Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

16. gulmacikitsitam

Adhikarana atha gulmacikitsitannAma ShoDasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातो गुल्मचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्य गुल्मस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana tatrAdau sAmAnyakramaH (2) · Śloka 2

गुल्मो हि वातादृते न सम्भवति| तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वदौ वातहरौ| स्नेहस्वेदोपसंहितं मृदु विरेचनं तद्विधाश्च बहुशो बस्तीनम्ललवणमधुरांश्च रसान् युक्त्या वचारयेत्| मारुते हि विजितेऽल्पेनापि यत्नेन शक्योऽ न्योऽपि दोषो गुल्मेषु नियन्तुम्||२||

🔊 Audio coming soon

गुल्मो हीत्यादिना सर्वगुल्मानां वातप्रधानत्वात्सर्वत्रैव प्रथमं स्नेहस्वेदौ वातनाशनायानन्तरञ्च स्नेहयुक्तं मृदु विरेचनं प्रशस्यते| सर्वत्र च विरेचनस्य पश्चाद्वातहरद्रव्यसिद्धान् स्नेहोपहितान् मृदूंश्च बस्तीन्मांसरसांश्चाम्लादिगुणान् युक्त्या योग्यैर्मात्रादिभिरवचारयेत्| एतेन च स्नेहादिना मारुते विजिते सत्यन्यः पित्तादिर्दोषोऽल्पे नापि यत्नेन नियन्तुं शमयितुं शक्यो भवति| इति सामान्येन गुल्मेषु|| २||

Adhikarana vAtottare ghRutatailayogAH (3) · Śloka 3

अथ वातोत्तरे रूक्षं बद्धमरुच्छकृतमातुरं तीव्ररुजमनि लव्याधिविहितमन्यतमं तैलं पाययेत्| अथवा विडङ्ग पञ्चकोलमरिचत्रिफलाधान्यकगर्भं सपयस्सर्पिर्वि पक्वम्| अनेनैव वा कल्केन दशमूलक्वाथोपहितम्| राजयक्ष्मविहितं वा षट्पलम्| हिङ्गुधानकाम्लवेत ससौवर्चलैलाविडशठीदाडिमयवक्षारत्रिकटुकाजगन्धा जमोदाजाजीपुष्करमूलवचाचित्रकसुरसैर्वा दधिसंयुक्तम्||३||

🔊 Audio coming soon

अथेत्यादिना वातादिविशेषेणोच्यते| वातोत्तरे गुल्मे रूक्षत्वादियुक्तमातुरं वातव्याधिविहितेभ्यस्तैलेभ्योऽन्यतमं तैलं पाययेत्| अथवा समक्षीरं विडङ्गादिकल्केन विपक्वं सर्पिः पाययेत्| पञ्चकोलानां पृथगन्यसमत्वम्| पानीयेन विना द्रव्याणि रसं न त्यजन्तीति सर्वत्र स्मर्तव्यम्| अथवा दशमूलक्वाथेनानेनैव च विडङ्गादिकल्केन विपक्वं पाययेत्| अथवा राजयक्ष्मविहितं षट्पलम्| अथवा दधिसमं सर्पिर्हिङ्ग्वादिभिर्विपक्वम्|| ३||

Adhikarana hapuShAdighRutam (4) · Śloka 4

हपुषामरिचबाष्पिकासैन्धवदीप्यकाजाजीपञ्चकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत् सर्पिः सिद्धं शूलविब न्धहिध्मामाध्मानप्लीहहृद्रोगग्रहणीहतनामकृमिवर्ध्मपाण्डु क्षयश्वासकासयोनिरोगोदरज्वरारोचकेषु||४||

🔊 Audio coming soon

हपुषादिभिश्चूर्णीकृतैः कोलादित्रयस्वरसैर्दधिक्षीराभ्याञ्चेति पञ्च-भिर्द्रवैः पृथक् स्नेहसमं सिद्धं शूलादिषु सिद्धमप्रतिहतम्| बाष्पिका हिङ्गुपत्रिका| दीप्यकः अजमोदः| कोलं बदरम्| हतनामार्शांसि|| ४||

Adhikarana shuNThyAdighRutam (5) · Śloka 5

शुण्ठीपलं पिप्पलीपलमध्यर्थ धानकाकुडवं दाडिम द्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत्| एतत्सर्पिः समानं पूर्वेण||५||

🔊 Audio coming soon

शुण्ठ्यादिकं घृतं सुबोधम्| अध्यर्धं पलं पिप्पल्याः| क्षीरं घृतसमम्| एकेध्यं मिश्रीभावेन| पूर्वेण हपुषादिना गुणैः समानम्||५||

Adhikarana lashunAdighRutam (6) · Śloka 6

लशुनस्य विगतत्वचस्तुलां प्रत्येकं पञ्चपलिकञ्च महा पञ्चमूलमष्टगुणेऽम्भसि साधयेत्| तेन क्वाथेन तदर्धांशश्च पृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः यवानीदीप्य काम्लवेतसहिङ्गुचविकासैन्धवत्र्यूषणत्रिफलामरदारुभि श्चार्धपलिकैः प्रस्थोन्मितं घृतं शृतं पीतं समानं पूर्वेण||६||

🔊 Audio coming soon

लशुनात् पञ्चमूलाच्च मिश्रीभूतात् पलसंख्याया अष्टगुणमम्भः पलसहस्रकम्| क्वथितस्य चतुर्थो भागः सर्धं पलशतद्वयम्| सुरादिचतुष्टयं च पृथक् प्रत्येकं क्वाथादर्धांशं सपादशतम्| सैन्धवादीन्यर्धपलिकानि| प्रस्थं घृतस्य|| ६||

