Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. kṣatakṣayajakāsacikitsitam

Adhikarana atha kShatakShayakAsacikitsitaM nAma pa~jcamo~adhyAyaH adhyAyapratij~jA (1) · Śloka 1

अथातः क्षतक्षयकासचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्षतक्षयकासयोर्यत्नेन प्राधान्यात् पृथगेवाध्यायारम्भः||१||

Adhikarana tAtkAlikI cikitsA (2) · Śloka 2

उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतान् पिबेत्| क्षीरेण शालीन् जीर्णोऽद्यात् क्षीरेणैव सशर्करान्| पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम्| भिन्नविट्तु समुस्तातिविषापाठां सवत्सकाम्||२||

🔊 Audio coming soon

अन्तःक्षतशब्देन निदानोक्तं स्मारयति| तस्मिन् लाक्षाक्षौद्रक्षीरे जीर्णे सशर्कराञ्छालीनं क्षीरेण वाद्यात् तामिति लाक्षाम्| समुस्तादिकां लाक्षामेव सवत्सकाम्||२||

Adhikarana lAkShAdiyogaH dIpte~agnau (3) · Śloka 3

लाक्षा सर्पिर्मधूच्छिष्टं जीवनीयगणं सिता| त्वक्क्षीरी समितं क्षीरे पक्त्वा दीप्तानलः पिबेत्||३||

🔊 Audio coming soon

लाक्षादीनि समानि जीवनीयगणस्य संयुक्तस्यान्यतमसमत्वम्| मधूच्छिष्टं सिक्थकम्| समित् गोधूमचूर्णं स्यात्| तत् सर्वं बहुना क्षीरेण पानयोग्यं पक्त्वा दीप्ताग्निः उरःक्षती पिबेत्||३||

Adhikarana ikShvAlikAdikShIram (4) · Śloka 4

इक्ष्वालिकाबिसग्रन्थिपद्मकेसरचन्दनैः| शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती||४||

🔊 Audio coming soon

क्षतेऽन्तरुरसि पुरुषः सन्धानार्थमिक्ष्वालिकादिभिः क्षीरं मधुयुक्तं पिबेत्||४||

Adhikarana sajvaradAhe yavacUrNayogaH (5) · Śloka 5

यवानां चूर्णमामानां क्षीरसिद्धं घृतान्वितम्| ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत्||५||

🔊 Audio coming soon

यवचूर्णं क्षीरेण तथा साध्यते यथा पेयाप्रायो भवति| आमानामित्यनग्निस्पृष्टानां यवानाम्| तच्चूर्णं सज्वरदाहे क्षते| अथवा सितादीन् पयसा पिबेत्||५||

Adhikarana kShatakAse prayogAH (6) · Śloka 6

कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम्| गुडोदकं वा क्वथितं सक्षौद्रमरिचं हिमम्| चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम्| रसायनविधानेन पिप्पलीर्वा प्रयोजयेत्||६||

🔊 Audio coming soon

कासावानिति प्रकरणात् क्षतकासवान्| मधुरौषधानि रसभेदीयोक्तो मधुरस्कन्धः| सुबोधम्| आमलकचूर्णस्यैव प्रयोगः| पिप्पलीनां रसायनविधिस्तत्रैव वक्ष्यते||६||

Adhikarana saparvAsthiSUle kAse yogaH (7) · Śloka 7

कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः| मधूकमधुकद्राक्षा त्वक्क्षीरीपिप्पलीबलाः||७||

🔊 Audio coming soon

पर्वास्थिशूलसंयुक्तः कासी मधूकादिकं सघृतमाक्षिकं लिह्यात्||७||

Adhikarana trijAtakAdigulikA (8) · Śloka 8

त्रिजातमर्धकर्षाशं पिप्पल्यर्धपलं सिता| द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम्| मधुना गुलिका घ्नन्ति ता वृष्याः पित्तशोणितम्| कासश्वासारुचिच्छर्दिमूर्छाहिध्मामदभ्रमान्| क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान्| रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि||८||

🔊 Audio coming soon

त्रिजातकाद्या गुलिका सुबोधिनी| इयञ्चैलाद्येति प्रसिद्धा| आढ्यमारुतो वातव्याधावुक्तः||८||

Adhikarana ativRuddhe rakte raktaShThIvane ca (9) · Śloka 10

रक्तेऽतिवृद्धे च्छागं वा जाङ्गलं वा पिबेदसृक्| वर्षाभूशर्करारक्तशालितण्डुलजं रजः| रक्तष्ठीवी पिबेत्सिद्धं द्राक्षारसपयोघृतैः| मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम्||९|| `|१०|

🔊 Audio coming soon

रक्तेऽतिवृद्धे बहिः प्रवर्तमाने| जाङ्गलजीवप्रभावत्वाज्जाङ्गलम्| वर्षाभ्वादीनां चूर्णं द्राक्षारसादिभिः सिद्धं रक्तष्ठीवी पिबेत्| सिद्धमग्निसंयोगेन| सुबोधम्||९||

Adhikarana mArgaBedAnusAramupAyaH kAryaH (10) · Śloka 10

यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम्||१०||

🔊 Audio coming soon

अस्मिंश्चोरःक्षते कदाचिदतिप्रवृद्धं रक्तमधो नासिकया वापि प्रवर्तते| तत्र रक्ते यथास्वं रक्तपित्तवदपि भेषजं कुर्यात्||१०||

