Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

17. udaracikitsitam

Adhikarana athodaracikitsitannAma saptadasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथात उदरिचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रैयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्योदरस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते||१||

Adhikarana sarvodareShu virecanantatra hetushca (2) · Śloka 2

सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुख़नि रोधाद्व्याकुलानिलतया यत्प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत| मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमह रहर्मासमेकं द्वौ वा| क्षीरहारो वा गव्यं वा माहिषं वा मूत्रम्| उष्ट्रीक्षीरवृत्तिर्वा स्यात्||२||

🔊 Audio coming soon

सर्वमित्यादिनोदरिणोऽभीक्ष्णं विरेचनोपयोगहेतुरतिमात्रो यो दोषाणां सञ्चयस्तस्यानुबन्धेन कर्त्रा स्रोतोमुख़निरोधः| अनिलस्य व्याकुलत्वमनेकरूपमवस्थानम्| मूत्रेत्यादिना विरेचनप्रयोगः| गव्यां माहिषं वा मूत्रं क्षीराहारः| अथवा सर्वाहारपानपरित्यागेनोष्ट्रीक्षीरवृत्तिः स्यात्|| २||

Adhikarana shoPashUlAdisahite visheShaH (3) · Śloka 3

शोफशूलानाहतृण्मूर्छापरीतो विशेषेण पयोऽनुपानं गो मूत्रेण प्राणदां पिबेत्| पिप्पलीसहस्रं व स्नुहीक्षीरभावितं सेवेत| तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम्| सैन्धवाजमोदयुक्तं वा नैम्बं तैलम्| अथवाऽऽर्द्रक रसानुविद्धं सिद्धं वा||३||

🔊 Audio coming soon

शोफादिपरीत उदरी अनन्तरोक्तं कुर्याद्विशेषेण तु प्राणदां हरीतकीं गोमूत्रेण सह पिबेत्| पीतायां पश्चात् क्षीरं पेयम्| पिप्पलीसहस्रं क्रमेण सेवेत तद्भावितेन स्नुहीक्षीरभावितेन पिप्पली हरीतकीचूर्णेन सह कासरम्| तच्च गुग्गुलुपर्यायप्रसिद्धम्| निम्बस्रुतं तैलं सैन्धवाजमोदाभ्यां युक्तम्| अथवाऽऽर्द्रकस्य रसेनानुविद्धं तेन स्तोकेन कृतसंस्कारं तत्सिद्धं वा|| ३||

Adhikarana harItakIGRutam (4) · Śloka 4

हरीतकीचूर्णप्रस्थयुक्तमाढकं ग़ृतस्याङ्गारेष्वभिविलाप्य ख़जेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत्| तत श्चोद्धृत्य परिस्राव्य हरीतकीक्वाथाम्लवदधिप्रतीवापं विपाचयेत्||४||

🔊 Audio coming soon

हरीतकीचूर्णप्रस्थेन युक्तं ग़ृतस्याढकमग्नौ विलाप्य ख़जेन मथितं सदनु गुप्तं यवपल्ले यवराशौ निधापयेत्| ततश्च यवपलान्मासादूर्ध्वमुद्धृतं वस्त्रेण च परिस्राव्य स्नेहसमं हरीतकीक्वाथं तावदेव चाम्लं दधि दत्वा पचेदिति|| ४||

Adhikarana sudhAkShIraGRutam (5) · Śloka 5

अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीती भूतमभिमथ्य तन्नवनीतं महावृक्षक्षीरेणैव सह साध येत्||५||

🔊 Audio coming soon

अथवा गव्ये पयसि सुधाक्षीरं दत्वा विपचेत्| क्षीरस्य ग़नत्वं यावत्ततः शीतीभूतं क्षीरं दण्डेनाभिमथ्य नवनीतं गृह्णीयात्| तच्च नवनीतं सुधाक्षीरेण समेन सह विपाचयेदिति द्वितीयं ग़ृतम्||५||

Adhikarana cavikAdiGRutam (6) · Śloka 6

अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्ग- त्रिफलाकटुरोहिणीद्विहरिद्राशङ्ख़िनीत्रिवृद्दीप्यकानर्धकार्षि- कान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्र- क्षीरग़ृतत्रिकुडवं चैकध्यं पाचयेत्| एतानि तिल्वक- चतुर्थानि सर्पीषि पीतान्युदरगुल्मविद्रध्यष्ठीलानाहकु- ष्ठोन्मादापस्मारान्निग़्नन्ति||६||

🔊 Audio coming soon

अथवा चविकेत्यादिना तृतीयम्| एतानि त्रीणि सर्पीषि येषां तिल्वकसर्पिश्चतुर्थं तानि चत्वारि पीतान्युदरादीन् ग़्नन्ति| तिल्वकग़ृतम् वातव्याधावुक्तम्|| ६||

