Adhikarana atha rAjayakShmacikitsitaM nAma saptamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो राजयक्ष्मचिकित्सितं नामाध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तं राजयक्ष्मचिकित्सितं व्याख़्यातुमध्यायारम्भः||१||
Adhikarana balinaH Sodhanam (2) · Śloka 2
बलिनोबहुदोषस्य स्निग्धस्विन्नस्य शोधनम्|
ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम्|
पयसा फलयुक्तेन मधुरेण रसेन वा|
सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया|
वमेद्विरेचनं दद्यात्त्रिवृच्छ्यामान्नृपद्रुमान्|
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा|
द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्||२||
बलिन इत्यादि सुबोधम्| ऊर्ध्वमिति वमनेन| अध इति विरेचनेन| पयसेत्यादिना वमेदिति सम्बद्ध्यते| क्षीरेण वा मधुरेण मांसरसेन् वा पलयुक्तेन| त्रिवृत्तादीन् पृथग्भूतान् शर्करादीनामन्यतमेन सह विरेचनं दद्यात्| तर्पणं सक्तवः| अथवा त्रिवृतादीन् द्राक्षादीनामन्यतमस्य रसेन युतान्||२||
Adhikarana SodhanottaraM bRuMhaNaM dIpana~jca (3) · Śloka 3
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम्|
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च|
शालिषष्टिकगोधूमयवमुद्गं समास्थितम्|
लघुमच्युवीर्यं च सुजरं बलकृच्च यत्|
आजं क्षीरं घृतं मांसं क्रव्यान्मांसञ्च शोषजित्|
काकोलुकवृकद्वीपिगवाश्वनकुलोरगम्|
गृध्रमांसखरोष्ट्रं च हितं छद्मोपसंहितम्|
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे||३||
शुद्धकोष्ठस्येत्यादि सुबोधम्| समास्थितं संवत्सरोषितम्| काकादिकं हृद्योपसंहितम्| तथा चरकः -`काकांस्तित्तिरिशब्देन मत्स्यशब्देन चोरगान्| दद्यान्मत्स्यान्त्रशब्देन पृथग्गण्डूपदानपी' त्येवमादि| ज्ञानमित्यादि छद्मोपसंहितत्वे हेतुः||३||
Adhikarana mRugAdimAMsasevane vidhiH (4) · Śloka 4
मृगाद्याः पित्तकफयोः पवने प्रसहादयः|
वेशवारीकृताः पथ्या रसादिषु च कल्पिताः|
भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम्|
रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः|
हिता मौद्गककौलत्थास्तद्वद्यूषाश्च साधिताः|
सपिप्पलीकं सयवं सकुलत्थं सनागरम्|
सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्|
तेन षड् विनिवर्तन्ते विकाराः पीनसादयः||४||
मृगाद्याः मृगविष्किरप्रतुदबिलेशयाः| शेषाः प्रसहादयः| वेशवारीकृता इत्यादि सर्वेषां विशेषणम्| रसिकादयः सर्वे आहारप्रकाराः| रसिका रसवन्तो भृष्टा भर्जिताः| सपिप्पलीकादि सुबोधम्|
Adhikarana kolAdiBiScandrakAntaH (5) · Śloka 5
कोलदादिमनिर्यासपिष्टयास्थिविहीनया|
द्राक्षया स्वच्छधान्याम्बुप्लुतालोडितकल्कया|
कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः|
समाक्षिकः सकर्पूरः सलवङ्ग सकेसरः|
चन्द्रकान्तो यथार्याख़्यः शोषहाग्निरुचिप्रदः||५||
स्वच्छधान्याम्लेनाप्लुत आलोडितञ्च कल्को यस्या द्राक्षयास्तथा चन्द्रकान्तो नाम||५||
Adhikarana drAkShArAgaH (6) · Śloka 6
शुक्ताम्लधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम्|
गुडशर्करसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः|
वृक्षाम्लधान्यद्रमिलीराजिकादाडिमोषणैः|
पलेन नागपुष्पस्य किञ्चित्सौवर्चलेन च|
ससेव्यपत्रत्वक्तोयसुरसारसमूर्च्छितः|
भूरिभूस्तृणको रोगः कण्ठ्यो रुच्यः समाक्षिकः||६||
