Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

15. vidradhivr̥ddhicikistitam

Adhikarana atha vidradhivRuddhicikitsitannAma pa~jcadasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तयोर्विद्रधिवृद्ध्योश्चिकित्सितप्रदर्शनायाध्याय आरभ्यते| पृथगध्यायारम्भे निदानस्थान एव प्रयोजनमुक्तम्|| १||

Adhikarana sarveShvAmeShu sAmAnyakriyA (2) · Śloka 2

सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत्| प्रततञ्च शोणितमपहरेत्| पाकाभिमुखं चोपनाह्य पक्वं पाटयित्वा व्रणवच्चिकित्सेत्||२||

🔊 Audio coming soon

सर्वमेव विद्रधिं बाह्यमाभ्यन्तरं च| सुबोधम्| उपनाहः पाकाय पिण्डबन्धः|| २||

Adhikarana Abhyantare vidradhau kriyAvisheShaH (3) · Śloka 3

आभ्यन्तरे तु विद्रधौ वरणादिक्वाथमूषकादिप्रतीवापं पिबेत्| आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय सर्पिः प्रकल्पयेत्| आस्थापनमनुवासनञ्च| मधुशिग्रुञ्च पानभोजनलेपनेषु| शिलाह्वयं वा कल्पविधानेनोपयुञ्जीत| गुग्गुलुं वा| यथादोषं च सर्वशो गुल्मवदुपक्रमेत्||३||

🔊 Audio coming soon

आभ्यन्तर इत्यादिना विशेषः| विरेचनद्रव्याणि कुम्भनिकुम्भादीनि| शोधनादिगणसंग्रहाध्यायनिर्दिष्टानि| तैः सर्पिः प्रकल्पयेत| आस्थापनमनुवासनं च| पानादिषु मधुशिग्रुम्| रसायनाध्यायोक्तकल्पविधानेन दोषानुगुण्येन शिलाजतु प्रयुञ्जीत| गुग्गुलुं वा| सर्वेण च प्रकारेण गुल्मवद्विद्रधिमुपक्रमेत|| ३||

Adhikarana triphalAdikaShAyaH (4) · Śloka 4

त्रिफलापिचुमन्दमधुककटुपाकपटोलानि शाणांशानि| त्रिवृत्त्रायमाणयोः कर्षम्| मसूरपलं चैकध्यमष्टगुणे ऽभसि साधयित्वा पूतं रसं घृतमूर्च्छितं पिबेत्| तेन विद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोगभ्रमारतिमुर्च्छारक्त पित्तकामिलाकुष्ठविसर्पाः प्रशाम्यन्ति||४||

🔊 Audio coming soon

त्रिफलादिके त्रिफलादीनि शाणांशानि| त्रिफला पृथग्भूता गृह्यते| शाणं कर्शस्य चतुर्थांशः| त्रिवृतः कर्षं त्रायमाणायाश्च कर्षम्| पलं मसूरस्य| सर्वतोऽष्टगुणमम्भः| हृदये तु तथा चरकसंवादेन पठितम्| तथा त्रायमाणायाः शाणमापतति| पटोलमूलस्य कर्षो मसूरस्यार्धपलमिति| तत्र पठ्यते त्रायन्तीत्रिफलानिम्बकटुकामधुकं समम्| त्रिवृत्पटोलमूलाभ्यां चत्वारोंऽशाः पृथक्तथा| मसूरान्निस्तुषादष्टौ तत्क्वाथः सघृतो जयेत्|| एतच्च प्रयोगान्तरत्वेन नेयम्|| ४||

Adhikarana trAyamANAdighRutam (5) · Śloka 5

त्रायमाणाप्रस्थक्वाथे मुस्तकटुकातामलकीत्रायमाणा चन्दनदुरालभाजीवन्तीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरा मलकरसप्रस्थद्वयोपेतं विपक्वं समानं पूर्वेण||५||