Adhikarana dashamUlaShaTpalaM GRutam (7) · Śloka 7

यावशूकपञ्चकोलषट्पलेन वा मस्तुदशमूलक्वाथा ढकद्वयेन च सिद्धण् सर्पिःप्रस्थं प्रयोजयेत्||७||

🔊 Audio coming soon

पलं यवक्षारस्य पलपञ्चकं पञ्चकोलानां मुस्तुन आढकं दशमूलक्वाथस्याढकम्| ग़ृतस्य प्रस्थ इति दशमूलषट्पलम्|| ७||

Adhikarana yavakolAdiGRutam (8) · Śloka 8

यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरक युक्तं सर्पिः||८||

🔊 Audio coming soon

यवादीनां क्वाथो ग़ृतसमः सुरासौवीरकं मिश्रीभूतं ग़ृतसममित्युदरिणो ग़ृतानि|| ८||

Adhikarana snehottaraM virecanam (9) · Śloka 9

सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवा रिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत्| विरेचनद्रव्य कषायं नागरदेवदारुप्रगाढम्| त्रिलवणादिचूर्णं वा द्वित्रि गुणानुलोमनद्रव्यम्||९||

🔊 Audio coming soon

एवं सर्पिष्पानेन दोषे स्रस्ते प्राप्तशैथिल्ये बलवान् पुरुषो विरेचनार्थं मूत्रादिकं स्नुहीक्षीरयुक्तं शीलयेत्| अथवा शोधनादिगणनिर्दिष्टानां विरेचनद्रव्याणां कषायं शुण्ठीदेवदारुचूर्णप्रगाढं शीलयेत्| प्रगाढं ग़नम्| गुल्मोक्तं वा त्रिलवणादिचूर्णं द्विगुणैरन्यभागापेक्षयाऽनुलोमिकद्रव्यैः कुम्भनिकुम्भादिभिः कृतं शीलयेत्| अथवा त्रिगुणानुलोमिकद्रव्यं त्रिलवणादिकम्|| ९||

Adhikarana paTolamUlAdiprayogaH (10) · Śloka 10

पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः| कम्पिल्ल कनीलिनीफलत्रिवृत्तानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ता श्चूर्णयित्वा मूत्रेण पिबेत्| जीर्णे च पेयामण्डपो रसाशी वा स्यात्| ततः षड्रात्रं सव्योषेण पयसाश्नीयात्| ततः सप्तमेऽहनि पुनश्चूर्णं पिबेत्| अनेन विधिना चूर्ण मिदमुदराणि जातोदकान्यपि निबर्हयति| गुल्मभेदनानि च प्रयुञ्जीत||१०||

🔊 Audio coming soon

पटोलमूलादिकं प्रत्येकं कार्षिकम्| कम्पिल्लकं कर्षद्वयम्| नीलिनीफलं कर्षत्रयम्| त्रिवृता कर्षचतुष्टयम् चूर्णयित्वा गोमूत्रेण पिबेत्| तस्मिन् जीर्णे पेयामण्डपो वा स्याद्रसोदनाशी वा इत्येकमहः कृत्वा षड्रात्रमनौषध एव सव्योषेण पयसा भोजनमश्नीयात्| ततः सप्तमे दिवसे पूर्वप्रस्थानेन पुनः पटोलादिचूर्णं पिबेत्| पुनः षड्रात्रविधानेनाचूर्णक्षयम्| जातोदकान्यपि चिरकालप्ररूढत्वात्| सुबोधम्|| १०||

Adhikarana mUtravarttiH (11) · Śloka 11

वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्या णि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना ग़ट्टयन् पाचयेत्| अविदग्धकल्कं च तत्सिद्धमवतार्य शीती भूतमङ्गुष्ठमात्रा गुलिका वर्तयित्वा यथा बलं त्रिचतुरो मासानुपयोजयेत्| एषा मूत्रवर्तिर्महारोगश्वासकासपी नसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाको दावर्तेषु परममगदम्||११||

🔊 Audio coming soon

वमनादिद्रव्याणि सूत्रनिर्दिष्टानि पृथक्पालिकानि| लवणानि च पृथक्पालिकानि| वज्रवृक्षक्षीरस्य प्रस्थमित्येतत् सर्वमूत्रगणे प्रक्षिप्य ग़ट्टयंश्चालयन्मृद्वग्निना| एषा मूत्रवर्तिरुदरे त्रींश्चतुरो वा मासान् बलापेक्षया प्रयोज्या| एषा च महारोगादीनां परमौषधम्| वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः| अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः|| सुबोधम्|| ११||

Adhikarana virecanottarA upacArAH (12) · Śloka 12

कृतविरेचनश्च क्षामदेहोऽन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत्| दोषशेषविजयाय च शील येच्चविकानागरं क्षीरेण पिष्टम्| सुरदारुचित्रकं वा सुरुङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरग़ृतयुक्तम्||१२||

