Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. kāsacikitsitam

Adhikarana adhyAyapratij~jA (1) · Śloka 1

अथातः कासचिकित्सितं व्याख्य़ास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्य कासस्य चिकित्सां प्रदर्शयितुमध्याय आरभ्यते|

Adhikarana vAtajakAsacikitsA tatrAdau kiryAkramaH (2) · Śloka 2

केवलानिलजं कासं स्नेहैरादावुपाचरेत्| वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः| लेहैर्धूमैस्तथाभ्यङ्गस्वेदसेकावगाहनैः| बस्तिभिर्बद्धविड्वातं सपित्तं त्वौर्ध्वभक्तिकैः| घृतैः क्षीरैश्च सकफं जयेत् स्नेहविरेचनैः||२||

🔊 Audio coming soon

निदानोक्तक्रमस्याश्रयणात् प्रथमं केवलेत्यादिना वातकासचिकित्सोच्यते| स्नेहैः घृतादिभिर्यथायोग्यम्| वातघ्नानि शोधनादिगणपठितानि भद्रदारूनतकुष्ठादीनि| पेयादिभिरवगाहान्तैर्घृतादिरयोगात् स्निग्धैः| अभ्यङ्गस्याविषयप्रदर्शनार्थं विशेषणम्| विड्बद्धा कठिना| वातो विबद्ध असम्यग्वाही| घृतैरेवौर्ध्वभक्तिकैः क्षीरैरिति सामान्येन| सपित्तं सकफं चेत्यनिलजकासविशेषणम्||

Adhikarana guDUcyAdighRutam (3) · Śloka 3

गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद्रसे| प्रस्थः सिद्धो घृताद्वातकासनुद्विह्निदीपनः||३||

🔊 Audio coming soon

गुडूचीकण्टकार्योः षष्टिः पलानि ततो निष्पीडितो रसो यथासम्भवं तस्यालाभे क्वाथकल्पनया क्वाथः|| ३||

Adhikarana kShAraghRutam (4) · Śloka 4

क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः| द्विशणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत्| दशमूलस्य निर्यूहे पीतो मण्डानुपायिना| सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत्||४||

🔊 Audio coming soon

क्षारादीनां पञ्चकोलानां प्रत्येकमर्धकर्षः| दशमूलक्वाथे घृताच्चतुर्गुणः| सह श्वासेन वर्तते यः कासः स तथोक्तः|| ४||

Adhikarana kAshmaryAdighRutam (5) · Śloka 5

काश्मर्यत्रिफलाव्योषशठीद्राक्षापरूषकम्| द्वे पाठे देवदार्वर्द्धिस्वगुप्ताग्निकगोक्षुरम्| व्याघ्रीतामलकीमेदाकाकनासाशतावरीः| विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपाचितः| क्षीरेण च जयत्याशु ज्वरकासहलीमकान्| गुल्मारुचियकृत्प्लीहशिरोहृत्पार्श्ववेदनाः| कामिलार्शोनिलाष्ठीलाक्षतशोफक्षयांश्च सः||५||

🔊 Audio coming soon

काश्मर्यादिभिः कर्षाशैर्घृतप्रस्थं तद्वत् समेन क्षीरेण युक्तं पचेत्| अत्र घृतसमं जलमिच्छन्ति| अग्निकः चित्रकः| तामलकी ताली| काकनासा काकतुण्डफला| शोषो मांसक्षयः| क्षयो राजयक्ष्मा|| ५||

Adhikarana rAsnAdighRutam (6) · Śloka 6

द्रोणेऽपां साधयेद्रास्नादशमूलशतावरीः| पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम्| तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम्| समक्षीरं पलाशैश्च जीवनीयैः समीक्ष्य तत्| प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः| पञ्चकासान् शिरः कम्पं योनिवंक्षणवेदनाम्| सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत्||६||

🔊 Audio coming soon

रास्नादीनां द्वादशपलाणि कुलत्थादीनां प्रत्येकमष्टौ पलानि आजमांसस्य पलानि पञ्चाशदिति पानीयपलशतपञ्चकेन सद्वादशपलेन साधयेत्| तेनेति सिद्धेन साधितप्रयोगात् मांसवत् मांसपाकाविधिरस्य सिद्धता| चरके तु पठितं-पादशेषेण तेन चेति| जीवनीया उक्ताः| तैः पलांशैः समेन क्षीरेण युक्तं घृताढकं पचेत्| समीक्ष्येति बृंहणीयत्वं सम्यग्विकल्य सर्वाङ्गरोगा नानाविधा वातव्याधयः| ऊर्ध्वं प्रवृत्तोऽनिल ऊर्ध्वानिलः| सहशब्देन तावपि जयेदित्युक्तम्|| ६||