Adhikarana pippalyAdilehaH (11) · Śloka 11

पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम्| प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसं तथा| यवगोधूममृद्वीकाचूर्णमामलकाद्रसः| तैलं च प्रसृतांशानि तत्सर्वं मृदुनाग्निना| पचेल्लेहो घृतक्षौद्रयुतः स क्षतकासनुत्| श्वासहृद्रोगकासघ्नो हितो वृद्धाल्परेतसाम्||११||

🔊 Audio coming soon

पिप्पल्यादिसितोपलान्तं कार्षिकम्| यवादिचूर्णं प्रत्येकं प्रसृतांशं द्विपलमित्यर्थः| आमलकफलस्य प्रसृतो द्वे पले यद्यपि `शुष्कमेयेष्विदं मानं द्विगुणं तत् द्रवार्द्रयोः' इत्युक्तं सामान्येनैव| तथा चाचार्येणैव युक्त्या सम्पन्ने हृदये कथितम्| कुड्वादि तथा द्रवमिति| अत्र तेन प्रसृतो न संगृहीतः| तैलेऽप्येवमेव विज्ञेयम्| घृतं क्षौद्रञ्च संस्कारापादनयोग्यं दोषाद्यपेक्षमात्रं वा||११||

Adhikarana mUDhavAte kShatakAse (12) · Śloka 12

मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम्| क्षामः क्षीणः क्षतोरक्तो मन्दनिद्रोऽग्निदीप्तमान्| शृतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम्||१२||

🔊 Audio coming soon

यस्य तु क्षतकासिनो मूढो नानुलोममार्गप्रवृत्तः प्रबलोवातः सोऽजस्य मेदोऽद्यात्| किम्भूतं सुराभृष्टं ससैन्धवञ्च| सुरा भृष्टा येनेति वक्तव्ये बहुत्वान्मेदसः प्राधान्यज्ञापनार्थं विपरीतप्रयोगः| यस्तु क्षामत्वादियुक्तः स तदेवाजामेदः शृतक्षीरजातेन सरेण सह घृतक्षौद्रशर्करमद्यात्||१२||

Adhikarana kShINakRuSAdau SarkarAdiprayogaH (13) · Śloka 13

शर्करायवगोधूमं जीवकर्षभकौ मधु| शृतक्षीरानुपानं वा लिह्यात्क्षीणः क्षती कृशः| क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः| पिप्पली क्षौद्रसंयुक्तं मांसशोणितवर्धनम्||१३||

🔊 Audio coming soon

यः पुनः क्षीणत्वादियुक्तः कासीसः शर्करादिकं शृतक्षीरानुपानमद्यात्| स च क्षीरज्वरादियुक्तः क्रव्यादां पिशिताशिनां मांसस्य निर्यूहं रसं घृतभृष्टं पिप्पलीक्षौद्राभ्यां युक्तं मांसशोणितवर्धनार्थं पिबेत्||१३||

Adhikarana nyagrodhAdisarpiShaH prayogaH (14) · Śloka 14

न्यग्रोधोदुम्बराश्वत्थप्लक्षसालप्रियङ्गुभिः| तालमस्तकजम्बूत्वक्प्रियालैश्च सपद्मकैः| साश्वकर्णैः शृतात्क्षीरादद्याज्जातेन सर्पिषा| शाल्योदनक्षतोरस्कः क्षीणशुक्रबलेन्द्रियः||१४||

🔊 Audio coming soon

न्यग्रोधादिभिः शृतान् क्षीराज्जातेन सर्पिषा सह शालीनामोदनं क्षतोरस्कत्वादियुक्तोऽद्यात्| तालमस्तकं तालप्रान्तम्| शेषाणि सर्वाणि प्रसिद्धानि||१४||

Adhikarana gAtraBede~aBya~ggaH (15) · Śloka 15

वातपित्तर्दितेऽभ्यङ्गो गात्रभेदे घृतैर्मतः| तैलैश्चानिलरोध्रैः..........................||१५||

🔊 Audio coming soon

वातपित्ताभ्यामर्दिते पुरुषे यो गात्रभेदस्तस्मिन् घृतैस्तैलैश्च वातव्याधिहरद्रव्यसिद्धैरभ्यङ्गो मतः||१५||

Adhikarana vAtavyAdhAvupAyAH (16) · Śloka 16

...............................पीडिते मातरिश्वना| हृत्पार्श्वार्तिषु पानं स्याज्जीवनीयस्य सर्पिषः| कुर्याद्वा वातरोगघ्नं पित्तरक्ताविरोधि यत्||१६||

🔊 Audio coming soon

मातरिश्वना वातेन पीडिते पुरुषे या हृदाद्यार्तयस्तासु जीवनीयद्रव्यसिद्धस्य सर्पिषः पानं स्यात्| अथवा यत्पित्तरक्ताविरोधि वातव्याधिहरं कर्म तत् कुर्यात्|| १६||

Adhikarana yaShTyAhvAdighRutam (17) · Śloka 17

यष्ट्याह्वानागबलयोः क्वाथे क्षीरसमं घृतम्| पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते हितम्||१७||

🔊 Audio coming soon

घृतान्मधुयष्टीनागबलयोः क्वाथश्चतुर्गुणः| पयस्यादीनां कल्कः स्नेहाच्चतुर्थांशः| पयस्या क्षीरिणी| वांशी तुकाक्षीरी| एतद् घृतं क्षतकासे हितम्||१७||

Adhikarana kolAdighRutam (18) · Śloka 18

शृतं वाष्टगुणे क्षीरे कोललाक्षारसान्वितम्| कल्कैःकट्वङ्गदार्वीत्वग्वत्सकत्वग्दलैर्घृतम्||१८||