🔊 Audio coming soon

क्षामदेहश्च क्षामत्वनाशनाय व्योषोपेतमौष्ट्रकादिक्षीरं शीलयेत्| विरेचनाद्दोषशेषस्य पाचनार्थं चविकादिप्रयोगान् शीलयेत्| पुनर्न-वान्तं क्षीरेण पिष्टम्| सुरुङ्गा मूर्वा| व्योषक्षारोपेतं वा त्रिफलादि-निर्यूहम्| तदेव स्नुहीक्षीरग़ृतयुक्तम्|| १२||

Adhikarana purANAnnAdisevanam (13) · Śloka 13

पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरञ्च दन्तीचित्रकवि डङ्गचविकात्रिकटुकोपेतम्| तुल्यार्द्रकरसं वा क्षीरं शीलयेत्| पिप्पलीवर्धमानं वा सेवेत| शिलाजतुं वा क्षीराशीं गुग्गुलुं वा| पुनः पुनश्च स्नेहयेद्विरेचयेच्च| आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत| सलिलं तु वर्ज येत्| आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत||१३||

🔊 Audio coming soon

पुराणं चान्न तक्रादींश्च तांस्तानर्शश्चिकित्सिताद्युक्तान्| दन्त्यादिचूर्णोपेतं क्षीरं तुल्यार्द्रकरसं वा क्षीरं पिप्पलीवर्धमानं वा रसायनविधानेन सेवेत| शिलाजतु वा क्षीराशी सेवेत| गुग्गुलुं वा| सुबोधम्| आत्ययिकाः साबाधाः| सलिलमुदरी पाने विवर्जयेत्| यथास्वमित्यात्मीयचिकित्सया|| १३||

Adhikarana vAtaje visheShaH (14) · Śloka 14

वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत्| स्योनाकाग्निमन्थतिलकुतलकदल्यपा मार्गाग्न्यतमक्षारेण वा विपक्वं तैलम्||१४||

🔊 Audio coming soon

वातकृतेषूदरिणः पार्श्वशूलादिषु बिल्ववृक्षक्षारस्रुतेनाम्भसा तैलं विपाचयेत्| स्योनाकादीनामन्यतस्य वा क्षीरेण विपक्वं तैलम्|| १४||

Adhikarana AvaraNe visheShaH (16) · Śloka 15

कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत्||१५||

🔊 Audio coming soon

एरण्डतैलं च वातगुल्मविधानेन पिबेत्| कस्मिन् विषय इत्याह-कफे वातेनावृते| ताभ्यामिति कफपित्ताभ्यां वात आवृते| बलवानिति अबलस्यैरण्डतैलप्रतिषेधः|| १६||

Adhikarana lepasekau (17) · Śloka 17

लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगज पिप्लीदेवदारुभिर्मूत्रपिष्टैः सुख़ोष्णैः| वृश्चिकालीकुष्ठ षड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेच येत्| प्रततमेव च स्वेदयेत्||१७||

🔊 Audio coming soon

शिग्र्वादिभिश्च मूत्रपिष्टैः सुख़ोष्णैरुदरिणो जठरं लिम्पेत्| वृश्चिकाल्यादिक्वाथैर्मूत्रैः परिषेचयेत्|| १७||

Adhikarana AdhmAnAdrakShaNam (18) · Śloka 18

विरिक्तस्य चास्य सदाम्लानमुदरं साल्वलादिभिरुपनद्धं ग़नेन वाससा वेष्टयेत्| एवमेनमनवकाशो वायुर्न पुन राध्मापयति| तथापि पुनः सविरित्कस्याध्मानेऽम्ल लवणान् सुस्निग्धान् निरूहान् दद्यात्| सोपस्तम्भे तु वायौ तीक्ष्णोष्णान्||१८||

🔊 Audio coming soon

विरिक्तस्येत्यादि सुबोधम्| म्लानं विरेकात् त्यक्तकाठिन्यम्| साल्वल इति पद्मकादिस्वेदनाम| एवमिति वेष्टनेन| एतदिति जाठरम्| तथापीत्यादि सुबोधम्| तीक्ष्णोष्णानिति निरूहान्| स्तम्भ एवोपस्तम्भः इति सामान्येनोदरिणां चिकित्सा|| १८||

Adhikarana vAtodare cikitsA (19) · Śloka 19

अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदि ताङ्गतिल्वकग़ृतेन बहुशोऽनुलोमयेत्| कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत्| निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण| ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानल-मुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन| तीक्ष्णोष्णाधो भागिकद्रव्ययुक्तेन वा दाशमूलिकेन| दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुर- णाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलो- रुबूकतैलाभ्यां| भोजयेच्चैनं जाङ्गलरसेन विदार्यादि- शृतेन वा पयसा| सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूल- ग़्नाः| स्वेदयेच्चाभीक्ष्णं जठरम्| अविरेच्यस्य तु पयः सर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौ- षधैः संशमयेत्||१९||