Adhikarana vidAryAdighRutam (7) · Śloka 7

विदार्यादिगणक्वाथकल्कसिद्धं च कासजित्||७||

🔊 Audio coming soon

विदार्यादिगणस्य क्वाथः स्नेहाच्चतुर्गुणः कल्कश्चतुर्थाशः| इदं च घृतं वातपित्तकासे विधेयम्|| ७||

Adhikarana ashokabIjAdighRutam (8) · Śloka 8

अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः| सविडैश्च घृतं सिद्धं तच्चूर्णं वा घृताद्युतम्| लिह्यात्पयश्चानु पिबेदाजं कासाभिपीडितः||८||

🔊 Audio coming soon

अशोकबीजादीनि घृताच्चतुर्थांशानि| पानीयं चात्र घृतसममिच्छन्ति| तदित्यशोकबीजादिपरामर्शः|| ८||

Adhikarana viDa~ggAdicUrNam (9) · Śloka 9

विडङ्गं नागरं रास्ना पिप्पली हिङ्गुसैन्धवम्| भार्ङ्गीक्षारश्च तच्चूर्णं पिबेद्वा घृतमात्रया| सकफेऽनिलजे कासे श्वासहिध्माहताग्निषु||९||

🔊 Audio coming soon

विडङ्गादिचूर्णोपयोगे ग़ृते मात्राशब्दः स्तोकपर्यायः| तच्च विडङ्गादिचूर्णं वातकासे सश्लेष्मणि हितं श्वासादिषु च|| ९||

Adhikarana avalehacUrNAdikam (10) · Śloka 10

दुरालभां शृङ्गिवेरं शठी रास्ना सितोपलाम्| लिह्यात्कर्कटशृङ्गञ्च कासे तैलेन वातजे| दुःस्पर्शां पिप्पलीं मुस्तं भार्ङ्गी कर्कटकीं शठीम्| पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत्| तद्वत्सकृष्णां शुण्ठीं च सभार्ङ्गी तद्वदेव च| पिबेत्कृष्णाञ्च कोष्णेन सलिलेन ससैन्धवाम्| मस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाः| पिबेद्बदरमज्ज्ञौ वा मदिरादधिमस्तुभिः| अथवा पिप्पलीकल्कं ग़ृतभृष्टं ससैन्धवम्||१०||

🔊 Audio coming soon

दुरालभादीन् कर्कटशृङ्गीसहितांस्तैलेन लिह्यादिति कृष्णाशुण्ठ्योः पुराणगुडतैलाभ्यां प्रयोगः| तद्वदेव भार्ङ्गीशुण्ठ्योः| सैन्धवपिप्पल्योरुष्णोदकेन प्रयोगः| सिताशुण्ठ्योर्मस्तुना| दध्ना कणरेणुकाः पिप्पलीबीजानि| तथा बदरमज्ज्ञौ रेणुकाः मदिरया वा दध्ना व मस्तुना व| पिप्पलीनां कल्को जलपिष्टः सैन्धवयुक्तेनज् घृतेन भृष्टः क्रियते|| १०||

Adhikarana dhUmapAnam (11) · Śloka 11

कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत्| हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः||११||

🔊 Audio coming soon

स्नैहिकं धूमविधावुक्तम्| हिध्माश्वासे ये धूमा वक्ष्यन्ते तान् सेवेत क्षीरमांसरसाशनः सन्|| ११||

Adhikarana saMskRutAH rasAH (12) · Śloka 12

ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान्| रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान्||१२||

🔊 Audio coming soon

ग्राम्यादिमांसकृतैः रसैर्माषात्मगुप्ताकृतैर्वा यूषैः शालियवादीन् हितान् पथ्यान् भोजयेत्|| १२||

Adhikarana saMskRutAH peyAH (13) · Śloka 13

यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः| रास्नाजाजीपृथक्पर्णीपलाशशठिपौष्करैः| सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत्| कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशिनीम्| दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम्| पिबेत्समतिलां पेयां क्षैरेयीं वा ससैन्धवाम्| मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम्|१३|

🔊 Audio coming soon

अनिलजे कासे यवान्यादिभिः सिद्धां दाडिमादिभिरम्लां च पेयां पिबेत्| दशमूलरसे पञ्चकोलगुडसंयुतां तद्वत् कटीरुगादिनाशिनीमित्यर्थः| समशालितिलां ससैन्धवामथवा क्षैरेयीम्| मत्स्यादिभिर्मांसैः| पेया घृतसैन्धवयुक्ता|| १३||

