Adhikarana atha SvAsahidhmAcikitsitaM nAma ShaShTho~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो श्वासहिध्माचिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तस्य श्वासस्य तदेकयोगक्षेमायाः हिध्मायाश्च चिकित्सितप्रदर्शनार्थमध्यायारम्भः||१|
Adhikarana SvAsahidhmayostulyacikitsitatvam (2) · Śloka 2
श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः|
तुल्यमेव ....................................||२||
निदानस्थानप्रदर्शितप्रकारेण श्वासे हिध्मामां च यतो हेत्वदिकं समानमतः साधनमपि समानमेव वेदितव्यम्||२||
Adhikarana tayorAdau svedanam (3) · Śloka 3
.......................तदार्त्तञ्च पूर्वं स्वेदैरुपाचरेत्|
स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रन्थितः कफः|
तैर्लीनोऽपि विलीनोऽस्य कोष्टं प्राप्तः सुनिर्हरः|
भवद्रवेषु मृदुत्वं च मारुते चानुलोमता||३||
तदार्त्तमित्युभयस्य परिग्रहः| स्निग्धैरिति स्निग्धद्रव्यकृतैः स्वेदैः| तैरिति स्वेदैर्विलीनः कफः कोष्टं प्राप्तः सुनिर्हरो भवेत्| स्रोतोमृदुत्वादिकं च भवेत्||३||
Adhikarana svedanottaraM Bojanam (4) · Śloka 4
स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः|
दध्युत्तरेण वा.................................||४||
दध्युत्तरेण वान्नं भोजयेदिति सम्बन्धः||४||
Adhikarana vamanavirecanayorviShayaH Pala~jca (5) · Śloka 5
.........................दद्यात्ततोऽस्मै वमनं मृदु|
विशेषात् कासवमथुहृद्ग्रहस्वरसादिने|
पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत्|
निर्हृते सुख़माप्नोति सकफे दुष्टविग्रहे|
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः|
ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः|
हिङ्गुपीलुविडैर्युक्तमन्नं स्यादनुलोमनम्|
ससैन्धवं फलाम्लं वा कोष्णं दद्याद्विरेचनम्||५||
अस्मा इति श्वासहिध्मार्त्ताय कासादियुक्ताय विशेषेण वमनं दद्यात्| पिप्पलीत्यादि वमनविशेषणम्| अविहतोऽनावृत्तमार्गः| ध्मानमाध्मानम्| ससैन्धवेत्यादि विरेचनविशेषणम्||५||
Adhikarana saMSodhanasya sopapattikaM mahatvanidarSanam (6) · Śloka 6
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः|
तस्मात्तन्मार्गशुद्ध्यर्थमूर्ध्वाधः शोधनं हितम्|
यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत्||६||
एते श्वासहिध्माश्च कफेन संरुद्धा गतिर्यस्य प्राणाख़्यस्य वायोस्तत्प्रकोपाज्जायन्त इत्यतो मार्गविशुद्धिसम्पादनार्थमूर्ध्वाधः - शोधनं वमनं विरेचनं च हितम्| जलरोधदृष्टान्तः सुबोधः||६||
Adhikarana dhUmapAnaviShayaH dravyANi ca (7) · Śloka 7
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत्|
हरिद्रापत्रमेरण्डमूलं लाक्षां मनःशिलाम्|
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्|
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान्|
मधूच्छिष्टं सर्जरसं घृतं वागुरु वा गुरु|
चन्दनं वाजशृंगं वा बालान्वा स्नाववागवाम्|
ऋष्यगोधाकुरडैगणचर्मशृङ्गखुराणि वा|
गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा|
सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम्||७||
कृतसंशुद्धेरपि दोषस्याशान्तौ ऋष्यादीनां यानि चर्मादीनि तानि च पृथग्धूमः| ऋश्यो मृगभेदः| सल्लक्यादिकं मिश्रीभूतं घृताप्लुतं धूमः| सल्लकी सुरभिः| (नि)सल्लकी सुरभिर्मोचा महेरुण्यश्वमूत्रिका| लोहमगरु||७||
Adhikarana svedanasyAvaSyakatAdikam (8) · Śloka 8
अवश्यं स्वेदनीयानामास्वेद्यानामपि क्षणम्|