Adhikarana dAdhikaM sarpiH (7) · Śloka 7

वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरूहाभार्ङ्गीरा स्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलांशान् द्विपलां शान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपचेत्| तेन पृथक् समं मातुलुङ्गदाडिमा म्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भ निकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविड ङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रा त्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्ब रीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत्| दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण| मूत्राघातोन्मादाप स्मारवाटव्याधिहरञ्च||७||

🔊 Audio coming soon

वर्षाभ्वादिना दाधिकाख्यं सर्पिः| वर्षाभ्वादीनि द्विपलांशानि| दशमूलद्रव्याणि पृथक्| यवादीनां प्रत्येकं प्रस्थम्| मातुलुङ्गादिफलरसाः शुक्तादित्रयं च पृथक् पृथक् घृतसमम्| वचादिकल्कः स्नेहच्चतुर्थांशेन| वर्षाभूः पुनर्नवा| सुषवी उपकुञ्चिका| छिन्नरूहा गुडूची| काला नीलिनी| गन्धपलाशं गन्धपत्रम्| आम्रः सहकारः| आम्रातकं पीतनकफलम्| कुम्भो द्रवन्ती| निकुम्भो दन्ती| यवनको यवानीभेदः| हिंस्रा मांसी| नीलिन्याः फलानि| ऊषकः वातसाह्वयः| तदेव सिंहमूत्रम्| वृषकोटरूषकः| श्वदंष्ट्रा गोक्षुरकः| त्रपुसस्योर्वारोश्च बीजम्| उपकुञ्चिका प्रसिद्धा सितासिताभेदेन| ग्रन्थिकं पिप्पलीमूलम्| कुस्तुम्बरी धाना| तुम्बरोः फलानि| सुरसा प्रसिद्धं हरीतकद्रव्यम्| पूर्वेण हपुषादिना गुणैः समानम्| मूत्राघातादिहरं च|| ७||

Adhikarana vyoShAdighRutam (8) · Śloka 8

पिबेद्वा व्योषषड्ग्रन्था कृमिघ्नकटुकाचित्रकसौवर्च लाभयायवक्षारैर्दशांशक्षीरसंयुक्तं साधितं सर्पिः| क्षीरा योग्याय च सुरामदिरामस्तुदधिसरदाडिमरसानामन्यतमं विदध्यात्||८||

🔊 Audio coming soon

अथवा व्योषादिभिः स्नेहसमैर्दशभिः क्षीरांशैः सह साधितं सिद्धं घृतं पिबेत्| यत्र त्वातुराद्यपेक्षया क्षीरापथ्यता शङ्क्यते तत्र तदेव घृतं क्षीरस्थाने दोषाद्यपेक्षयैव सुरादीनामन्यतमं क्षीरप्रमाणेन दत्वा तेन सह पचेत्|| ८||

Adhikarana snehasvedau (9) · Śloka 9

अभ्यङ्गपूर्वं चैनं सदा स्वेदयेत्| स्नेहस्वेदौ हि सम्यक् प्रयुक्तौ स्रोतसां मार्दवमुपजनय्यानिलं जित्वा भित्वा च विबन्धमाशु गुल्ममपकर्षतः||९||

🔊 Audio coming soon

एवञ्च वातगुल्मं सदैवाभ्यङ्गपूर्वं स्वेदयेत्| अत्रैव हेतुः स्नेहेत्यादि| सुबोधम्|| ९||

Adhikarana sthAnabhedAnusAramupakramabhedaH (10) · Śloka 10

तत्र हृदयजे विशेषेण स्नेहपानमिच्छन्ति| बस्तिजे बस्ति मुभयं नाभिपार्श्वाश्रये| विबद्धानिलवर्चसश्च||१०||

🔊 Audio coming soon

तत्रेत्यादिना वातगुल्म एव हृदयजे विशेषेण स्नेहापानमिच्छन्त्याचार्याः| बस्तिजे विशेषेण बस्तिम्| नाभ्याश्रये पार्श्वाश्रये चोभयं स्नेहपानं बस्तिश्च| विबद्धानिलवर्चसो ह्युभयम्|| १०||

Adhikarana dIptAgnervisheShaH (11) · Śloka 11

दीप्ताग्नेः स्निग्धोष्णानि बृंहणानि चान्नपानानि पुनः पुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणा योज्यानि| अन्यथा कफो विबृद्धस्तन्द्रागौरवारुचिहृल्लासाग्नि सादान् कुर्यात्| तमुल्लिखेत्| तत्कृतेषु च शूलाना हविबन्धेस्वनन्तरोक्तानां घृतानामामौषधश्चूर्णगुलिका क्वाथान् कोलदाडिममातुलुङ्गसुरामण्डतक्रमस्तुधान्या म्लोष्णोदकान्यतमेन प्रकल्पयेत्||११||

🔊 Audio coming soon

कफपित्तानुरक्षिणा सता भिषजा दीप्ताग्नेः पुरुषस्य स्निग्धत्वादियुक्तान्यन्नपानानि योज्यानि| स्नेहपानादीनि च पुनः पुनरुपयोज्यानि| अन्यथा यदि भिषक् कफं न रक्षति ततः स्नेहादि भिर्वृद्धः श्लेष्मा गुल्मिनस्तन्द्रादीन् कुर्यात्| यदि च कदाचिदरक्षया कफो वृद्धस्ततस्तं कफमुल्लिखेदेव| तत्कृतेषु श्लेष्मकृतेषु शूलादिष्वनन्तरोक्तैर्घृतौषधैः कोलादीनामन्यतमेन सह चूर्णादीन् कल्पयेत्|| ११||

