| देवदानवगन्धर्वयक्षराक्षसमानुषैः| पानप्रवृतौ सत्यां तु तां सुरां विधिना पिबेत्||३९||
🔊 Audio coming soon
आश्विनमित्यादेस्तां सुरां विधिना पिबेदित्यनेन सम्बन्धः| एवमितिहासेषु श्रूयते यथा किल सुरया अश्विभ्यां स्वतेजो दत्तम्| सरस्वत्या च बलम्| इन्द्रेण वीर्यम्| विष्णुना प्रभावः| या च सुरा मकरकेतोः कामस्यास्त्रं; बलस्य च हलभृतो या पुरुषार्थः| या च सौत्रामण्याध्वरे द्विजमुखे ब्राह्मणप्रत्यक्षमग्नौ हूयते| या च महोदधेः सर्वौषधिसम्पूर्णात् सुरासुरैर्मथ्यमानात् श्य्रादिभिः सहोत्पन्ना| या च मध्वादिभिर्बहुभी रूपैर्मदशक्तिमनुज्झन्ति स्थिता| यां चास्वाद्य विलासिन्यः कत्रर्यो विलासिनीति नाम यथार्थं बिभ्रति| सुरया विलासस्यागमनात्| यां सुरां पीत्वा कुलाङ्गनापि लज्जादिमत्वादललितापि मुनेरभ्यस्तधैर्यस्यापि क्वापि चेतो नयत्यनङ्गेन कामेनालिङ्गितैरङ्गैः करणभूतैः| या च सुरा एकं मानिनीमनः प्रसाद्य द्वयोरपि मानिनीवल्लभयोर्निवृतिं कुरुते| अतिनिवेडमानावष्टम्भपरवशाप्यास्वादितकादम्बरीरसा मानं पृष्ठतः कृत्वा अवधीरितपूर्वमपि प्रयांसं प्रार्थयितुं यतते| यत्र चैवमुत्प्रेक्ष्यते यस्याः सुराया ये तरङ्गभासैव भ्रुकुटी तया तर्जनेन सखीव सख्या वल्लभावधीरणानुतापभियेव मानिन्या मानमवधीर्य मनः प्रसादयति| तया च प्रसन्नमनसा द्वितीयो मानिन्या मानमवधीर्य मनः प्रसादयति| तया च प्रसन्नमनसा द्वितीयो निर्वृतिमासादयति| तदिदं सुराया महत् कौशलम्| यदेकत्र प्रसादमापाद्यान्यत्र निर्वृतिमाप्नोति| यां च सुरामास्वाद्य युद्धे पुरुषस्तृणवदसून् प्राणांस्त्यजन्ति| किम्भूते युद्धे आह-यथेत्यादि| यथाकामं यथेच्छं या भटानामवाप्तिस्तया परिहृष्टोऽप्सरोगणो यस्मिन्युद्धे| इति चित्रावस्वस्थासु प्रियामनुकरोति येति वक्ष्यमाणत्वात्सर्वत्रापीतःप्रभृति प्रियायाः सुरायाश्च श्लेषः| तथा च येनैव प्रिया आस्वादिता भवति स एवाप्सरोविषयेऽतिशयं पश्यंस्तल्लाभोपाये युद्धे तृणवदसूंस्त्यजति| यां सुरां बहुधा मध्वादिना बहुविग्रहां चिरं शीलयित्वापि पुरुषो नित्यं ताम् अपूर्वमिव सेवते| सदैवाभिनवामेवातिप्रियत्वाज्जानातीत्यर्थः| प्रियपि बहुधा रतिप्रयोगैर्बहुविग्रहानेकशः कृतप्रणयकलहापि नित्यं हर्षातिवेगेनाभिनवेव सेव्यते| याञ्च सुरां दृष्ट्वा शोकादिभिर्नाभिभूयते| प्रियामपि दृष्ट्वा शोकादिभिर्नाभिभूयते| दर्शनाभिभवयोः शोकादय एवं कर्त्तृत्वेन नीयन्ते येन समानकर्त्तृकत्वं भवति| तत्सन्निधाने शोकादयो न भवन्तीति तात्पर्यम्| यस्याश्च सुराया वना गोष्ठ्यादिकं न शोभते| प्रियया वा विना न शोभते| यया च सुरया वियुक्तस्तां स्मृत्वाऽऽत्मानां शोचते प्रियया वियुक्तश्च शोयते| या सुरा अप्रसन्नापि घनापि प्रीत्यै भवति| प्रसन्ना च स्वर्ग एव| प्रियाप्यकृतप्रसादापि प्रीत्यै भवति| प्रसन्ना पुनः स्वर्ग एव| यथा च सुरया हृदयस्थितया पीतया पुरुष इन्द्रमपि दुःस्थं मन्यते आत्मानमेव सुस्थम्| तद्वत् प्रिययापि हृदयस्थितया मनसि गृहीतया| या च सुरा अनिर्देश्य सुखास्वादा सुखमास्वादश्च यस्याः परस्य निर्देष्टुमिदन्तया न पार्यते| प्रियाऽप्येवम्| या च सुरा परं स्वसंवेद्यैव| प्रियापि तद्वत्| इत्येवमनन्तरोक्तप्रकारेण चित्रासु विछित्रास्ववस्थासु या सुरा प्रियामनुकरोति तां सुरां विधिना पिबेदिति सुरयाः प्रत्यवमर्शः| यस्य हि सुरा प्रिया तस्य पीतमात्रायामेव तस्यां वल्लभापि नितरां वल्लभात्वं याति| प्रीत्यादिशब्दैश्च या देवादिभिः स्तुता| तां सुरां मद्यपानप्रवृत्तौ सत्यां पिबेद्वक्ष्यमाणेन विधिना; न तु यथेच्छम्||३९||
