Adhikarana atha mUtrAghAtacikitsitannAma trayodasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तस्य मूत्राघातस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||
Adhikarana vAtaje mUtrakRucchre (2) · Śloka 2
वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्व मङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कम्भीस्वेदेन च स्वेदयेत्|
दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषा णभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूकरर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात्|
एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयांश्च तैल फलस्नेहाम्लयुक्तानि कल्पयेत्|
प्रसन्नां च सौवर्चलाढ्यां पिबेत्||२||
वातमूत्रकृच्छ्रे वातहरद्रव्यसिद्धेन तैलेनाभ्यक्तगात्रस्य नाभेरधः सर्वमङ्गं शरीरं वातहरद्रव्यकृतैरेव पिण्डस्वेदादिभिः स्वेदयेत्| दशमूलादीनां क्वाथेन तैलाच्चतुर्गुणेन सर्पिरादिना च मिश्रीभूतेन तैलसमेन च दशमूलादीन्येव च गर्भे कल्कपरिभाषया युक्त्या च लवणपञ्चकं दत्वा साधितं तैलं पानाय दद्यात्| एतान्येव दशमूलान्यौषधानि तैलादियुक्तान्यन्नादिके कल्पयेत्| फलशब्देन स्नेहो विशिष्यते| स्नेहानामनेकयोनित्वात्| यद्वा येभ्यस्तैलमुत्पद्यते तानि तैलफलानीत्यर्थः| अम्लानि दाडिमादीनि| सौवर्चलेनाढ्या प्रभूतसौवर्चला प्रसन्ना पेया|| २||
Adhikarana pittaje mUtrakRucchre (3) · Śloka 3
पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत|
तृणपञ्चमूल श्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधुशर्करं पिबेत्|
तद्वच्च काण्डेक्षुरकमूलम्|
कमलोत्पलविदारी शृङ्गाटकानि वा|
द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारू बीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम्|
मधुकदार्व्यु र्वारूबीजानि वा तण्डुलधावनेन|
समाक्षिकां वा दार्वी मामलकरसेन|
मृद्वीकाकल्कं वा पर्युषिताम्भसा||३||
पित्तजे शीतान् सेकादीन् प्रयुञ्जीत| तृणपञ्चमूलादिकस्य क्वाथं समाक्षिकं सशर्करं पिबेत्| कशेरूकं प्रसिद्धं मध्यदेशे| काण्डेक्षुरकमूलं वा तद्वत्| कमलादीनि वा तद्वदिति समधुशर्कराणि| काण्डेक्षुरकं प्रसिद्धम्| त्रपुसादिकल्को द्राक्षारसेन सर्वमूत्राघातघ्नः| त्रपुसादीनां त्रयाणां बीजम्| उर्वारूः कर्कटिका| मधुकादीनि तण्डुलाम्बुना| दार्वी समाक्षिका आमलकरसेन| द्राक्षाकल्कं पर्युषितोदकेन| पर्युषितं यत्क्वथितं सद्रात्रिस्थितम्||३||
Adhikarana kaphaje mUtrakRucchre (4) · Śloka 4
कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्न पानं यवान्नं तक्रं च|
पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा|
शीति वारकबीजं वा तक्रेण|
प्रवालचूर्णं वा तण्डुलाम्बुना|
धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्रच्छदक्वाथं वा शीतं सक्षौद्रम्|
तत्सिद्धां वा यवागूम्|
कण्टकारि कास्वरसं वा समाक्षिकम्|
व्योषैलागोक्षुरकसारसा स्थीनि वा मधुमूत्रयुक्तानि|
पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम्|
तिलपाटलीपाऱ्रिभद्रयावशूक क्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम्|
तिलादीनां वा पृथक्क्षारं गुडोपदंशमश्नीयात्|
तीक्ष्णो ष्णद्रव्यसिद्धं व तैलं पानाभ्यङ्गार्थे||४||