Adhikarana trilavaNAdicUrNaM ghRuta~jca (12) · Śloka 12

अपि च-त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठो पकुञ्चिकाशठीजीरकाजाजिकुस्तुम्बरीबाष्पिकाकारवी तुम्बुरुस्वर्जिकायावशूकापौष्करीजटादाडिमं तिन्तिणीकं विडङ्गानि भार्ङ्गीवरोवेतसाम्लोमिसिर्मरिचगजकणाभ यापञ्चकोलानि कुम्भो निकुम्भो विशाला यवानी सुराह्वं च| तत्सर्वमेकत्र चूर्णीकृतं बीजपूराद्रसेनासकृद्भावितं यः पिबेत् प्रातराहारकालेऽथवा मासमात्रं हिताशी नरः सादरम्| प्लुतमशिशिरवारिणा जीर्णमद्येन मूत्रेण तक्रेण कोलाम्भसा मस्तुना पेयया सर्पिर्षौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्च्योततोयेन वा दाडिमाद्वा रसे नात्मवानेभिरेवौषधैः साधितं वा घृतं हृदयगुदकटीयकृ त्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत्| तथा गुल्मवि ष्टम्भदुर्नामकृच्छ्रोदराध्मानहिध्माविबन्धाः सवर्ध्मारुचि श्वासकासाः| प्रपक्तुञ्च शक्तो भवेत्पावकः प्राश्य मानानि पाषाणचुर्णान्यपि||१२||

🔊 Audio coming soon

अपि चेति समुच्चये| त्रिलवणादीनां चूर्णं यथोक्तेन प्रकारेण दोषादीनपेक्ष्य यः पिबेत्| तस्य हृदयाद्याश्रितं शूलं प्रणश्येत्| त्रिलवणादिभिश्च पक्वं घृतं यः पिबेत् तस्यापि हृदयादिशूलं नश्येत्| पौष्करी जटा पुष्करमूलम्| वरः सिन्दुवारः वेतसाम्लोऽम्लवेतसः| मिसिः शतपुष्पा| गजकणा हस्तिपिप्पली| कोलानि बदरणि| त्रिलवणादीनां चूर्णं बीजपूररसेनासकृद्भावयेत्| अशिशिरवारिप्रभृतीनामन्यतमेन प्रातराहारकाले वा यः पिबेदिति सम्बन्धः| औष्ट्रेणेति दुग्धेन सम्बध्यते| मूत्रेणेति सामान्येन| कोलाम्भो मृदितबदरं जलम्| क्षारनिश्च्योतिततोयं रूक्षद्रव्यभस्मभावितं जलम्| आत्मवान् जितेन्द्रियोऽपथ्यपरिहरणेन| घृतपाके च द्रवद्रव्याणि चूर्णवदेव दोषाद्यपेक्षया देयानि| एताभ्यां चूर्णघृताभ्यामन्यतरेण हृदयाश्रितं शूलं गुल्मादयश्च प्रणश्येरन्| तस्य पावकोऽन्तरग्निः पाषाणचूर्णान्यपि प्राश्यमानानि पक्तुं समर्थो भवति|| १२||

Adhikarana abhayAdicUrNam (13) · Śloka 13

अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्व भेषजत्रिवृद्दन्तीचित्रकशठीपुष्करजटायावशूकान् कार्षि कान् मरिचाजाजीसैन्धवोपकुञ्चिकाशीतिवारकयवानी धातकीपुष्पविडङ्गान् हिङ्गुत्रिकर्षं च चूर्णितं पूर्ववद्भावितं पीतं च समानं तेन||१३||

🔊 Audio coming soon

अभयादिचूर्णं पूर्ववदिति मातुलुङ्गरसेनासकृद्भावितं पूर्ववदेवाशिशिरवारिप्रभृतीनामन्यतमेन प्रातराहारकालेऽपि वा पीतं पूर्वेण त्रिलवणादिना गुणैः समानम्|| १३||

Adhikarana yavAnyAdicUrNam (14) · Śloka 14

यवानीशतपुष्पानागकेसरवचामुस्तव्योषपाठागुग्गुलुत्रि वृतागजपिप्पलीतालीसैलापामार्गद्रवन्तीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुङ्ग दाडिमबदररससीधुसुरोष्णसलिलान्यतमेन पीतं शूल गुल्मवर्ध्मानाहोदरकोष्ठस्तैमित्यार्शोऽश्मरीमूत्रग्रहकटी पृष्ठग्रहोन्मादापस्मारस्कन्नशुक्लताग्निसादानपनयति||१४||

🔊 Audio coming soon

यवान्यादीनां समानां मिश्रीकृतानामेको भागस्तत्समं श्लक्ष्णपिष्टं मातुलुङ्गरसादीनामन्यतमेन पीतं शूलादीनपनयति| स्कन्नशुक्लता स्त्यानशुक्लत्वम्|| १४||

Adhikarana tilakutalAdikShAralehaH (15) · Śloka 15

तिलकुतलपलाशसर्षपयवनालमूलकबीजानामन्तर्धूम दग्धानां क्षारं गोऽविमहिषीखरहस्तिमूत्रैर्बहुकृत्वो गाल येत्| ततस्तदच्छं शुण्ठीसैन्धवकुष्ठकृमिघ्नचूर्णप्रतीवा पमधिशृत्य लेहीभूतमाददीत| तत्तैलयुक्तं समानं पूर्वेण||१५||

🔊 Audio coming soon

तिलकुतलपलाशादीनामन्तर्धूमदग्धानां क्षारात् गवादिमूत्रेण प्रत्येकं बहुकृत्वोऽनेकवारं गालिलात् स्राविताद्यदच्छं प्रसन्नं जलं तच्छुण्ठ्यादिचूर्णेन सहालेहीभावाद्विपक्वमुपयोगकाले च तैलेन सहोपयुक्तं पूर्वेण यवान्यादिना गुणैः समानम्| तिलकुतलस्तिलकाण्डम्| तिलपलाशं तिलपत्रम्| यवस्य नालं मध्यो भागः|| १५||

