Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. śvāsahidhmācikitsitam

Adhikarana atha SvAsahidhmAcikitsitaM nAma ShaShTho~adhyAyaH adhyAya pratij~jA (1) · Śloka 1

अथातो श्वासहिध्माचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

क्रमप्राप्तस्य श्वासस्य तदेकयोगक्षेमायाः हिध्मायाश्च चिकित्सितप्रदर्शनार्थमध्यायारम्भः||१|

Adhikarana SvAsahidhmayostulyacikitsitatvam (2) · Śloka 2

श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः| तुल्यमेव ....................................||२||

🔊 Audio coming soon

निदानस्थानप्रदर्शितप्रकारेण श्वासे हिध्मामां च यतो हेत्वदिकं समानमतः साधनमपि समानमेव वेदितव्यम्||२||

Adhikarana tayorAdau svedanam (3) · Śloka 3

.......................तदार्त्तञ्च पूर्वं स्वेदैरुपाचरेत्| स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रन्थितः कफः| तैर्लीनोऽपि विलीनोऽस्य कोष्टं प्राप्तः सुनिर्हरः| भवद्रवेषु मृदुत्वं च मारुते चानुलोमता||३||

🔊 Audio coming soon

तदार्त्तमित्युभयस्य परिग्रहः| स्निग्धैरिति स्निग्धद्रव्यकृतैः स्वेदैः| तैरिति स्वेदैर्विलीनः कफः कोष्टं प्राप्तः सुनिर्हरो भवेत्| स्रोतोमृदुत्वादिकं च भवेत्||३||

Adhikarana svedanottaraM Bojanam (4) · Śloka 4

स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः| दध्युत्तरेण वा.................................||४||

🔊 Audio coming soon

दध्युत्तरेण वान्नं भोजयेदिति सम्बन्धः||४||

Adhikarana vamanavirecanayorviShayaH Pala~jca (5) · Śloka 5

.........................दद्यात्ततोऽस्मै वमनं मृदु| विशेषात् कासवमथुहृद्ग्रहस्वरसादिने| पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्| निर्हृते सुख़माप्नोति सकफे दुष्टविग्रहे| स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः| ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः| हिङ्गुपीलुविडैर्युक्तमन्नं स्यादनुलोमनम्| ससैन्धवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्||५||

🔊 Audio coming soon

अस्मा इति श्वासहिध्मार्त्ताय कासादियुक्ताय विशेषेण वमनं दद्यात्| पिप्पलीत्यादि वमनविशेषणम्| अविहतोऽनावृत्तमार्गः| ध्मानमाध्मानम्| ससैन्धवेत्यादि विरेचनविशेषणम्||५||

Adhikarana saMSodhanasya sopapattikaM mahatvanidarSanam (6) · Śloka 6

एते हि कफसंरुद्धगतिप्राणप्रकोपजाः| तस्मात्तन्मार्गशुद्ध्यर्थमूर्ध्वाधः शोधनं हितम्| यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत्||६||

🔊 Audio coming soon

एते श्वासहिध्माश्च कफेन संरुद्धा गतिर्यस्य प्राणाख़्यस्य वायोस्तत्प्रकोपाज्जायन्त इत्यतो मार्गविशुद्धिसम्पादनार्थमूर्ध्वाधः - शोधनं वमनं विरेचनं च हितम्| जलरोधदृष्टान्तः सुबोधः||६||

Adhikarana dhUmapAnaviShayaH dravyANi ca (7) · Śloka 7

अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्| हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्| सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्| तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्| मधूच्छिष्टं सर्जरसं घृतं वागुरु वा गुरु| चन्दनं वाजशृंगं वा बालान्वा स्नाववागवाम्| ऋष्यगोधाकुरडैगणचर्मशृङ्गखुराणि वा| गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा| सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्||७||

🔊 Audio coming soon

कृतसंशुद्धेरपि दोषस्याशान्तौ ऋष्यादीनां यानि चर्मादीनि तानि च पृथग्धूमः| ऋश्यो मृगभेदः| सल्लक्यादिकं मिश्रीभूतं घृताप्लुतं धूमः| सल्लकी सुरभिः| (नि)सल्लकी सुरभिर्मोचा महेरुण्यश्वमूत्रिका| लोहमगरु||७||

