Adhikarana adhyAya pratij~jA (1) · Śloka 1
अथातो रक्तपित्तचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
अथ क्रमप्राप्तस्य रक्तपित्तस्य चिकित्सां दर्शयितुमध्याय आरभ्यते||१||
Adhikarana adhyAya pratij~jA (1) · Śloka 1
अथातो रक्तपित्तचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
अथ क्रमप्राप्तस्य रक्तपित्तस्य चिकित्सां दर्शयितुमध्याय आरभ्यते||१||
Adhikarana mArgaBedAnusAraM sAdhyAsAdhyatA (2) · Śloka 2
ऊर्ध्वगं बलिनोऽवेगमेकदोषानुगं नवम्| रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम्| अधोगं यापयेद्रक्तं यच्चदोषद्वयानुगम्| शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरञ्च यत्| अतिप्रवृत्तं मन्दाग्नेस्तिदोषं द्विपथं त्यजेत्||२||
🔊 Audio coming soon
ऊर्ध्वगमित्यादिविशिष्टं रक्तपित्तं साधयेत् चिकित्सेत्| अधोगमित्यादियुक्तञ्च यापयेत्| यद् व्रजन् अतिप्रवृत्तत्वादियुक्तन्तु त्यजेत् चिकित्सेदित्यर्थः| सुख़ः कालो द्विविधोऽप्यभिभतः| उपद्रवाः विकृतव्याधिविज्ञानीये प्रदर्शिताः||२||
Adhikarana cikitsAsUtram (3) · Śloka 3
ज्ञात्वा निदानमयनं मलावनुबलौ बलम्| देशकालाद्यवस्थाञ्च रक्तपित्ते प्रयोजयेत्| लङ्घनं बृंहणं चादौ शोधनं शमनं तथा||३||
🔊 Audio coming soon
साध्ये च रक्तपित्ते निदानादिकं ज्ञात्वा तदानुगुण्येन कदाचिदादावेव लङ्घनं योजयेत्| कदाचित् बृंहणमिति| तथा कदाचिच्छोधनं कदाचिच्छमनम्| अनुबलौ मलौ वातकफौ||३||
Adhikarana shodhanashamanayorviShayavisheShaH (4) · Śloka 4
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत्| ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम्| शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च||४||
🔊 Audio coming soon
शोधनादेः सामान्येनोक्तत्वात् संतर्पणोत्थमित्यादिना विशेष उच्यते| `तु'शब्दात् सन्तर्पणोत्थत्वादियुक्तमेवाधोभागं वमनेन| अन्यदित्यपतर्पणोत्थं अबलस्याल्पदोषस्य च यद्रक्तपित्तं तच्छमनैऱ्बृंहणैश्च साधयेत्| लङ्घ्यबृंह्यानवेक्ष्य च रक्तपित्तं साधयेदिति| अनेनैतदुक्तं व्याधिकर्शितादयो बृंह्यत्वेन ये पूर्वमुक्तास्तेषां सन्तर्पणोत्थत्वादियुक्तम् शोधनेन तथा साधयेद्यथा बृंहत्वात् लङ्घनं न दोषाय भवति| तथा येऽपि मेह्यादयो लङ्घ्यत्वेन पठितास्तेषामपतर्पणोत्थत्वादित्युक्तं तथाविधाभ्यां शमनबृंहणाभ्यां साधयेद्यथाविधाभ्यां लङ्घ्यस्य बाधा न सम्पद्यत इति||४||
Adhikarana mArgaBedAnusAraM SamanaviShayaH (5) · Śloka 5
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ| उपवासश्च निश्शुण्ठीषडङ्गोदकपायिनः| अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः||५||
🔊 Audio coming soon
ऊर्ध्वं प्रवृत्त इत्यादिना शमनबृहणयोर्मार्गविशेषेण विषयप्रदर्शनम्| षडङ्गं घनदिसाधितमुदकं ज्वरपठितम्| मधुरो रसो नानाविधया भक्ष्यादिकल्पनया||५||
Adhikarana tarpaNaM peyA~jca (6) · Śloka 6
ऊर्ध्वगे तर्पणं योज्यं पेयापूर्वमधोगते||६||
🔊 Audio coming soon
ऊर्ध्वगे यदाऽन्नं प्रयुज्यते तदा प्रथमं तर्पणं लाजसक्तवः| अधोगे तु पेया प्रयोज्या||६||