🔊 Audio coming soon

त्रायामाणायाः षोडशपलस्य क्वाथपरिभाषया द्वौ क्वाथप्रस्थौ भवतः| यस्मादौषधात्षोडशपलात्क्वथश्चतुर्गुणश्चतुष्षष्टिपलानि भवन्ति| मुस्तादीनि पालिकानि| क्षीरप्रस्थं घृतप्रस्थमामलकरसप्रस्थमित्येवमत्र क्वाथस्य द्वौ प्रस्थौ भवतः| औषधात् षोडशगुणं जलम्| घृतादर्धेन च त्रायमाणा| एवञ्च क्वाथस्य घृताद् द्विगुणत्वमौषधाच्च जलस्य षोडशगुणत्वं हृदयविरुद्धमुक्तमिव| यदा तु हृदयपाठकरूपतया व्याख्यायते तदा प्रस्थश्चासौ क्वाथः प्रस्थक्वाथः स च त्रायमाणाया इति ज्ञायते| किं तु तद्धिरुद्धत्वम्| घृताच्चतुर्थांशत्वं त्रायमाणाया आपतति| यस्मात्तत्र घृतसमस्त्रायमाणाक्वाथोऽभिमतः| घृतार्धेन च त्रायामाणा| तथा च तत्रैवं पठितम्-'कुडवं त्रायमाणायाः साध्यमष्टगुणेऽम्भसि| कुडवं तद्रसाद्धात्रीस्वरसात् क्षीरतो घृतान्| कर्षाशैः कल्कितैस्तिक्तात्रायन्ती'त्यादि| एतच्चैवं व्याख्यायते-त्रायमाणायाः शुष्कद्रव्यत्वात् कुडवं चत्वारि पलानि| ततोऽष्टगुणमुदकं द्वात्रिंशत् पलानि भवन्ति| तानि क्वथितानि चतुर्भागावशेषं कषायमवतारयेदिति| द्रवत्वात्कुडवमष्टपलं क्वथितशेषं भवति| तावदेव च घृतादिकञ्च| द्रव्यात् षोडशगुणं क्वथनजलं देयमित्येषा परिभाषाष्टगुणेऽम्भसीत्यनेन बाधिता| पादशेषितमवतारयेदित्येषा त्वबाधितैव| अस्य पक्षस्य चरकेण सादृष्यं केवलम्| तत्र त्रायमाणाया दशगुणं जलं दत्वा पञ्चभागेनाष्टौ पलानि गृह्यन्ते| अत्र त्वष्टगुणात् पादशेषत्वेन| अथैवमुच्यते त्रायमाणाकुडवस्याष्टगुणमम्भोऽष्टौ कुडवानि भवन्ति तानि च द्रवत्वात् पलमानेन षोडशगुणत्वमेवापद्यन्त इति| तन्न| यतो विनाऽप्यष्टगुणवचनः सामान्यपरिभाषयैव द्रव्याद् द्रवस्य षोडशगुणत्वसिद्धेः| क्वथितशेषस्य च शब्देन नियतत्वादष्टगुणवचनप्रयोजनमापद्यते| तस्माद्यथोक्तमेव साधुः|| ५||

Adhikarana drAkShAdighRutam (6) · Śloka 6

द्राक्षामधूकखर्जूराभीरुविदारीपरूषकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमभयागर्भसर्पिर्विपाचयेत्| तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण||६||

🔊 Audio coming soon

द्राक्षादिके सर्पिषि क्वाथः स्नेहाच्चतुर्गुणः| क्षीरमिक्षुरस आमलीरसश्चैकीभूतं घृतसमम्| 'कल्पयेत् सदृशान् भागान् प्रमाणं यत्र नोदित'मिति न्यायात्| अन्ये क्षीरादिकं पृथक् स्नेहसममिति वर्णयन्ति| यस्मात् 'पृथक्स्नेहसमं विद्यात् पञ्चप्रभृति तु द्रव'मित्युक्तम्| अभयागर्भः स्नेहाच्चतुर्थांशेन| शर्करा घृतस्य चतुर्थेन भागेन समा|| ६||

Adhikarana shoNitAvasecanam (7) · Śloka 7

भृशञ्च शृङ्गादिभिः शोणितमवसेचयेद्यथासन्नम्| बाहु मध्ये वा सिरां विध्येत्||७||

🔊 Audio coming soon

सुबोधम्|| ७||

Adhikarana koShThasthe pacyamAne cikitsA (8) · Śloka 8

पच्यमानञ्च कोष्ठगतं बहिरुन्नतमुपनाहयेत्| तत्रैव च पिण्डिते शूले तत्पार्श्वपीडनेन लब्धसुप्तौ शस्त्रकर्मविधि निर्दिष्टैश्च चिह्नैः पक्वमुपलक्ष्य भित्वा व्रण्वत्साधयेत्||८||