Adhikarana svedanasyAvaSyakatAdikam (8) · Śloka 8

अवश्यं स्वेदनीयानामास्वेद्यानामपि क्षणम्| स्वेदयेत् ससिताक्षीरसुख़ोष्णस्नेहसेचनैः| उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः| उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्||८||

🔊 Audio coming soon

श्वासहिध्मापेक्षयाऽवश्यं स्वेदनीयास्तेषामतिस्थूलरूक्षादित्वेनास्वेद्यानामपि उरः कण्ठं च क्षणं मृदुभिः स्वेदैः स्वेदयेत्| केनेत्याह् - ससितेत्यादि| उत्कारिका पिष्टा स्विन्नपिण्डी| उपनाहः पिष्टबन्धः| सामेतु पुरुषे हिध्माश्वासयोरामविधिं लङ्घनपाचनादिकं चरेत्||८||

Adhikarana SodhanAtiyogoddhatavAtaSamanam (9) · Śloka 9

अतियोगोद्धतं वातं दृष्ट्वा पवनाशनैः| स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्||९||

🔊 Audio coming soon

शोधनादीनामपतर्पणानामतियोगेन वातमुद्धतं दृष्ट्वा तं वातनाशनद्रव्यसिद्धैः स्निग्द्धैश्च मांसरसादिभिः शमयेत्||९||

Adhikarana kaShAyAdInAM viShayaH (10) · Śloka 10

अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्| वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्| कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः||१०||

🔊 Audio coming soon

अनन्तरोक्तश्च शोधनं कर्मानुत्क्लिष्टकफादीनां न योज्यं यतः तेषां शोधनेन वायुर्लब्धास्पदो मर्मह्रदयाख़्यं संशोष्याशु प्राणान् हरेत्| अतो हेतोस्तेषामनुत्क्लिष्टकफादीनां कषायादिभिर्हिध्माश्वासान् शमयेत्||१०||

Adhikarana kShINakShatAdiShu viSeShaH (11) · Śloka 11

क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्| मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्||११||

🔊 Audio coming soon

क्षीणजान् क्षतजान् अतीसाराद्यनुबन्धजांश्च| हिध्मश्वासान् मधुराद्यैर्बृंहणैरुपक्रमैरुपाचरेत्||११||

Adhikarana pathyamannam (auShadhasahitam) tatra jA~ggalarasAH yUShASca (12) · Śloka 12

कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः| यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः| पल्लवैर्निम्बकुलकबृहतीमतुलुङ्गजैः| व्याघ्रीदुरालभाशृङ्गविल्वमध्यत्रिकण्टकैः| सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले| तद्वद्रास्नाबृअत्यादिबलामुद्गैः सचित्रकैः||१२||

🔊 Audio coming soon

कुलत्थदशमूलानां पृथग्द्रव्याणां मिश्रीभूतानां च दशमूलानां यूषश्च शिग्व्रादिभिर्मातुलुङ्गपल्लवान्तैः स्युरिति सम्बन्धः| व्याघ्र्यादिभिर्जले क्वथितैरेको यूषः स्यात्| द्वितीयो यूषो रास्नादिभिः| बृहत्यादिशब्देन ह्रस्वपञ्चमूलं गृह्यते||१२||

Adhikarana peyAH kvAthapeyASca (13) · Śloka 13

पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता| दशमूलेन वा कासश्वासहिध्मारुजापहा| दशमूलशठीरास्नाभार्ङ्गीबिल्वार्धिपौष्करैः| कुलीरशृङ्गीचपलातामलक्यमृतौषधैः| पिबेत्कषायं जीर्णेऽस्मिन् पेयान्तैरेव साधिताम्| शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्| कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशन्तये| सक्तून् वार्काङ्कुरक्षीरभावितानां समाक्षिकान्| यवानां दशमूलादिनिष्क्वाथलुलितान् पिबेत्||१३||

🔊 Audio coming soon

एका पेया चित्रकादिभिः| द्वितीया दशमूलेन| दशमूलशठ्यादिभिः कषायः| औषधं नागरम्| दशमूलशठ्यादिभिः पेयां पीत्वा शाल्यादिभोजनः| अर्काङ्कुरक्षीरभावितानां यवानां सम्बन्धिनः सक्तून् दशमूलशठीरास्नादिनिष्क्वाथेनालोडितान् अनु पिबेत्||१३||

Adhikarana anne yojanIyAni (14) · Śloka 14

अन्ने च योजयेत्क्षारहिङ्वाज्यबिडदाडिमान्| सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्| पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः||१४||