🔊 Audio coming soon

क्षीरं घृतादष्टगुणम्| बदराणां लाक्षायाश्च रसो निर्यूहः पृथक् घॄतसमः| कट्वङ्गदीनां चतुर्णां कल्कं स्नेहाच्चतुर्थांशेन| एतदपि घृतमुरःक्षते कासे च हितम्||१८||

Adhikarana amRutaprAshaghRutam (19) · Śloka 19

जीवनीयो गणः शुण्ठी वरी वीरापुनर्नवौ| बलाभार्ङ्गीस्वगुप्तार्धिशठीतामलकीकणाः| शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु| द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम्| तैर्पचेत्सर्पिषः प्रस्थं कर्षांशः श्लक्ष्णकल्कितैः| क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्| प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः| पलार्धिकं च मरिचत्वगेलापत्रकेसरम्| विनीय चूर्णितं तस्माल्लिह्यान्मात्रां यथानलम्| अमृतप्राशमित्येतन्नराणाममृतं घृतम्| सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना| नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान्| स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत्| कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत्| पुत्रदं छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम्||१९||

🔊 Audio coming soon

एवं जीवनीयादिभिः कर्षांशैः घृतप्रस्थं पचेत्| जीवनीयगणादिपञ्चमूलान्तस्य द्रव्याणि पृथक्कर्षांशानि| द्राक्षादीनां लाभतः कर्षांशानां प्रयोगः| क्षीरधात्रीरसादीनां पृथक्पृथग्घृतसमत्वं विज्ञेयम्| तस्मिन् घृते शीते मधुनः प्रस्थार्धं षोडशपलानि| शर्कराचूर्णस्य च पञ्चाशत् पलानि| मरीचादिकं द्विकार्षिकं चूर्णितं विनीय प्रक्षिप्ययथानलमित्यग्निबलापेक्षिणी प्रयोगे मात्रा| एतच्च घृतं नाम्ना अमृतप्राशमिति| सुधामृतरसमिति चेष्यते| एतद्धि नराणाममृतम्| एतच्च नरेण प्राश्यं यः क्षीरेण मांसरसेन वान्नं समश्नाति| एतद्धि नष्टशुक्रादीनां बृंहणं कासघ्नत्वादिगुणयुक्तं च||१९||

Adhikarana shvadaMShTrAghRutam (20) · Śloka 20

श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम्| दर्भमूलं पृथक्पर्णी पलाशर्षभकौ स्थिराम्| पालिकानि पचेत्ताषां रसे क्षीरचतुर्गुणे| कल्कै स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः| शतावर्यृद्धिमृद्वीकाशर्कराश्रावणी बिसैः| प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत्| मूत्रकृच्छ्राप्रमेहार्शः कासशोषक्षयापहः| धनुःस्त्रीमद्यभाराध्वस्विन्नानां बलमांसदः||२०||

🔊 Audio coming soon

श्वदंष्ट्रादीनां क्वाथस्य चतुश्चत्वारिंशत् पलानि| क्षीरं क्वाथाच्चतुर्गुणम्| स्वगुप्तादीनां कल्कः स्नेहाच्चतुर्थांशः| श्वदंष्ट्रो गोक्षुरकः| कत्तृणं भूतिकम्| पृथक्पर्णी पृश्निपर्णी| स्थिरा सालपर्णी||२०||

Adhikarana madhukAdighRutam (21) · Śloka 21

मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेत् घृतम्| पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले| पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत्| समसक्तुक्षतक्षीणरक्तगुल्मेषु तद्धितम्||२१||

🔊 Audio coming soon

मधुयष्ट्या अष्टौ पलानि| क्वाथकल्पनया क्वाथयेत्| तस्मिन् क्वाथे षण्णवतिपलमाने घृतान् प्रस्थं पचेत्| तस्मिन् घृतप्रस्थे शीते च क्षौद्रस्याष्टपलैः शर्करयाश्चाष्टपलं विमिश्रयेत्| अस्य च घृतस्य सक्तुभिः समैरुपयोगः||२१||

Adhikarana dhAtrIphalarasAdighRutam (22) · Śloka 22

धात्रीफलं विदारीक्षुजीवनीयरसात् घृतात्| गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत्| सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्ततः| यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम्| वयस्थापनमायुष्यं मांसशुक्रबलप्रदम्||२२||

🔊 Audio coming soon

धात्रीफलरसादीनां सप्तानां पृथक्प्रस्थमानत्वम्| तस्मिन् प्रस्थसप्तके सिद्धेन घृतपाकेन पूतेन वस्त्रस्रुतेन शर्करयाः प्रस्थं षोडशपलानि क्षौद्रस्य च प्रस्थं द्वात्रिंशत् पलानि| विनयेत् प्रक्षिपेद्यक्ष्मादिहरमेतत् घृतमिति विज्ञेयम्| वयस्थापनत्वादियुक्तं च| वयस्थापनं जरानाशनात्||२२||

Adhikarana ghRutasya lehyatvapeyatvayorvisheShaH (23) · Śloka 23

घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत्| लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम्| आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च||२३||

🔊 Audio coming soon

पित्ताधिके सर्वं घृतमेव लिह्यात्| यतस्तल्लीढं स्थैर्याच्छैत्याच्च पित्तं निर्वापयेत्| नयेदल्पत्वाच्चाग्नेर्नाशं न करोति वाते त्वधिके तं विलीनं पिबेत्| यतः पीतं व्याप्तेरनिलमाक्रामति| तत्संयोगेन प्रसरन्तमूष्माणं निरुणद्धि||२३||