Adhikarana avidhAraNIyaM vidhAraNIya~jca raktapittam (7) · Śloka 7
अश्नतो बलिनोऽशुद्धं न धार्यं तद्धि रोगकृत्| धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत्||७||
🔊 Audio coming soon
अशुद्धं रक्तमश्नतोः बलिनश्च प्रवृत्तं नैव धार्यं स्तम्भनादिना तद्विधारितं रोगकृद्भवति| अन्यथा पुनर्यद्भोजनरहितस्याबलस्य च प्रवृत्तं शुद्धञ्च तच्छीघ्रं धारयेत्| यतस्तद्रक्तपित्तामग्निवच्छीघ्रकारि रक्तक्षयाच्छीघ्रं मारयतीत्यर्थः||७||
Adhikarana virecanaprayogAH (8) · Śloka 8
त्रिवृतात्रिफलाधात्रीत्रायन्त्यारग्वधाभयाः| गवाक्षीक्षुरसक्षीरद्राक्षाक्षोद्रासितोत्कटाः| यथास्वं कल्पविहिता विरेकार्थं प्रयोजयेत्| त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम्| साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः| त्रिफलात्रिवृताश्यामापिप्पलीशर्करामधु| मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरपहः| त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता||८||
🔊 Audio coming soon
त्रिवृत्तादयोऽभयान्ताः पृथक्कल्पोक्तेन विधनेन यथास्वं विषयेषु गवाक्षीक्षुरसादिभिर्यथायोगमेकद्वित्रैरुत्कटा विरेकार्थं रक्तपित्ते प्रयोजयेत्| त्रिवृतः शामायश्च क्वाथं शर्कराञ्च विपाच्य तत्रैव च लेहत्वापादनयोग्यं त्रिवृच्छ्यामाकल्कं दत्वा लेहं साधयेत्| त्रिफलदिभिः समैः शर्करया पित्तजयायाधिकया माक्षिकेण कृतो मोदकः सन्निपातमूर्ध्वप्रवृत्तं रक्तं शोफं ज्वरं चापहन्ति| त्रिवृतश्चतुर्गुणेन भागेन पिप्पली| तद्वदिति मोदकः| सन्निपातादिहरः| माक्षिकमनुक्तमपि तद्वद्ग्रहणेन मोदकत्वाल्लभ्यते| इति विरेचनानि रक्तपित्ते||८||
Adhikarana vamanam (9) · Śloka 9
वमनं फलसंयुक्तं तर्पणं ससिता मधु| ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम्| फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम्| क्षीरं वा रसमिक्षोर्वा ...................||९||
🔊 Audio coming soon
फलसंयुक्तं तर्पणादिकमधोगते रक्तपित्ते वमनं भवति| तर्पणं लाजसक्तवो मदनसितामधुयुक्तम्| ससितं वा जलमिति वाशब्दात् फलसंयुक्तमेव| क्षीरेक्षुरसयोरनुक्तान्यपि फलानि वमनत्वात् प्राधान्याच्च लभ्यन्ते||९||
Adhikarana Sodhanottaro vidhiH (10) · Śloka 10
.......................................शुद्धस्यानन्तरो विधिः| यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम्||१०||
🔊 Audio coming soon
एवं विरेकेण वमनेन वा शुद्धस्य यथास्वं विषयेष्वनन्तरो वक्ष्यमाणो विधिः क्वचिन्मन्थादिः प्रयोज्यः| क्वचित् पेयादिः| तथा च प्रयोज्यो यथा बलहानिर्न भवति||१०||
Adhikarana tatra manthAH (11) · Śloka 11
अन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलैः कृतः| मधुखर्जूरमृद्वीकापरूषकतिताम्भसा| मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः| दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणः||११||
🔊 Audio coming soon