🔊 Audio coming soon

यवक्षारादीनि च दोषाद्यपेक्षयानेकप्रकारमन्ने योजयेत्| पिपासितश्च दशमूलक्वाथादिकं पिबेत्||१४|| ४६३

Adhikarana pippalyAdiBiH siddhM takram (15) · Śloka 15

पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः| कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने| तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्| पाठां मधुरसां दारु सरलं च निशि स्थितम्| सुरामण्डेऽल्पलवणं पिबेत् प्रसृतसम्मितम्||१५||

🔊 Audio coming soon

पिप्पल्याद्यैर्लेपोऽर्धाङ्गुलमात्रकः| रूढः कठिनीभूतलेपः| मधुरसा मूर्वा| सरलं पीडाख़्यं देवदारूसदृशमेव| द्वे पले प्रसृतः|

Adhikarana SirIShAdiyogAH (16) · Śloka 16

शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्| तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्| आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्| हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा| कोष्णेन भार्ङ्गी शुण्ठीं च क्षारं वा मरिचान्वितम्| स्वक्वाथपिष्टां लुलितां वाष्पिकां पाययेत वा||१६||

🔊 Audio coming soon

शिरीषादि सुबोधम्| हिङ्ग्वादिमुद्गान्तान् वा पिबेत्|जलेन कोष्णेन भार्ङ्गीशुण्ठ्यौ पिबेत्| मरिचयवक्षारं वा| सुबोधम्||१६||

Adhikarana svarasayogau (17) · Śloka 17

स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः| हिध्माश्वासे मधुकणायुक्तं पित्तकफानुगे||१७||

🔊 Audio coming soon

पित्तकफानुगे हिध्माश्वासे सप्तपर्णस्वरसो मधुपिप्पलीयुक्तः| शिरीषपुष्पस्वरसो वा मधुपिप्पलीयुक्तः||१७||

Adhikarana tugAdiBirutkArikA (18) · Śloka 18

उत्कारिका तुकाकृष्णामधूलीगुडनागरैः| पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि| श्वाविट्सामिषकणाघृतशल्यकशोणितैः||१८||

🔊 Audio coming soon

पित्तानुबन्धजे हिध्माश्वासे तुकादिभिरुत्कारिका योक्तव्या| तुक तुकाक्षीरी| मधूली मधुयष्टिः| वातानुबन्धजे पुनः श्वाविण्मांसादिभिः शल्यकशोणितान्तैरुत्करिका||१८||

Adhikarana vAtapittAnubandhe kShIrayogAH (19) · Śloka 19

सुवर्चलारसव्योषसर्पिभिः सहितं पयः| अनुशाल्योदनं पेयं वातपित्तेऽनुबन्धिनि| चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्| पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्| हिध्माभिष्यन्दकसन्धान् लिह्यान्मधुघृतान्वितान्||१९||

🔊 Audio coming soon

वातपित्तानुबन्धजे शाल्योदनमनुसुवर्चलादिरसादियुक्तं क्षीरं पेयम्| चतुर्गुणाम्बुसिद्धं छागपयो वातपित्त एव| पिप्पलीमूलादिकं सम्मिश्र्य मधुघृतान्वितम्| सुबोधम्||१९|

Adhikarana bahuSleShmaNi yogAH (20) · Śloka 20

गोगजाश्ववराहोष्ट्रख़रमेषाजविड्रसान्| समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत्| चतुष्पाच्चर्मरोमास्थिरबहुशृङ्गोद्भवां मषीम्| तयैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः| क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्||२०||

🔊 Audio coming soon

गवादीनां विड्रसस्य समधोः पृथक्प्रयोगो बहुश्लेष्मणः| तस्यैव च चतुष्पाच्चर्माद्युद्भवः क्षारः| अश्वगन्धायाः केवलाया भस्म समधु| बृहतीफलमूलान्तानां क्षारः||२०||

Adhikarana muktAdicUrNam (21) · Śloka 21

मुक्तप्रवालवैडूर्यशङ्ख़सौगन्धिकाञ्जनम्| मसारगल्लस्फटिककाचैलालवणद्वयम्| अपामार्गफलं ताम्रमयो रूप्यं शणात्फलम्| ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्||२१||