सुबोधः||६||
Adhikarana pAnam (7) · Śloka 7
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्|
पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः|
सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम्|
पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा|
कल्कयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान्||७||
पञ्चमूलेन तामलक्या वा सिद्धं जलं पिबेत्| तेनेति पञ्चमूलाद्यम्भसा||७||
Adhikarana balAgarbhaM dashamUlaghRutam (8) · Śloka 8
दशमूलेन पयसा सिद्धं मांसरसेन वा|
बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेनवा|
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा||८||
दशमूलेन पयसा मांसरसेन च बलागर्भं घृतम्| अथवा क्रव्यादानां मांसरसेन| सर्पिषो दशगुणेन च पयसा सिद्धं घृतं सक्षौद्रं योज्यम्||८||
Adhikarana jIvantyAdighRutam (9) · Śloka 9
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च|
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम्|
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्|
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम्||९||
जीवन्त्याद्ये जलं स्नेहसमम्| स्नेहाच्चतुर्गुणं जलमित्यरुणदत्तः||९||
Adhikarana durAlabhAdighRutam (10) · Śloka 10
दुरालभां गोक्षुरकं चतस्रः पर्णिनीर्बलाम्|
भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च|
पचेद्दशगुणे तोये दशभागावशेषिते|
पूते तस्मिन् घृतप्रस्थं क्षीरद्विगुणितं पचेत्|
गर्भं दत्वा शठीकृष्णाभूनिम्बोत्पलसारिवाः|
त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम्|
कुटजाच्च जयेत्तद्धि शिरःपर्श्वांसवेदनाम्|
तृष्णां छर्द्यमतीसारं कासदाहभ्रमज्वरान्||१०||
दशगुणं तोयं दुरालभादिभ्यः| उत्पलशारिवा कृष्णमूलशारिवा| सहपत्रफला तामलकीम्| कुटजात् फलमिन्द्रयवः||१०||
Adhikarana kharjUrAdighRutam (11) · Śloka 11
घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः|
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम्||११||
खर्जूरदिभिर्जलेन च पक्वे घृते पिप्पल्याश्चूर्णो योज्यः||११||
Adhikarana dashamUlakShIrodbhavaM ghRutam (12) · Śloka 12
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम्|
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम्|
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्||१२||
नवं सर्पिर्नवनीतम्||१२||
Adhikarana pa~jcapa~jcamUlodbhavaM ghRUtam (13) · Śloka 13
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद् घृतम्|
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे|
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम्||१३||
पञ्च पञ्चमूलान्याद्यनि क्षीरक्वथने| ततः क्षीरादजातादेव घृतं नवनीतं ग्राह्यम्| तत् घृतं पञ्चपञ्चमूलक्वाथे स्नेहाच्चतुर्गुणे विपाच्यम्| क्वाथात् क्षीरं चतुर्गुणम्| सप्तकं बलं कण्ठोद्ध्वंसादिसप्तोपद्रवकृतम्||१३||
Adhikarana pa~jcakoladighRutam (14) · Śloka 14
पञ्चकोलयवक्षारषट्पलेन पचेद् घृतम्|
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम्|
गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान्|
कासश्वासाग्निसदनश्वयथूर्ध्वानिलान् जयेत्||१४||