ज्वरोक्तो द्राक्षदिर्मन्थः- द्राक्षादाडिमकाश्मर्यपथ्याबिल्वपरूषकैः| समधूकैः सबदरैः सक्षौद्रैः ससितोत्पलैः|| ज्वरघ्नैस्तोयमृदितैः.....................||इति| अन्यैर्वा पित्तघ्नैः फलैः कृतः| अथवा पञ्चसारादन्येनाम्भसा करणभूतेन घृताक्तैर्लाजसक्तुभिः कृतो मन्थः| अन्यैः पञ्चसारश्ब्देन क्षतक्षयकासचिकित्सिते पठितं - शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च| संयुक्तं वा शृतं क्षीरं ..............|| इति क्षीरं व्याख्यातम्| तत्र त एव पण्डिताः प्रमाणम्| मन्दाग्नेरम्लाभिलाषिणश्च रक्तपित्तवतो दाडिमेनाम्लकैश्चापादिताम्लत्वो मन्थः पित्तश्लेष्माधिक्यादिना पेयायोग्यस्यैते मन्थाः| तत्र च ज्वरोक्तं स्मरणीयम्||११||
Adhikarana peyAH (12) · Śloka 12
कमलोत्पल्किञ्जल्कपृश्निपर्णीप्रियङ्गुकाः| उशीरं शाबरं लोध्रं शृङ्गिवेरं कुचन्दनम्| ह्रीबेरं धातकीपुष्पं बिल्वमध्यं दुरालभा| अर्धार्धैर्विहिताः पेया वक्षन्ते पादयौगिकाः| भूनिम्बसेव्यजलदाश्चन्दनाम्बुप्रियङ्गवः| शालिपर्ण्या युता मुद्गा पृश्निपर्ण्या मसूरकाः| तुवर्यो वाऽतिबलया बलया वा हरेणवः| तत्कषाये हिता पेया मांसपेयास्तथा रसाः| अनश्म्लाः किञ्चिदम्ला वा सघॄतक्षौद्रशर्कराः||१२||
🔊 Audio coming soon
यत्र तु योग्याः पेयास्तत्र कमलाद्युशीरादिह्रीबेरादिभिस्त्रिभिरर्धश्लोकैराचार्यैर्विहिताः पेया रक्तपित्ते| भूनिम्बेत्यादिना श्लोकचतुर्भागैः षट् पेया वक्ष्यन्ते| तुवर्य आढक्यः| एषां चानन्तरोक्तानां पेयौषधानां क्वाथे सिद्धाः दोषाद्यपेक्षया कदाचित् पेयाः केवला हिताः| कदाचिन्मांसपेयाः कदाचिन्मांसरसाः| ते च पेयादय औषधक्वाथसिद्धाः कदाचिद्दाडिमामलकादिनाम्लाः सर्वे च घृतादियुक्ताः||१२||
Adhikarana dhAnyaSAkAdikam (13) · Śloka 13
शूकशिम्बीभवं धान्यं शाकं मांसं च शस्यते| अन्नस्वरूपविज्ञाने यदुक्तं लघुशीतलम्||१३||
🔊 Audio coming soon
अन्नस्वरूपविज्ञानीयेऽध्याये शूकधान्यादिकं यल्लघुशीतं चोक्तं तद्रक्ते शस्यते, न तु यवकादिमाषादिकाकमाच्यादि||१३||
Adhikarana ambupAnam (14) · Śloka 14
पूर्वोक्तमम्बुपानीयं पञ्चमूलेन वा शृतम्| लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा||१४||
🔊 Audio coming soon
पूर्वोक्तमम्बु निश्शुण्ठीषडङ्गम्| अथवा लघुना ह्रस्वेन पञ्चमूलेन सिद्धम्| शृतशीतं वा केवलम्| फलाम्बु द्राक्षाशर्कराखर्जूरादिमॄदितपूर्वकम्||१४||
Adhikarana annapAne padmakAdigaNAnAmupayogaH (15) · Śloka 15
पद्मकाद्यञ्जनादिञ्च सारिवादिञ्च कल्पयेत्| अन्नपाने गणं तद्वद्दशकं दाहनाशनम्| कफानुगे यूषशाकं मारुतानुगते रसम्||१५||
🔊 Audio coming soon
अन्नपाने च पद्मकाद्यञ्जनादिसारिवादिकं गणं दाहनाशनम् च दशकं कल्पयेत्| एषां क्वाथेन साधयेत्पानं चेत्यर्थः| अथवान्नं पानं यथायोगमेतैः संयुक्तं कारयेत्| पद्मकलाजोशीरं मधुकोत्पलसारिवासितोदीच्यम्| काश्मर्यफलं चन्दनमेष गणो दाहनाशनः प्रोक्तः|| सुबोधम्| रसो मांसरसः||१५||
Adhikarana mAMsarasAH (16) · Śloka 16