Adhikarana uktAnAmeva styAnAnAM ghRutAnAM prayogaH (24) · Śloka 24

क्षमक्षीणकृशाङ्गानामेतान्येव घृतानि तु| त्वक्क्षीरीपिप्पलीलाजचूर्णैः स्त्यानानि योजयेत्||२४||

🔊 Audio coming soon

एतान्येव चानन्तरोक्तानि घृतानि क्षामाद्यङ्गानां त्वक्क्षीर्यादि चूर्णैः सह स्त्यानान्यविलीनानि योजयेत्||२४||

Adhikarana sarpirguDAH (25) · Śloka 25

सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात्पयोऽनु च| रेतोवीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात्||२५||

🔊 Audio coming soon

चूर्णसंयुक्तैः स्त्यानैश्च घृतैर्माक्षिकभागमिश्रैः सर्पिर्गुडान् घृतपिण्डकान् कृत्वा तानेव योजयेत्| अनु च पयो दद्यात्पानाय| तैः सर्पिर्गुडैः पुरुषे रेतोवीर्यादिकमाशुतरमाप्नुयात्||२५||

Adhikarana balAdisarpiguDAH (26) · Śloka 26

बलाविदारीह्रस्वं च पञ्चमूलं पुनर्नवम्| पञ्चाणां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशकास्तथा| एषां कषाये द्विक्षारे विदार्या जरसांशके| जीवनीयैः पचेत् पिष्टैरक्षमात्रैर्घृताढकम्| सितापलानि पूते च शीते द्वात्रिंशदावपेत्| गोधूमपिप्पलीवांशी चूर्णं शृङ्गाटकस्य च| समाधिकं कौडविकं तत्सर्वं खजमूर्च्छितम्| स्त्यानं सर्पिगुडान् कृत्वा भूर्जपत्रेण वेष्टयेत्| ताञ्जग्ध्वा पालिकान् क्षीरं मद्यं त्वनु पिबेत्कफे| शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्षिते| रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते| शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः||२६||

🔊 Audio coming soon

बलाविदार्यादीनि पृथग् ह्रस्वपञ्चमूलं पुनर्नवं च पञ्चानां क्षीरिवृक्षाणां शुङ्गानीत्येतत्पलिकम्| पानीयपलशतद्वयं साष्टपलं क्वथितशिष्टां द्विपञ्चाशत्पलानि| ततः कषायात् द्विगुणं क्षीरम्| केवलाया विदार्याः क्वाथ आजमांसरसश्च बलादिक्वाथसमौ| जीवनीयानि कार्षिकाणि| गोधूमचूर्णादिकं कुडवमानम्| कुडवश्चत्वारि पलानि| माक्षिकस्य कुडवोऽष्टौ पलानि| खजो मन्थनोपकरणम्| तान् सर्पिर्गुडान् प्रतिदिनं पलिकाञ्जग्ध्वा सर्वः कश्चित् क्षीरमनुपिबेत्| कफेऽधिकं मद्यं नानाविधं कफहरमनुपिबेत्| तापपीनसयोरुरोमूलायोरूरःस्थितत्वम्| पीनसो नासास्रावः||२६||

Adhikarana drAkShAdisarpirguDAH (27) · Śloka 27

सशर्कराशृतेक्षीर घृततैलाढकत्रये| चूर्णीकृताः क्षिपेत्पक्त्वा सान्द्रे दशपलाः पृथक्| द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः| तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम्| यष्ट्याह्वसौवर्चलयोर्द्विपलं मरिचस्य च| क्षामः क्षीणः क्षतः शुष्यंस्तन् खादेत्पालिकैर्गुडैः| तथा सद्यो रसादीनां वृद्ध्या पुष्टिं समुश्नते||२७||

🔊 Audio coming soon

क्षीरघृततैलानामाढकत्रयमेकीकृत्य स्तोकया शर्करया संयोज्य पचेदासान्द्रीभावात्| तस्मिंश्च शर्करापाके पक्वे सान्द्रे द्राक्षाद्यामलकान्तानि पृथग्दशपलानि क्षिपेत्| शुण्ठ्या अष्टौ पलानि| यष्ट्याह्वसौवर्चलयोर्द्विपलमेकस्य पलम्| मारिचस्य तु द्विपलम्| रसादीनां धातूनां वृद्ध्या सम्बन्धः||२७||

Adhikarana madhUkapuShpAdimodakAH (28) · Śloka 28

गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम्| रसाद्विदार्याः कुडवं रसात् प्रस्थं च तैत्तिरात्| दद्यात्सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान्| मधूकपुष्पं कुडवं कुडवं च प्रियालतः| पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिः| पृथग्विभितकान्मज्जः पिप्पल्याश्च चतुर्थिकाम्| त्रिंशत्पलानि खण्डाच्च मधुकात्पाणिमानिकान्| तथार्धपलिकान्यत्र जीवनीयानि दापयेत्| सिद्धे द्विकुडवे क्षौद्राच्छीते दत्वा च मोदकान्| कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान्| वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च| क्षीणौजः स्वरशुक्लेषु योनिदोषेषु संस्रवे| मृतप्रजासु वन्ध्यासु हितं गर्भस्य च स्रुतौ||२८||

🔊 Audio coming soon

गोक्षीरार्धाढकमित्यादि सुबोधम्| कुडवादौ शुष्कमेयेष्विदं मानं द्विगुणं तद्द्रवार्द्रयोरिति सर्वत्र स्मर्तव्यम्| मधूकपुष्पादीनामिक्षुरसः पेषणे यवानुपयुज्यते| ख़र्जूराणि फलसङ्ख़्यया| चतुर्थिका पलम्| पाणिमानिका अष्टौ पलानि| मारिचाजाज्योर्मिश्रयोः पलम्||२८||