षट्पलेन प्रत्येकं द्रव्यपलिकं जलेन विना द्रव्याणां रसो न निर्यातीति स्मर्तव्यम्| अन्ये तु प्रतिपदपठितत्वाद् द्रवस्य क्षीरस्य जलं नैवेच्छन्ति||१४||
Adhikarana rAsnAdighRutam (15) · Śloka 15
रास्नाबलागोक्षुरकस्थिरावर्षाभूवारिणि|
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम्||१५||
रास्नादीनां क्वाथे जीवन्तीपिप्पलीगर्भम्| गर्भं कल्कः||१५||
Adhikarana ashvagandhAghRutam (16) · Śloka 16
अश्वगन्धाशृतात् क्षीरात् घृतं च ससितापयः||१६||
अश्वगन्धाशृतात् क्षीरात् प्रमथ्य गृहीतं घृतं शर्कराक्षीरसंयुक्तं शोषजित्||१६||
Adhikarana mAMsasarpiH (17) · Śloka 17
साधारणामिषतुलां तोयेद्रोणद्वये पचेत्|
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः|
साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम्|
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा|
कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित्||१७||
साधारणानि मांसानि बिलेशयप्रसहानाम्| तेनेति द्रोणद्वयपरामर्शः| मांसरसेन वा भोज्येषु प्रयुक्तम्||१७|
Adhikarana pArAsharaM ghRutam (18) · Śloka 18
यष्टीबलागुडूच्यल्पं पञ्चमूलतुलां पचेत्|
शूर्पेऽपामष्टभागस्थे तत्र पात्रम्पचेद्घृतात्|
धात्रीविदारीक्षुरसत्रिपात्रे पयसोऽर्मणे|
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम्|
ससैन्यं राजयक्ष्माणमुन्मूलयति शीतितम्||१८||
शूर्पो द्रोणद्वयं चतुर्विंशं चतुर्विंशत्यधिकं पलं जलस्य| पात्रमाढकमष्टाविशत्यधिकं शतम्| अर्मणो द्रोणः| पञ्चशतानि द्वादशाधिकानि क्षीरस्य| जीवनीयानि स्नेहाच्चतुर्थांशेन||१८||
Adhikarana svAduskandhaM ghRutam (19) · Śloka 19
मूर्वाहरिद्राखदिरक्वाथसर्पिः शकृद्रसम्|
गोगजाजाविहयजं पयस्तुल्यान् दशद्रवान्|
स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारू च|
पचेत्तच्चाशु दोषघ्नं तद्वद्वासावरीघृतम्||१९||
दशद्रवाः मूर्वायाः क्वाथ हरिद्रायाः खदिरस्य च घृतम्| गोः शकृद्रसः गजस्य अजस्य अवेर्हयस्य च| तथा क्षीरम्| कल्को घृताच्चतुर्थांशः| वासावरीभ्यां वासाशतावरीभ्याम्||१९||
Adhikarana dvipa~jcamUlAdighRutam (20) · Śloka 20
करञ्जबोलस्थविरकुलत्थबदराग्निकाः|
भल्लातकञ्च तत्क्वाथे षड्गुणे साधयेद्घृतम्|
गर्भं धृत्वा स्नुहिक्षीरं शुकाख्याचव्यसैन्धवम्|
हरितकीं च तच्छेषशोफमेहोदरापहम्||२०||
द्वे पञ्चमूले आद्ये| बोलस्थविरं बोलवृक्षः कुलहतोऽलम्बुसो भूकदम्बकः| कुटकदेशे मुण्डिकेति प्रसिद्धः| तत्क्वाथःपरिभाषया घृतात् षड्गुणः| शुकाख्या शुक्लाख्या||२०||
Adhikarana siddhaghRutAnAM prayogAH (21) · Śloka 21
यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनान्विताम्|
सिद्धानां सर्पिषामेषां दद्यादम्भेन वा सह||२१||
एषां सर्पिषां यवाग्वादिना प्रयोगः| सिद्धानां निःसंशयानां व्याध्युपशमे||२१||
Adhikarana elAdiko lehaH (22) · Śloka 22
एलाजमोदात्रिफलासौराष्ट्रीव्योषचित्रकान्|
सारानरिष्टगायत्रीसालबीजकसम्भवान्|
भल्लातकं विडङ्गञ्च पृथगष्टपलोमिन्तम्|
सलिले षोडशगुणे षोडशांशस्थितं पचेत्|
पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट्|
तवक्षीर्याः क्षिपेत्त्रिंशत् सिताया द्विगुणं मधु|
घृतात्त्रिजातात्त्रिफलं ततो लीढं खजाहतम्|
पयोनुपानं तत् प्राह्णे रसायनमयन्त्रणम्|
मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्|
मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान्|