Adhikarana kShArAgadaH (16) · Śloka 16

महौषधदेवदारुदन्तीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुञ्चिकाच विकाद्वीपिपिप्पलीद्वयपिप्पलीमूलसर्पसुबन्धाकुष्ठकटु रोहिणीनामर्धपलिकान् भागान् पलं पलं च पञ्चानां लवणानामेकत्र चूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरेऽन्तर्धूमं पाचयेत्| अग्निवर्णं च कलशमपनीय क्षारमाददीत| एष क्षारागदो भेलविहितः समानः पूर्वेण सर्पमूषिकदष्टगरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति||१६||

🔊 Audio coming soon

महौषधादिकं दध्ना त्रिव्रुतेन चालोड्यान्तःकलशमन्तर्धूमं दग्धं क्षारागदनामा भेलविहितः क्षारः पूर्वेण यवान्यादिना गुणैः समानः| सर्पदष्टादींश्च साधयति| विषहितत्वादगद इति नामविशेषणम्| महौषधं शुण्ठी| द्वीपिश्चित्रकः| सर्पसुगन्धा गन्धनाकुली| पञ्चलवणानि सैन्धवादिक्रमेण प्रत्येकं पालिकानि| त्रिवृतं स्नेहत्रयम्| इति वातगुल्मे चिकित्स्यमाने भिषगादिदोषाद्या श्लेष्मणो वृद्धिस्तत्र चिकित्सोक्ता|| १६||

Adhikarana pittavRuddhau virekaH (17) · Śloka 17

पित्तं च विवृद्धमन्तः सन्तापं जनयेत्| तत्रैरण्डतैलं सप- यस्कं विरेचनार्थं पिबेत्| सकफस्तु वारुणीमण्डमिश्रम्| अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण पिबेत्| विरिक्तस्यापि सन्तापानुवृत्तौ रक्तमवसेचयेत्||१७||

🔊 Audio coming soon

पित्तं च वृद्धमित्यादिना वातगुल्म एव चिकित्स्यमाने अरक्षया पित्तस्य वृद्धस्य चिकित्सोच्यते| केवले पित्ते विवृद्धेऽन्तःसन्तापे सक्षीरमेरण्डतैलं विरचनार्थं पिबेत्| विरचनार्थग्रहणेन विरेचनविधानं स्मारयति कालादिनियमनाय| सकफस्तु पित्ते वृद्धे वातगुल्मी वारुण्याः सुरायामण्डेन प्रसन्नेन मिश्रमेरण्डतैलं पिबेत्| यस्य त्वत्युद्धतं पित्तं सः त्रिफलां त्रायमाणां वा क्षीरेण सह पिबेद्विरेचनार्थम्| एवमनन्तरोक्तैः प्रकारैर्विरिक्तस्याप्यनुवर्तत एव| यदि सन्तापस्ततो गुल्मस्थानाद्रक्तमवसेचयेत्|| १७||

Adhikarana viDbandhe visheShaH (18) · Śloka 18

विड्बन्धे चोदावर्तक्रमं कुर्यात्| लुञ्चिततिलपलद्वयं शुण्ठ्यर्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत्| तद्वातगुल्मोदावर्तयोनिशूलानपोहति| तथा क्षीर शृतेन महापञ्चमूलेन शिलाह्वयम्| लशुनन्तु क्षीरसिद्धं पीत्वा गुल्मोदावर्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति||१८||

🔊 Audio coming soon

पुरीषस्य बन्ध उदावर्तचिकित्सितं कुर्यात्| लुञ्चित इत्यादि सुबोधम्| लुञ्चितं त्याजितत्वक्| तथेति पिबेत्| किम् ? क्षीरे संस्कृतेन बृहत्पञ्चमूलेन सह शिलाजतु| पुरुषः क्षीरसिद्धं लशुनं घनीभूतं पीत्वा गुल्मादीन् जयत्यभिभवति|| १८||

Adhikarana bRuhatyAdikvAthAH (19) · Śloka 19

बृहतीद्वयबिल्वगोक्षुरकैरण्डमातुलुङ्गीमूलपाषाणभेदक्वाथः सयावशूको गुल्मशूलहरः| माषपर्णीमुद्गपर्णीसह देवाह्नस्वपञ्चमूलैरण्डेक्षुवालिकानिर्यूहो यवक्षरोपेतः सर्वगुल्मकोष्ठशूलघ्नः| देवदारुनागरैरण्डपुष्करमूलानां क्वाथः सर्वगुल्मशूलघ्नः| पुष्करमूलदुरालभायव शुण्ठीनां वा| तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः| स्वेदांश्च विविधान् पुनः पुनर्यो जयेत्||१९||

🔊 Audio coming soon

बृहत्यादिक्वाथो यवक्षारचूर्णसहितो गुम्लशूलहरः सुबोधम्| इक्षुबालिका करम्भशालिनामा इक्षुविशेषः| निर्यूहः क्वाथः| पुष्करमूलादीनां क्वाथ इति सम्बन्धः| तैलादिकं यवक्षारान्तं सर्वञ्च समांशं पीतं गुल्मादिहरम्| सुबोधम्|| १९||

Adhikarana sraMsanArthaM snehaghRutAni (20) · Śloka 20

स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पुर्वोक्तानि हवींषि पिबेत्| अथवा रामठस्यैको भागः सैन्धवस्य त्रयो नवै रण्डतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरम्| नीलिनीबला व्याघ्रीकटुकाफलतालपत्रिकारास्नाकृमिघ्नानि पालि कान्यपामाढके साधयित्वाऽष्टभागावशिष्टमवतारयेत्| तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिः प्रस्थं पचेत्| तत्पेयामण्डेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्रजठरव्यङ्गशोफज्वरपाण्डुरोगो न्मादापस्मारानपकर्षयति| दुर्विरेच्यो हि सर्व एव गुल्मी मारुताभिभूतकोष्ठत्वात्| तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत्||२०||