🔊 Audio coming soon

मुक्तादीनां ज्योतिष्मतीरसेन लेहः| प्रवालः विद्रुमम्| सौगन्धिकमत्र पद्मम्| मसारगल्लो मणिविशेषः| एतच्चमुक्तादिकं चरकः क्षौद्रसर्पिषा पठति| केवलस्यायसश्चूर्णं मधुना||२१||

Adhikarana apare lehAH (22) · Śloka 22

शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्| गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्| रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः| घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः| लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः| घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्| पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः| सितोपला त्वामलकी द्राक्षागोश्वशकृद्रसम्| कोललाजमधुद्राक्षापिप्पलीनागराणि वा| गुडतैलनिशाद्राक्षाकणरास्नोषणानि वा| पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा||२२||

🔊 Audio coming soon

शठ्यादित्रयं मधुना| तद्वत् पिप्पलीपौष्करमूलम्| तद्वत् गैरिकादित्रयम्| कपित्थफलजो रसो मधुनैव| धात्र्यादिकं कपित्थरसेन| पथ्यादिकं घृतक्षौद्रेण| ऊषणं मरिचम्| पिप्पल्यादिकं घृतक्षौद्रेण| क्षारसंयुतं त्र्यूषणं घृतादिभिः| सितोपलादिरर्धश्लोकेन एको लेहः| कोलादिना द्वितीयः| यैश्चौषधैरनन्तरं लेहा उक्तास्तान्येव द्रव्याणि तैरेव संयोगैश्चूर्णितानि दोषाद्यपेक्षया मांसरसादीनामन्यतमेन पिबेत्||२२||

Adhikarana jIvantyAdicUrNam (23) · Śloka 23

जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्| चण्डातामलकीलोहभार्ङ्गीनागरवालकम्| कर्कटाख्या शठीकृष्णा नागकेसरचोरकम्| उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्| पार्श्वरुग्ज्वरश्वासघ्नं हिध्माश्वासहरं परम्||२३||

🔊 Audio coming soon

जीवन्त्यादिकं चूर्णं यथाकामं यथेच्छमाहारपानादिना पानलेहादिना च||२३||

Adhikarana dvitIyaM jIvantyAdicUrNam (24) · Śloka 24

जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी| पिप्पलीत्वग्विडक्षारशुण्ठीहिङ्ग्वम्लवेतसम्| एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम्| रसेन मातुलुङ्गस्य मद्येन हविषाथवा| लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्| हिध्माश्वासविबन्धार्शः कासहृत्पार्श्वशूलनुत्| शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्| शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्||२४||

🔊 Audio coming soon

द्वितीयस्य जीवन्त्याद्यस्य रसेन मातुलुङ्गस्येत्याद्युपयोगविधानम्| शठ्यादि सुबोधम्||२४||

Adhikarana anye pAnanasyayogAH (25) · Śloka 25

तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा| लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा| चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्| सशर्करां पिप्पलीं वा मधुकं वा मधुद्रवम्| स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा| ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्| कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा| सकृदुष्णं सकृच्छीतं व्यत्यासात्ससितं मधु| तद्वत् पयस्तथा सिद्धमधोभागौषधैघृतम्||२५||

🔊 Audio coming soon

तुल्यमित्यादि सुबोधम्| लशुनमूलादीनि नावनानि नारीक्षीरेण| चन्दनाद्रस एव| अलक्तकरसेन मक्षिकाविष्ठां नावयेदिति सम्बन्धः| अथवा तामपि स्तन्येन|घृताच्छं घृतमण्डम्| स्तन्येन सह घृतं मधुरस्कन्धकल्केन ससितं मधु पयो हितं पाननस्ययोः| व्यत्यासात् पर्यायेण| शीतं दत्वोष्णं दीयते पुनः शीतं पुनरुष्णम्| अधोभागौषधानि विरेचनानि||२५||

Adhikarana kaNAdighRutam (26) · Śloka 26

कणासौवर्चलालाक्षावयस्थाहिङ्गुचोरकैः| सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत्| तत्पिबेज्जीवनीयैर्वा लिह्यात्समधुसाधितम्||२६||

🔊 Audio coming soon

मस्तुदशमूलक्वाथयोर्मिश्रितयोर्घृताच्चतुर्गुणत्वम्| कणादीनां परिभाषया कल्कः| वयस्था आमलकम्| कायस्था हरीतकी| जीवनीयैर्वा साधितं घृतं समधु लिह्यत्||२६||

Adhikarana tejovatyAdighRutam (27) · Śloka 27

तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी| पूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी| पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका| वचापत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्| हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्| श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदना||२७||