अभीरोरङ्कुरैर्लावाः सह मुद्गाः पटोलजैः| मकुष्ठा धान्ययासोत्थै रक्तपित्ते परं मताः| शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः| उदुम्बरस्य निर्यूहे साधितो मारुतेऽधिके| प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः| बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ| वर्तिकाम्भोजनालानामश्वत्थस्य कपिञ्जलः| यत्किञ्चद्रक्तपित्तस्य निदानं तच्च वर्जयेत्||१६||
🔊 Audio coming soon
लावा नाम पक्षिणः| अभीरोः शतावर्याः अङ्कुरैः सह सिद्धाः| तथा मकुष्ठादुरालभोत्थैश्चाङ्कुरैः| सुबोधम्| पुनः शब्दात्तित्तिरिरपि सवास्तुकः| मारुताधिके रक्तपित्ते उदुम्बरक्वाथसाधितः तित्तिरिः| क्वचिन्मारुतेऽधिके प्लक्षस्य निर्यूहे बर्हिणो मयूरः| फलबर्हाभ्यामिनङ्मत्वर्थीयः| तथा बिसादीनामन्यतमस्य निर्यूहे वर्तकः क्रकरो वा हितः| मृणालं बिसा~ग़्कुरः| सर्वा षष्ठी निर्यूहापेक्षया| भृशोष्णतीक्ष्णादि सर्वं रक्तपित्तकारणं रक्तपित्ती वर्जयेत्||१६||
Adhikarana vAsArasAdiyogAH (17) · Śloka 17
वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम्| पित्तसृक्शमयेत्पीतं निर्यासो वाऽटरूषकात्| शर्करामधुसंयुक्तः केवलो वा शृतोऽपि वा| वृषः सद्यः जयत्यस्रं स ह्यस्य परमौषधम्| वासारसेन भूनिम्बकटुकाशर्कराः पिबेत्| तेनैव वा क्षौद्रयुतं पद्मकेसरपद्मकम्| सलोध्रनागकुसुमशाड्वलोत्पलवास्तुकम्||१७||
🔊 Audio coming soon
फलिन्यादि वासास्वरसेन पीतं पित्तासृक्शमनम् अथवा केवल एवाटरूषस्य वासाया निर्यासः स्वरसः| अथवा न केवलोऽपि तु शर्करामधुसंयुत्क्तः स वासानिर्यासः| अथवा शृतः क्वथितः| वृषः सद्यो जयत्यस्रम्| हिशब्दो यस्मादर्थे| यस्मात् सर्वप्रकारोऽपि वृषोऽस्य रक्तस्य परं प्रधानमौषधम्| भूनिम्बादिचूर्णं वासारसेन प्रयोगः| तेनैव माक्षिकयुक्तं पद्मकेसरादि वास्तुकान्तं प्रयोगः||१७||
Adhikarana prayogAntarANi (18) · Śloka 18
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्| पथ्या रजन्यहिंस्रा वा पलाण्डुं तद्वदेव वा| फलिनीलोध्रखदिरशाल्मलीकोविदारजम्| शिरीशशेलुककुभविन्दुवारातिमुक्तजम्| पलाशयूथिकाशिग्रुमधूकासनजन्म च| मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा| पुष्पैरेभिर्विपक्वं च सक्षौद्रं माहिषं घृतम्| लिह्यात्क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा| लाजाः शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम्| क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरीं सितोपलांम्| गैरिकं मधुकं लोध्रं शङ्खं शम्बूकमञ्जनम्| तण्डुलीयकमूलं वा बीजं वा वास्तुकोद्भवम्| पटोलमालतीनिम्बचन्दनद्वयपद्मकम्| लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका| शतावरी गोपकन्या काकोल्यौ मधुयष्टिका| रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः| सक्षौद्रं ग्रथिते रक्ते लिह्यात्पारावताच्छकृत्||१८||
🔊 Audio coming soon
गवाश्वस्य शकृद्रसो घृतमाक्षिकाभ्यां लेहप्रयोगः| पथ्यादीनां तद्वन्मधुसर्पिर्भ्यां प्रयोगः| तथा पलाण्डोः| फलिन्यादीनां यथा सम्भवं पुष्पं पृथङ्मिश्रितं वा चूर्णितं मधुना प्रयोगः| अथवा त्रिभिः श्लोकाद्यैस्त्रयः प्रयोगाः| सुबोधम्||१८||
Adhikarana raktAnitiHsrutau yogAH (19) · Śloka 19