कफजे मूत्राघाते यथास्वं दोषाद्यपेक्षया स्वेदवमनादिकं हितम्| सूक्ष्मैला मद्येन वामलकरसेन वा| अथवा मधुयुक्तां सूक्ष्मैलां कदलीरसकैडर्यरसयोरन्यतेरण| सुबोधम्| शीतीवारकं कुरुण्टकम्| धवादीनां क्वाथः शीतः सन् समाक्षिक उपयोज्यः| अथवा तत्सिद्धां धवादिक्वाथसिद्धां यवागूं शीतां समाक्षिकां च| सारसास्थि सरसिभवप्राणिनामस्थि| पाटल्याः भस्मना बहुकृत्वः स्रुतमुदकं नातिघानाच्छ तैलसंयुक्तं हितम्| तिलादिक्षारेणानुबिद्धां संस्कृतां त्वगादिचूर्णयुक्तां सुराम्| उपदंशो यमुपदश्यान्नं भुज्यते|| ४||
Adhikarana sAnnipAtike mUtrakRucchre (5) · Śloka 5
सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रति कुर्वीत|
यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत्|
अपि च एलाश्मभेदकशिलाजतुपिप्लीनां चूर्णानि तण्डुलजलालुडितानि पीत्वा|
तद्वद्गुडेन सहितान्युपयुज्य मास मासन्नमृत्युरपि जीवति मूत्रकृच्छ्री|
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः|
क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे विबन्धे|
हरीतकीगोक्षुरराजवृक्षपाषाणाभिद्धन्वयवासकानाम्|
क्वाथं पिबेदश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे||५||
सन्निपातात्मके मूत्राघाते य एवं दोष आसन्नो बस्तौ तस्यैव प्रथमं प्रतिकुर्वीत| अथवा य एवाधिकः| सर्वेष्विति मूत्राघातेषु| अपि चेति समुच्चये| एलादीनां चूर्णानि तण्डुलजलेन गुडेन च मासमुपयुज्य मूत्रकृच्छ्री आसन्नमृत्युरपि जीवति| पुनरेलादीनां क्वाथः शर्करयावगाढो घनः| हरीतक्यादीनां क्वाथोऽश्मजतुप्रधानो यः शिलाजतुनो लोडनायोपकरोति|| ५||
Adhikarana ashmaryAdiShvatideshaH (6) · Śloka 6
अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोष मिदमेवाचरेत्||६||
अश्मर्यां नवोत्थितायां वातबस्त्यादिकेषु च निदानस्थानप्रदर्शितेष्वभिनवोत्थितेष्विदमेवानन्तरोक्तं चिकित्सितं दोषानतिक्रमेणाचरेत्|| ६||
Adhikarana tatra vAtAshmaryAm (7) · Śloka 7
पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहती द्वयकपोतपङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनी भल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति, एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्प येत्|
सिंहीव्याघ्रीगोक्षुरकेक्षुरकोरूबूकमूलकल्कोऽमधुरेण दध्ना पीतः सप्ताहादश्मरीं भिनत्ति|
शिग्रुमूलकल्केन दधिलवणयकसिद्धो यूषः||७||
पाषाणभेदादीनां क्वाथेनोषकादिगणगर्भेण च विपक्वं घृतं वाताश्मय्रां भेदनम्| वसुकं बुकः| काश्मीरे मुसूरः| वसिरः पार्वतेयः| अश्मन्तक इन्द्रकः| स एव मालुपर्णः| कपोतपङ्का ब्रह्मसुवर्चला| कच्छुरं तुनिकं रङ्गद्रव्यम्| गुन्धुस्तृणविशेषः| भल्लूकः सल्लको फल्गुर्वृत्तको जम्बुको नतः| शाकवृक्षस्य फलानि| कतकवृक्षस्य च| एभिरिति पाषाणभेदादिभिः| सुबोधम्| सिंह्यादीनां कल्कोऽम्लेन दध्ना पीतः सप्ताहमश्मरीं हन्ति| सिंही कण्टकारिका| व्याघ्री निदिग्धिका| इक्षुरक इक्षुविशेषः| ऊरूबूक एरण्डः| शिग्रुकल्कादिभिश्च सिद्धो यूषोऽश्मरीं भिनत्तीति सम्बन्धः|| ७||
Adhikarana pittAshmaryAm (8) · Śloka 8
वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालि मूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारूर्कारूबीज मधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ता श्मरीं भिनत्ति|
पूर्ववच्च कषायादीनेभिः कल्पयेत्||८||
वीरतरादिगणगुन्द्रादीनां क्वाथे त्रपुसबीजादिप्रतीवापं घृतम्| गुन्द्रेत्कटे वीरतरादित्वेन दत्ते अपि पुनर्दीयते| गुन्द्रा गुच्छपुष्पिका नाम| इत्कटः शरविशेषः प्रसिद्धः| पत्तूरो मत्स्याक्षकः| मत्स्याक्षकस्तु पत्तूरो पत्तुनः प्रिय इत्यपि| वाराही गृष्टिः| विष्वक्सेना कारा| वाराही गृष्टिकाकारा| एभिरिति वीरतरादिभिः कशायादीन् कल्पयेत्| पूर्ववदिति वाताश्मरीवत्| पित्ताश्मर्यामपि|| ८||