Adhikarana medorogasya vidhipItayA surayA nivRuttiH (40) · Śloka 40
सम्भवन्ति न ते रोगा मेदानिलकफोद्भवाः| विधियुक्तादृते मद्याद्ये न सिद्ध्यन्ति दारुणाः||४०||
🔊 Audio coming soon
किं तया सुरया विधिना पीतया भवतीत्याह-सम्भवन्तीत्यादि| ये रोगा मेदोप्रभृतिजा दारुणास्ते विधियुक्तान्मद्यादृते द्रव्यान्तरेण न सिद्ध्यन्ति| विधियुक्तेन मद्येनैव सिद्ध्यन्ति| ते रोगा विधिविपरीतया सुरया न सम्भवन्ति न जायन्ते||४०||
Adhikarana vidhiyuktamadyapAne~apavAdaH (41) · Śloka 41
अस्ति देहस्य साऽवस्था यस्यां पानं निवार्यते| अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतान्||४१||
🔊 Audio coming soon
एवंविधमपि विधियुक्तं पानं न सर्वत्र प्रयोज्यमिति प्रदर्शनार्थमाह-अस्तीत्यादि| सुबोधम्||४१||
Adhikarana madyasaMskArAH (42) · Śloka 42
आनूपं जाङ्गलं मांसं विधिनाऽप्युपकल्पितम्| मद्यं सहायमप्राप्य सम्यक् परिणमेत्कथम्| सुतीव्रमारुतव्याधिघतिनो लशुनस्य च| मद्यमांसवियुक्तस्य प्रयोगे स्याक्तियान् गुणः| निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि| पीतमद्यो विषहते सुख़ं वैद्यविकत्थनाम्| अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम्| न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्||४२||
🔊 Audio coming soon
आनूपेत्यादिना मद्यसंस्कारा उच्यन्ते| मद्येन सहायेन मांसं सम्यक् परिणतिं यातीति तात्पर्यार्थः| महागुणस्य च लशुनस्य मद्यमांससंयुक्तस्यैव सफलत्वम्| निगूढस्य देहे दूरप्राप्तस्यादृश्यस्य शल्यस्याहरणे शस्त्रादिकर्मणि वैद्यविकत्थनां वैद्यकदर्थनां पीतमद्य एव सुखं विषहते साधु सोढुं शक्नोति सुबोधम्| अत इति मद्यान्||४२||
Adhikarana jIvitaM rakShatA madyaM peyam (43) · Śloka 43
रक्षता जीवितं तस्मात्पेयमात्मवता सदा| आश्रितोपाश्रितहितं परमं धर्मसाधनम्||४३||
🔊 Audio coming soon
तस्मान्मद्यमात्मवता बुद्धिमता जीविते रक्षां कुर्वता सदा पेयम्| मद्ये त्वनेकधा जीवितापाय आशङ्क्यते| आश्रितेत्यादि मद्यविशेषणम्| आश्रिता उपकृता भृत्यबान्धवाद्याः| उपाश्रिताः आश्रिताश्रिताः||४३||
Adhikarana vasumatAM madyapAnavidhiH (44) · Śloka 44
स्नातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य| आपानभूमिमथ गन्धजलभिषिक्तामाहारमण्डपसमीपगतां श्रयेत| स्वातृतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः| स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम्| विलासिनीनाञ्च विलासशोभिगीतं सनृत्तं कलतूर्यघोषैः| काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्| मणिकनकसमुत्यैरावनेयैर्विचित्रैः