स्वेदयेत् ससिताक्षीरसुख़ोष्णस्नेहसेचनैः|
उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः|
उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत्||८||
श्वासहिध्मापेक्षयाऽवश्यं स्वेदनीयास्तेषामतिस्थूलरूक्षादित्वेनास्वेद्यानामपि उरः कण्ठं च क्षणं मृदुभिः स्वेदैः स्वेदयेत्| केनेत्याह् - ससितेत्यादि| उत्कारिका पिष्टा स्विन्नपिण्डी| उपनाहः पिष्टबन्धः| सामेतु पुरुषे हिध्माश्वासयोरामविधिं लङ्घनपाचनादिकं चरेत्||८||
Adhikarana SodhanAtiyogoddhatavAtaSamanam (9) · Śloka 9
अतियोगोद्धतं वातं दृष्ट्वा पवनाशनैः|
स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत्||९||
शोधनादीनामपतर्पणानामतियोगेन वातमुद्धतं दृष्ट्वा तं वातनाशनद्रव्यसिद्धैः स्निग्द्धैश्च मांसरसादिभिः शमयेत्||९||
Adhikarana kaShAyAdInAM viShayaH (10) · Śloka 10
अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात्|
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्|
कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः||१०||
अनन्तरोक्तश्च शोधनं कर्मानुत्क्लिष्टकफादीनां न योज्यं यतः तेषां शोधनेन वायुर्लब्धास्पदो मर्मह्रदयाख़्यं संशोष्याशु प्राणान् हरेत्| अतो हेतोस्तेषामनुत्क्लिष्टकफादीनां कषायादिभिर्हिध्माश्वासान् शमयेत्||१०||
Adhikarana kShINakShatAdiShu viSeShaH (11) · Śloka 11
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान्|
मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत्||११||
क्षीणजान् क्षतजान् अतीसाराद्यनुबन्धजांश्च| हिध्मश्वासान् मधुराद्यैर्बृंहणैरुपक्रमैरुपाचरेत्||११||
Adhikarana pathyamannam (auShadhasahitam) tatra jA~ggalarasAH yUShASca (12) · Śloka 12
कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः|
यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः|
पल्लवैर्निम्बकुलकबृहतीमतुलुङ्गजैः|
व्याघ्रीदुरालभाशृङ्गविल्वमध्यत्रिकण्टकैः|
सामृताग्निकुलत्थैश्च यूषः स्यात्क्वथितैर्जले|
तद्वद्रास्नाबृअत्यादिबलामुद्गैः सचित्रकैः||१२||
कुलत्थदशमूलानां पृथग्द्रव्याणां मिश्रीभूतानां च दशमूलानां यूषश्च शिग्व्रादिभिर्मातुलुङ्गपल्लवान्तैः स्युरिति सम्बन्धः| व्याघ्र्यादिभिर्जले क्वथितैरेको यूषः स्यात्| द्वितीयो यूषो रास्नादिभिः| बृहत्यादिशब्देन ह्रस्वपञ्चमूलं गृह्यते||१२||
Adhikarana peyAH kvAthapeyASca (13) · Śloka 13
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता|
दशमूलेन वा कासश्वासहिध्मारुजापहा|
दशमूलशठीरास्नाभार्ङ्गीबिल्वार्धिपौष्करैः|
कुलीरशृङ्गीचपलातामलक्यमृतौषधैः|
पिबेत्कषायं जीर्णेऽस्मिन् पेयान्तैरेव साधिताम्|
शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक्|
कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशन्तये|
सक्तून् वार्काङ्कुरक्षीरभावितानां समाक्षिकान्|
यवानां दशमूलादिनिष्क्वाथलुलितान् पिबेत्||१३||
एका पेया चित्रकादिभिः| द्वितीया दशमूलेन| दशमूलशठ्यादिभिः कषायः| औषधं नागरम्| दशमूलशठ्यादिभिः पेयां पीत्वा शाल्यादिभोजनः| अर्काङ्कुरक्षीरभावितानां यवानां सम्बन्धिनः सक्तून् दशमूलशठीरास्नादिनिष्क्वाथेनालोडितान् अनु पिबेत्||१३||
Adhikarana anne yojanIyAni (14) · Śloka 14
अन्ने च योजयेत्क्षारहिङ्वाज्यबिडदाडिमान्|
सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान्|
पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः||१४||
यवक्षारादीनि च दोषाद्यपेक्षयानेकप्रकारमन्ने योजयेत्| पिपासितश्च दशमूलक्वाथादिकं पिबेत्||१४|| ४६३