Adhikarana pathyam (13) · Śloka 13

वास्तुको वायसीशाकं कासग़्नः सुनिषण्णकः| कण्टकार्याः फलं पत्रं वालं शुष्कं च मुलकम्| स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः| दधिमस्त्वारनालाम्मफलाम्बुमदिराः पिबेत्||१३||

🔊 Audio coming soon

वास्तुकादिशाकं कासे पथ्यम्| स्नेहास्तैलादयः तैलपूर्वाः| भक्ष्या नानाविधाः क्षीरादीनां पिबेदित्यनेन सम्बन्धः| गुडेन कृतं गौडिकम्| सुबोधम्|| १३||

Adhikarana pittajakAsacikitsA vamanam (14) · Śloka 14

पित्तकासे तुसकफे त्रिवृतां मधुरैर्युताम्| युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः||१४||

🔊 Audio coming soon

तनुकफे पित्तकासे मधुरैरौषधैर्युक्तां त्रिवृताम्| घने कफे तु तिक्तकैर्युक्ताम्|| १४||

Adhikarana saMsarjanam (15) · Śloka 15

हतदोषो हिमं स्निधं स्वादु संसर्जनं भजेत्| घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम्||१५||

🔊 Audio coming soon

तथा च त्रिवृतया हतदोषः सन् शीतादिगुणं संसर्जनं पेयादिकमं भजेत्| घनकफे पित्तकासे शीतरूक्षादिकं तिक्तोपसंहितं मिश्रितम्|| १५||

Adhikarana lehAH (16) · Śloka 16

पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम्| लाजामृताफलद्राक्षात्वक्क्षीरीपिप्पलीसिताः| दुःस्पर्शाकर्कटीशुण्ठीशठीद्राक्षासिताबलाः| निदिग्धकामूलफलं वटबीजं रसाञ्जनम्| खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते| घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम्| पयोऽनुपानां शृङ्गीं वा लिह्यात्साज्यसितामधुम्||१६||

🔊 Audio coming soon

पिप्पलीलाजदुःस्पर्शानिदिग्धकाखर्जूरादिभिः पञ्चभिरर्धश्लोकैः पञ्च घृतक्षौद्राभ्यां युक्ता लेहाः पित्तकासिनामुक्ताः| महौषधं शुण्ठी| अमृताफलमामलकफलम्| कर्कटी कर्कटशृङ्गी वांशी तुकाक्षीरी| शृङ्ग्या आज्यसिता मधुनो दोषाद्यपेक्षया मात्रा|

Adhikarana apare lehAH (17) · Śloka 17

लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः| सकफे साब्दमरिचः सघृतः सानिले हितः| मृद्वीकार्धशतं त्रिंशत् पिप्पलीः शर्करापलम्| लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम्| त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः| लाजमुस्तशठीरास्नाधात्रीफलबिभीतकैः| शर्कराक्षौद्रसर्पिभिर्लेहो हृद्रोगकासहा| पिप्पल्यामलकद्राक्षालाजलाक्षासितोपलाः| सञ्चूर्ण्य पक्त्वा पयसा लिह्यात्क्षौद्राष्टभागिकाः||१७||

🔊 Audio coming soon

एवं पित्तकासे सितादिभिर्लेहः| सकफे पैत्ते मुस्तमरिचाभ्यां युक्तः सितादिभिर्लेहः| सानिले तु पैत्ते अब्दमरिचाभ्यां विना सघृतः सितादिभिर्हितः| मृद्वीकाफलानि पञ्चाशत् फलानां संख्याशब्देन केवलेन प्रयोगे उक्तमानं न नेच्छन्ति| पिप्पलीफलानि त्रिंशत्| शर्करायाः पलमित्येतन्माक्षिकेणावलेहयेत्| अथवा पुङ्गवस्य क्षीरवृत्तेः सम्बन्धि यः शकृतो रसः तं मधुना लेहयेत्| त्वगादीनां शर्करान्तानां क्षौद्रसर्पिभ्यां लेहो हृद्रोगकासयोर्हन्ता| पिप्पल्यादीनां चूर्णं क्षीरेण पक्त्वा आलेहत्वप्राप्तेस्ततश्चाष्टभागं क्षौद्रं दत्वा लिह्यात्|| १७||

Adhikarana vidAryAdInAM pAnam (18) · Śloka 18

विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम्| पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति||१८||