🔊 Audio coming soon

पच्यमानमित्यादि विद्रधिविशेषणम्| तथाविधं विद्रधिमुपनाहयेत् पिण्डैर्वध्नीयात्| तत्रैवेति कोष्ठे विद्रधौ पिण्डितशूलक्वथितेन लिङ्गेन पला इति विद्राधिमुपलक्ष्य शस्त्रेण भित्वा व्रणविधानेन साधयेत्| पिण्डितं शूलं विद्रधिनियतत्वाच्छेषाङ्गव्यापनशीलम्| तथाविधे शूले सति| तथा तस्य विद्रधेः पार्श्वपीडनेन पुरुषस्य स्वप्ने लब्धे सुखेन निद्रायां प्राप्तायाम्| शस्त्रविध्युक्तानि पक्वलिङ्गान्यल्पवेगताम्लान्यादीनि|| ८||

Adhikarana AbhyantarAyAH pakvAyAH srAvopekShA (9) · Śloka 9

आब्यन्तर एव च पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुप द्रवान् परिरक्षन् उपेक्षेत दशाहमात्रम्||९||

🔊 Audio coming soon

अन्तःपक्वं स्वयमूर्ध्वमार्गेणाधो वा प्रवृत्तं पूयमुपद्रवान् रक्षन् भिषग्दशरात्रमुपेक्षेत| न केनचित् प्रकारेणोपक्रमेतेत्यर्थः| केवलमन्नपानं तथाविधेयं यथोपद्रवेभ्यो रक्षा भवति|| ९||

Adhikarana asamyagvahane upacArAH (10) · Śloka 10

असम्यग्वहति वा क्लेदे तन्निर्वाहणार्थमम्लसुरासवमैरे योष्णोदकान्यतमेन वरणादिं मधुशिग्रुं वा पिबेत्| तन्मू लैर्वा कृतां यवागूं यवकोलकुलत्थयूषेण चाश्नीयात्||१०||

🔊 Audio coming soon

यदा तु पूयं प्रवृत्तं न तु सम्यक् तदा तस्य सम्यक्प्रवृत्तये वरणादिकं मधुशिग्रुं वाम्लसुरादीनामन्यतमेन पिबेत्| मैरेयं खार्जूरं मद्यम्| तन्मूलैरिति वरणादेर्मधुशिग्रोश्च प्रत्यवमर्शः यवादियूषेणान्नमश्नीयादिति दशाहः|| १०||

Adhikarana pakve dashAhordhvaM kRutyam (11) · Śloka 11

ऊर्ध्वञ्च दशाहात्तिल्वकघृतेन त्रायमाणाघृतेन वा यथा बलं शोधयेत्|११|

🔊 Audio coming soon

सुबोधम्|| ११||

Adhikarana shodhanottaraM kRutyam (11) · Śloka 11

विशुद्धश्च तिक्तकमल्पमल्पं सर्पिः मधुनोपेतमुपयु ञ्जीत||११||

🔊 Audio coming soon

विशुद्धश्च तिक्तकं सर्पिर्मधुना मिश्रितमल्पल्पं कृत्वोपयुञ्जीत||११||

Adhikarana pAkAtsaMrakShaNIyA (13) · Śloka 13

यथा च नोपैति पाकं तथा प्रयतितव्यम्| शीघ्रविदा- हित्वात्तस्य विद्रधिरिति संज्ञा| पक्वे तु पुनर्दैविकी सिद्धि- राशुकारितरश्च सर्वामेभ्यो विद्रधिः||१३||

🔊 Audio coming soon

पाकरक्षणाय यत्ने हेतुः शीघ्रविदाहित्वम्| दैविकी सिद्धिः पुरुषयत्नासाध्यत्वात्|| १३||

Adhikarana pramehacikitsAtideshaH (14) · Śloka 14

सति च प्रमेहे प्रमेहचिकित्सितमीक्षेत||१४||

🔊 Audio coming soon

विद्रधिमतः प्रमेहे सति प्रमेहचिकित्सितमीक्षेत| तत्रोक्तेन प्रकारेणापि चिकित्सेदित्यर्थः|| १४||