Adhikarana pippalyAdiBiH siddhM takram (15) · Śloka 15
पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः|
कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने|
तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित्|
पाठां मधुरसां दारु सरलं च निशि स्थितम्|
सुरामण्डेऽल्पलवणं पिबेत् प्रसृतसम्मितम्||१५||
पिप्पल्याद्यैर्लेपोऽर्धाङ्गुलमात्रकः| रूढः कठिनीभूतलेपः| मधुरसा मूर्वा| सरलं पीडाख़्यं देवदारूसदृशमेव| द्वे पले प्रसृतः|
Adhikarana SirIShAdiyogAH (16) · Śloka 16
शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम्|
तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम्|
आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान्|
हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा|
कोष्णेन भार्ङ्गी शुण्ठीं च क्षारं वा मरिचान्वितम्|
स्वक्वाथपिष्टां लुलितां वाष्पिकां पाययेत वा||१६||
शिरीषादि सुबोधम्| हिङ्ग्वादिमुद्गान्तान् वा पिबेत्|जलेन कोष्णेन भार्ङ्गीशुण्ठ्यौ पिबेत्| मरिचयवक्षारं वा| सुबोधम्||१६||
Adhikarana svarasayogau (17) · Śloka 17
स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः|
हिध्माश्वासे मधुकणायुक्तं पित्तकफानुगे||१७||
पित्तकफानुगे हिध्माश्वासे सप्तपर्णस्वरसो मधुपिप्पलीयुक्तः| शिरीषपुष्पस्वरसो वा मधुपिप्पलीयुक्तः||१७||
Adhikarana tugAdiBirutkArikA (18) · Śloka 18
उत्कारिका तुकाकृष्णामधूलीगुडनागरैः|
पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि|
श्वाविट्सामिषकणाघृतशल्यकशोणितैः||१८||
पित्तानुबन्धजे हिध्माश्वासे तुकादिभिरुत्कारिका योक्तव्या| तुक तुकाक्षीरी| मधूली मधुयष्टिः| वातानुबन्धजे पुनः श्वाविण्मांसादिभिः शल्यकशोणितान्तैरुत्करिका||१८||
Adhikarana vAtapittAnubandhe kShIrayogAH (19) · Śloka 19
सुवर्चलारसव्योषसर्पिभिः सहितं पयः|
अनुशाल्योदनं पेयं वातपित्तेऽनुबन्धिनि|
चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम्|
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान्|
हिध्माभिष्यन्दकसन्धान् लिह्यान्मधुघृतान्वितान्||१९||
वातपित्तानुबन्धजे शाल्योदनमनुसुवर्चलादिरसादियुक्तं क्षीरं पेयम्| चतुर्गुणाम्बुसिद्धं छागपयो वातपित्त एव| पिप्पलीमूलादिकं सम्मिश्र्य मधुघृतान्वितम्| सुबोधम्||१९|
Adhikarana bahuSleShmaNi yogAH (20) · Śloka 20
गोगजाश्ववराहोष्ट्रख़रमेषाजविड्रसान्|
समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत्|
चतुष्पाच्चर्मरोमास्थिरबहुशृङ्गोद्भवां मषीम्|
तयैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः|
क्षारं वा त्रिफलापाठाबृहतीफलमूलजम्||२०||
गवादीनां विड्रसस्य समधोः पृथक्प्रयोगो बहुश्लेष्मणः| तस्यैव च चतुष्पाच्चर्माद्युद्भवः क्षारः| अश्वगन्धायाः केवलाया भस्म समधु| बृहतीफलमूलान्तानां क्षारः||२०||
Adhikarana muktAdicUrNam (21) · Śloka 21
मुक्तप्रवालवैडूर्यशङ्ख़सौगन्धिकाञ्जनम्|
मसारगल्लस्फटिककाचैलालवणद्वयम्|
अपामार्गफलं ताम्रमयो रूप्यं शणात्फलम्|
ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम्||२१||
मुक्तादीनां ज्योतिष्मतीरसेन लेहः| प्रवालः विद्रुमम्| सौगन्धिकमत्र पद्मम्| मसारगल्लो मणिविशेषः| एतच्चमुक्तादिकं चरकः क्षौद्रसर्पिषा पठति| केवलस्यायसश्चूर्णं मधुना||२१||
Adhikarana apare lehAH (22) · Śloka 22
शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम्|
गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम्|
रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः|
घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः|
लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः|
घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम्|
पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः|
सितोपला त्वामलकी द्राक्षागोश्वशकृद्रसम्|
कोललाजमधुद्राक्षापिप्पलीनागराणि वा|
गुडतैलनिशाद्राक्षाकणरास्नोषणानि वा|
पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा||२२||
शठ्यादित्रयं मधुना| तद्वत् पिप्पलीपौष्करमूलम्| तद्वत् गैरिकादित्रयम्| कपित्थफलजो रसो मधुनैव| धात्र्यादिकं कपित्थरसेन| पथ्यादिकं घृतक्षौद्रेण| ऊषणं मरिचम्| पिप्पल्यादिकं घृतक्षौद्रेण| क्षारसंयुतं त्र्यूषणं घृतादिभिः| सितोपलादिरर्धश्लोकेन एको लेहः| कोलादिना द्वितीयः| यैश्चौषधैरनन्तरं लेहा उक्तास्तान्येव द्रव्याणि तैरेव संयोगैश्चूर्णितानि दोषाद्यपेक्षया मांसरसादीनामन्यतमेन पिबेत्||२२||
Adhikarana jIvantyAdicUrNam (23) · Śloka 23
जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम्|
चण्डातामलकीलोहभार्ङ्गीनागरवालकम्|
कर्कटाख्या शठीकृष्णा नागकेसरचोरकम्|
उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम्|
पार्श्वरुग्ज्वरश्वासघ्नं हिध्माश्वासहरं परम्||२३||
जीवन्त्यादिकं चूर्णं यथाकामं यथेच्छमाहारपानादिना पानलेहादिना च||२३||
Adhikarana dvitIyaM jIvantyAdicUrNam (24) · Śloka 24
जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी|
पिप्पलीत्वग्विडक्षारशुण्ठीहिङ्ग्वम्लवेतसम्|
एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम्|
रसेन मातुलुङ्गस्य मद्येन हविषाथवा|
लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम्|
हिध्माश्वासविबन्धार्शः कासहृत्पार्श्वशूलनुत्|
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम्|
शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम्||२४||
द्वितीयस्य जीवन्त्याद्यस्य रसेन मातुलुङ्गस्येत्याद्युपयोगविधानम्| शठ्यादि सुबोधम्||२४||
Adhikarana anye pAnanasyayogAH (25) · Śloka 25
तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा|
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा|
चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम्|
सशर्करां पिप्पलीं वा मधुकं वा मधुद्रवम्|
स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा|
ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम्|
कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा|
सकृदुष्णं सकृच्छीतं व्यत्यासात्ससितं मधु|
तद्वत् पयस्तथा सिद्धमधोभागौषधैघृतम्||२५||
तुल्यमित्यादि सुबोधम्| लशुनमूलादीनि नावनानि नारीक्षीरेण| चन्दनाद्रस एव| अलक्तकरसेन मक्षिकाविष्ठां नावयेदिति सम्बन्धः| अथवा तामपि स्तन्येन|घृताच्छं घृतमण्डम्| स्तन्येन सह घृतं मधुरस्कन्धकल्केन ससितं मधु पयो हितं पाननस्ययोः| व्यत्यासात् पर्यायेण| शीतं दत्वोष्णं दीयते पुनः शीतं पुनरुष्णम्| अधोभागौषधानि विरेचनानि||२५||
Adhikarana kaNAdighRutam (26) · Śloka 26
कणासौवर्चलालाक्षावयस्थाहिङ्गुचोरकैः|
सकायस्थैर्घृतं मस्तुदशमूलरसे पचेत्|
तत्पिबेज्जीवनीयैर्वा लिह्यात्समधुसाधितम्||२६||
मस्तुदशमूलक्वाथयोर्मिश्रितयोर्घृताच्चतुर्गुणत्वम्| कणादीनां परिभाषया कल्कः| वयस्था आमलकम्| कायस्था हरीतकी| जीवनीयैर्वा साधितं घृतं समधु लिह्यत्||२६||
Adhikarana tejovatyAdighRutam (27) · Śloka 27
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी|
पूतीकं पौष्करं मूलं पलाशश्चित्रकः शठी|