ये च सर्पिर्गुडाःप्रोक्ताः क्षते योज्याः क्षयेऽपि ते||२२||
एलादिको लेहः सुबोधः| घृताद्द्विगुणं मधु| ये क्षते उरःक्षते प्रोक्ताः ते सर्पिर्गुडाःक्षयेऽपि राजयक्ष्मणि च योज्या||२२||
Adhikarana kharjUrAdipa~jcalehAH (23) · Śloka 23
खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः|
त्रिफलापिप्पलीमुस्ताशृङ्गाटगुडशर्कराः|
वीराशठीपुष्कराख्यासुरसाशर्करागुडः|
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः|
विडङ्गं सारश्चविकात्र्यूषणं च विचूर्णितम्|
अर्धश्लोकैः स्मृता लेहाः पञ्चैते मधुसर्पिषा|
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः||२३||
खर्जूरत्रिफलावीरानागरविडङ्गादिभिः पञ्चभिरर्धश्लोकैः पञ्च क्षौद्रसर्पिषा लेहाः||२३||
Adhikarana tvagelAdikaM cUrNam (24) · Śloka 24
त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात्|
चूर्णिता भक्षयेल्लिह्यात् पूर्ववद्वा तथागुणाः||२४||
त्वचो द्विगुणाः एलास्ताभ्यः पिप्पल्यः ताभ्यस्तुगाक्षीरी तस्याः शर्करेति क्रमार्थः| एकद्विचतुरष्टषोडशांशा इत्यर्थः||२४||
Adhikarana tilAdikaM cUrNAdikam (25) · Śloka 25
तिलमाषाश्वगन्धा वा माक्षिकाजघृताद्रुताः|
पूर्वोक्तेष्वेव रोगेषु वातप्रायेषु पूजिता||२५||
तिलादिकं सुबोधम्||२५||
Adhikarana svarasAdacikitsitam vAtaje svarasAde (26) · Śloka 26
विशेषात्स्वरसदेऽस्य नस्यधूमादि योजयेत्|
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम्|
कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम्|
साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा|
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्|
तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः|
हंसपाद्याश्च मूलेन पक्वं नस्तो निषेयचेत्|
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम्|
अश्नीयात्पायसञ्चैव स्निग्धं स्वेदञ्च योजयेत्||२६||
यत्किञ्चिद्राजयक्ष्मण्युक्तं तदेकादशस्वपि रोगेषु चिकित्सितं सामान्येनोक्तमेव यत अत उच्यते - विशेषादित्यादि| सुबोधम्| (नि) `रुजाकरस्त्वार्तगलो भवति| मधुकादिभिः पक्वं तैलं वा नावने शस्तमिति सुख़ोदकानुपानं ससर्पिष्कं च'||२६||
Adhikarana pittaje svarasAde (27) · Śloka 27
पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोनुपः|
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्|
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम्|
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च|
सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम्|
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला|
साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम्|
लिह्यान्मधुरकाणां च चूर्णं मधुघृतान्वितम्|
वरीं बलां पयस्यां वा काकोलीमधुके तथा|
एवमस्यानुपशमे ललाटे व्यधयेत् सिराम्||२७||
पित्तोद्भव इति स्वरसादे| क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकं च सर्पिः शृतशीतपयोनुपः पिबेदिति सम्बन्धः| सुबोधम्| क्षीरसर्पिरजातात् क्षीरात् कृतम्| अस्येति स्वरसादस्य||२७||
Adhikarana kaPaje svarasAde (28) · Śloka 28
पिबेत् कटूनि मूत्रेण कफजे रूक्षभोजनः|
कट्फलामलकव्योषं लिह्यात्तैलमधुघृतम्|
व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा|