Adhikarana stanavidradhicikitsA (15) · Śloka 15

स्तनविद्रधिमपि व्रणविधानेनोपचरेत्| पच्यमानं यथेष्ट भोजनेन पाचयेत्| न पुनरुपनाहयेत्| उपनद्धो हि स्तनो मृदुमांसतया शीघ्रमेव पक्वः सङ्कोथमवाप्यावदीर्येत| पक्वं च स्तनविद्रधिं स्तन्यवाहिनीः सिराः सचूचुकं च कृष्णमण्डलं परिहरन् शस्त्रेणोपक्रमेत्| सर्वासु चाम विदग्धपक्वव्रणावस्थासु स्तनं निर्दुहीत||१५||

🔊 Audio coming soon

स्तनविद्रधीत्यादि सुबोधम्| उपनाहबन्धेन स्तनः पक्वं कोथं क्लेदमवाप्यावदीर्येत| सर्वासु चावस्थासु स्तनं निर्दुहीतापनीतक्षीरं कुर्यात्|| १५||

Adhikarana dantAdividradhayaH (16) · Śloka 16

दन्तादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च||१६||

🔊 Audio coming soon

दन्तादिविद्रधीनां यथास्वमध्यायेषु लक्षणं चिकित्सितञ्च वक्ष्यते| यथा दन्तविद्रधेर्मुखरोगेषु| आदिग्रहणेन कर्णविद्रध्यादीनां ग्रहणम्||१६||

Adhikarana vAtavRuddhicikitsA (17) · Śloka 17

वृद्धौ तु मारुतजे त्रिवृता स्निग्धमातुरं स्विन्नञ्च मिश्र सुकुमारकतिल्वकैरण्डकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत्| ततोऽनिलघ्नक्वाथकल्कैर्निरूहयेत्| निरूढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत्| स्वेद प्रलेपोपनाहांश्च प्रयुञ्जीत| पक्वं च भित्वा व्रणमिव चिकित्सेत्||१७||

🔊 Audio coming soon

वृद्धावित्यादिना वृद्धिचिकित्सा| त्रिवृत इति स्नेहत्रितयस्य नाम| स्निग्धस्विन्नाय वक्ष्यमाणानां मिश्रकादीनां स्नेहानामन्यतमं विरेचनार्थं दद्यात्| ततो विरेचनादूर्ध्वमनिलघ्नानामौषधानां क्वाथेन तेषामेव च कल्केन निरूहयेत्| मधुयष्ट्या पक्वं तैलमनुवासनम्| स्वेदादींश्च पुनः प्रयुञ्जीत| एवमपि पक्वं वृद्धिं शस्त्रेण भित्वा व्रणवच्चिकित्सेदिति वातवृद्धिः|| १७||

Adhikarana pittavRuddhiH (18) · Śloka 18

पित्तवृद्धिं पित्तशोफवत्| पक्वञ्च पित्तव्रणवत्||१८||

🔊 Audio coming soon

वक्ष्यमाणपित्तश्वयथुवत् पित्तवृद्धिं चिकित्सेत्| तथापि पक्वं पित्तव्रणवदिति पित्तवृद्धिः|| १८||

Adhikarana shleShmavRuddhiH (19) · Śloka 19

कफवृद्धिमपि कफशोफवत्| पिबेच्च पीतदारुकषायं मूत्रेण| कफग्रन्थिवच्च सर्वं विम्लापनवर्ज्यमाचरेत्| पक्वं च पाटितं श्लेष्मव्रणवत्||१९||

🔊 Audio coming soon

कफवृद्धौ कफश्वयथुवच्चिकित्सा| तत्र य पीतदारुणो दारुहरिद्रायाः क्वाथं गोमूत्रभावितं पिबेत्| विम्लापनं विलायनं वर्जयित्वाऽन्यः सर्वः श्लेष्मग्रन्थिविहितः| पक्वं वृद्धिं श्लेष्मव्रणवत् चिकित्सेत्| सुबोधम्|| १९||

Adhikarana raktavRuddhiH (20) · Śloka 20

रक्तजं पित्तविद्रधिवत्| प्रततञ्चात्र रक्तमपहरेत्||२०||

🔊 Audio coming soon

रक्तजमित्यादि सुबोधम्| अत्रेति रक्तवृद्धौ|| २०||

Adhikarana medovRuddhiH (21) · Śloka 21

मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्र युक्तैः स्वेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेधं लेप येत्| तद्वच्छिरोविरेकद्रव्यैर्वा| स्विन्नं चैवं फलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीयमेदः कासीससैन्धव माक्षिकैः प्रतिसार्य सीव्येत्| ततः सुमनोग्रन्थिमनः शि लैलाभल्लातकैस्तैलमभ्यङ्गार्थं कुर्यात्| आव्रणसन्धा नाच्च स्नेहस्वेदौ||२१||