सजलविविधभक्तिक्षौमवस्त्रावृताङ्गैः| अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः| स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात्| इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्| यौवनासवमत्ताभिर्विलासाधिष्ठितात्मभिः| सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः| तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शितलैः| दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः| चूतरसेन्दुमृगैः कृतवासं मल्लिकोज्ज्वलतया च सनाथम्| स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्| तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा| तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च| धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन्| उचितेनोपचारेण सर्वमेवोपपालयन्| जितविकसितासितसरोजनयनसङ्क्रान्तिवर्धितश्रीकम्| कान्तामुख़मिव सौरभहृतमधुपगणं पिबेन्मद्यम्||४४||
🔊 Audio coming soon
तच्च मद्यमेवं पिबेदिति प्रदर्शनार्थमाह-स्नात इत्यादि| सर्वस्य परिग्रहस्य यथास्वं वृत्तिं विधाय, न तु भृत्यादेरसंविभज्य| एतत्कृत्वा प्रथमेवापानभूमिमाश्रयेत्| किम्भूतामाह-गन्धजलाभिषिक्तामाहारमण्डपनिकटवर्तिनीम्| अथ स्वातृते शयने स्थित इदमिदं कुर्वन् पिबेत्| कमनीये कान्ते| स्वं यशो निशमयन् मनसा गृह्णन्| उत्कर्षेण लोकमतिक्रान्तमतिलोकम्| विलासिनीनाञ्च सनृत्तादिकं गीतं निशमयन्| तच्च गीतं काञ्चीकलापादिभिः कृतानुनादम्| तच्च मद्यमेवंविधमेवंविधाभिस्तन्वङ्गीभिः सञ्चार्यमाणम्| किम्भूतं मद्यमाह-मणीत्यादि| आवरेयैर्भाण्डविशेषैर्मणिमयैः कनकमयैर्वा| विचित्रैः रमणीयसंस्थानादिभिः| अन्यच्च किम्भूतैरावरेयैः सजलानि जलार्द्राणि विविधभक्तीनि नानिविधरचितशकुनिपत्रादिविच्छेदानि यानि क्षौमाणि तैराच्छादितशरीरैः| किम्भूताभिस्तन्वङ्गीभिः अपि मुनिजनचित्तक्षोभसम्पादनीभिस्तथा चकितहरिणवत् लोलप्रेक्षणीभि- श्चञ्चलप्रेक्षणीभिस्तथा प्रियाभिस्ताभिश्च तन्वङ्गीभिर्गतं दधतीभिर्गमनं धारयन्तीभिः| किम्भूतं स्तनाभ्यां नितम्बेन च यत्कृतं देहस्य गौरवं तेनालसम्| ईश्वरहेतुकाच्च सम्भ्रमादाकुलम्| तथा असंस्थितमनेकरूपम्| तरुणचित्तस्य विलोभने कार्मणं वशीकरणप्रयोगम्| यौवनमेव मदहेतुत्वादासवस्तेन मत्ताभिस्तन्वङ्गीभिस्तथा विलासेनाधिष्ठित आत्मा स्वभावो यासां ताभिर्युगपद्बह्वीभिः| तच्च मद्यं तालवृन्ताद्यनिलैश्चन्दनाद्यम्बुसंयोगादतीव शीतलैः शितली-कृतम्| तालवृन्तं व्यजनम्| तथा यन्मद्यं दर्शनमात्रेऽपि चित्तजन्मनः कामस्य सर्वं वशानुगं विदधत्| किमुत स्वादितम्| चूतरसादिभिः कृतवासनम्| चूतरसः सहकारः| इन्दुः कर्पूरम्| मृगः कस्तूरिका| मल्लिका प्रसिद्धः पुष्पविशेषः| तत्कान्तं मद्यमनङ्गमिव काममिवोद्वहदङ्गं सशरीरम्| सुबोधम्| वयःस्थापनं यत्किञ्चिज्जरापहारकृत्| ततोऽनन्तरमिदं कृत्वैव मद्यं पिबेदिति सम्बन्धः| किं कृत्वेत्याह-तत्प्रार्थिभ्य इत्यादि| तन्मद्यं ये प्रार्थयन्त्यभिलषन्ति भूतविशेषाः तेभ्यस्तोयोन्मिश्रं तोयमिश्रितं तच्च दापयित्वा धृतिमत्वादियुतः पिबेत्| अनूनाधिकं तत्र मद्यपाने आचरन्| तथाविधेनोपचारेण सर्वमेव परिवारमुपलालयन् सान्त्वयन्| तच्च मद्यं जितानि शोभातिशयेन पराभूतानि विकसितान्यसितसरोजानि नीलोत्पलानि याभ्यां नयनाभ्यां विवर्धितश्रीकम्| कान्तामुख़सदृशं यतः सौरभेण हतो मधुपगणोऽलिसमूहो येन एवम्भूतं मद्यं पिबेत्||४४||