🔊 Audio coming soon

तेजोवत्यादीनां पादः| पलं कर्षचतुर्भागयुतम्| जलं घृतसमं देयम्| जलं ऋतसममित्यत्र व्याख्यानमेव प्रमाणम्| चरक पाठस्तु हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||२७||

Adhikarana purAdighRutam (28) · Śloka 28

सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्| सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः||२८||

🔊 Audio coming soon

पुरादीनां पिचून्मितैरित्यनेन सम्बन्धः||२८||

Adhikarana vidAryAdighRutam (29) · Śloka 29

वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे| सपञ्चलवणं सर्पिः श्वासकासानपोहति||२९||

🔊 Audio coming soon

प्रथमो गणः विदार्यादिस्तत्क्वाथः चतुर्गुणः वत्सकादिगणः| वत्सकादिगणः कल्कः| पञ्चलवणानि सिद्धे||२९||

Adhikarana hiMsrAdighRutam (30) · Śloka 30

हिंस्राविडङ्गपूतीकात्रिकटुत्रिफलाग्निकैः| कोलमात्रैर्घृतप्रस्थं पाचयेत्सलिलाढके| क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान्| अर्शास्यरोचकं गुल्मं क्षयं हिध्माञ्च नाशयेत्||३०||

🔊 Audio coming soon

हिंस्रादीनि कोलमात्राणि| हिंस्रा मांसी| पूतीकं करञ्जम्| कोलमर्धकर्षः||३०||

Adhikarana ghRutAntarANi (31) · Śloka 31

सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम्| धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा||३१||

🔊 Audio coming soon

केवलं पुराणं सर्पिः सैन्धवस्यार्धभागेन युक्तम्| धान्वन्तरं प्रमेहोक्तम्| वृषघृतं रक्तपित्तोक्तम्| दाधिकं गुल्मोक्तम्| त्र्यूषणादि च छर्द्युक्तम्||३१||

Adhikarana SItAmbusekAdi (32) · Śloka 32

शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः| हर्षेर्ष्योच्छ्वासरोधश्च हितं कीटैश्च दंशनम्||३२||

🔊 Audio coming soon

शीताम्बुसेकादिकं हितम्| कीटैश्च दंशनं भक्षणं वातवेगविघाताय| सुबोधम्||३२||

Adhikarana cikitsAsUtram (33-5) · Śloka 5

यत् किञ्चित्कफवातघ्नमूष्णं वातानुलोमनम्| तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्| वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्| कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्| सर्वेषां बृंहणो ह्यल्पः शक्यश्च प्रायशो भवेत्| नात्यर्थं शमनोपायो भृशो शक्यश्च कर्शने| शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्| कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः||३३|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने श्वासहिध्माचिकित्सितन्नाम षष्ठोऽध्यायः||५||

🔊 Audio coming soon

प्रायोग्रहणमशेषविषयत्वप्रतिषेधार्थम्| हिध्माश्वासयोर्वातकफात्मकत्वात् वातकफयोश्चावार्यावारकभावेन स्थितेः कदाचिद्वातकृत् कर्म कफापहं कार्यम्| येनावारकः कफोनश्यत्यनावरणात् प्रतिहतजवश्च वायुर्वृद्धः स्वमार्गं गृह्णाति| कदाचित्तु कफकृद्वातहरं येन कफो लीनत्वं परित्यजति वायुश्च चाणुवेगः शमं यात्येवमनेकान्तिकं हितं न त्वेकरूपतया| सर्वत्र चानिलापहं कर्म प्रायः श्रेयः द्वयोरतिशयेन प्रशस्यम्| तांश्च हिध्माश्वासान् शमनैऱ्बृंहणैश्च कर्मभिरुपाचरेन्न कर्शनेन| यतः सर्वेषां हिध्माश्वासानां बृंहणो क्रियमाणेऽल्पोपयो भवेन्न सद्योऽपि भवेत्| सोऽपि चिकित्सितुं शक्यो भवेत्| शमने पुनरपाय एव न भवेत्| कर्शने तु भृशमपायो भवेत्| चिकित्सितुमशक्यो भवेत्| भूयिष्ठं बाहुल्येन कासादींश्च परस्परेणोपचरेत्| यदेकस्यौषधं तच्छेषाणां चतुर्णामपीत्यर्थः||३३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने षष्ठोऽध्यायः