🔊 Audio coming soon

मेदोवृद्धिं गोकरीषादिभिः स्वेदयेत्| 'करीष' इति पशुपुरीषस्याख्या| किण्वं सुराघनः| सुरसादिर्गणः| अन्यच्च यत्स्पर्शनीयाभ्यामुष्णं रूक्षञ्च| अथवा एभिरेवाग्निसंयोगादुष्णैः| स्नेहप्रतिषेधाच्च रूक्षैरिति| उत्सेधो घनत्वम्| शोधनादिगणोक्तशिरोविरेचनद्रव्यैर्वा| तद्वन्मूत्रयुक्तै रूक्षैश्च| फलं वृषणं सीवनीं च रक्षन् शस्त्रेण विदार्य मेदोऽपनेयम्| तस्मिन्नपनीते कासीसादिभिः प्रतिसार्यावचूर्ण्य व्रणं सीव्येत्| ततः स्यूत्वा सुमनःप्रभृतिभिः सिद्धं तैलमभ्यङ्गार्थं कुर्यात्| सुमनःकाष्ठस्य ग्रन्थिः सुमनोग्रन्थिः| व्रणसाधनं च यावत्ताVवत्स्नेहस्वेदौ कुर्यादिति मेदोवृद्धिः|| २१||

Adhikarana mUtravRuddhiH (22) · Śloka 22

मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा वस्त्रपट्टेन वेष्टयेत्| ततो ऽधस्तात् सेवन्या दकोदरवद् व्रीहिमुखेन भित्वा नाड्या स्रावयेत्| ततः स्थगिकाबन्धं कुर्यात्| व्रणे च शोधन रोपणानि||२२||

🔊 Audio coming soon

मूत्रवृद्धौ सुबोधम्| दकोदरस्योदकोदरस्य व्यधोवक्ष्यमाणः| स्थगिकाबन्धः सूत्रस्थाने प्रदर्शित इति मूत्रवृद्धिः|| २२||

Adhikarana AntravRuddhiH (23) · Śloka 23

आन्त्रवृद्धिं फलकोशमसम्प्राप्तं वातवृद्धिवदुपचरेत्||२३||

🔊 Audio coming soon

आन्त्रवृद्धिं पुनः फलकोशौ वृषणावसम्प्राप्तं वातजवृद्धिवच्चिकित्सेत्| तत्र ह्यान्त्रक्रमेण फलतोया वृद्धिः प्रसरति|| २३||

Adhikarana sukumAraghRutam (24) · Śloka 24

पुनर्नवशतपलं दशपलानि च पृथक् दशमूलपयस्या श्वगन्धाशतावर्येरण्डमूलान्यपां वहेऽष्टांशावशेषं साधयेत्| पूतशीते च तस्मिन् निर्यूहे त्रिंशद्गुडपलान्येरण्डतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिकानि द्राक्षानागरपिप्पलीपिप्पलीमूलयवानीयवक्षारचित्रक मधुकसैन्धवान्यावाप्यैकध्यं विपचेत्| एतत् सर्वयन्त्र णास्वपरिक्लेशेन सुकुमाराख्यं सुकुमाराणामीश्वराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां विषमाग्नीनां च कामतोऽन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कान्तिकरं बल्यं बृंहणं वयःस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्त शोफोदरार्शोमेढ्रयोनिरोगेषु महावातव्याधिषु च परम मौषधम्||२४||

🔊 Audio coming soon

पुनर्नवादिना सुकुमाराख्यम्| सुबोधम्| दशमूलद्रव्याण्यपि पृथग्दशपलानि| सर्वाभिर्यन्त्रणाभिर्यतो न परिक्लेशयत्यतः सुकुमाराख्यम्| क्षीणरेतसामिति सम्भवात् पुंसां विशेषणम्| अप्रजानामिति प्राधन्येन नारीणाम्| कामतो यथेच्छां मात्रादिभिः| वर्ध्म वृद्धिः|| २४||