Adhikarana madyapAnottaraM Bojanam (45) · Śloka 45
पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो| गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च| मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैः| द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत्||४५||
🔊 Audio coming soon
एवमनन्तरोक्तेन प्रकारेण चषकत्रयं पीत सर्वञ्च परिजनमुचितेन प्रकारेण सम्मान्य तत आहारभुवं गत्वा सुभिषजः पुर उत्कृष्टवैद्यस्याग्रतः स्थितो भुञ्जीत| अत्र च भोजने भूयः पुनर्मांसादियुक्तं सद् द्वौ वारौ त्रीन् वा वारान् पिबेत्| निशि रात्रावल्पं वनितासंवल्गाहमात्रं पिबेद्यावता चित्तोल्लासेन केलिसुख़ं भवति||४५||
Adhikarana tataH krIDA Sayana~jca (46) · Śloka 46
रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम्| यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम्| वरतनुवक्त्रं सङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्| भवति रतिश्रमेण च मदः पिबेतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्||४६||
🔊 Audio coming soon
रहस्येकान्ते दयितामङ्के उत्सङ्गे कृत्वा यदा सीधोर्वारमेकं चषकं न पाययते तदा गृहतन्त्रतां गृहविषमतां स कृती किमर्थमनुभवति| क्लेशप्रायं बहुक्लेशम्| किम्भूतां दयितामाह-भुजान्तरपीडनात् पुलकिततनुं तथा जातस्वेदां रतिश्रमात् सकम्पौ पयोधरौ यस्यास्तथाविधाम्| वरतन्वित्यादिना नत्कुटकाह्वयेन सुराफलम्| तच्च सरकमेवम्भूतं सदल्पमपि पिबतो रतिश्रमेणैव मदो भवत्यतोऽनन्तरं स पुमान् ओजसः क्षयं परिहरन् शयीत| किम्भूतं सकरं वरतनोः कान्ताया वक्त्रसङ्गत्या स्वभावसुगन्ध्यपि सुगन्धितरम्| एवमुत्प्रेक्षते द्रुतमिव पद्मरागमणिमासवरूपधरम्||४६||
Adhikarana vidhivanmadyapAnasya Palam (47) · Śloka 47
इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते| असारसंसारसुख़ं परमं चाधिगच्छति| एश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि| अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम्| उपभोगेन रहितो भोगवानिति निन्द्यते| निर्मितोऽतिकदर्योऽयं विधिना निधिपावकः| त्स्माद्व्यवस्थया पानं पानस्य सततं हितम्| जित्वा विषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्| विधिर्वसुमतामेष भविष्यद्वसवस्तु ये| यथोपपत्तितैर्मद्यं पातव्यं मात्रया हितम्||४७||
🔊 Audio coming soon
इत्थमनया युक्त्या मद्यं पिबन् पुरुषः त्रिवर्गाद्धर्मार्थकामान्न हीयते न तस्य त्रिवर्गहानिर्भवतीत्यर्थः| असारस्य च संसारस्य यत् परमं स्वादु विषयोपभोगाख़्यं सुख़ं तदधिगच्छति प्राप्नोति| अयञ्च यो मद्यस्य विधिरुक्तः स एश्वर्यस्योपभोगः सुरैरपि स्पृहणीयः| अन्यथा यो धनवानैश्वर्यवान्नोपभुङ्क्ते तस्य विपत्सु राजोपद्रवादिषु धनं पश्चात्तापेन्धनं पश्चात्तापस्येन्धनमुद्बोधकं स्यात्| यश्च धनस्योपभोगेन रहितो भोगवानिति जनैर्निन्द्यन्ते| कथमेवं यथायमतिकदर्यो विधिना निधिपावको निर्मितः| तस्माद्विषयेषु लुब्धानामिन्द्रियाणां स्वतन्त्रतां जित्वा पानस्य मद्यस्य पानं व्यवस्थया हितं न त्वनियमेन| एष च यथोक्तो विधिर्वसुमतां धनिनां विज्ञेयः ये पुनर्भविष्य- द्वसवस्तैर्मद्यं यथोपपत्ति यथासम्भवमुपचारेण मात्रया पातव्यम्| हितं पथ्यम्| भविष्यद्वसुशब्देन व्युत्पत्त्या दरिद्रा उक्ताः| भविष्यन्ति वसूनि येषामिति कृत्वा||४७||