अतिनिःस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत्| जाङ्गलं भक्षयेद्वाजं मांसं पित्तयुतं यकृत्| लोध्रकालीयकोशीरफलिनीशङ्ख़गैरिकम्| पटोलपत्रं दुःस्पर्शा समङ्गा सारिवा लता| त्वग्जम्बुवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात्| किराततिक्तक्रमुकमुस्तकट्फलपद्मकम्| प्रपौण्डरीकह्रीबेर कमलोत्पलपर्पटम्| चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम्| फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा| पीतमाशु जयत्यस्रं तृड्दाहतमकानपि||१९||
🔊 Audio coming soon
सृतमेव निःस्रुतम्| जाङ्गलजीवप्रभावाद्रुधिरं जाङ्गलम्| अथवा आजं यकृदपक्वं सजातीयपित्तसंयुक्तं भक्षयेत्| लोध्रादिभिर्दोषाद्यपेक्षं पृथङ्मिश्रैर्वा फाण्टं शृतं शीतं वा चूर्णं वा तण्डुलाम्बुमिश्रं सर्वमेव चन्दनशर्कराभ्यां संयुक्तं पीतमस्रादीनामाशु जयति| अर्जुनान्तानां त्वचा सम्बन्धः||१९||
Adhikarana candanAdi kaShAyaH (20) · Śloka 20
चन्दनोशीरजलदलाजमुद्गकणायवैः| बलाजले पर्युषितैः कषायो रक्तपित्तहा||२०||
🔊 Audio coming soon
बलायाः क्वाथस्य षट्सु फलेषु चन्दनादीनां फलं रात्रिस्थितं द्वितीयेऽह्नि प्रातः कषायो रक्तपित्तघ्नः||२०||
Adhikarana nIlotpalAdiSItakaShAyaH (22) · Śloka 22
नीलोत्पलं सिता यष्टी मधुकं पद्मकेसरम्| छिन्नोद्भवा च शीतोऽयं कषायो रक्तपित्तजित्| अतिदेशेन पित्तज्वरघ्नाः कषायाः ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत्||२२||
🔊 Audio coming soon
नीलोत्पलादिभिः शीतकषायः| छिन्नोद्भ्वा गुडूची| सुबोधम्||२२||
Adhikarana kShIraviShayaH yogASca (23) · Śloka 23
कषायैर्विविधैरेभिर्दीप्यतेऽग्नौ विजिते कफे| रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः| युञ्जाच्छागं शृतं तद्वद्गव्यं पञ्चगुणेऽम्भसि| पञ्चमूलेन लघुना शृतं वा ससिता मधु| जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः| पृथक्पृथक् शृतं शीतं सघृतं सितयाऽथवा| क्षीरेण वमनीपुष्पं मधुकं मधुशर्कराम्||२३||
🔊 Audio coming soon
कषायैर्विविधैरित्यादिना क्षीरविषयो दर्शितः| तद्वदिति गव्यं पयः शृतमेतल्लघुपञ्चमूलशृतमेव ससिता मधु| पृथक्पृथगिति कदाचिज्जीवकेन कदाचिद्वृषभकेणेत्येवं सर्वैः| अथवा शर्करया शृतं सर्वथा सघृतम्| वमनीपुष्पादिकं पृथक् क्षीरेण चूर्णितमालोड्य| वमनी छर्दनफला| वाटया कार्पासनग्निका||२३||
Adhikarana adhoge payoyogAH (24) · Śloka 24
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः| हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमागजम्| विण्मार्गगे विशेषेण हितं मोचरसेन तु| वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि||२४||
🔊 Audio coming soon
गोकण्टकशतावरीभ्यां शृतमथवा पर्णिनीभिः| पर्णिन्यो मुद्ग-माषसालपृश्निपर्ण्यः| मोचरसेन शृतं पय इति सम्बन्धः| निर्यासो यस्तु शाल्मल्याः स मोचरससंज्ञितः| प्ररोहाऽङ्कुरः| शुङ्गं प्रथमोद्भिन्नं किसलयम्| तच्च प्रकरणाद्वटस्यैव||२४||
Adhikarana raktAtisAradurnAmacikitsAtideSaH (25) · Śloka 25