🔊 Audio coming soon

अथेत्यादि सुबोधम्| संसर्गी पेयादिक्रमः| क्षीरेण बले लब्धे दोषोत्क्लेशात् पूर्वं क्षीरं निवर्तयेत्| न तु ज़टित्यपि तु क्रमेण| मन्दं स्तोकमम्लं दाडिमादि लवणं च येषाम्| विदाऱ्यादिगणक्वाथश्चित्राफलतैलेन प्रगाढो ग़नः| चित्राफलानि द्रवन्तीफलानि तेषां तैलम्| अधोभागिकद्रव्याणि च विरेचनद्रव्याणि| तानि तीक्ष्णानि दाशमूलिके सम्मिश्र्यास्थापयेत्| दीप्ताग्नित्वादियुक्तं रूक्षमनुवासयेत्| केनेत्याह-वातहराम्लद्रव्यसिद्धतिलतैलोरुबूकतैलभ्याम्| ऊरुबूक एरण्डः| एनं चानुवासनार्हमुदरिणं जाङ्गलानां रसेन भोजयेत्| विदार्यादिगणसिद्धेन वा क्षीरेण| सरलादिस्रुताश्च स्नेहाः पानेन चाभ्यञ्जनेन च शूलग़्नाः| सरलस्य देवदारुसदृशस्य पीडाख़्यस्य स्नेहः| शेषयोर्बीजम्| सुबोधम्| अविरेच्यस्याल्पाग्निक्रूरकोष्ठादेरुदरिणः पयःप्रभृतिभिर्दोषं संशमयेत्| समभक्तमौषधं सान्नमिति पूर्वं प्रदर्शितम्| इति वातोदरम्|| १९||

Adhikarana pittodare cikitsA (20) · Śloka 20

पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामा त्रिवृत्त्रिफलाविपक्वेनानुलोम्येन मधुग़ृतसिताढ्येन न्यग्रो धादिनिर्यूहेणास्थापयेदनुवासयेच्च| दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत्| सञ्जा तबलाग्निं च स्निग्धं पुनः क्षीरेण सत्रिवृत्कल्केनोरुपूग शृतेन वा| सातलात्रायमाणाभ्यां वाऽऽरग्वधेन वा| सश्लेष्मणि पित्ते समूत्रेण| सवाते तिक्तग़ृतान्वितेन पयसा पुनः पुनर्विरेचयेत्| बस्तिकर्म चाचरेत्| एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत्| पायसेन चोपनाहयेदुदरम्||२०||

🔊 Audio coming soon

पित्तोदरे प्रथमं मधुरद्रव्यसिद्धेन ग़ृतेन स्नेहनं तदन्ते श्यामादिविपक्वेन विरेचनम्| एनमिति पित्तोदरिणं न्यग्रोधादिगणक्वाथेन प्रभूतमाक्षिकादिनास्थापयेदनुवासयेच्चेति प्रकरणानन्यग्रोधादिसिद्धेनैव स्नेहेन| दुर्बलं तु पित्तोदरिणं स्नेहविरेचनास्थापनाद्विनैव प्रागेवानुवास्य क्षीरबस्तिभिः कल्पे वक्ष्यमाणैः शोधयेत्| स्नेहादिविधाने च सूत्रस्थानस्य स्मर्तव्यम्| सञ्जातबलाग्निमित्यादि सुबोधम्| पुनरित्यस्य स्निग्धमित्यनेन सम्बन्धः| सश्लेष्मणि पित्ते समूत्रेण पुनः पुनर्विरेचयेत्| एवमेरण्डशृतं सत्रिवृत्कल्कमेकं क्षीरम्| द्वितीयं सातलात्रायमाणाभ्यां शृतम्| त्रूतीयमारग्वधशृतम्| मूत्रेण सह चतुर्थम्| तिक्तग़ृतेन सह पञ्चममिति सुबोधम्| एषां क्षीराणामन्यतमेन विदार्यादिगणसिद्धेन वा क्षीरेणान्नं भोजयेत्| अस्य च पित्तोदरिणः पायसेन क्षीरसिद्धेनान्नेनोदरमुपनाहयेत् बध्नीयाद्वातादिहरणायेति पित्तोदरम्|| २०||

Adhikarana shleShmodare cikitsA (21) · Śloka 21

श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीर विपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवा सयेच्च| कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत्| स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत्| सततं च स्वेदयेत्| किण्वसर्षपमूलबीजकल्कैर्जठरमुपनाह येत्||२१||