🔊 Audio coming soon

स्रंसनार्थी गुल्मी दोषाद्यपेक्षया पुनरपि विरेचने प्राप्ते| अथवेति पूर्वापेक्षया| सुबोधम्| रामठं हिङ्गु| नीलिनीघृतं सुबोधम्| सर्वस्य गुल्मिनो विरेच्यस्य मारुतावजयाय स्नेहस्वेदपुर्वकं विरेकं युञ्ज्यात्| स्नेहविरेकं वा स्नेहनार्हस्य| इति वातगुल्मे अरक्षया पित्तश्लेष्मणोर्वृद्धयोश्चिकित्सोक्ता|| २०||

Adhikarana snigdhoShNaje pittagulme sraMsanAni (21) · Śloka 21

पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कम्पि ल्लकमवलिह्यात्| द्राक्षाभयारसं वा सगुडं पिबेत्| कल्पोदितानि वा विरेचनानि प्रयुञ्जीत||२१||

🔊 Audio coming soon

पित्तगुल्म इत्यादिना पित्तगुल्मचिकित्सोच्यते| माक्षिकेण कम्पिल्लकं विरेचनार्थं स्निग्धोष्णद्रव्यजात एव पित्तगुल्मे| (नि) 'कम्पिल्लको रजनको रेवको रक्तचूर्णकः|' द्राक्षाया हरीतक्याश्च रसमेकीकृतं सगुडम्| विरेचनकल्पविहितानि वा विशिष्टपित्तयोग्यानि विरेचनानि| इति स्निग्धोष्णजे पित्तगुल्मे|| २१||

Adhikarana rUkShoShNaje pittagulme shamanAni (22) · Śloka 22

रूक्षोष्णसमुद्भूते पुनः संशमनार्थं तिक्तकं वासाघृतं वा पिबेत्| अथवा तृणपञ्चमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः| तथा न्यग्रोधादिगणेन तृणपञ्चमूलादिभिर्वा पृथक् साधितं क्षीरम्||२२||

🔊 Audio coming soon

रूक्षोष्णजे तु तिक्तघृतादिभिः शमनमेव योज्यम्, न तु स्रंसनम्| तिक्तकं कुष्ठोक्तम्| वासाघृतं रक्तपित्तोक्तम्| तृणपञ्चमूलक्वाथो घृताच्चतुर्गुणस्तत्रैव जीवनीयानां कल्कः स्नेहाच्चतुर्थांशेन| अथवा न्यग्रोधादिगणेन साधितं क्षीरम्| तृणपञ्च मूलादिभिर्वा पञ्चमूलैः पृथक्पृथक् क्षीरं साधितम्|| २२||

Adhikarana Atyayike virecanaprayogaH (23) · Śloka 23

रूक्षोष्णजेऽपि चात्ययिके समान्यतो वा समुत्पन्ने विद्र धिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाघृता नामन्यतमं पिबेत्| क्षीरं वा त्रायमाणाश्रुतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुपिबेत्||२३||

🔊 Audio coming soon

रूक्षोष्णजे शमनस्योक्तत्वाद्विरेचनं न प्राप्नोति| तदर्थमुच्यते-आत्ययिके बाधावहे रूक्षोष्णजेऽपि त्रिफलाक्वाथादीनां प्रयोगः| सामान्यतो वा यो गुल्म उत्पन्नस्तस्मिन् सामान्यत इति किञ्चिद्रूक्षेण किञ्चित्स्निग्धेन चोष्णेन| सुबोधम्|| २३||

Adhikarana pakvAshayasthe visheShaH (24) · Śloka 24

पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशो धयेत्| शीतद्रव्यसिद्धैश्च स्नेहैरभ्यञ्जयेत्| मणिकनक रजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेश स्योपरि धारयेन्मुक्तावलीश्च सुशीताः| एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत्| स्रुतरक्तञ्च जाङ्गल रसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत्||२४||

🔊 Audio coming soon

पक्वाशयस्थ इति पित्तगुल्म एव तिक्तैर्द्रव्यैः सह क्षीर बस्तिभिः संशोधयेत्| शीतानि द्रव्याणि चन्दनादीनि| मण्यादिभाजनानि शीतलजलपूर्णानि गुल्मस्योपरि धारयेत्| एवमन- न्तरोक्तेन चिकित्सितेनाशान्तौ पित्तगुल्मे विदाहपुर्वरूपेषूत्पत्स्यमानायां पाकाभि-मुखाख्यायां विदाहावस्थायां चासृक् स्रावयेत्| सुबोधम्|| २४||

Adhikarana vidahyamAnapakvayorvisheShaH (25) · Śloka 25

विद्रधिवच्च विदह्यमानमुपनाहयेत्| पर्यागतमपि तद्वदु- पलक्ष्य तथैव सर्वथोपचरेत्||२५||

🔊 Audio coming soon

विदह्यमानं पच्यमानं विद्रधिवदुपनाहयेत् पिण्डैर्बध्नीयात्| पर्यागतमतिक्रान्तपाकं गुल्मं तद्वद्विद्रधिवदुपलक्ष्य लिङ्गैर्ज्ञात्वा विद्रधिवदेव सर्वशः सर्वेण प्रकारेणोपचरेदिति पित्तगुल्मचिकित्सा|| २५||

Adhikarana shleShmagulme kramaH (26) · Śloka 26

श्लेश्मगुल्मिनं प्रागेव विधवद्वामयेदवाम्यमुपवासयेत्| लङ्घितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत्| तथा स्वेदान् वातगुल्मोक्तानि च घृतादीनि द्विगुणहिङ्गुक्षाराम्लवेत सानि||२६||

🔊 Audio coming soon

श्लेष्मगुल्मे वमनप्रयोगे विधिग्रहणं यत्नेन वमनापायरक्षणार्थम्| अवाम्यं गर्भिण्यादिकमुपवासयेदालङ्घितलिङ्गलाभात्| तनदु संसर्गं पेयादिकमुष्णत्वादिगुणं हितम्| स्वेदांश्चाचरेत्| वातगुल्मे यानि घृतादीन्युक्तानि तानि प्राप्तमानात् हिङ्ग्वादीनि द्विगुणीकृत्य दत्वा योज्यानि|| २६||