Adhikarana kUShmANDakarasAyanam (29) · Śloka 29

बीतत्वगस्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत्| घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णेऽत्र च क्षिपेत्| खण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि| त्रिजातधान्यमरिचं पृथगर्धपलांशकम्| खजेनामथ्य च स्थाप्यं तल्लिहन्युपयोजितम्| कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान्| उरः सन्धानजननं मेधास्मृतिबलप्रदम्| अश्र्विभ्यान्निर्मितं हृद्यं कूष्माण्डकरसायनम्||२९||

🔊 Audio coming soon

पृथग्ग्रहणात्त्रिजातकस्य प्रतिद्रव्यं द्विकार्षिकत्वं घृताधिकत्वान्मधुनः षोडश पलानि||२९||

Adhikarana nAgabalAdInAM prayogaH (30) · Śloka 30

पिबेन्नागबलामूलस्यार्धकर्षाभिवर्धिताम्| पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक्| एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम्| मण्डूकपर्ण्याः कल्पोऽयं यष्ट्या विश्वौषधस्य च||३०||

🔊 Audio coming soon

अर्धकर्षाभिवर्धतामिति| प्रथमेऽहन्यर्धकर्षः| द्वितीये कर्षः| तृतीये सार्धकर्षः| चतुर्थे द्वौ कर्षौ| पञ्चमेऽर्धोनत्रितयः| षष्ठे त्रयः| सप्तमेऽर्धोनचत्वारः| अष्टमे तु पलम्| शेषाणि द्वाविंशतिदिनानि पलम्| नागबलामूलवन्मण्डूकपर्ण्या अपि वृद्धिः| क्षीरमानं वृद्धिविषयकल्पम्| तद्वन्मधुयष्ट्याः तद्वच्छृङ्गवेरस्यमण्डूकपर्णी ब्रह्मसुवर्चला||३०||

Adhikarana nAgabalAsarpiH (31) · Śloka 31

पादशेषं जलद्रोणे पचेन्नागबलातुलाम्| तेन क्वाथेन तुल्यांशं घृतं क्षीरञ्च साधयेत्| पलार्धिकैश्चातिबलायष्टीपुनर्नवैः| प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः| अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः| काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः| मृणालबिसखर्जूरशृङ्गाटककशेरुकैः| एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयम्| जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम्| वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम्| उपयुज्य तु षण्मासाद्वृद्धोऽपि तरुणायते||३१||

🔊 Audio coming soon

पादशेषमित्यादिना नागबलासर्पिः| सुबोधम्| क्षीरशुक्लाक्षीरविदारीत्युच्यते| `अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्यपि| क्षीरवल्ली क्षीरकन्दा क्षीरवृक्षा पलाशिनी||'इति पठन्ति||३१||

Adhikarana saMskRutamannam (32) · Śloka 32

शर्करापिप्पलीचूर्णैः सर्पिषा माक्षिकेण च| संयुतं वा शृतं क्षीरे पिबेत् कासज्वरापहम्| फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम्| स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम्| सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतान्वितम्| यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः||३२||

🔊 Audio coming soon

शर्करादिभिः संयुक्तं शृतं क्षीरं पञ्चसारमित्याहुः| फलाम्लादि यूषविशेषणम्| फलैर्दाडिमतिन्तिणीकादिभिरम्लम्| क्षतस्य क्षीणस्य यवान्नसात्म्यस्य दीप्ताग्नेश्च सतो मन्थप्रयोगः||३२||

Adhikarana saMskRutA rasAH (33) · Śloka 33

संस्कृता रसाः जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम्| रसं प्रयोजयेत्क्षीणे व्यञ्जनार्थं सशर्करम्| गोमहिष्यश्वनागाजैः क्षीरैर्मांसरसैस्तथा| यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताद्युतैः||३३||

🔊 Audio coming soon

जीवनीयोपसिद्धमित्यादिना मांसरसानां नानाविधानां क्षीराणां यूषाणां चोपयोगविधानम्| सुबोधम्||३३||

Adhikarana agnibalAnusAraM vidhiBedaH (34) · Śloka 34

दीप्तेऽग्नौ विधिरेषः स्यान्मन्दे दीपनपाचनः| यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे||३४||

🔊 Audio coming soon

एष विधिरनन्तरोक्तो बृंहणः क्षतक्षीणयोर्दीप्तेऽग्नौ सति विधेयः| मन्द्रे त्वग्नौ दीपनपाचनो विधिर्भवति| यश्च विधि राजयक्ष्मण्युक्तः सोऽपि क्षतिनां शस्तः| यदा तु क्षतस्य विना जीर्णादिकं शकृद् द्रवं भवति तदा ग्राही विधिः शस्तः||३४||

Adhikarana agastyarasAyanam (35) · Śloka 35

दशमूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठी बलाम्| हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्| भार्ङ्गी पुष्करमूलं च द्विपलांशान्यवाढकम्| हरीतकीशतं चैकं जलपञ्चाढके पचेत्| यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्| पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात्| तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्| लेहाद् द्वे चाभये नित्यमतः खादेद्रसायनात्| पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्| मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान्| अगस्त्यविहितं धन्यमिदं श्रेष्टं रसायनम्||३५||