Adhikarana shleShmAshmaryAm (9) · Śloka 9
वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रक मुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिन्नत्तिति समानं पूर्वेण|
मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विस र्जयेत्|
ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत्|
तं क्वाथं गोक्षुरकमूलैलात्रपुसकुटजबीजपाषाणभेद कचूर्णं क्षौद्रेण लीढ्वाऽनुपिबेत्|
तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च||९||
वरणादिगणभद्रदार्वादिगणयोः गुग्गुल्वादीनां च कल्के जलपिष्टे ऊषकादिगणप्रतीवापं सर्पिः साधितं श्लेष्माश्मरीभेदनम्| सुरसाह्वयो मूर्वा कदरश्च| पीतमाशु निहन्तीति| मस्तुनेत्यादि सुबोधम्| गालनं पटेन स्रावणम्| विसर्जयेद्भस्म त्यजेत्| क्षारमस्त्वघनाच्छम्| कुरुण्टकः शीतिवारकः| गोक्षुरकादीनां चूर्णं माक्षिकेण लीढ्वा तं क्वांथमनु पिबेत्| च्यवते भिन्ना बहिर्निस्सरति|| ९||
Adhikarana pUrvoktauShadhAnAM kShArakalpanA (10) · Śloka 10
अश्मरीभेषजानां घृताक्तानामन्तर्धूमदग्धानां क्षारं ग्राम्य पशुशकृत्क्षारञ्च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छ मग्नौ साधयेत्|
घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत्|
एष क्षीराशिनः क्षाराव लेहोऽश्मरीम् भिनत्ति पातयति च शर्कराम्||१०||
अश्मरीभेषजान्यनन्तरोक्तानि सर्वाणि यथालाभं दह्यन्ते| अच्छमिति क्षारस्रुतगोमूत्रम्| शर्करा भिन्ना अश्मरी बह्ववयवा||१०||
Adhikarana tilAdyanye kShArAH (11) · Śloka 11
तिलकदलीयवापामार्गपलाशक्षारोऽविमूत्रेण पीतः समानः पूर्वेण|
केतकपत्रक्वाथेन हिङ्गुक्रौञ्चस्थिक्षार युतः पाटलीकरवीरक्षारश्च क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्रा कदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णो दकान्यतरप्रयुक्तः||११||
अवेर्मेषस्य मूत्रेण तिलादीनां क्षारः पूर्वेण समानोऽश्मरीभेदनः शर्करापातनश्च| पाटलीकरवीरयोः क्षारो हिङ्गुना क्रौञ्चास्थ्ना च युक्तः केतकवृक्षपत्राणां क्वाथेन| क्रौञ्चास्थ्यादीनि चूर्णितानि सुरामण्डेन वोष्णोदकेन वा| श्वदंष्ट्रा गोक्षुरकः| तालपत्रिका मिश्रेयः|| ११||
Adhikarana picukAdiphalakvAthAdyAH prayogAH (12) · Śloka 12
पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः|
नृत्यकुण्डकबीजचूर्णश्च समाक्षिकोऽविक्षीर युक्तः|
कपोतवङ्कामूलञ्च सुरया|
तत्सिद्धं वा पयोऽश्म रीवेदनार्त्तः पिबेत्|
सिद्धं वाभयास्थिभिः पुनर्नवेन वा||१२||
पिचुकादीनां फलक्वाथ उष्णो गुडमिश्रः| पिचुकः श्रीहस्तिनी| कुरुण्टकः पिचुकः शीतिवारकः| 'अङ्कोटोऽङ्कोलको रेची निर्दिष्टो दीर्घकालकः|' शाककतकौ वृक्षौ सर्वेषामेषां फलानि| 'मधूलिका गुडतृणो नृत्यकुण्डो मलिञ्चकः|' तस्य बीजमविक्षीरेण| सुरया वा कपोतवङ्कामूलम्| कपोतवङ्का ब्रह्मसुवर्चला| तत्सिद्धं कपोतवङ्कामूलसिद्धं क्षीरम्| अभयास्थिभिर्वा सिद्धं पयः| पुनर्नवेन वा सिद्धम्|| १२||
Adhikarana sheShamUtrAghAteShvetadeva yojyam (13) · Śloka 13
शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत्||१३||
शेषेषु मूत्राघातेषु वातबस्त्यादिषु दोषादिसमन्वयेन संयोगविभागैरनन्तरोक्तामेव चिकित्सां विकल्पयेत्|| १३||
Adhikarana sarveShu kecana sAmAnyaprayogAH (14) · Śloka 14
ह्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमुत्राघातघ्नम्|
गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम्|
ताम्रचूडरससिद्धां वा|
वीरतरादिक्वाथेन वा|
तेन वा तद्भावितं शिलाजतु|
वाजिरासभान्यतरशकृद्रसं वा|
दुरालभास्वरसं वा|
ककुभकषायं वा|
मूर्वाभयामु स्तदेवदारूमधुककल्कं वा|
वारुणीक्षीरोष्णोदकान्य तमेन त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा|
केवल मेव वा बिभीतकबीजं सुरया|
विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत्|
पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात्|
एवमश्मरी शर्करा च प्रच्यवते|
सर्वेषु च मूत्राघातेषु विशेषतोऽश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः तिल्वकघृतं च विरेकार्थम्|
बस्तिकर्म चाभीक्ष्णं विशे षेणोत्तरबस्तिः||१४||
अस्मिन् ग्रन्थे आचार्येणं तोयपयसोरेव पक्षे घृतमिश्रितयोः| प्रयोगः प्रदर्शितः| हृदये तु तोयप्रयोगवत्| घृतमपि पञ्चमूलेन द्विगुणगोक्षुरकेण साध्यमिति प्रदर्शितम्| गोक्षुरककण्टकारीभ्यां सक्षुद्रगुडां यवागूं ताम्रचूडस्य रसेन वा सिद्धां यवागूम्| सुबोधम्| ससैन्धवं त्रिफलाकल्कमुष्णाम्बुना| बिभीतकबीजं केवलमेव सुरया| विहङ्गानां पक्षिणां मांसमुपदश्य यः पीयते सुरामण्डः स तथोक्तः| निगदो निर्दोषः| तथैव मार्द्वीकमासवांश्च विविधान्| सुबोधम्| सर्वथेति क्वाथादिनान्नादिषु च| तिल्वकघृतं वातव्याधौ वक्ष्यते|| १४||
Adhikarana nirUho~anuvAsanashca (15) · Śloka 15
तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः|
बिल्वा दिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृत क्षीरवांश्च त्रपुसैर्वारूकशताह्वबीजकर्षभकयवानी कल्कितः|
पीतदारूसिद्धं तैलमनुवासनम्||१५||
तत्रेत्यादि| तत्रेति निरूहादिनिर्धारणे| श्यामादिरर्धश्लोकविहितः| श्यामात्रिवृतयोर्मूलम्| तथा दन्ती द्रवन्ती चेति मूत्रसिद्धो निरूहः| बिल्वादिमुलैरिति महता पञ्चमूलेन सुरासौवीरकादिभिरम्लैस्तीक्ष्णैश्च सिद्धेन तृणपञ्चमूलादिसिद्धक्षीरवान् त्रपुसादिरकल्कयुक्तः| दारुहरिद्रया सिद्धं तैलमनुवासनम्||१५||
Adhikarana uttarabastyAdika~jca (16) · Śloka 16
शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवा श्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षक खराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारूबीजशीतिवारकमधु कषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भतैलमुत्तर बस्तिः|
तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्या शुक्राशय शोधनार्थं बलस्थेन पुंसा वृष्य़ाणां मांसानां कुक्कुट मांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथा कालमसेव्या इति||१६||
शतावर्यादीनां क्वाथे स्नेहाच्चतुर्गुणे क्षीरे च बलादिगर्भं सिद्धं तैलमुत्तरबस्तिः| एवं सर्वांश्मरीषु सामान्येनोक्त्वा पुनरित्यादिना शुक्राश्मर्यां विशेषः| वृष्याणां कुक्कुटमांसस्य च| षष्ठी तृप्त्यपेक्षा| प्रकर्षेणातिशयेन स्त्रियः प्रमदाः सेव्याः||१६||
Adhikarana shastrAvacaraNAvasthA (17) · Śloka 17
क्रियाभिराभिः सिद्धामिर्न चेच्छान्तिस्ततो भिषक्|
इति राजानमापृच्छ्य शस्तं साध्ववचारयेत्|
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्|
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः||१७||
आभिरनन्तरोक्ताभिः क्रियाभिः सिद्धाभिर्निस्संशयं स्वकार्यसम्पादिनीभिर्न चेच्छान्तिरश्मर्या भवति| ततो राजानं देशनायकमापृच्छ्य श्रावयित्वा साधु कृत्वा शस्त्रमवचारयेत्| अक्रियायां शस्त्रस्यानवचारणे ध्रुवोऽवश्यम्भावी मृत्युः| क्रियायां पुनर्निश्चितस्यापि विषयप्रवृत्तस्याप्यनेकशश्चाश्मनि सुसिद्धकर्मणो वैद्यस्य सुसंशयो भवेदतो वरं क्रिया| न त्वक्रिया| अथवा अक्रिया दुष्क्रिया|| १७||