Adhikarana dashamUlAdi ghRutam (27) · Śloka 27

दशमूलक्वाथे व्योषदाडिमहिङ्गुयवक्षारविडङ्गसैन्ध वयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नम्|२७|

🔊 Audio coming soon

Adhikarana bhallAtakaghRutam (27) · Śloka 27

भल्लातकपलद्वयं लघुपञ्चमूलं च पालिकमुदकाढके प्रस्थावशेषं पाचयेत्| तस्मिन् क्षीरप्रस्थे च सर्पिःप्रस्थं हिङ्गुविडङ्गशठीबिडसैन्धवक्षाररास्नानागरपिप्पलीषड्ग्र- न्थामधुकचित्रकैः काऱ्षिकैर्विपचेत्| एतद्भल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपाण्डुरोगघ्नम्|२७|

🔊 Audio coming soon

Adhikarana ShaTpalaM ghRutam (27) · Śloka 27

षट्पलं वा द्विगुणक्षारं क्षीररहितं मस्तुदधिकाञ्जि- कार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुञ्जीत|२७|

🔊 Audio coming soon

Adhikarana hi~gvAdicUrNam (27) · Śloka 27

हिङ्गुहरीतकीपुष्करमूलशुण्ठीसैन्धवविड्श्यामायव- क्षारतुम्बुरुचूर्णो यवक्वाथाप्लुतः सर्पिभृष्टो भक्षितः शूलगुल्मकाठिन्यघ्नः||२७||

🔊 Audio coming soon

दशमूलादिकं घृतं सुबोधम्| भल्लातकघृतं च सुबोधम्| यच्च राजयक्ष्मणि षट्पलमुक्तं तद् द्विगुणेन क्षारेण क्षीरप्रतिषेधेन च मस्त्वादीनां मिश्रितानामाढकद्वयेन सह साधयित्वा प्रयुञ्जीत| हिङ्ग्वादीनां चूर्णो यवक्वाथेनालुडितो घृतेन च भर्जितो भक्षितः सन् शूलगुल्मादिघ्नः|| २७||

Adhikarana ghaTikayA cAlanam (28) · Śloka 28

ततोऽस्य सर्वमङ्गं च साध्मानं सविबन्धं कठिनमुन्नतं गूढमांसं स्थिरं महावस्तुं वा बहुधा बहुशश्च स्वेदयेत्| स्निग्धस्विन्नशरीरस्य शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत्| तया संगृहीते च गुल्मे घटीमपनयेद् भिद्याद्वा||२८||

🔊 Audio coming soon

ततोऽस्य गुल्मिनः सर्वमङ्गं शरीरं गुल्मं च साध्मानादिरूपं बहुधा बहुभिः स्वेदप्रकारैः बहुशोऽनेकवारं स्वेदयेत्| गूढमांसं मांसेन दुर्लक्ष्यं महावस्तुं बह्वाभोगम्| सुबोधम्| घटिका उक्ता यन्त्रविधौ| तयेति घटिकया गुल्मे तुम्बवत् संगृहीते सुलग्नामपि घटिकां बलादपनयेद्वा भिन्द्याद्वा|| २८||

Adhikarana pIDanalepanaishcAlanam (29) · Śloka 29

ततो हृदयमान्त्रं च वर्जयन् गुल्मं विमार्गाजपदादर्शा न्यतमेन वस्त्रान्तरितं प्रपीडयेत् प्रमृज्यात्| ततः साल्वला दिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत्||२९||

🔊 Audio coming soon

ततो गुल्मं वस्त्रव्यवहितं कृत्वा हृदयमान्त्रञ्च परिहरन् विमार्गा-दिभिः सर्वतोदिक्कं प्रपीडयेत्| प्रमृज्यान्म्रंक्षयेत्| विमार्गो मोचकानां चर्मणि रेखाकरणं काष्ठमयम्| यस्य पीवाङ्ग इति प्रसिद्धः| अजपदस्य प्रान्तं क्रियायोगि| आदर्शस्य दर्पणस्य वर्तुला धारा क्रियायोगिनी| एतेषामन्यतमं यथालाभम्| साल्वलाख्यानि स्वेद-विध्युक्तानि पद्मकादीनि| सुबोधम्|| २९||

Adhikarana shithilIbhUte gulme karma (30) · Śloka 30

एवममुना क्रमेण स्थानादपसृते शिथिलीभूते च गुल्मे विरेकान् स्नेहवतो दाशमूलिकांश्च बस्तीन् विदध्यात्| नीलिनीघृतमेनं द्विगुणप्रमाणं पाययेत्| उदरोक्तानि च सर्पींषि||३०||

🔊 Audio coming soon

दशमूलेन संस्कृता दाशमूलिकास्ते च बस्तिकल्पे वक्ष्यन्ते| एनमिति श्लेष्मगुल्मिनम्| द्विगुणं नीलिनीघृतं पलमात्रयेत्युक्तत्वात् द्विपलम्|| ३०||

Adhikarana mishrakasnehau (31) · Śloka 31

त्रिफलाकुम्भनिकुम्भदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमेरण्डतैलं क्षीरं चैकतः साधयेत्| अयं मिश्रकस्नेहः कफगुल्मवातविड्विबन्धोदावर्तप्लीहोदरयोनिशूलान्य पकर्षति||३१||