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्||२८||
भुक्त्वाद्यात् पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत्| कफजे स्वरसादे कटूनि मरिचादीनि रूक्षभोजनः सन् मूत्रेण पिबेत्| व्योषादीनि वा लिह्यात्| यमकं घृततैले| भुक्त्वेति भोजनान्ते||२८||
Adhikarana uccaBAShaNaje svarasAde (29) · Śloka 29
शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह|
पिबेत्पयांसि यस्योच्चैर्वदतो विहितः स्वरः||२९||
यस्योच्चैर्भाषमाणस्य स्वरो विहतः स शर्करादिमिश्राणि पयांसि पिबेत्||२९||
Adhikarana arocakacikitsitam sAmAnyopacArAH (30) · Śloka 30
विचित्रमन्नमरुचौ हितैरुपहितं हितम्|
बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम्|
द्वौ कालौ दन्तपवनं भक्षयेन्मुख़धावनैः|
कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत्|
तालीसपत्रवटकाः सकर्पूरसितोपलाः|
शशाङ्ककिरणाख़्याश्च भक्ष्या रुचिकराः परम्||३०||
विचित्रेत्यादिनारोचकचिकित्सा| अपथ्यमपि प्रियं हितैर्मिश्रितं हितम्| बहिर्मृजा स्नानादिना| अन्तर्मृजा वमनविरेचनेन| द्वौ कालौ प्रातर्भुक्त्वा च| मुख़धावनाः कषाया मुख़रोगेषु वक्ष्यन्ते||३०||
Adhikarana vAtaje~arocake (31) · Śloka 31
वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया|
हरेणुकृष्णाकृमिनुद्द्राक्षासैन्धवनागरात्|
एलाभार्ङ्गीयवक्षारहिङ्गुयुक्ताद् घृतेन वा||३१||
हरेण्वादिकाद्धिङ्ग्वन्ताच्चूर्णं प्रसन्नया वा घृतेन वा वातजेऽरोचके पिबेत्||३१||
Adhikarana pittaje~arocake (32) · Śloka 32
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः|
लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्||३२||
पित्तादरोचके इति सम्बन्धः| गुडवारिभिश्छर्दयेदिति सम्बद्ध्यते| लवणोत्तमं सैन्धवम्||३२||
Adhikarana kaPaje~arocake (33) · Śloka 33
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम्|
पानं समध्वरिष्टाच्च तीक्ष्णाः समधुमाधवाः|
पिबेच्चूर्णञ्च पूर्वोक्तं हरेण्वाद्युष्णवारिणा|
त्रिकटुत्रिफलारात्रीयवक्षारं मधुघृतम्|
प्रातराहारकाले च युञ्जीत मुखधावनम्||३३||
कफात् सुबोधम्| समधुदीप्यकारग्वधोदकं पानम्| मधु मार्द्वीकम्| माधवं माक्षिकमद्यम्| पूर्वोक्तं हरेणुकृष्णादि| त्रिकट्वादि मुख़धावनम्||३३||
Adhikarana kavalagrahAH (34) · Śloka 34
बिडं सौवर्चलं कुष्टमजाजीमरिचं सिता|
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम्|
लोध्रं तेजोवतीपथ्यायवक्षारं कटुत्रयम्|
आर्द्रदाडिमनिर्यासः साजाजीसितशर्करः|
सतैलमाक्षिकायुक्ताश्चाचारः कवलग्रहाः|
चतुरोऽरोचकान् हन्युरेकदोषसमस्तजान्|
कारव्यजाजीमरिचद्राक्षावृक्षाम्लदाडिमम्|
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम्||३४||
बिंडादिभिश्चतुर्भिरर्धश्लोकैश्चत्वारः कवलग्रहाः सर्वे सतैलमाक्षिकाश्चत्वारोऽरोचकान् क्रमेण हन्युः| बिडादिकं वाते| धत्र्यदिकं पित्ते| लोध्रादिकं कफे| दाडिमनिर्यासेन सन्निपाते| कारव्यादिकं सुबोधम्||३४||
Adhikarana samaSarkara~jcUrNam (35) · Śloka 35
एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम्|
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम्|
प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान्||३५||
एलादिकं क्रमात् भागवृद्धम्| तेन यतैलानां कर्षः तत्र त्वचो द्वौ कर्षौ| नागकेसरस्य त्रयः| मरिचस्य चत्वारः| पिप्पलीनां पञ्च| शुण्ठ्याः षडिति| सर्वेषां समा शर्करा पञ्च पलानि सकर्षाणि||३५||