🔊 Audio coming soon

श्लेषमोदरे वत्सकादिगणशृतेनाज्येन स्नेहः| ततः स्वेदः| तदनन्तरं सुधाक्षीरसिद्धेनाज्येन विरेचनम्| ततः कट्वादिभिः संसर्ज्य पेयादिक्रमं कृत्वा त्रिकट्वादिभूयिष्ठेन मुष्ककादिक्वाथेनास्थापयेत्| तत्सिद्धेन तैलेन पश्चादनुवासयेत्| सुबोधम्| स्त्यानकफोदरं ग़नश्लेष्मजठरम्| किण्वादिकल्कैर्जठरमुपनाहयेत् बध्नीयात्| किण्वं सुराग़नम्| इति श्लेष्मोदरम्|| २१||

Adhikarana sannipAtodare cikitsA (22) · Śloka 22

सान्निपातिकमुदरं प्रत्याख़्याय चिकित्सेत्| सर्वमे-वेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च| दोषो-द्रेकतस्तु प्रतिकुर्वीत| सप्तलाशङ्ख़िनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मा समर्धमासं वा| महावृक्षक्षीरमूत्रसिद्धेन वा| अथवाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाज़र सीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनी भार्ङ्गीकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलव णितेन स्निग्धेनास्थापयेत्||२२||

🔊 Audio coming soon

संसर्गजं तु यावत् सम्भाव्यते तावदुक्तमेव| सन्निपातोदरमसाध्यमिति चिकित्सायाः प्रत्याख़्यानं कृत्व चिकित्सेत्| येनासिद्धावयशसा योगो न भवति| चिकित्सा च प्राणेषु कण्ठगतेष्वप्यवश्यं कर्तव्या| एके आचार्या एवं मन्यन्ते यथा न केवलं सन्निपातोदरमेव प्रत्याख़्याय चिकित्सेत् यावत्सर्वमप्युदरं प्रत्याख़्याय चिकित्सेत्| कुत इत्याह-सर्वस्योदरस्य सर्वदोषात्मकत्वात् स्वभावेनातिकृच्छ्रतमत्वाच्चेति| यदा तु प्रतिक्रिया क्रियते तदा दोषोद्रेकमपेक्ष्यः| सुबोधम्| सप्तला सातला| (नि)शङ्ख़िनी तिक्तका चित्रा यवतिक्ताक्षिपीतका| निर्यासोऽत्र क्वाथः| मासमर्धमासं वेति पूर्वापराभ्यां सम्बध्यते| महावृक्षक्षीरं सुधाक्षीरम्| अथवाजगन्धदिक्वाथेन मदनफलादिकल्कगोमूत्रभ्यां संसृष्टेन सैन्धवेन च स्नेहयोगाच्च स्निग्धेनास्थापयेत्| स्वादुकण्टकोऽत्र गोक्षुरकः| (नि) नक्राहिदंष्ट्रिका काली वृश्चिकात्युष्ट्रधूमकः| मूषिकपर्णी द्रवन्ती| क्षुद्रसहा मुद्गपर्णी| वृक्षादिनी वटरुहा कामिन्योरोहिणी च सा| वृक्षादिनीत्यन्वर्थनामा| गृध्रनख़ी तिन्दुकी| कुटिलं तगरम्|| २२||

Adhikarana anupashAntau viShaprayogaH (23) · Śloka 23

तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीना श्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाय येत्| पानभोजनेषु वा विषं निक्षिपेत्| इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा| एवं ह्यस्य दोषसङ्ग़ातः स्थिरो लीन उन्मार्गगो विषे णाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते| तेनागदतां व्रजति| भवान्तरं वा| हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत्| ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्यतमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुङ् मासमेकमश्नीयात्| तत्स्वरसमेव च तृषितः पिबेत्| ततः शाकैर्निहृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयु ञ्जीत||२३||

🔊 Audio coming soon

एवमनन्तरोक्तेन चिकित्सितेन निययात्मके सन्निपातोदरे अशाम्यत्यातुरस्य ज्ञातीना श्राव्य श्रावयित्वा मद्येनाश्वमारादिकल्कं पाययेत्| सर्वत्र च जठरे अशाम्यतीदं सर्वं कुर्यादित्यर्थः| पानभोजनेषु वा स्थावरं विषं निक्षिपेदातुरस्य| कृष्णसर्पेण दष्टामिक्षुगण्डिकां वा भक्षयेदातुरो वल्लीफलानि वा कूष्माण्डादीनि कृष्णसर्पेण दंशयित्वा भक्षयेत्| तथा वा मूलकम्| एवं कृतेऽस्यातुरस्य स्थिरत्वादियुक्तो दोषसङ्ग़ातः प्रमाथिना स्वभावेन विषेणाश्वेव बहिः प्रवर्तते| तेन प्रवृत्तेन कदाचिदगदतां निर्व्याधितां व्रजति| क्षीणत्वाद्वा भवान्तरं जन्मान्तरं वा व्रजति| पञ्चतां यातीत्यर्थः| हृतदोषमिति विषेण त्रिवृतादिशाकानामन्यतमम्| स्वरसेन साधितमिति त्रिवृच्छाकं त्रिवृच्छाकस्य स्वरसेन साधितं वास्तुकशाकं वास्तुकस्वरसेनैव साधितमिति सर्वत्र योज्यम्| अम्लादिवर्जितं किञ्चिदेव स्विन्नमद्यात्| किञ्चिदस्विन्नमेव हरितकप्रकारेण| अनन्नभुगिति शाकवृत्तिरेव माससेकं स्यात्| तृषितस्तु भुज्यमानस्यैव शाकस्य स्वरसं पिबेत्| सुबोधम्| कारभमौष्ट्रमिति वाताद्युदराणि|| २३||