🔊 Audio coming soon

पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरेरण्डतैलहविषोः प्रस्थौ षडगुणे पयसि पचेदयं मिश्रकस्नेहो गुल्मिनां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परमममृतम्| त्रिफलादीनां यत्र षोडशपलानि तत्र जलपलानां शतद्वयं षट्पञ्चाशच्च दत्वा षोडशांशावशिष्टं क्वथिमवतारयेत्| षोडशपलानीति यावत्| तत्सममेव घृतं चैरण्डतैलं च क्षीरं च| अत्र सामान्यक्वाथपरिभाषा च षोडशांशावशेषमित्यंशवचनेन बाधिता| अयं च स्नेहो नाम्ना मिश्रकः| पिप्पल्याद्यैर्घृततैलान्मिश्रभूतात् षडगुणं क्षीरं चतुर्विंशतिप्रस्थं स्रंसनं विरेचनम्|| ३१||

Adhikarana dantIharItakI (32) · Śloka 32

दन्त्याः पलानि पञ्चविंशतिस्तावन्त्येव चित्रकस्य तावन्त्य एव हरीतक्यः सर्वमेकत्र सलिलकलशेऽष्टांशावशिष्टं साधयित्वा पूते च तस्मिन् रसे ताश्च हरीतकीः पञ्चविंशति गुडपलानि तैलार्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्ध पलोन्मितां मागधिकां महौषधं च प्रक्षिपेत्| ततो मृद्वग्निना लेहीभूतेऽवतारिते शीते च तैलसमं मधुकर्षांशञ्च चतु र्जातकचूर्णं मिश्रयेत्| एता दन्तीहरीतक्यः सावलेहाः पञ्चविंशत्यहोभिर्भक्ष्यमाणा गुल्माऱ्शःश्वयथुकुष्ठका मिलारोचकग्रहणीपाण्डुहृद्रोगोत्क्लेशप्लीहोदरविषमज्व रानपोहति| हृद्यं सुखं च विरेचनम्||३२||

🔊 Audio coming soon

दन्त्याः पलानीत्यादिना दन्तीहरीतक्यः सुबोधः| हरीतक्याः पञ्चविंशतिः फलसङ्ख्य्या| सलिलस्य कलशः पञ्चपलशतानि सद्वादशपलानि| ता इति क्वाथद्रव्येभ्य उद्धृत हरीतकीः| पञ्च विंशतिमित्येतद्गुडपलानीत्यनेन सम्बध्यते| तैलार्धकुडवं चत्वारि पलानि| त्रिवृतायाः कुडवं चत्वारि पलानि शुष्कद्रव्यत्वात्| चतुर्जातौषधानां प्रत्येकं कर्षः| सावलेहभागकल्पनया हरीतकीनामवलेहमुपयोगे सहितं भवति| तच्चैकस्याः पलं भवति|| ३२||

Adhikarana prayogAntarANi (33) · Śloka 33

गुडक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलि ह्यात्| गुग्गुलुं वा गोमूत्रेण पिबेत्| तेन वा श्यामात्रि वृत्कुष्ठदन्तीगुग्गुलुक्षारहरीतकीः पीलुरसं वा समधु सर्पिर्लवणम्| मूत्रबस्तिक्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्नि ग्धाहारो द्व्यहमेकाहं वा विश्राम्य प्रयुञ्जीत| क्षारो हि श्लेष्माणं स्निग्धस्थिरमधुरमाशायात् छिन्दन् क्षरयति| कफरुद्धमार्गशुद्ध्यर्थं विविधांश्च चूर्णलवणतक्रारि ष्टासवानवचारयेत्| पिप्पलीपिप्पलीमूलसैन्धवाजाजी चित्रकचूर्णयुक्तां च जीर्णसुराम्||३३||

🔊 Audio coming soon

अथवा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात्| किम्भूतं गुडक्षीरेण भावितम्| अथवा गुग्गुलुं गोमूत्रेण पिबेत्| अथवा श्यामादिकं तेनेति गोमूत्रेण पिबेत्| सुबोधम्| मूत्रादींस्तत्र तत्रोदरार्शः कुष्ठाद्यध्यायेषूक्तान् तांस्तानिति तैरेव नानाविधैः प्रयोगैः मूत्रादिभिः प्रयुञ्जीत क्षीराद्याहारः सन्| द्वयहं विश्राम्य वलाद्यपेक्षयैकाहमेव वा विश्राम्य| क्षारस्य प्राधान्याद्धेतुरुच्यते| कफस्य स्निग्धत्वादिवचनं क्षारस्य विपरीतगुणप्रदर्शनाय| आशयात् स्थानात् क्षरयति शोधयति| विविधांस्तीक्ष्णान् क्षारचूर्णादीन् कफेन रुद्धस्य मार्गस्य शुद्ध्यर्थमवचारयेत्| पिप्पल्यादिचूर्णयुक्तां जीर्णां बहुवर्षोषिताञ्च सुराम्||३३||

Adhikarana shlokaiH shlaiShmike kramasaMgrahaH (34) · Śloka 34

अपि च- वमनैर्लङ्घनैः स्वेदैः सर्पिष्पानैर्विरेचनैः| बस्तिभिर्गुलिकाचूर्णक्षारारिष्टासवैरपि| श्लैष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति| तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः||३४||

🔊 Audio coming soon

अपि चेति श्लोकसमुच्चये| श्लैष्मिको गुल्मः कृतमूलत्वाल्लब्धमूलत्वाद्धेतोर्यदि वमनादिभिर्न शाम्यति ततस्तस्य गुल्मस्यान्ते यथोक्तानां क्रियाणां निष्फलत्वाद्विच्छेदाय रक्तं विस्राव्य शरादिभिर्दाहं कुर्यात्|| ३४||

Adhikarana dAhavidhiH (35) · Śloka 35

अथ वस्त्रान्तरितं सपर्यन्तं गुल्मनिचयं प्रदीप्तेन शर लोहाग्निमन्थतिन्दुकाष्ठानामन्यतमेन नाभिबस्तिहृदया न्त्ररोमराजीः परिहरन् नातिगाढं परामृशेत्| ततः कषाय स्वादुशीतैरग्निवेगमुपशमय्यव्रणोपक्रमं कुर्वीत||३५||