Adhikarana yavAnyAdicUrNam (36) · Śloka 36
यवानीतिन्तिणीकाम्लवेतसौषधदाडिमम्|
कृत्वा कोलञ्च कर्षाशं सितायाश्च चतुष्पलम्|
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम्|
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च|
चूर्णमेतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च|
विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान्||३६||
यवान्यादिके पिप्पलीनां मरिचस्य च फलानि सङ्ख़्यया||३६||
Adhikarana tAlIsAdicUrNam (37) · Śloka 37
तालीसपत्रं मरिचं नागरं पिप्पली शुभा|
यथोत्तरं भागवृद्धस्त्वगेले चार्द्धभागिके|
तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम्|
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलजित्|
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम्||३७||
यस्मादुत्तरः स तस्मात् भागेन वृद्धः| तेन तालीसं कर्षम्| द्वौ कर्षौ मरिचस्य| त्रयः शुण्ठ्याः| चत्वारः पिप्पलीनाम्| त्वगेले प्रत्येकं भागार्धमाने| भागश्च नियामकस्तालीसस्य तेन त्वचोऽर्धकर्षः| तद्वदेलानाम्| कणाभ्यो अष्टगुणा शर्करा द्वात्रिंशत् कर्षाः||३७||
Adhikarana tAlIsAdimodakaH (38) · Śloka 38
तालीसपत्रचविकामरीचानां पलं पलम्|
कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठी पलत्रयम्|
चतुर्जातमुशीरं च कर्षाशं श्लक्ष्णश्चूर्णितम्|
तत्र त्रिंशत्पलं दत्वा क्वथितादमलाद्गुडात्|
कुर्वीत मोदकानक्षसम्मितांस्तेऽपि तद्गुणाः||३८||
तालीसमोदकः सुबोधम्| तदिति तालीसचूर्णस्य परामर्शः||३८||
Adhikarana prasekacikitsitam (39) · Śloka 39
अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः|
प्रसेके कल्पितान्सक्तून्भक्ष्यांश्चाद्याद्बली वमेत्|
कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्|
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः|
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति|
कफप्रसेकं तं विद्यात् स्निग्धोष्णैरेव निर्जयेत्||३९||
अर्केत्यादि प्रसेकचिकित्सा| अर्कस्यामृतायाश्च क्षारजले एकां निशां यवानां वासो द्वितीयेऽहनि तैः सक्तवो भक्ष्या नानाविधाः| यस्तु बली स कटुभिस्तिक्तैश्चौषधैर्वमेत्| तमिति वातहेतुकम्||३९||
Adhikarana pInasavamathvoScikitsitam (40) · Śloka 40
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्|
विशेषात्पीनसेऽभ्यङ्गान्सेहान्स्वेदांश्च शीलयेत्|
स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु|
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान्||४०||
इममिति प्रसेकोक्तम्| सुबोधम्| रसान् मांसरसान् लवणादिगुणान्| उपसंहिताः सहिताः||४०||
Adhikarana SiraHpArSvAMsaSUleShu cikitsA doShAnusAraM vidhiSca (41) · Śloka 41
शिरोंऽसपार्श्वशूलेषु यथादोषविधिं चरेत्|
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः|
शस्यन्ते सचतुःस्नेहाः शिरःपार्श्वांसशूलिनाम्|
लेपश्च नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः||४१||
शिरःशूलादिषु य एव दोषोऽधिकः तमेव प्रतिकुर्यात्| औदकानां पृथग्ग्रहणं प्राधान्यात्| उपनाहः पिण्डबन्धः| नतादिभिश्चन्दनान्तैर्लेपः||४१||
Adhikarana saMsRuShTadoSheShu pradehAH (42) · Śloka 42
बलारास्नास्तिलाः सर्पिर्मधुकं नीलमुत्पलम्|