पटुद्वयं तामलकी जीवन्ती बिल्वपेशिका|
वचापत्रं च तालीसं कर्षांशैस्तैर्विपाचयेत्|
हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत्|
श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदना||२७||
तेजोवत्यादीनां पादः| पलं कर्षचतुर्भागयुतम्| जलं घृतसमं देयम्| जलं ऋतसममित्यत्र व्याख्यानमेव प्रमाणम्| चरक पाठस्तु हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||२७||
Adhikarana purAdighRutam (28) · Śloka 28
सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत्|
सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः||२८||
पुरादीनां पिचून्मितैरित्यनेन सम्बन्धः||२८||
Adhikarana vidAryAdighRutam (29) · Śloka 29
वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे|
सपञ्चलवणं सर्पिः श्वासकासानपोहति||२९||
प्रथमो गणः विदार्यादिस्तत्क्वाथः चतुर्गुणः वत्सकादिगणः| वत्सकादिगणः कल्कः| पञ्चलवणानि सिद्धे||२९||
Adhikarana hiMsrAdighRutam (30) · Śloka 30
हिंस्राविडङ्गपूतीकात्रिकटुत्रिफलाग्निकैः|
कोलमात्रैर्घृतप्रस्थं पाचयेत्सलिलाढके|
क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान्|
अर्शास्यरोचकं गुल्मं क्षयं हिध्माञ्च नाशयेत्||३०||
हिंस्रादीनि कोलमात्राणि| हिंस्रा मांसी| पूतीकं करञ्जम्| कोलमर्धकर्षः||३०||
Adhikarana ghRutAntarANi (31) · Śloka 31
सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम्|
धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा||३१||
केवलं पुराणं सर्पिः सैन्धवस्यार्धभागेन युक्तम्| धान्वन्तरं प्रमेहोक्तम्| वृषघृतं रक्तपित्तोक्तम्| दाधिकं गुल्मोक्तम्| त्र्यूषणादि च छर्द्युक्तम्||३१||
Adhikarana SItAmbusekAdi (32) · Śloka 32
शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः|
हर्षेर्ष्योच्छ्वासरोधश्च हितं कीटैश्च दंशनम्||३२||
शीताम्बुसेकादिकं हितम्| कीटैश्च दंशनं भक्षणं वातवेगविघाताय| सुबोधम्||३२||
Adhikarana cikitsAsUtram (33-5) · Śloka 5
यत् किञ्चित्कफवातघ्नमूष्णं वातानुलोमनम्|
तत्सेव्यं प्रायशो यच्च सुतरां मारुतापहम्|
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्|
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्|
सर्वेषां बृंहणो ह्यल्पः शक्यश्च प्रायशो भवेत्|
नात्यर्थं शमनोपायो भृशो शक्यश्च कर्शने|
शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत्|
कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः||३३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने श्वासहिध्माचिकित्सितन्नाम षष्ठोऽध्यायः||५||
प्रायोग्रहणमशेषविषयत्वप्रतिषेधार्थम्| हिध्माश्वासयोर्वातकफात्मकत्वात् वातकफयोश्चावार्यावारकभावेन स्थितेः कदाचिद्वातकृत् कर्म कफापहं कार्यम्| येनावारकः कफोनश्यत्यनावरणात् प्रतिहतजवश्च वायुर्वृद्धः स्वमार्गं गृह्णाति| कदाचित्तु कफकृद्वातहरं येन कफो लीनत्वं परित्यजति वायुश्च चाणुवेगः शमं यात्येवमनेकान्तिकं हितं न त्वेकरूपतया| सर्वत्र चानिलापहं कर्म प्रायः श्रेयः द्वयोरतिशयेन प्रशस्यम्| तांश्च हिध्माश्वासान् शमनैऱ्बृंहणैश्च कर्मभिरुपाचरेन्न कर्शनेन| यतः सर्वेषां हिध्माश्वासानां बृंहणो क्रियमाणेऽल्पोपयो भवेन्न सद्योऽपि भवेत्| सोऽपि चिकित्सितुं शक्यो भवेत्| शमने पुनरपाय एव न भवेत्| कर्शने तु भृशमपायो भवेत्| चिकित्सितुमशक्यो भवेत्| भूयिष्ठं बाहुल्येन कासादींश्च परस्परेणोपचरेत्| यदेकस्यौषधं तच्छेषाणां चतुर्णामपीत्यर्थः||३३|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने षष्ठोऽध्यायः