🔊 Audio coming soon

अथेत्यादिना तस्यैव दाहस्य विधानम्| गुल्मनिचयो गुल्मसङ्घातः| अग्निना प्रदीप्तेन शरकाष्ठेन वा दहेत्| शस्त्रेण वाग्निमन्थकाष्ठेन वा तिन्दुककाष्ठेन वा| तथा च गुल्मं दहेद्याथा नाभ्यादिकस्य पीडा न सम्भवति| नातिगाढं गुल्मे प्रवेशयेत्| तत इति दाहानन्तरम्| सुबोधम्| इति श्लेष्मगुल्मचिकित्सा|| ३५||

Adhikarana vyAmishradoShe karma (36) · Śloka 36

व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदध्यात्||३६||

🔊 Audio coming soon

व्यामिश्रदोषे संसर्गजसन्निपातजे गुल्मे इदमेवाध्यायनिर्दिष्टं विधानं दोषाद्यपेक्षयैव व्यामिश्रं विदध्यात्|| ३६||

Adhikarana raktagulme cikitsA (37) · Śloka 37

रक्तगुल्मे पुनरतीतप्रसवकालाया योषितः स्नेहस्वेद- पूर्वकं स्नेहविरेचनं वितरेत्| पलाशक्षारोदकसिद्धं च यमकम्| गुल्मभेदनाय तीक्ष्णोष्णं च विधिम्||३७||

🔊 Audio coming soon

अनन्तरं रक्तगुल्मचिकित्सा; तस्मिन् रक्तगुल्मे नार्याः प्रसवकाले दशमासाख्ये गते विरेकं कुर्यात्| तदा हि निर्भ्रान्तित्वं गुल्मे भवति| पलाशवृक्षक्षारस्रुतोदके स्नेहसमे यमकं घृततैलं पक्वं वितरेत्| यदि च गुल्मस्य भेदनं प्रयोजनं ततस्तीक्ष्णोष्णमाहारौषधादिकं विधिं भजेत्|| ३७||

Adhikarana bhedanArthaM kriyAvisheShaH (38) · Śloka 38

एवमभिद्यमाने योनौ योनिविरेचनार्थं क्षारेण महावृक्ष क्षीरेण वा युक्तं पललम्| ताभ्यां वा भावितान् कटु कमत्स्यांस्तत्पित्तभावितान् वा वराहपित्तभावितान् वा नक्तकानूर्ध्वाधोभागिकद्रव्यभावितान् वा| सगुडक्षारं किण्वं वा| बस्तिञ्च सक्षारक्षीरमूत्रं दाशमूलिकमुत्तर बस्तिं च योजयेत्||३८||

🔊 Audio coming soon

एवमनन्तरोक्तेन हितेनाप्यभिद्यमाने गुल्मे योनिविरेचनार्थं पललं तिलकल्कं यवक्षारेण वा महावृक्षक्षीरेण वा युक्तं योजयेत्| महावृक्षः सुधा| ताभ्याञ्च यवक्षारसुधाक्षीराभ्यां भावितान् कटुकमत्स्यान् दद्याद्वितरेत्| अथवा तत्पित्तेन कटुकम्त्स्यपित्तेन भवितान् पिचून्योनौ दद्यात्| किण्वं वा गुडक्षारयुक्तं योनौ दद्यात्| सक्षारादिकं दाशमूलिकं बस्तिमुत्तरबस्तिञ्च युञ्ज्यात्|| ३८||

Adhikarana pravRuttAtipravRuttaraktayoH kriyA (39) · Śloka 39

प्रवृत्तं तु रक्तं रसौदनाशिन्या उपेक्षेत| अतिप्रवृत्तं तु रक्तपित्तोपक्रमेण साधयेत्||३९||

🔊 Audio coming soon

एनमौषधैः प्रवृत्तं रक्तमुपेक्षेत| नान्यदौषधं कुर्यादित्यर्थः| औषधतैक्ष्ण्याच्च यदि रक्तमतियोगेन प्रवर्तते ततस्तद्रक्तं रक्तपित्तचिकित्सया साधयेत्|| ३९||

Adhikarana sarveShvAhAravidhinirdeshaH (40) · Śloka 40

सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी प्रयुञ्जीत||४०||

🔊 Audio coming soon

सर्वेष्वित्यादिनोपसंहरति| अनलापेक्षयाऽऽहारद्र्व्याणाम् गुणागुणं दोषादिकं च समीक्ष्यान्नपानं गुल्मेषु युञ्जीतेति तात्पर्यार्थः||४०||

Adhikarana AnAhAdiShu kriyAsAmAnyam (41) · Śloka 41

आनाहादिष्वप्यामशुद्धवातोदावर्तानुरोधेन गुल्मवत् प्रति कुर्यादिति||४१||

🔊 Audio coming soon

केवलेषु चानाहादिष्वामाद्यनुरोधेन तदपेक्षया यथायोग्यं गुल्मवत् चिकित्सितं कुर्यात्|| ४१||

Adhikarana gulmacikitsAyAmagnermahattvam (16) · Śloka 16

भवति चात्र- मन्देऽग्नौ वर्धते गुल्मः प्रदीप्ते तु प्रशाम्यति| शमप्रकोपौ दोषाणां सर्वेषां यत्नदाश्रयौ||४२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टा ङ्गसंग्रहसंहितायां चिकित्सितस्थाने गुल्म चिकित्सितन्नाम षोडशोऽध्यायः||१६||

🔊 Audio coming soon

गतानुगतिका| मन्द इत्यादि सुबोधम्| मन्देऽग्नौ वर्धते गुल्मवृद्धेरग्निमान्द्येन दोषकोपः| प्रदीप्तेऽग्नौ गुल्मशमस्य हेतुर्दोषप्रशम इति|| ४२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने षोडशोऽध्यायः||१६||