पलङ्कषा देवदारू चन्दनं मधुकं घृतम्|
कृष्णगन्धा बला वीरा विदारी सपुनर्नवा|
अभीरूयष्टीमधुकं पयस्याकत्तृणं घृतम्|
इल्यर्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः|
शस्ताः संसृष्टदोषाणां .....................||४२||
बलादिभिरिल्यर्धश्चत्वारः प्रदेहाः संसर्गे विकल्प्य यथादोषं योज्याः||४२||
Adhikarana nAvanAdyanye upacArAH (43) · Śloka 43
...........................शिरःपार्श्वांशूलिनाम्|
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः|
तैलाभ्यङ्गयोगीनि बलिकर्म तथा परम्|
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्|
प्रदेहैः सघृतैश्चेष्टः पद्मकोशीरचन्दनैः|
दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः|
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा|
अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना||४३||
अथवैषां शूलिनां शृङ्गाद्यैर्दुष्टमसृग्धरेत्| वातेऽधिके शृङ्गेण| पित्तेऽधिके जलौकादिभिः| कफे तुम्बेनेति यथादोषार्थः| पद्मकादिभिः सघृतैर्लेपः| तथा दूर्वादिभिः| शतधौतमनेकशो विलाप्य शीतजलैः स्त्यानीकृतम्| क्षीरेण केवलेन सेको मधुकाम्बुना वा||४३||
Adhikarana atisAracikitsitam (44) · Śloka 44
प्रायेणोपहताग्नित्वात् सपिच्छामतिसार्यते|
तस्यातिसारग्रहणीविहितं हितमौषधम्|
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बुना|
जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमैः|
पाठानिम्बयवानीनां चूर्णं तक्रेण वा पिबेत्|
सुरया वा युतां पाठां सनागरदुरालभाम्|
जम्ब्वाम्रविल्वमध्यं वा सकपित्थं सनागरम्|
पेयामण्डेन.................................||४४||
सर्वराजयक्ष्मी सपिच्छां प्रायेणातिसार्यते उपहताग्नित्वाद्धेतोः| अतिसारविहितं ग्रहणीविहितं च तत्र दोषाद्यपेक्षयौषधं हितम्| सुबोधम्| पाठादीनां त्रयाणां सुरया पानम्| जम्बूमध्यादिकं पेया मण्डेन||४४||
Adhikarana atisAre KaDAH (45) · Śloka 45
..........योगैश्च पाठाद्यैः कारयेत् त्रिभिः|
ससूप्यधान्यान्सस्नेहान्साम्लान्सलवणाङ्ख़डान्|
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः|
श्रीपर्ण्या मातुलुङ्गस्य धातक्या दाडिमस्य च|
चाङ्गेर्या मदयन्त्याश्च यूथिकायाश्च पल्लवैः|
कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत्|
ख़डान् दधिसरोपेतान् ससर्पिष्कान् सदाडिमान्|
रोचनान् दीपनान् दद्यादतीसारहरान् परम्||४५||
पाठाद्यास्रयो योगा अनन्तरोक्ताः| पाठानिम्ब्वादिकः पाठानागरादिको जम्बूमध्यादिकश्च| एषां जलेन सस्नेहात् ससूप्यधान्यान् ख़डान् कारयेत्| ख़डः फलयूषः| वेतसेत्यादीनां षष्ठ्यन्तानां पल्लवैः ख़डान् योजयेत्| सर्वख़डेषु च दधिसारिकत्वम्||४५||
Adhikarana rAjayakShmiNaH purIShaM rakShet (46) · Śloka 46
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः|
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्||४६||
अस्य च राजयक्ष्मिणः शुष्यतः सतः पुरीषं यत्नतः क्षयाद्रक्षेत्| यतः सर्वस्यापि देहे यद् बलं तद्धातुहेतुकं भवति| राजयक्ष्मिणः पुनः क्षीणसकलधातुत्वात् विड्बलमेव बलं तस्य नरस्य विडेव बलमित्यर्थः| अतस्तं रक्षेत्||४६||
Adhikarana jvarAdiShu kriyopadeSaH (47) · Śloka 47
ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम्|
बह्वामयसमूहो हि यक्ष्मातः सोऽतिदुःसहः|४७|