Adhikarana plIhodare cikitsA (24) · Śloka 24

प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत्| रुधिरस्यन्दनार्थञ्च पाणिना प्ली हानं विमर्दयेत्| पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्ति क्षारं पयसा पाययेत् हिङ्गुं सुवर्चिकां वा| पलाशक्षा रोदकेन वा यवक्षारम्| पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम्| सौभाञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम्| अम्ल स्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम्| अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत्| ग़ृतं षट्पलं महा षट्पलं रोहीतकषट्पलं वा||२४||

🔊 Audio coming soon

प्लीहोदरे स्नेहस्वेदावनुबन्धदोषानुगुण्येनैव| सिराव्यधे सूत्रोक्तप्रकारः सिरायाश्चावगमः| रक्तस्यन्दनाय प्लीहानं मर्दयेद्यथा ततो रक्तं स्यन्दति| नद्यादिशुक्तिप्रतिषेधाय समुद्रग्रहणम्| हिङ्गु पयसा पाययेत्| सुवर्चिकां वा| यवक्षारं पलाशवृक्षक्षारोदकेन पाययेत्| पारिजातकादीनां क्षारस्तैलेन संसृष्टः| पारिजातकं रोहित रोहितकम्| (नि) इक्ष्वाकुः कटुकालाबुनी तुम्बा लम्बीक्ष्वाकुश्च शब्दितः| सौभाञ्जनकषायं वा पिप्पल्यादियुक्तम्| अथवा पूतिकरञ्जस्य नक्तमालस्य क्षारमम्लेन काञ्जिकमद्यादिना स्रुतं गालितं बिडपिप्पलीभ्यामालोडितं पिबेत्| सुबोधम्| महाषट्पलं दशमूलषट्पलम्| रोहीतकषट्पलमनन्तरमेव रोहीतकत्वगित्यादिना पठितम्| सुबोधम्|| २४||

Adhikarana rohItakaShaTpalaM GRutam (25) · Śloka 25

रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत्| तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्ग़ृतप्रस्थं साध येत्| तत्परं प्लीहहितम्||२५||

🔊 Audio coming soon

(नि)पारिजातश्च रोहीतः प्लीहग़्नो रक्तपुष्पकः| कोलं बदरम्| पञ्चकोलतुल्यत्वाद्रोहीतकत्वग्भ्यो गर्भे पञ्चपलानि भवन्ति||२५||

Adhikarana rohItakarasaH (26) · Śloka 26

रोहीतकलताः ख़ण्डशः कल्पिताः हरीतकीश्च तोये गो मूत्रे व सप्तरात्रमनुसुयात्| स रसः प्लीहगुल्मोदरकृमि मेहकामिलार्शांसि साधयति||२६||

🔊 Audio coming soon

द्व्यङ्गुलमात्रकल्पितानां रोहीतकलतानां हरीतकीनां च रोहीतकसमानानां सप्तरात्रं दोषाद्यपेक्षया तोये वा मूत्रे वासुतानां यो रसः स प्लीहोदरादीन् साधयति|| २६||

Adhikarana agnikarma (27) · Śloka 27

एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्म विधिनाऽग्निकर्म कुर्यात्||२७||

🔊 Audio coming soon

एवमित्यादिना प्लीहोदरे अग्निकर्मप्रदर्शनम्| पिच्छा मण्डप्रायं पूर्वं प्रदर्शितमुदरे| उदकोऽस्वच्छम्| वातकफोल्बण एव न वाताद्युल्बणेऽग्निकर्म| इति वातप्लीहोदरम्|| २७||

Adhikarana pittolbaNe plIhodare (28) · Śloka 28

पित्तोल्बणे तु जीवनीयग़ृतक्षीरबस्तिविरेचनानि प्रयु ञ्जीत| पुनः पुनश्च रुधिरमवसेचयेत्| यकृदाख़्येऽ प्ययमेव क्रियाविभागः||२८||