🔊 Audio coming soon

विदार्यादीनां रसान् क्षीरं सितोपलां च समभागानि दोषाद्यपेक्षमात्रेण क्षौद्रेण संयोज्य पिबेत्| तत् पित्तकासमपोहति|

Adhikarana pathyam (19) · Śloka 19

मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः| मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः||१९||

🔊 Audio coming soon

तत्र च पित्तकासे यवादयो जाङ्गलानां मांसानं रसैर्मधुरैरम्लरहितैः सहमात्रया हितास्तथा मुद्गादीनां यूषैः शाकैश्च पटोलादिभिस्तिक्तकैः|| १९||

Adhikarana tanukaPayorvisheShaH (20) · Śloka 20

घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः| शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः| शर्कराम्भोऽनुपानार्थं द्राक्षेक्षुस्वरसः पयः||२०||

🔊 Audio coming soon

घनश्लेष्मणि पित्तकासे तिक्तकैर्द्रव्यैर्मधुसहिता लेहाश्च हिताः| तनुकफे पैत्ते शालयः षष्टिकाश्च रसयूषशाकादिभिः| सुबोधम्|| २०||

Adhikarana siddharasayUShAdikam (21) · Śloka 21

काकोलीबृहतीमेदाद्वयैः सवृषनागरैः| पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत्||२१||

🔊 Audio coming soon

काकोल्यादीनां क्वाथेन पित्तकासिनो मांसरसादीन् कल्पयेत्| कल्पयेदित्यनेन चूर्णितैरपि संयुक्ता रसादय इष्यन्ते|| २१||

Adhikarana drAkShAkShIrAdikam (22) · Śloka 22

द्राक्षां कणां पञ्चमूलं तृणाख़्यं च पचेज्जले| तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्| साधितां तेन पेयां वा सुशीतां मधुनान्विताम्||२२||

🔊 Audio coming soon

द्राक्षादिक्वाथेन समं क्षीरं शृतं शीतं सन्मधुशर्कराभ्यां सह पिबेत्| तेन वा द्राक्षादिक्वथितजलेन साधितां पेयां केवलेन मधुनान्वितां पिबेत्|| २२||

Adhikarana saghRutaM siddhajalam (23) · Śloka 23

शठी ह्नीबेरबृहतीशर्कराविश्वभेषजम्| पिष्ट्वा रसं पिबेत्पूतं वस्त्रेण घृतमूर्च्छितम्||२३||

🔊 Audio coming soon

जलेन शठ्यादिकं तद्रसं वस्त्रपूतं घृतमिश्रितं पिबेत्|

Adhikarana pa~jcasamaM sarpiH (24) · Śloka 24

महिष्यजावीगोक्षीरधात्रीफलरसैः समैः| सर्पिः सिद्धं पिबेत् .......................||२४||

🔊 Audio coming soon

महिष्यादीनां क्षीराणि धात्रीफलानां च रस इति पञ्चसमानि तावच्च सर्पिर्विपक्वं सिद्धं पिबेत् पित्तकासे|| २४||

Adhikarana madhuragaNasiddhaM sarpiH (25) · Śloka 25

.................................तद्वन्मधुरेण गणेन वा| क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम्| सशर्करं पिबेत्प्रातर्लिह्याद्वा माक्षिकान्वितम्||२५||

🔊 Audio coming soon

तथा मधुरगणस्य क्वाथेन स्नेहसमेन क्षीरेण च स्नेहसमेन स्नेहाच्चतुर्गुण इक्षुरसे सर्पिः साधितं शर्करया सह प्रातः पिबेत्| मधुरो गणो रसभेदीयोक्तो मधुरस्कन्धः| अथवैतत् सर्पिः सशर्करमेव प्रातर्माक्षिकान्वितं लिह्यात् स्त्यानं सत्|

Adhikarana kShIrivrukShA~gkuraghRutam (26) · Śloka 26

क्षीरिवृक्षाङ्कुरक्वाथे पक्वं क्षीरसमं घृतम्| पाययेत् पित्तकासार्तं मधुना वाऽवलेहयेत्||२६||

🔊 Audio coming soon

क्षीरिवृक्षाङ्कुरक्वाथः स्नेहाच्चतुर्गुणः| सर्वसर्पीषि स्त्यानानि लेह्ययोगीनि भवन्ति|| २६||

Adhikarana medAdisarpiH (27) · Śloka 27

मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम्| शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम्| कल्कीकृत्य पचेत्सर्पिः क्षीरेणाष्टगुणेन तत्| पानभोजनलेहेशु प्रयुक्तं पित्तकासजित्||२७||