🔊 Audio coming soon

दशमूलेत्यादिना अगस्त्यलेहः| सुबोधम्|अत्र जलस्याढकमष्टाविंशत्यधिकं पलशतम्| घृततैलमाक्षिकाणां कुडवान्यष्टपलानि| पिप्पलीचूणस्य कुडवं चतुष्पलम्| हरीतकीफलानां क्वाथशुल्कादुद्धृतानां विगतास्थीनां यथोक्तस्नेहभृष्टानां तेनैव सह गुडक्वाथप्रक्षेपः| वृद्धानां प्रायो लेहेषु च्यवनप्राशवद्व्यवहारः| रसायनं लेह एव| तदिति रसायन परामर्शः||३५||

Adhikarana vasiShTharasAyanam (36) · Śloka 36

दशमूलां बलां मूर्वां हरिद्रे पिप्पलीद्वयम्| पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः| बालबिल्वं त्रिवृद्दन्तीमूलं पत्रञ्च चित्रकात्| पयस्यां कुटजं हिंस्रां पुष्पं सारञ्च बीजकात्| बोलस्थविरभल्लातविकङ्कतशतावरीः| पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम्| सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम्| पथ्यासहस्रां सशतं यवानां चा ढकद्वयम्| पचेदष्टगुणे तोये यवस्वेदेऽवतारयेत्| पूते क्षिपेत्सपथ्ये च तत्र जीर्णगुडात्तुलाम्| तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः| अधिश्रयेन्मृदावग्नौ दर्वीलेपेऽवतार्य च| शीते प्रस्थद्वयं क्षौद्रात्पिप्पलीकुडवं क्षिपेत्| चूर्णीकृतात्त्रिजाताच्च त्रिपलं निकनेत्ततः| धान्ये पुराणकुम्भस्थं मांसं खादेच्च पूर्ववत्| रसायनं वसिष्ठोक्तमेतत्पूर्वगुणाधिकम्| स्वस्थानं निष्परीहारं सर्वर्तुषु चदास्यते||३६||

🔊 Audio coming soon

दशमूलबलादिकं वसिष्ठमुनिप्रोक्तं रसायनं सुबोधम्| दशमूलं पृथग्द्रव्यं पलांशिकम्| दन्त्या मूलम्| चित्रकस्य पत्रम्| पयस्या क्षीरिका| कुटजं वत्सकम्| हिंस्रा मांसी| बीजकमसनम्| बोलस्थविरं बोलवृक्षः| कुलहलमलम्बुसो भूकदम्बकः| शकदेशे मुण्डिकेति प्रसिद्धा| चन्द्रलेखा बाकुची| द्विचत्वारिंशदौषधपलानि यवानामष्टाविंशत्यधिकं पलशतम्| हरीतकीफलानां चैकादशशतानि| सर्वमेकीकृत्य तत्तुलाया परिच्छिद्य ततोऽष्टगुणेन तोयेन पचेत्| पूतं शुक्लरहितं स्रुतत्वात्| पथ्याः शुक्लादुद्धृत्यानस्थिभर्जिताः पूर्ववत् क्वाथे प्रक्षेप्याः| ततः पक्वं धान्यराशौ निखनेत्| मासं धान्ये स्थितिः| पूर्ववत् गुणा आगस्त्योक्ताः||३६||

Adhikarana saindhavAdicUrNam (37) · Śloka 37

पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात्पले| कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात्| एकैकामरिचाजाज्योर्धान्यक द्वे चतुर्थिके| शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत्| कृत्व चूर्णमतो मात्रामन्नपानेषु दापयेत्| रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासनुत्||३७||

🔊 Audio coming soon

आर्जकस्य कुठेरस्य पत्रम्| एकैकेति चतुर्थिकायाः पलपर्यायस्य परामर्शः| धन्यकफलात् द्वे पले| अतः चूर्णान्मात्रां स्तोकं प्रत्यहमन्नपानेषु दापयेत्| तच्चूर्णं रुच्यादिगुणम्||३७||

Adhikarana dhAnyakAdiShADavaH (38) · Śloka 38

एकां षोडशिकां धान्यात् द्वे द्वे चाजाजिदीप्यकात्| ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विस्सौवर्चलात् पले| शुण्ठ्या कर्षं दधित्थस्य मध्यात्पञ्चपलानि च| तच्चूर्णं षोडशपलैः शर्कराया विमिश्रयेत्| षाडवोयं प्रदेयः स्यादन्नपानेषु पूर्ववत्| विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते||३८||

🔊 Audio coming soon

एकामित्यादौ षोडशिका कर्षः| अजाज्या द्वौ कर्षौ| अजमोदस्य द्वौ कर्षौ| ताभ्यामित्यजाजीदीप्यकाभ्यां द्विगुणं दाडिमं तद्वत् तिन्तिणीकम्| एवमष्टौ कर्षा दाडिमस्याष्टौ तिन्तिणीकस्य| पलं सौवर्चलस्य| शुण्ठ्याः कर्षः पञ्चपलानि दधित्थमज्जः| दधित्थं कपित्थम्| शर्करायाः षोडशपलानि राजयक्ष्मचिकित्सितं रक्तपित्तचिकित्सितं च विकल्प्योरःक्षते योज्यम्||३८||

Adhikarana dhUmapAnaviShayaH (39) · Śloka 39

निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः| दाल्येते कासिनो यस्य स ना धूमानिमान्पिबेत्||३९||

🔊 Audio coming soon

एवेमनन्तरोक्तेन बृंहणेन क्रमेण क्षतदोषे निवृत्ते बृंहणेनैव कफे वृद्ध उरसि शिरसि च कफानुबन्धेन यस्य कासिनो महती रुग्भवति स ना पुरुष इमान् वक्षमाणान् धूमान् पिबेत्||३९||