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत्||२५||
🔊 Audio coming soon
अत्र च रक्तपित्ते दोषाद्यपेक्षया रक्तातिसारचिकित्सां रक्तार्शश्चिकित्सां च कल्पयेत्||२५||
Adhikarana siddhaghRutaviShayaH (26) · Śloka 26
पीत्वा कषायान् पयसा भुञ्जीत पयसैव तु| कषाययोगैरेभिर्वा विपक्वं पाययेद् घृतम्||२६||
🔊 Audio coming soon
कषायांश्चूर्णादीन् पयसा पीत्वा पयसैव भुञ्जीत| यथादोषादि च पूर्वोक्तैर्नानाविधकल्पनोपायोगैरौषधैर्विपक्वं घृतं पाययेत्||२६||
Adhikarana vRuShaghRutam (27) · Śloka 27
समूलमस्तकं क्षुण्णं वृषमष्टगुणेऽम्भसि| पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत्| तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम्| पित्तगुल्मज्वरश्वासकासहृद्रोगकामिलाः| तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत्||२७||
🔊 Audio coming soon
समूलशाखस्यार्द्रवृषस्योलूखक्ते क्षुण्णस्य षोडशपलान्यष्टाविंशेन शतेन जलपलानां पक्त्वा पक्वस्य च षोडशपलानि गृहीत्वा तेन तावदेव घॄतं घॄताच्चतुर्थांशेन शौनकमतेन षष्ठांशेन वा वृषपुष्पाणि गर्भे दत्वा विपचेत्| सुबोधम्||२७||
Adhikarana ghRutAntarANi (28) · Śloka 28
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत्| सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकसाधितम्| लोध्रोत्पलसमङ्गाभिस्तथैव त्रायमाणया||२८||
🔊 Audio coming soon
पलाशवृन्तानां स्वरसः सामान्यपरिभाषया घृताच्चतुर्गुणस्तेषामेव गर्भचूर्णस्य घृताच्चतुर्थांशत्वं शौनकमते अष्टमांशं कल्कस्य| अनेनैव विधिना वत्सकलोध्रादित्रायमाणासाधितानि त्रीणि घृतानि| वृन्तं पत्रम्||२८||
Adhikarana utkArikA (29) · Śloka 29
लाजगोधूममधुकसिताचूर्णं पयोद्रवम्| घृतेनोत्कारिकां कृत्वा खादेत्पित्तास्रवारिणीम्||२९||
🔊 Audio coming soon
उत्कारिका या पिष्टमालोड्य संवेद्य च पिण्डीक्रियते||२९||
Adhikarana kShArayogAH (kaNThage rakte) (30) · Śloka 30
रक्ते सपिच्छे सकफे ग्रथिते कण्ठमार्गगे| लिह्यान्माक्षिकसर्पिभ्यां क्षारमुत्पलनालजम्| मृणालाम्भोजकिञ्जल्कश्यामासनमधूकजम्| तद्वत्पृथक् पृथक् क्षारं ...................||३०||
🔊 Audio coming soon
कण्ठमार्गगे रक्ते पिच्छात्वादियुते नीलोत्पलनालजः क्षारो मधुसर्पिभ्यां लेह्यः| पिच्छामणुप्रायम्| ग्रथितं संहतम्| मृणालादीनामन्यतमस्य क्षारो दोषाद्यपेक्षया प्रयुक्तस्तद्वत् सर्पिर्मधुभ्यां लीढ उत्पलनालवद्विज्ञेयः||३०||
Adhikarana abhIrvAdighRutAni (31) · Śloka 31
.........................घृतं क्षीरेण साधयेत्| पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः| फलपूरकमूलेन विदार्या मधुकेन च| तद्विबन्ध्ज्वरानाहशूलकासास्रपित्तजित्||३१||
🔊 Audio coming soon
क्षीरेण समघृतेन| पुनर्वसुमते चतुर्थांशेनाभीर्वादिकल्केन घृतं पचेत जलं विना द्रव्याणि न संस्कारयोग्यानि भवन्तीत्यनुक्तावप्याचार्याः सर्पिषा समं जलमिच्छन्ति| अभीरुः शतावरी| वृक्षाम्लं तिन्तिणीकम्| फलपूरकं बीजपूरकम्||३१||
Adhikarana bastiviShayaH (32) · Śloka 32