🔊 Audio coming soon

मेदादीनि स्नेहाच्चतुर्थांशेन| जलमौषधस्य वीर्यग्रहणाय स्नेहसममष्टगुणेन क्षीरेण सर्पिः पचेत्| तत् पक्वं पानादिषु प्रयुक्तं पित्तकासानुत्|| २७||

Adhikarana cUrNayogAH kaShAyayogAshca (28) · Śloka 28

लिह्याद्वा चूर्णमेतेषां कशायमथवा पिबेत्||२८||

🔊 Audio coming soon

एतेषां वानन्तरोक्तानां घृतद्रव्याणां चूर्णं लिह्यान्मधुनेत्यर्थाल्लभ्यते| अथवा यैरेव द्रव्यैर्घृतान्युक्तानि तेशां कषायं पिबेदिति पित्तकासः|| २८||

Adhikarana kaPajakAsacikitsA virecanam (29) · Śloka 29

कफकासी पिबेदादौ सुरकाष्ठात्प्रदीपितात्| स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम्| स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः| तीक्ष्णैर्विरेकैर्बलिनम्..........................||२९||

🔊 Audio coming soon

कफकासीत्यादि सुबोधम्| सुरकाष्ठं देवदारु स्निग्धमित्यनेनैव स्नेहेन त्रिभिर्भागैर्युक्त्या वातरक्षदिरूपया| विरेचयेत् ऊर्ध्वमिति वमनेन| अध इति विरेचने| मूर्ध्नीति नस्येन| तीक्ष्णैः पुनद्रव्यै-स्त्रिधापि बलिनमेव विरेचयेत्| अबलन्तु मृदुभिविरेकैरित्यर्थः|| २९||

Adhikarana saMsargIkramaH (30) · Śloka 30

.............................संसर्गी चास्य योजयेत्| यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः| कासमर्दकवार्ताकव्याघ्ऱीक्षारकणान्वितैः| धान्वबैलरसैः स्नेहैस्तिलसर्षपनिम्बजैः||३०||

🔊 Audio coming soon

अस्य च विरिक्तस्य कासिनः संसर्गी पेयादिक्रमाख़्यां योजयेत्| केनेत्याह-यवाद्यन्नैः| किम्भूतैरूष्णै रूक्षैश्च तथा कटुभिर्मरिच्यादिभिरुत्कटैः कासमर्दादिभिर्नानाविधेन प्रकारेणान्वितैस्तथा धन्वैर्जाङ्गलै रसैर्बलैश्च बिलेशयप्रभावैस्तिलादिजैश्च स्नेहैः|| ३०||

Adhikarana pAnIyam (31) · Śloka 31

दशमूलाम्बु धर्माम्बु मद्यं मध्वम्बु वा पिबेत्| मूलैः पौष्करशम्याकपटोलैरन्वितं निशाम्| पिबेद्वाति सह क्षौद्रं कालेष्वन्नस्य वा त्रिषु||३१||

🔊 Audio coming soon

तृषितश्च दशमूलाम्ब्वादिकं पिबेत्| घर्माम्बूष्णोदकम्| पौष्करादिमूलैः सकलां रात्रिं समन्वितं वारि श्वोभूतेषु त्रिषु कालेष्वन्नस्य पिबेत्| भोजनस्यारम्भमध्यपर्यवसानेष्वित्यर्थः| पूर्वप्रयोगापेक्षया विकल्पः|| ३१||

Adhikarana kaphakAsaghnAH lehAH (32) · Śloka 32

पिप्पलीपिप्पलीमूलं शृङ्गिवेरं बिभीतकम्| देवदार्वभया मुस्तं पिप्पलीविश्वभेषजम्| गुडूची पिप्पलीभार्ङ्गीशृर्ङीकर्कटकस्य च| व्योषदारुविडङ्गानि त्रिफलाशर्करावलाः| निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिता| शिखिकुक्कुटपिच्छानां मषी क्षारो यवोद्भवः| विशालापिप्पलीमूलं त्रिवृता च मधुद्रवाः| कफकासहरा लेहाः सप्तश्लोकार्धयोजिताः| मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम्| पृथग्रसाम्श्च मधुना व्याघ्रीवार्ताकभृङ्गजान्| कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च||३२||