Adhikarana dhUmayogAH (40) · Śloka 40

द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते| वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः| मनःशिलाबलासाजगन्धात्वक्क्षीरिनागरैः| तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम्| पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया| ससर्पिष्टकं पिबेद्धूमं तित्तिरिप्रतिभोजनः||४०||

🔊 Audio coming soon

द्विमेदादिकल्कक्षौमकृतया वर्त्या धूमः| तत्रानुपानं जीवनीयपक्वं घृतम्| मनःशिलादिभिः क्षौमवर्ती धूपेऽनुपानं शर्करासंस्कृतं इक्षुणा क्षुण्णेन| पिष्ट्वेत्यादि सुबोधम्| एतद् धूमपस्य तित्तिरिवसादिना भोजनम्||४०||

Adhikarana kShayakAsacikitsitam tatrAdau kriyAkramaH (41) · Śloka 41

क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम्| बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम्||४१||

🔊 Audio coming soon

क्षयज इत्यादिना क्षयकासनिश्चयः| सुबोधम्||४१||

Adhikarana virecanaghRutAni (42) · Śloka 42

शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया| तिल्वकस्य कषायेण विदारीस्वरसेन च| सर्पिःसिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम्||४२||

🔊 Audio coming soon

शम्याकेनेत्यादिना शोधनानि घृतानि| कदाचिच्छम्याकेन कदाचिद्द्राक्षारसयुक्तया त्रिवृतया| कदाचित्तिल्वकस्य कषायेण| कदाचिद्विदारीस्वरसेन| शम्याक आरग्वधः| तिल्वकं लोध्रम्||४२||

Adhikarana kShINapittAdiShu viSeShaH (43) · Śloka 43

पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान्| घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत्||४३||

🔊 Audio coming soon

विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितं घॄतं पयश्च| अथवा पित्तादिषु क्षीणेषु समैः कर्कटक्यादिभिः स्नेहपाकपरिभाषया घृतं साधितं पिबेत्| विदारीकन्दैर्वा घृतम्| कदम्बैर्वा घृतम्| तालबीजैः सिद्धं घृतं वा क्षीरं वा||४३||

Adhikarana mUtravaivarNyAdAvanuvAsanam (44) · Śloka 44

मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे| शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे| घृतमण्डेन लघुनाऽनुवास्यो मिश्रकेण वा||४४||

🔊 Audio coming soon

क्षयकासे यत्र पुनर्मूत्रवैवर्ण्यादिकं भवति तत्र लघुना घृतमण्डेनानुवास्यः| पायौ सश्रोणिवङ्क्षणे शूने सवेदन इत्यनुवर्तते| मिश्रकं घृततैले||४४||

Adhikarana BojanemAMsarasopayogaH (45) · Śloka 45

जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः| क्रमशः प्रसहास्तद्वत्प्रयोज्याः पिशिताशिनः| औष्ण्यात्प्रमतिभावाच्च स्रोतोभ्यश्चावयन्ति ते| कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग्वहन्रसः||४५||

🔊 Audio coming soon

अनुवासनानन्तरं प्रथमं जाङ्गलानां प्रयोगः| ततः क्रमेण वर्तकादीनां बिलेशयानां प्रसहानां च पिशिताशिनाम्| ते हि वर्तकदयः कफमौष्ण्यात् प्रमथित्वाच्च स्रोतोभ्यश्च्यावयन्ति| तैश्च स्रोतोभिः शुद्धैः सम्यग्वहन्रसः पुष्टिं कुर्यात्||४५||

Adhikarana cavikAdighRutam (46) · Śloka 46

चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः| कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले| शृतैर्नागरदुःस्पर्शपिप्पलीशठिपौष्करैः| पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत्| सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च| दत्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः||४६||

🔊 Audio coming soon

चविकादीनां क्वाथः स्नेहाच्चतुर्गुणः| नागरादीनाञ्च स्नेहात् चतुर्थांशः| सिद्धे घृते क्षारयोर्लवणानां च दोषाद्यपेक्षं युक्त्या मात्रा||४६||

Adhikarana kAsamardAdighRutam (47) · Śloka 47

कासमर्दाभयामुस्तापाठाकट्फलनागरैः| पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च| अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके| पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम्||४७||

🔊 Audio coming soon

कासमर्दादिनां सुरसान्तानां कार्षिकत्वम्| क्षीरद्राक्षारसयोर्मिश्रितयोराढकः| शिवं मङ्गल्यम्||४७||

Adhikarana vRuShAdighRutam (48) · Śloka 48

वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात्| रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः||४८||

🔊 Audio coming soon

वृषादीनां प्रत्येकं पत्रादीनां क्वाथे कल्के च तयोश्च स्नेहपाकपरिभवा||४८||

Adhikarana dADimAdighRutam (49) · Śloka 49

द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम्| पिबेदुपरिभक्तस्य यवक्षारयुतं नरः||४९||

🔊 Audio coming soon

दाडिमस्वरसो घृतात् द्विगुणस्तत्र व्योषं कल्के| यवक्षारेण संयुक्तं घृतं तथोक्तं भक्तस्योपरि भोजनान्ते||४९||

Adhikarana pippalyAdighRutam (50) · Śloka 50

पिप्पली गुडसिद्धं वा छागक्षीरयुतं घृतम्||५०||

🔊 Audio coming soon

पिप्पलीगुडाभ्यां सिद्धं सच्छागक्षीरेण पीयते||५०||

Adhikarana uktasarpiShAM viShayanirdeSaH (51) · Śloka 51

एतान्यग्निविवृध्यर्थं सर्पींषि क्षयकासिनाम्| स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये||५१||