🔊 Audio coming soon

पित्तोल्बणे प्लीह्नि जीवनीयैः सिद्धं ग़ृतं प्रयुञ्जीत| क्षीरबस्तयश्च विरेचनानि च| यकृदाख़्योदरेऽप्ययमेव प्लीहोक्तक्रियाविभागो विधेयः|| २८||

Adhikarana baddhodare karma (29) · Śloka 29

बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनु वासनं च दद्यात्| स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातग़्नम्||२९||

🔊 Audio coming soon

बद्धोदरे तु स्विन्नाय कृतस्वेदायातुराय तैलादियुक्तं तीक्ष्णं निरूहं दद्यादनु च तथाविधमेवानुवासनं स्रंसनान्यनुलोमनानि| सुबोधम्|| २९||

Adhikarana Cidrodare dakodare ca (30) · Śloka 30

छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत्| दकोदरे तु पूर्व मुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान् निर्यूह चूर्णक्षारान् कफग़्नानि दीपनीयानि चान्नपानानि योज येत्||३०||

🔊 Audio coming soon

छिद्रोदरे स्वेदं विना सर्वं दकोदरचिकित्सितं विधेयम्| उदकोदरे पूर्वमेव तीक्ष्णादिगुणद्रव्यनिर्यूहादीन् दीपनं कफग़्नं चान्नपानं योजयेदुदककृतानां दोषाणां विकाराणामपहरणार्थम्| निर्यूहः क्वाथः| क्षारो भस्म|| ३०||

Adhikarana baddhodarAdau shastrakarma (31) · Śloka 31

एवमसिद्धौ बद्धच्छिद्रदकोदरेषु अश्मर्यामिव सुहृदां प्रका श्य शस्त्रमवचारयेत्| तत्र बद्धच्छिद्रोदरयोः स्निग्ध स्विन्नस्याधोनाभेश्चतुरङ्गुलानि वामतोऽपहायोदरं पाट यित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्ध गुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चाप हरेत्| परिस्राविणि शल्यमुद्धत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत्| लग्नेषु च शिरस्सु कायमपन येत्| ततो मधुग़ृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थाप यित्वा बाह्यं व्रणमुदरस्य सीव्येत्| यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात्| अथ निवातमागरं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत्||३१||

🔊 Audio coming soon

एवमित्युक्तक्रियया सिद्धौ त्रिषु बद्धाद्युदरेषु पृथग्विधक्रियोपयोगाय शस्त्रमवचारयेत् आतुरसुहृत्प्रकाशनमश्मरीवत्| नाभेदधोऽधरभागे नाभितश्चत्वार्यङ्गुलानि परित्यज्य चतुरङ्गुलमात्रं पाटयेत्| तेन चान्त्राणि तथा परीक्ष्य़ाणि यथा सन्निवेशं न त्यजन्ति| गुदबन्धहेतुमान्त्रस्य प्रतिरोधकं बालादिकमपहरेत्| परिस्रासविणीति छिद्रोदरे| तच्छिद्रं मर्कोटैर्वैद्यो दंशयेत्| सुबोधम्| क्षीरेणैव वृत्तिर्यस्य तम्|| ३१||

Adhikarana dakodare visheShaH (32) · Śloka 32

दकोदरे सर्वेषु च जातोदकेषु जठरेषु वातहरतैला भ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहि मुख़ेनाङ्गुष्ठोदरमात्रमवगाढं विद्ध्वा नाडीम् निधाय दोषो दकमर्धमात्रमवसिञ्चेत्| ततो नाडीमुद्धृत्य तैललवणे नाभ्यज्य व्रणं बन्धनेनोपचरेत्||३२||

🔊 Audio coming soon

दकोदरनाम्न्युदरे सर्वेषु चोदरेषु चिरकालप्ररूढत्वाज्जातोदकेषु वातहर इत्यादिनोदकस्रावणविधिः| अवगाढमन्तःप्रविष्टम्| अङ्गु-ष्ठोदरमात्रमिति प्रमाणम्| व्रीहिमुख़ं नाम शस्त्रम्| तच्चोदकं सर्वं न स्रावयेत्सकृदपि त्वर्धमात्रमवसिञ्चेत्| अवसिञ्चनमवस्रावणम्| नाडीयन्त्रविधावुक्ता|| ३२||

Adhikarana ardhamAtrAvasecane hetuH (33) · Śloka 33

सहसा सर्वस्मिन् विस्राविते तृष्णाज्वरोऽङ्गमर्दोऽती सारः श्वासः कासः पाददाहो व जायते| पूर्यते च सुरराम्| अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडश रात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रा वयेत्||३३||