🔊 Audio coming soon

पिप्पलीदेवदारुगुडूचीव्योषनिदिग्धिकाशिखिपिच्छविशालादिभिः श्लोकार्धैः सप्त मक्षिकद्रवा लेहाः कफकासहरा भवन्ति| मरिचैः फलैः सह योजिता निदिग्धिकामूलत्वक्| सुबोधम्| जोङ्गकं कृष्णागरु| कासघ्नादीनां षष्ठ्यन्तानां पृथग्रसो विज्ञेयः कासघ्नः कासमर्दः| असित इति सुरसविशेषणम्|| ३२||

Adhikarana vAtAnuge kaPe lehau (33) · Śloka 33

देवदारुशठीरास्नाकर्कटाख़्यादुरालभाः| पिप्पली नागरं मुस्तं पथ्या धात्री सितोपलाः| मधुतैलयुतावेतौ लेहौ वातनुगे कफे||३३||

🔊 Audio coming soon

देवदार्वादिभिः पिप्पल्यादिभिश्च द्वौ तैलमाक्षिकयुतौ लेहौ वातानुगे कफे कफकासे भवतः|| ३३||

Adhikarana viDa~ggAdicUrNalehaH (34) · Śloka 34

विडङ्गं सैन्धवं हिङ्गु कुष्ठं व्योषं मनःशिलाम्| कासे श्वासे च हिध्मायाम् लिह्यात्क्षौद्रघृताद्युतम्||३४||

🔊 Audio coming soon

विडङ्गादिचूर्णं क्षौद्रघृताद्युतं कासादिके लिह्यात्|| ३४||

Adhikarana guDAdicUrNam (35) · Śloka 35

गुडक्षारोषणकणादाडिमं श्वासकासजित्| क्रमात्पलद्वयार्धाक्षकर्शार्धाक्षपलोन्मितम्| द्वे पले दाडिमादष्टौ गुडद्व्योषात् पलत्रयम्| रोचनं दीपनं स्वर्यं पीनसश्वासकासजित्||३५||

🔊 Audio coming soon

गुडादिकं क्रमात् पलद्वयादिरूपोन्मानमितं श्वासकासजित्| गुडस्य पलद्वयम्| यवक्षारस्यार्धकर्षः| मरिचस्य कर्षः| पिप्पलीनामर्धकर्षः| दाडिमस्य पलमिति क्रमार्थः सुबोधम्|| ३५||

Adhikarana pAThAdikaM mustAdika~jca cUrNam (36) · Śloka 36

पाठाशुण्ठीशठीमुर्वागवाक्षीपिप्पलीघनम्| पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत्| तद्वान्मुस्ताशठीशुण्ठीनागरातिविषयाऽभयाः||३६||

🔊 Audio coming soon

Adhikarana pAcanAntarANi (37) · Śloka 37

पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकञ्च पाचनम्| अथवा दीप्यकत्रिवृद्धिशालाघनपौष्करम्| सकणं क्वथिते मूत्रे कफकासी जलेऽपि वा||३७||

🔊 Audio coming soon

ज्वरोक्तं पथ्यादि| रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम्| अभया पिप्पलीमूलशम्याककटुकाघनम्|| तत् सशृङ्गीकं पिबेत्| दीप्यकादिकं पिप्पल्यन्तं गोमूत्रे क्वथितं कफकासी पिबेत्|| ३७||

Adhikarana vaidehIkalkaH (38) · Śloka 38

तैलभृष्टञ्च वैदेहीकल्काक्षं ससितोपलाम्| पाययेत्कफकासघ्नं कुलत्थसलिलाद्युतम्||३८||

🔊 Audio coming soon

वैदेह्याः पिप्पल्याः कल्कस्याक्षं कर्षं तैलेन भर्जितं सत् शर्करया दोषमात्रया युक्तं कुलत्थक्वथितसलिलेन पाययेत्| तद्भि कफकासघ्नम्|| ३८||

Adhikarana sauvarcalAdicUrNam (39) · Śloka 39

सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम्| चूर्णितं सर्पिषा वातकफकासहरं पिबेत्||३९||

🔊 Audio coming soon

सौवर्चलादिकं चूर्णितं घृतेनालोड्य वातश्लेष्मकासे पिबेत्||

Adhikarana dashamUlAdighRutam (40) · Śloka 40

दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत्| पुष्कराह्वशठीबिल्वसुरसव्योषहिङ्गुभिः| पेयानुपानं तत्सर्वं वातश्लेष्मामयापहम्||४०||

🔊 Audio coming soon

द्रवपाठासम्भवाच्च दशमूलरसस्याढको विज्ञेयः| दशमूलाढकः पुनर्घृतप्रस्थेनाभ्यक्ततामेव न प्राप्नोति| अक्षसमैः कार्षिकैः||