Adhikarana madyapAnamaryAdA (48) · Śloka 48
यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः| तावदेव विरन्तव्यं मद्यादात्मवता सदा||४८||
🔊 Audio coming soon
यावदित्यादिना मद्यपानविधिः सुबोधः||४८||
Adhikarana doShAnusAraM madyapAnavidhiH (49) · Śloka 49
अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः| स्निग्धोष्णैर्भावितैश्चान्नैः पानं वातोत्तरः पिबेत्| शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः| पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति| उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्| श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह||४९||
🔊 Audio coming soon
तच्च मद्यमभ्यङ्गादिभिर्भावित अहितसंस्कारः सन् वाताधिकः पुरुषः पिबेत्| वासः पटवासः| शितोपचारादिभिः पैत्तिको मद्यं पिबन् न सीदति| अशिशिरोपचारादिना श्लैष्मिको मद्यं पिबेत्| अशिशिरशब्देनातिशिशिरस्य प्रतिषेधः| नोष्णविधानम्| उष्णोप-चारस्य मद्ये प्रतिषेधात् मरिचेन संस्कृतं मारिचिकम्| धन्वजं जाङ्गलम्||४९||
Adhikarana doShAnusAraM madyaprakArAH kAlaSca (50) · Śloka 50
तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम्| पित्ते साम्भो मधु कफे मार्द्विकारिष्टमाधवम्| प्राक्पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः| वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति||५०||
🔊 Audio coming soon
तत्रेत्यादि सुबोधम्| शालिपिष्टेन पैष्टिकम्| गुडेन गौडिकम्| पित्ते मधु माक्षिकं साम्भः| कफे मार्द्विकम्| प्रागित्यादिना मद्यस्य दोषविशेषाश्रयेण कालनियमः सुबोधः||५०||
Adhikarana madamUrcCAyayoScikitsA (51) · Śloka 51
मदेषु वातपित्तघ्नं प्रायो मूर्च्छासु चेष्यते| सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्| शीताः प्रदेहाः मणयः सेका व्यजनमारुताः| सिताद्राक्षेक्षुख़र्जूरकाश्मर्यस्वरसाः पयः| सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः| षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम्| कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम्| पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः| त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा||५१||
🔊 Audio coming soon
मदेष्वित्यादिना क्रमप्राप्तानां मदमूर्च्छासंन्यासानां चिकित्सा| प्रायोग्रहणं व्यभिचारसूचनार्थम्| सर्वस्यपि मद्यविकारेषु पित्तमेव चिकित्स्यत्वेनोपलक्षयेत्| सर्वत्र शीताः प्रदेहादयः प्रयोक्तव्याः| तथा सितादिमधुरस्कन्धेन शृतं पयः| सुबोधम्| कल्याणकादीनि वक्ष्यन्ते| षट्पलमुक्तं यक्ष्मणि||५१||
Adhikarana prasaktavegeShu viSeShaH (52) · Śloka 52