🔊 Audio coming soon

सहसेत्यादिनार्धमात्रावसेचने हेतुः| सुतराञ्च पुनरुदकेन जठरं पूर्यते दुष्टत्वात्| तस्माद्दोषाद्यपेक्षया त्रिरात्रान्तरितं वा चतुरन्तरितं वा एवं पञ्चादिकमपि| पूरणप्रत्ययान्तानां त्रयादीनामाचार्येण प्रयोगः कृतः| तथाविधानां रात्रिशब्देन सामानाधिकरण्येन पूरणमात्रेण रात्रेरेकत्वात् समाहारो न सिद्ध्यति| न च विवक्षितार्थप्रतीतिस्तस्माच्चिन्त्यमेतत्|| ३३||

Adhikarana srAvaNottaraM karma (34) · Śloka 34

निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्य तरेण गाढतरं वेष्टयेत्| तथा नाध्मापयति वायुः| लङ्ग़ यित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत्| ततः परं षण्मासान् क्षीरवृत्तिर्भवेत्| ततो मासत्रयं क्षीर पेयां पिबेत्| अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्या माकं कोरदूषं वा भुञ्जीतेति| भवति चात्र प्रयतो वत्सरेणैवं विजयेत जलोदरम्| वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः||३४||

🔊 Audio coming soon

सुबोधम्| लङ्ग़यित्वा प्राप्तलङ्ग़नेन तु सर्वत्र| गतानुगतिका प्रयतोऽतियत्नवान् संवत्सरेणोक्तप्रकारेण जलोदरं विजयेत| किम्भूत इत्याह-वर्ज्येष्वत्यर्थोष्णाम्लदिषु यन्त्रितस्तदप्राप्तिलक्षणयन्त्रपरः सन्| दिष्टे पथ्यत्वेनोद्दिष्टे क्षीरादौ नातियन्त्रितोऽर्थान्नाप्ययन्त्रितः अदिष्टेपीष्टाप्रतिषिद्धे जितेन्द्रियो न त्विन्द्रियवश्यः|| ३४||

Adhikarana sAmAnyopadeshaH (35) · Śloka 35

सर्वमेवोदरं प्रायो दोषसङ्ग़ातजं यतः| अतो वातादिशमनी क्रिया सर्वत्र शस्यते| वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते| तस्माद्भोज्यानि योज्यानि दीपनानि लग़ूनि च| सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च| भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः| यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्| पिबेदिक्षुरसं चानु जठराणां निवृत्तये| स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा| अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु| गुडं तिलकृतं शाकं वारि पानावगाहयोः| आयासाध्वदिवास्वप्नयानयानानि च त्यजेत्||३५||

🔊 Audio coming soon

सर्वस्मिंश्चोदरे वातादिशमनी क्रिया इष्यते| यतः सर्वमेवोदरं प्रायेण सन्निपातजमेव| सुबोधम्| एषामित्युदरिणाम्| तथेत्युक्तप्रकारेण| सर्वश्चोदर्यत्यर्थोष्णादिगुणं च त्यजेत्|| ३५||

Adhikarana pAne takraprashaMsA (36) · Śloka 36

नात्यच्छसान्द्रमधुरं पाने तक्रं प्रशस्यते| सकणालवणं वाते पित्ते सोषणशर्करम्| यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे| त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे| मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः| प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः| सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे| गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्| तक्रं वातकफर्तानाममृतत्वाय कल्पते||३६||

🔊 Audio coming soon

नात्यच्छादिगुणं च तक्रं पाने प्रशस्यते| तच्च तक्रं पिप्पलीलवणयुक्तं वाते| मरिचशर्कराभ्यां पित्ते| यवान्यादिभिर्युक्तं तक्रं कफोदरे| सन्निपातोदरे त्र्यूषणादिभिस्तक्रम्| मध्वादिभिः प्लीहोदरे| हपुषादिभिर्बद्धोदरे| छिद्रोदरे पिप्पलीमाक्षिकयुक्तं तक्रम्| सलिलोदरे व्योषयुक्तम्| गौरवादियुक्तानां वातश्लेष्मार्तानां तक्रममृतत्वाय कल्पते सम्पद्यत इत्यर्थः|| ३६||

Adhikarana prayogAnte kShIrapAnam (37-17) · Śloka 17

प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत्| स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत्| भेषजापचिताङ्गानां क्षीरमेवामृतायते||३७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थान उदर चिकित्सितन्नाम सप्तदशोऽध्यायः||१७||

🔊 Audio coming soon

सर्वेषां च प्रयोगाणामनु क्षीरं पश्चात् प्रयोगे निष्पन्ने शस्यते यतस्तत् क्षीरं स्थैर्यकृत्वादियुक्तं तथा तेन प्रयोगभेषजेन येषामपचितमङ्गं शरीरं तेषां क्षीरममृतायते| अमृतमिवाचरति जीवितदानेनेति|| ३७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह व्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने सप्तदशोऽध्यायः