पञ्चभिः पञ्चमूलैश्च सिद्धमाद्यैस्तदर्थकृत्| गुदागमे विशेषेण शोणिते बस्तिरिष्यते||३२||
🔊 Audio coming soon
आद्यानि पञ्च पञ्चमूलानि महद् ह्रस्वमध्यजीवनतृणाख्यानि| तदर्थकृदिति विबन्धज्वरादिजित्| अत्र घृताच्चतुर्गुणं जलम्| पञ्चमूलकल्कश्च घृताच्चतुर्थांशेन| सुबोधम्||३२
Adhikarana bastiprayogAH (33) · Śloka 33
मधुकाञ्जनमञ्जिष्ठामृणालोत्पलगैरिकैः| सुवर्णलोध्रकालीयसमङ्गाम्बुजचन्दनैः| सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः| क्षीरेणस्थापयेदेनं स्नातञ्च शिशिराम्भसा| क्षीरेणैवाशयेच्छालींस्ततो मधुकसर्पिषा| कालेऽनुवासयेदेवमतिसारेऽपि दुस्तरे| जीर्णेऽसृक्प्रबले कुर्याद्विरेके चातियोगिनि| विदार्यादिगणेनेष्टं शृतं वास्थापने पयः| सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने| मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः| ईदृशैरेव तद्वच्च प्रदरेऽपि विधिः स्मृतः| छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते| विशेषात्प्रदरस्योक्तं योनिरोगेषु चौषधम्||३३||
🔊 Audio coming soon
मधुकादिभिः पिष्टैर्घृतमाक्षिकयुक्तैश्च क्षीरेण सहास्थापयेत्| सुवर्णं पद्मकम्| कालीयं पीतचन्दनम्| समङ्गा मञ्जिष्ठा| सौगन्धिकमत्र पद्मकम्| अम्बु वालकम्| अनेनेस्थापितं स्नाताशितञ्च मधुयष्ट्या संयुक्तेन सिद्धेन वा सर्पिषा सूत्रोक्तेन विधिना कालेऽनुवासयेत्| अयञ्च उक्तो बृंहणो रक्तपित्तक्रमः स पुराणे रक्ताधिकेऽतिसारे विरेचनातियोगे च विधेयः| सुबोधम्| सक्षौद्रेत्यादि पयोविशेषणम्| ईदृशैरेवेति य एव बस्तयो गुदेनोक्तास्त एव मेढ्रेण योज्या इत्यर्थः| अयञ्च मेढ्रप्रवृत्तरक्तनिबर्हो विधिः प्रदरेऽपि योनिप्रवृत्ते रजसि गुह्यरोगे वक्ष्यमाणे विधेयः| तथायमेव रक्तपित्तविधिर्बृंहणः छेदाभिघातादिनातिप्रवृत्ते शुद्धशोणिते च विधेयः| प्रदरस्य च योनिप्रवृत्तस्य च रक्तस्य योनिरोगोक्तं रक्तशमनायौषधं विशेषाद्विशेषतः||३३||
Adhikarana ghrANapravRuttaraktacikitsitam (34) · Śloka 34
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत्| कषाययोगान् पूर्वोक्तान् क्षीरेक्ष्वादिरसाद्युतान्| क्षीरादीन् ससितं तोयं केवलं वा हितं जलम्| रसो दाडिमपुष्पाणामाम्रस्थ्नः शाड्वलस्य च||३४||
🔊 Audio coming soon
घ्राणप्रवृत्ते शुद्धे रक्ते नस्यमनुषेचयेत्| किमित्याह - पूर्वोक्तांश्चूर्णादिकषाययोगान् क्षीरेक्ष्वाद्यन्यतमरसेनालोडितानथवा क्षीरेक्षुरसादीन् सशर्करांस्तोयं वा सशर्करं केवलमेव वा तोयम्| सुबोधम्||३४||
Adhikarana atideSena cikitsitam (35-3) · Śloka 3
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु| यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्| रक्तपित्ते हितं तच्च क्षतक्षीणे हितञ्च तत्||३५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने रक्तपित्तचिकित्सितन्नाम तृतीयोऽध्यायः||३||
🔊 Audio coming soon
शीतो वर्गः पित्तशमनो दूर्वादिः शोधनादिर्गणपठितः अथवा महाकषायसंग्रहपठितः पद्मकलाजादिर्दाहहा दशकः शीतः| सुबोधः श्लोकः||३५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने तृतीयोऽध्यायः