प्रसक्तवेगेषु हितं मुख़नासावरोधनम्| पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्||५२||
🔊 Audio coming soon
प्रसक्तवेगेषु सन्ततवेगेषु मदमूर्च्छायेषु मुख़नासयोः पाण्यादिकेनावरोधनं हितम्| तेन मानुषीक्षीरेण नस्यम्||५२||
Adhikarana vogottarakAlInA cikitsA (53) · Śloka 53
मृणालबिसकृष्णा वा लिह्यात्क्षौद्रेण साभयाः| दुरालभां वा मुस्तां वा शीतेन सलिलेन वा| पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम्| धात्रीफलरसे सिद्धं पथ्या क्वाथेन वा घृतम्| कुर्यात् क्रियां ज्वरोक्ताञ्च यथादोषबलोदयाम्| पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम्| सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च||५३||
🔊 Audio coming soon
मृणालाद्यभयान्तं क्षौद्रेण लेहः दुरालभां वा क्षौद्रेण| मुस्तां वा| मरिचादिकं शीतेन सलिलेन पिबेत्| धात्रीफलरसेन वा चतुर्गुणेन सिद्धं घृतम्| पथ्या क्वाथेन वा स्नेहसमे सिद्धं घृतं पिबेत्| दोषबलानतिक्रमेण च मदमूर्च्छाययोः ज्वरोक्तां क्रियां कुर्यात्| सुबोधम्| सत्त्वस्यालम्बनं धैर्यस्यावष्टम्भः| गृद्धिर्लोलुपता विषयेषु द्वारादिषु||५३||
Adhikarana atipravRuddhAdiShu viSeShaH (54) · Śloka 54
मदेष्वतिप्रवृद्धेषु मूर्च्छायेषु च योजयेत्| तीक्ष्णं संन्यासविहितं विषजं विषजेषु च||५४||
🔊 Audio coming soon
संन्यासविहितं तीक्ष्णं नस्यादि यत्तत्सर्वमतिप्रवृद्धेषु सर्वेषु मदेषु मूर्च्छायेषु च योजयेत्| विषयजेषु मदेषु विषघ्नञ्च योजयेत्||५४||
Adhikarana saMnyAsacikitsA (55) · Śloka 55
आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम्| धूमं प्रधमनं तोदः सूचीभिश्च नख़ान्तरे| केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः| कद्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम्| उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्| ख़ादेत्सव्योषलवणं बीजपूरककेसरम्| लघ्वन्नं कटुतीक्ष्णोष्णमद्यात् स्रोतोविशुद्धये||५५||
🔊 Audio coming soon
दुर्जयत्वेन प्राधान्यात्संन्यासस्य चिकित्सां पृथगुच्यते-आश्वित्यादि| संन्यासे शीघ्रमेव सुतीक्ष्णं नस्यादिकं प्रयोज्यम्| प्रधमनान्तानां सुतीक्ष्णशब्देन सम्बन्धः| प्रधमनं नासायां चूर्णेन| नख़मांसयोर्मध्ये सूचीभिस्तोदः| लुञ्चनमवनयनम्| दाहोऽङ्गेष्वग्न्यादिना| दन्तैर्वृश्चिकैश्चाङ्गदंशः| वक्त्रे कटूनां मरिचादिरम्लानां मद्यादीनां गालनं स्रावणम्||५५||
Adhikarana pralayahetoScittasaMrakShaNam (56-9) · Śloka 9
विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः| पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः| स्रंसनोल्लेख़नैर्धूमैः शोणितस्यावसेचनैः| उपाचरेत्तं प्रततमनुबन्धभयात् पनः| तस्य संरक्षितव्यं च मनः प्रलयहेतुतः||५६|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने मदात्ययचिकित्सितन्नाम नवमोऽध्यायः||९||
🔊 Audio coming soon
तस्य च निवृत्तसंन्यासस्य प्रलयहेतोश्चित्तक्लेशात्मनो विस्मापनादिभिः संरक्षितव्यं पुनरनुबन्धं न गृह्णातीति||५६|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने नवमोऽध्यायः