Adhikarana shastrAvacAraNavidhiH (18) · Śloka 18
अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्तस्विन्न शरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पित सम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषण्णपूर्व कायमुत्तानं वस्त्रचुम्बलोपविष्टं सङ्कुचितजानुकूर्परमित रेण पुंसा सह बद्धं सूत्रैः शाटकेन वा ततोऽस्य स्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत्|
अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्त नखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेव न्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनयायतविषमं च बस्तिं सन्निवेश्य भृशमु त्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति|
ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन|
दक्षिणतो वा क्रियासौ कर्यहेतोरित्येके|
यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत|
तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति|
तस्मात् समग्रामग्रवक्रेणाददीत||१८||
अथेति मङ्गलार्थश्चरकाचार्यशैली| स्निग्धमेवोपस्निग्धम्| तथा शोधनानन्तरमीषत्कर्शितम्| कर्शनेन ह्यश्मरी सुखसञ्चार्या भवति| सम्भारः शीतोदकौषधादि वक्ष्यमाणम्| बलवत्वादियुक्तमुपाश्रयपुरुषं फलक उपवेशयेत्| वस्त्रचुम्बलं वस्त्रमयमासनम्| सङ्कुचितकूर्परजानुसमाश्रयपुरुषेण सह रज्वा शाटकेन बद्धम्| वामहस्तसम्बन्धिन्यौ प्रदेशिनीमध्यमे तथोक्ते| प्रदेशिन्यङ्गुष्ठसमीपस्थाङ्गुली| सेवनीमनु सेवनीमनुसरन्| ताभ्यामङ्गुलीभ्यामन्तर्वस्तु तथा कर्तव्यं यथा तस्मिन् प्रदेशे बलिरहितत्वादि सम्भवति| बलयः सङ्कोचाः विषयं निम्नोक्तम्| शल्यमश्मरी| अश्मरीप्रमाणेन सीवन्या वामे पार्श्वे शस्त्रकं निदध्यात्| एक आचार्या दक्षिणे पार्श्वे सीवन्याः छेदनमिच्छन्ति| हेतुर्वैद्यस्य क्रियायाः सुकरता| तथा च वैद्येन शस्त्रकर्म कार्यं यथा नाश्मरी चूर्ण्यते| चूर्णिताया अल्पमप्यवशिष्टं चूर्णं पुनरश्मरीत्वमेव प्राप्नोति| अग्रवक्रमश्मर्याहरणं सर्पफणवद्वक्रमग्रत इत्युक्तम्||१८||
Adhikarana strINAM visheShaH (19) · Śloka 19
स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः तस्मात्ता सामुत्सङ्गवदधः शस्त्रं पातयेत्|
अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवति, पुरुषस्य च मूत्रप्रसेकक्षणनात्|
अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति|
क्रियाभ्या साच्छस्रविहितच्छेदादनिष्पन्दपरिवृद्धत्वाच्च शल्यस्येति|
न तु द्विधा भिन्नबस्तिरश्मरीमानपि||१९||
स्त्रीणामुत्सङ्गवच्छस्रं न्यसेत्| उत्सङ्गो मुखमूले शस्त्रपीठिका| यथावरुद्धप्रवेशं मूत्रस्रावव्रणकारणायासमर्थम् भवति| पुरुषस्यापि मूत्रप्रसेकक्षणनात् मूत्रस्रोतसः शस्त्रेण स्पर्शात् मूत्रस्रावी व्रणो भवति| अश्मरीनिमित्तं यो भिन्नो बस्तिः स एकस्यां दिशि भिन्नः सिद्ध्यति| भिषजोऽकौशलाद् द्विधा भिन्ने न सिद्ध्यति| अश्मरीमानादधिकं भिन्नः सुतरां न सिद्ध्यत्यपिशब्दस्यार्थः|| १९||
Adhikarana shastrakarmottaraM karma (20) · Śloka 20
उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्|
तथा बस्तिरसृजा नापूर्यते|
पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात्|
स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति|
मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत्||२०||
अवगाहस्वेदेनासृजा बस्तिर्नापूर्यते| अथ कदाचिदापूर्णस्ततः पुष्पनेत्रेण क्षीरिवृक्षकषायं व्रणप्रक्षालनाय दद्यात्| पुष्पनेत्र ग्रहणेनोत्तरबस्तिर्मेढ्रप्रणिधेय उक्तो भवति| कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढं नेत्रं कुर्यादित्युक्तत्वात्| गुडसौहित्यं गुडस्य तृप्तिः|| २०||
Adhikarana AhAravidhAnam (21) · Śloka 21
उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्ध मुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम्|
त्रिरात्रा दूर्ध्वं गुडप्रगाढेन पयसा मृदुमोदनमल्पं भोजयेदादश रात्रात्|
अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः||२१||
उत्थाप्य चैनमित्यादि सुबोधम्||२१||
Adhikarana vraNopacArAH (22) · Śloka 22
व्रणञ्च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठा प्रपौण्डरीककल्केन लेपयेत्|
द्वादशरात्रं चैनमप्रमत्तः स्वेद येत्|
एतेष्वेव च हरिद्रायुक्तेषु तैलं विपक्वं व्रणा भ्यञ्जनम्|
सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथो क्तमग्निना व्रणं दहेत्|
स्वमार्गप्रतिपन्ने चोत्तरबस्त्या स्थापनानुवासनै-र्मधुरप्रायैरुपाचरेत्||२२||
अप्रमत्त इति प्रमादेन स्वेदस्यातियोगो महते दोषाय भवतीत्युक्तम्| एतेष्विति लोध्रादिषु हरिद्रागणसंयुक्तेषु कल्कपरिभाषया तैलं पक्वं व्रणाभ्यञ्जने हितम्| शस्त्रकर्मणः सप्तरात्रात् स्वमार्गमायाति व| अत ऊर्ध्वमनागतं चिकित्सेत्|| २२||
Adhikarana shukrAshmarIharaNam (23) · Śloka 23
यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्|
विदार्य वा नाडीं बडिशेनो द्धरेत्|
रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमान् नारो हेत्|
नाप्सु प्लवेत भुञ्जीत वा गुरूणि||२३||
यदृच्छयेति विना चिकित्सया स्वस्थानात् प्रवृत्ता शुक्राश्मरी यदा अन्तरा मध्य आसज्जते तदा शलाकादिना सञ्चाल्य स्व-स्रोतसैवापहरेत्| यदि तु स्रोतसा आहर्तुं न शक्यते तदा तां नाडीं पार्श्वतो विदार्य बडिशेनोद्धरेत्| सुबोधम्| भुञ्जीत वा गुरूणि नेति सम्बध्यते|| २३||
Adhikarana shastrakarmaNi parihartavyamaShTakam (24-13) · Śloka 13
कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतो मूत्रप्रसेकसेव नीयोनिगुदबस्तयोऽष्टौ परिहर्तव्याः|
तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम्|
शुक्रवहच्छेदान्मरणं क्लैब्यं वा|
मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः|
मूत्रप्रसेकच्छेदान्मूत्र स्रवणम्|
सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः|
गुदबस्ति विद्धस्य सद्योमरणमुक्तं प्रागिति|
भवति चात्र- मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम्|
शस्त्रपाणिध्रुवं हन्ति साहसात्केवलो यथा|
इति||२४||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने मूत्रा घातचिकित्सितन्नाम त्रयोदशोऽध्यायः||१३||
अश्मर्याहरणे च शस्त्रकर्मणि मूत्रवहस्रोतःप्रभृत्यष्टकं भिषजा शस्त्रेण परिहर्तव्यम्| ध्वजभङ्गो मेढ्रस्यास्तब्धता उक्तं प्राङ् मर्मविभागे| अमून्यनन्तरोक्तान्यष्टौ मर्माणि स्रोतोजान्यविज्ञाय अश्मर्याहरणे यः शस्त्रपाणिर्भवति स ध्रुवमवश्यमातुरं हन्ति| यथा केवलः शस्त्रपाणिर्ध्रुवं हन्ति| केवल इत्युन्मत्तवाची भाषाशब्द इति| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्ग संग्रहव्याख्यायां शशिलेखायां चिकित्सित स्थाने त्रयोदशोऽध्यायः