🔊 Audio coming soon

एतानीति चविकाद्यादीनि प्रत्यवमृश्यन्ते| सुबोधम्||५१||

Adhikarana SvAsakAsaharA lehAH (52) · Śloka 52

श्वाविधां सूचयो दग्धाः सघृतक्षौद्रशर्कराः| श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा| एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम्| लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम्| लिह्यात्यूषणचूर्णं वा पुराणगुडसर्पिषा| चित्रकात्रिफलाजाजीकर्कटाख्याकटुत्रिकम्| द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेनवा||५२||

🔊 Audio coming soon

श्वाविधां प्राणिनां सूचयो देहे जायन्ते| बर्हिपादौ वा दग्धाविति सम्बन्धः| सुबोधम्| चित्रकादिचूर्णं क्षौद्रसर्पिर्भ्यां लिह्यात् गुडेन वा सहाद्यात्||५२||

Adhikarana pAThAdicUrNam (53) · Śloka 53

पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम्| शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम्| शारिवापुष्करजटाकर्कटाख्यारसाञ्जनम्| पुनर्नवालोहरजस्त्रायमाणायवानिका| ऋद्धिस्तामलकीभार्ङ्गीविडङ्गं धन्वयासकम्| क्षारचित्रकचव्याम्लवेतसव्योषदरु च| सर्वकासाञ्जयेल्लीढं तच्चूर्णं मधुसर्पिषा||५३||

🔊 Audio coming soon

सर्वकासान् जयेत्| त्वक्क्षीरी तुकाक्षीरी| घनं मुस्तम्| वितुन्नकं कुटन्नटम्| (नि)कुटन्नटं प्लवं धान्यं वितुन्नं पिरिपेलवम्| पुष्करजटा पुष्करमूलम्| तामलकी ताली| सैव भूधात्री| व्योषं त्रिकटुकम्||५३||

Adhikarana padmakAdicUrNam (54) · Śloka 54

पद्मकं त्रिफला व्योषं विडङ्गं देवदरु च| बला रास्ना च तच्चूर्णं समस्तसमशर्करम्| खादेन्मधुघृताभ्यां वा लिह्यात्कासहरं परम्||५४||

🔊 Audio coming soon

Adhikarana maricacUrNam (55) · Śloka 55

तद्वन्मरिचचूर्णं वा सघृतं क्षौद्रशर्करम्||५५||

🔊 Audio coming soon

Adhikarana pathyAdigulikA (56) · Śloka 56

पथ्याशुण्ठीघनगुडैर्गुलिकां धारयेन्मुखे| सर्वेषु कासश्वासेषु केवलं वा विभीतकम्||५६||

🔊 Audio coming soon

पद्मकादीनां चूर्णान्येकतः शर्करा चैकतः| अथवा सशर्करमेव मधुघृताभ्यां लिह्यात्| सुबोधम्||५६||

Adhikarana tilvakapatrANAM peyAdisamBAvanam (57) · Śloka 57

कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे| पेयोत्कार्यथवाच्छर्दितृट्कासामातिसारजित्||५७||

🔊 Audio coming soon

घृतेन भृष्टे सशर्करे च तिल्वकपत्रे सम्भावितेनालेन पेया चोत्कारिका वा कार्या| उत्कारिका स्विन्नपिण्डी||५७||

Adhikarana yavAgvAdInAM saMskAraH (58) · Śloka 58

गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान्| साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा| ससर्पिर्लवणा कासे हिध्माश्वासे सपीनसे| कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः| सगौरामलकः साम्लः सर्वकासभिषग्जितम्| वातघ्नौषधनिष्क्वाथे क्षीरं यूषान् रसानपि| वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने||५८||

🔊 Audio coming soon

गौरसर्षपादिक्वाथैः सिद्धे पेया सघृतलवणा कासादिशमनी| सुबोधम्| क्षयकासे क्षीरादीन् विष्किरादींश्च रसान् वातघ्नानामौषधानां निष्क्वाथे सिद्धान् दद्यात्| वातघ्नानि शोधनादिगणं संग्रहोक्तानि भद्रदार्वादीनि||५८||

Adhikarana atideSena dhUmapAnanirdeSaH (59) · Śloka 59

क्षतकासे च ये धूमाः सानुपाना निदर्शिताः| क्षयकासेऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि||५९||

🔊 Audio coming soon

Adhikarana kShayakAsacikitsAsUtram (60) · Śloka 60

बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम्| व्यत्यासात्क्षयकासिभ्यो वल्यं सर्वं प्रशस्यते||६०||

🔊 Audio coming soon

क्षतकास इत्यादि सुबोधम्| बृंहणादिकं यत्किञ्चिद्राजयक्ष्मणि वक्ष्यते तत्सर्वमत्रापि हितम्| तच्च बृंहणादिव्यत्यासात् पर्यायेण सर्वं बल्यं शस्यते नाबल्यम्| सुबोधम्||६०||

Adhikarana kShatakAsasya sannipAtaBavatvam (61-5) · Śloka 5

सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः| यथादोषबलं तस्य सन्निपातहितं हितम्||६१|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने क्षतक्षयकासचिकित्सितन्नाम पञ्चमोऽध्यायः||५||

🔊 Audio coming soon

यथादोषबलमिति दोषबलापेक्षया वातप्राधान्येन पित्तप्राधान्येन कफप्राधान्येन वा सन्निपातहितं हितमित्यर्थः||६१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने पञ्चमोऽध्यायः