Adhikarana nirguNDIghRutam (1) · Śloka 1

निर्गुण्डीपत्रनिर्याससाधितं कासजिद् घृतम्|१|

🔊 Audio coming soon

Adhikarana viDa~ggaghRutam (1) · Śloka 1

घृतं रसे विडङ्गानां व्योषगर्भं च साधितम्||१||

🔊 Audio coming soon

Adhikarana punarnavAghRutam (41) · Śloka 41

पुनर्नवशिवाटिकासरलकासमर्दामृता पटोलबृहतीफणिज्झकरसैः पयःसंयुतैः| घृतं त्रिकटुना च सिद्धमुपयुज्य सुजायते न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम्||४१||

🔊 Audio coming soon

निर्गुण्डीपत्राणां स्वरसः स्नेहाच्चतुर्गुणः स्नेहाच्चतुर्थाशः| निर्गुण्डी शोफालिका| तस्या एव पत्रं सुबोधम्|| ४१||

Adhikarana kaNTakArighRutam (42) · Śloka 42

समूलफलपत्रायाः कण्टकार्या रसाढके| घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः| सौवर्चलयवक्षारमूलामलकपौष्करैः| वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः| मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः| शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्| कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते||४२||

🔊 Audio coming soon

कण्टकार्या रसो निष्पीडितः बलादीनि स्नेहाच्चतुर्थांशानि| मूलं पिप्पलीमूलम्| आमलकफलानि| पौष्करं पुष्करमूलम्| चरकविदः पठन्ति-'सौवर्चलयवक्षारपिप्पलीमूलपौष्करैरि'ति| ते ह्यामलकानि न पठन्ति|| ४२||

Adhikarana dvitIyaM kaNTakArIghRutam (43) · Śloka 43

कण्टकार्यसितुलां क्षुण्णं पक्त्वा द्रोणेऽम्भसः पचेत्| तेनाढकेन क्वाथस्य घृतप्रस्थं पिचून्मितैः| रास्नादुःस्पर्शषड्ग्रन्थापिप्पलीद्वयचित्रकैः| सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत्| कासश्वासकफष्ठीवहिध्मारोचकपीनसान्||४३||

🔊 Audio coming soon

कण्टकार्याः पलशतम्| जलद्रोणं सद्वादशपलानि पञ्चशतनि| क्वथितशेष आढकमष्टाविंशत्यधिकं पलशतम्| रास्नादीनि कर्षोन्मितानि| षड्ग्रन्था शतपर्विका| कफष्ठीवः श्लेष्मोद्गिरणम्|| ४३||

Adhikarana kaNTakArIlehaH (44) · Śloka 44

पचेद्व्याघ्रीतुलां क्षुण्णां वहेऽपामाढकस्थिते| क्षिपेत्पूते तु सञ्चूर्ण्य व्योवरास्नामृताग्निकान्| शृङ्गीभार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान्| सर्पिषः षोडशपलं चत्वारिंशत्पलानि च| मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत्| दर्वींलेपिनि शीते च पृथग्द्विकुडवं क्षिपेत्| पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च| लेहोऽयं गुल्महृद्रोगदुर्नामश्वासकासजित्||४४||

🔊 Audio coming soon

व्याघ्र्याः पलशतम्| अपां जलस्य वहः पलसहस्रद्वयमष्टचत्वारिंशदधिकम्| पूतं स्रुतम्| ग्रन्थिः पिप्पलीमूलम्| मत्स्यण्डिका खण्डादूना शर्करा| शुद्धा निर्मला| अधिश्रयणं पाकाय चुल्यामारोहणम्| पिप्पलीनां द्विकुडवमष्टौ पलानि| तद्वत्तुकाक्षीर्याः माक्षिकस्य द्विकुडवं षोडशपलानि| अनवशब्देन तद्वत्सरकृतं प्रतिषिध्यते|| ४४||

Adhikarana triPalAdilehaH (45) · Śloka 45

त्रिफलापिप्पलीपाठाशारिवाबृहतीद्वयम्| मरिचं पद्मकं मुस्तमुशीरं चाक्षसम्मितम्| पक्त्वा जलाढके पादशेषे क्षीरपलाष्टकम्| दत्वा गुडस्य च पलं पचेदादर्विलेपनात्| लेहः कफोल्बणं कासं सर्वमेव नियच्छति| साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत्||४५||