Adhikarana gandharvahastatailam (25) · Śloka 25

गन्धर्वहस्तमूलतुलां यवाढकं नागरार्धकुडवञ्च सलिल द्रोणे पादशेषं विपचेत्| तेन द्विगुणक्षीरेणैरण्डतैलप्रस्थं साधयेत्| कल्कपिष्टञ्चात्र दद्यात्पुनर्गन्धर्वहस्तमूलकुडवं शुण्ठीपलञ्च| एतद्गन्धर्वहस्ततैलं समानं पूर्वेण||२५||

🔊 Audio coming soon

गन्धर्वहस्तादिना तैलं गन्धर्वहस्ततैलम्| गन्धर्वहस्तः एरण्डः||२५||

Adhikarana dAhavidhiH (26) · Śloka 26

भवति चात्र- यायाद्वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः| बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत्| अग्निना मार्गरोधार्थं मरुतोऽर्धेन्दुवक्रया||२६||

🔊 Audio coming soon

गतानुगतिका| स्नेहादिभिः प्रयुक्तैर्यदि वर्ध्म शान्तिं न यायात् तत्रैव बस्तिकर्मपूर्वकं वङ्क्षणस्थं दहेत्| दीर्घमपि वङ्क्षणाभ्यन्तरस्थं दहेदित्यर्थः| केन दहेदित्याह-अर्धचन्द्रवक्रया शलाकया| सा च यन्त्रविधौ प्रदर्शिता शलाकामन्त्रवर्ध्मनीत्यादिना| अग्निरपि शलाकास्थो दाहकारणं भवति शलाकापि| किमर्थं दहेदित्याह-मरुतो मार्गरोधार्थम्| अग्निना सङ्कुचितत्वात् रुद्धमार्गो वायुरान्त्रं न वर्धयति|| २६||

Adhikarana vidhyantaram (27) · Śloka 27

अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत्| उत्क्षिप्य सूच्या तत्तिर्यग्दहेच्छित्वा यतो गदः||२७||

🔊 Audio coming soon

तथेदमपि कुर्यात्| गदो वर्ध्म यतो यस्मिन् पार्श्वे वामे वा फलकोशे दक्षिणे वा तस्मिन्नेव पार्श्वे पाणावङ्गुष्ठस्योपरि नखमूलमनुप्रवृत्तं वर्णेन पीतं यत्स्नाव तत्सूच्या उत्क्षिप्तं तिर्यक् छित्वा तिर्यगेव दहेत्|| २७||

Adhikarana matAntaram (28) · Śloka 28

ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वानामिकाङ्गुले||२८||

🔊 Audio coming soon

अन्ये त्वाचार्या एवमाहुः| यथा-यतो गदो वर्ध्म ततोऽन्यपाऱ्श्वे स्नाव छीत्वा दहेत्| तेषां मते वामफलकोशजे वर्ध्मनि दक्षिणापाणावङ्गुष्ठस्नावं दहेत्| दक्षिणजे च वामाङ्गुष्ठजमिति| अङ्गुष्ठविधानेनामिकाङ्गुलौ स्नावं न दहेत्| दक्षिणवामभेद उभयमते पूर्ववद्व्याख्येयः| अनामिका कनिष्ठिकाया द्वितीया|| २८||

Adhikarana dAhasyAnyatrApyatideshenopayogaH (29-15) · Śloka 15

गुल्मेऽनैर्वातकफजे प्लीहि चायं विधि स्मृतः| कनिष्ठिकानामिकयोर्विश्वभ्यां तु यतो गदः||२९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने विद्रधि वृद्धिचिकित्सितन्नाम पञ्चदशोऽध्यायः||१५||

🔊 Audio coming soon

अन्यैराचार्यैः स्नावच्छेददाहविधिर्वातकफजे गुल्मे प्लीहि च स्मृतः| विश्वभ्याञ्च कनिष्ठिकाया अनामिकायाश्च स्नावच्छेदनमिच्छन्ति| यतो गद इति यस्मिन्नेव पाऱ्श्वे गदो विश्वभी तस्मिन्नेव पाणावित्यर्थः| विश्वभीप्रयोगात् सर्वत्र पाणिमनुमिमीमहे| विश्वभी वातव्याधौ बाहुकण्डराविकार उक्तः|| २९|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने पञ्चदशोऽध्यायः