ज्वरादिषु विकारेषु च राजयक्ष्मवतः स्वं स्वं चिकित्सितं कुर्वीतयथामयं आमयापेक्षया| यक्ष्मा चातोऽतिदुःसहः यतो नानाहेत्वादिबह्वामयसमूहः||४७||
Adhikarana ajArasAyanam (47) · Śloka 47
अजां वा पर्युपासीत षण्मासानुटजे वसन्|
तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः|
ताभिः परिवृतः स्वप्यत्तच्छकृद्रेणुसङ्कुरे|
एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम्||४७||
उटजे वने लतावेश्म| तदित्यजापरामर्शः| रेणुश्चूर्णम्||४७||
Adhikarana pa~jcAjaM ghRutam (49) · Śloka 49
अजाशकृद्रसक्षीरदधिमूत्रैः शृतं घृतम्|
सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत्||४९||
पञ्चाजं घृतमप्याजमेव| अजाशकृद्रसादीनि च| मिश्रीकृतानि स्नेहसमानि| पञ्चपटु स्तोकमात्रम्||४९||
Adhikarana mAMsamadyayorupayogaH (50) · Śloka 50
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च|
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्|
सुरां समण्डां मार्द्वीकमरिष्टान् सीधुमाधवान्|
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्|
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत्||५०||
सुबोधम्| तदित्यनन्तरोक्तं कर्म||५०||
Adhikarana abhya~ggAvagAhAdikam (51) · Śloka 51
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्|
उत्तीर्णं मिश्रकस्नेहैः पुनराक्तं सुखैः करैः|
मृद्नीयात्सुखमासीनं सुखं चोद्वर्तयेत् परम्||५१||
कोष्ठः काष्ठादिमयः स्नेहाद्याधारः| उत्तीर्णमवगाहात् फललाभे सति| पुनरभ्यक्तं सुखं चासीनं सुखैः करैः मृद्नीयात्||५१||
Adhikarana jIvantyAdicUrNamudvartanArthe (52) · Śloka 52
जीवन्तीं शतवीर्याञ्च विकसां सपुनर्नवाम्|
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
विदारीं सर्षपान् कुष्ठं तण्डुतानतसीफलम्|
माषांस्तिलांश्च किण्वञ्च सर्वमेकत्र चूर्णयेत्|
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम्|
एतदुद्वर्तनं कार्यं पुष्टिवऱ्र्णबलप्रदम्||५२||
जीवन्त्यादिकं सर्वमेकीकृत्य चूर्णयेत्| ततश्चूर्णात् त्रिगुणो यवचूर्णः| एतद्दधिमाक्षिकाभ्यामुद्वर्तनम्||५२||
Adhikarana snAnArthaM jalam (53) · Śloka 53
गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः|
स्नायादृतुसुखैस्तोयैः जीवनीयोपसाधितैः||५३||
स चोद्वर्तितो गौरसर्षपकल्कादिभिः स्नायात्| स्नानीयानि स्नानेषूक्तान्यौषधानि| औषधयः सर्वौषधयः| ऋतुसुखानि जलानि शीतोष्णाविशेषेण||५३||
Adhikarana gandhamAlyAdisevanam (54) · Śloka 54
गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत्|
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः|
बस्तयः क्षीरसर्पींषि मद्यं मांसं सुशीलता||५४||
भूषा अलङ्करणम्| सुबोधम्||५४||
Adhikarana daivavyapAshrayamauShadham (55-7) · Śloka 7
दैवव्यपाश्रयं तद्वदथर्वोक्तं च पूजितम्|
इष्ट्या यथा च चन्द्रस्य राजयक्ष्मा पुरा जितः|
पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः||५५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंङ्ग्रहसंहितायां चिकित्सितस्थाने राजयक्ष्मचिकित्सितन्नाम सप्तमोऽध्यायः||७||
दैवव्यपाश्रयं तत्तन्मणिमन्त्रादिकम्| अथर्वोक्तमथर्वणोद्दिष्टं शान्तिकादि| सुबोधम्| जितात्मनो जितेन्द्रियस्येति||५५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने सप्तमोऽध्यायः