🔊 Audio coming soon

त्रिफलादिके त्रिफलादयः कर्षप्रमाणाः| सुबोधम्|| ४५||

Adhikarana dhUmapAnam (46) · Śloka 46

शमनं च पिबेद्धूमं शोधनं बहले कफे||४६||

🔊 Audio coming soon

सर्वस्मिन् कफकासे शमनं धूमं पिबेत्| शमनः प्रायोगिको मध्य इति पर्यायाः| यदा तु कफकासे वहलो घनः कफो भवति तदा शोधनं धूमं पिबेत्| शोधनो विरेचनस्तीक्ष्ण इति पर्यायाः| एतौ धूमविधौ प्रदर्शितौ|| ४६||

Adhikarana manaHshilAdidhUmaH (47) · Śloka 47

मनःशिलालमधुकमांसीमुस्तेऽङ्गुदीत्वचः| धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु| निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः| वातश्लेष्मोत्तरन् कासनचिरेण चिरन्तनान्||४७||

🔊 Audio coming soon

मनःशिलादीनां धूमं कासघ्नधूमविधानेन पीत्वा क्षीरं पिबेत्| कासघ्नधूमविधानं तु 'चूर्णं गुलिकां वा निर्धूमदीपस्थिराङ्गारपूर्णे सुसंस्थिते शरावे प्रक्षिप्यान्येव नेत्रं, मूर्ध्नि प्रवृत्तछिद्रेण शरावेण पिधाय निधाय च तत् सोऽतीसमुखेनैव धूमं पिबेत्' उरःप्राप्तं च मुखेनैवोद्वमेत्| प्रशान्ते च धूमे पुनः पुनः क्षिपेत्| पिबेच्चादोषशुद्धेर्लाघवाद्वेति| एतच्च धूमविधौ व्याख्यातम्| तत्र च क्षीरं धूमात् निष्ठ्यूतस्य श्लेष्मणोऽन्ते गुडयुतमीष्दुष्णं च पिबेत्|

Adhikarana prapauNDarIkAdidhUmaH (48) · Śloka 48

प्रपौण्डरीकं मधुकं शार्ङ्गाष्ठालं मनःशिलाम्| मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम्| कृत्व वर्ति पिबेद्धूमं क्षौमचैलानुवर्तिनीम्| घृताक्तामनु च पिबेत्तद्वद्गुडाम्बु वा||४८||

🔊 Audio coming soon

प्रपौन्डरीकादिभिः श्लक्ष्णपिष्टैः क्षौमचैलेन सह वर्ति कृत्वा ताञ्च घृताक्तां कृत्वा तत एव धूमं पिबेत्| अनु च क्षीरम्| तद्वदिति निष्ठ्यूतान्ते गुडयुतं कोष्णञ्च| अथवा गुडाम्ब्वनु पिबेत्; न तु तथाविधं क्षीरम्|| ४८||

Adhikarana nepAlyAdidhUmaH (49) · Śloka 49

नेपालीतलमरिचलाक्षाञ्जनकुटन्नटैः| उशीररोहिषफलद्रामिकीवंशलेखनैः| पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते| कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः| कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः||४९||

🔊 Audio coming soon

नेपाल्यादिभिः पूर्ववद्धूमः| नेपाली मनःशिला| कुटन्नटं प्लवं धान्यं वितुन्नं परिपेलवम्| रोहिषं भूतिकम्| फलं मदनफलम्| द्रामिकी सूक्ष्मैला| वंशलेख़नं वंशशिला तनुशकलं वदन्ति| सुबोधम्| कोशातकफलमज्जा मनःशिला च धूमम्|

Adhikarana kAse~anubandhAnusAraM cikitsA (50-4) · Śloka 4

तमकः कफकासे तु स्याच्चेत्पित्तानुबन्धजः| पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत्| कफानुबन्धे पवने कुर्यात्कफहरां किर्याम्| पित्तानुबन्धयोर्वातकफयोः पित्तनाशिनीम्| वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरुक्षणम्| कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम्||५०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने कासचिकित्सितन्नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

यत्र तु कफकासे पित्तानुबन्धात् तमकाख़्यः श्वासः स्यात्तत्र कफकासे पित्तकासक्रियां यथावस्थं कुर्यात्| वातकासे तु कफानुबन्धे कफकासहरां क्रियां कुर्यात्| वातकफयोर्मिश्रितयोरपि पित्तानुबन्धे पित्तकासक्रियां कुर्यात्| सुबोधम्| तिक्तसंयुतशब्देन कर्म सम्बध्यते|| ५०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रह- व्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने चतुर्थोऽध्यायः