Adhikarana atha madAtyayacikitsitannAma navamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो मदात्ययचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana atha madAtyayacikitsitannAma navamo~adhyAyaH adhyAya pratij~jA (1) · Śloka 1
अथातो मदात्ययचिकित्सितं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana madAtyaye doShajayakramaH (2) · Śloka 2
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्| कफस्थानानुपूर्व्या वा तुल्यदोषं मदात्यये| पित्तमारुतपर्यन्तः प्रायेणहि मदात्ययः||२||
🔊 Audio coming soon
Adhikarana madyapAne mAtrAdoShe tadeva samam (3) · Śloka 3
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते| समपीतेन तेनैव स मद्येनोपशाम्यति||३||
🔊 Audio coming soon
Adhikarana madye madyamevauShadham (4) · Śloka 4
मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः| तीक्ष्णादिभिर्गुणैयोगाद्विषान्तरमपेक्षते||४||
🔊 Audio coming soon
Adhikarana madyasyauShadhatve upapattiH (5) · Śloka 5
तीक्ष्णोष्णेनातिमात्रेण पीतेनान्नविदाहिना| मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः| यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्| मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः| सुतीव्रा वेदना याश्च शिरस्यस्थिषु सन्धिषु| जीर्णाममद्यदोषस्य प्रकांक्षालाघवे सति| यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान्||५||
🔊 Audio coming soon
Adhikarana yuktyantara~jca (6) · Śloka 6
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः| मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम्| तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः| सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्||६||
🔊 Audio coming soon
Adhikarana pAnAtyayauShadhakAlaH (7) · Śloka 7
सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम्| जीर्यत्येतावत पानं कालेन विपथाश्रितम्||७||
🔊 Audio coming soon
Adhikarana anubandhacikitsopakramaH (8) · Śloka 8
परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्| यथायथं प्रयुञ्जीत कृतपानात्ययौषधम्||८||
🔊 Audio coming soon
Adhikarana vAtolbaNe pAnAtyaye cikitsA (9) · Śloka 9
तत्र वातोल्बणे मद्ये दद्यात्पिष्टकृतं युतम्| बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः| यवानीहपुषाजाजी व्योषत्रिलवणार्द्रकैः| शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः| उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः| आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः| गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः| आर्द्रिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः| सुरभिर्लवणा शीता निगदा वाच्छवारुणी| स्वरसो दाडिमात्क्वाथः पञ्चमूलात्कनीयसः| शुण्ठीधान्यात्तथामस्तुशुक्ताम्भोच्छाम्लकाञ्जिकम्| अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्| घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमात्| कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः| हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च||९||
🔊 Audio coming soon
Adhikarana pittolbaNe cikitsA (10) · Śloka 10
पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्| रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः| सुशीतं ससिता सक्तु योज्यं तादृक्च पानकम्| स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम्| शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः| सतीनमुद्गामलकपटोलीदाडिमैरपि||१०||
🔊 Audio coming soon
Adhikarana kaPapittolbaNe cikitsA (11) · Śloka 11
कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदहवान्| पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरसमं युतम्| द्राक्षारसं वा संसर्गी तर्पणादिः परं हितम्| तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः||११||
🔊 Audio coming soon
Adhikarana kAsAdiyukte cikitsA (12) · Śloka 12
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च| तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि| गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम्| सनागरं योजयेत तित्तिरिप्रतिभोजनम्||१२||
🔊 Audio coming soon
Adhikarana tRuShNAyukte cikitsA (13) · Śloka 13
तृष्यते चातिबलवद्वातपित्ते समुद्धते| दद्याद् द्राक्षारसं पानं शीतं दोषानुलोमनम्| जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च| तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्| मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्| पारस्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्||१३||
🔊 Audio coming soon
Adhikarana tRuShANAtivRuddhau tasya samprAptiH cikitsA ca (14) · Śloka 14
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते| यः शुष्कगलताल्वोष्ठौ जिह्वां निष्क्रम्य वेष्टते| पाययेत् कामतोऽम्भस्तं निशीतपवनाहतम्| कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः| पञ्चाम्लको मुखालेपः सद्यतृष्णां नियच्छति||१४||
🔊 Audio coming soon
Adhikarana pAnAtyayajadAhasamprAptiH tasya saMprAptiH (15) · Śloka 15
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्च्छितः| दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति||१५||
🔊 Audio coming soon
Adhikarana tatra cikitsAkramaH (16) · Śloka 16
तृष्णादाहपरीतस्य तस्य दाहज्वरापहम्| विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम्||१६||
🔊 Audio coming soon
Adhikarana candanasya dAhanASakatvam (17) · Śloka 17
प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः| स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः||१७||
🔊 Audio coming soon
Adhikarana muktAkalApAdInAM tRuDdAhAdinASanatvam (18) · Śloka 18
मुक्ताकलापाः शशिरश्मिशुभ्राः मृणालपद्मोत्पलपत्ररम्याः| सेकावगाहाः सजलाजलार्द्रा वाताः सुशीता मणयो महार्हाः| अलिञ्जराः पद्मपुटाभिधानाः प्रवालवर्णाहिमवारिपूर्णाः| परिस्रवन्तो दृतयोमहान्तः पुत्राः प्रियादर्पणमण्डलानि| नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिवस्पृशन्त्यः| मनोनुकूला हरिचन्दनार्द्रा स्तृड्दाहमूर्च्छादवथूञ्जयन्ति||१८||
🔊 Audio coming soon
Adhikarana sindhusmaraNAdikam (19) · Śloka 19
करेणुकाभिः परिवारितेन विक्षोभणं वरणयूथपेन| आस्फालनं शीकरवर्षणञ्च सिन्धोः स्मरन्दाहतृषोरगम्यः| सरिद्ध्रदानां हिमवद्यरीणाञ्चन्द्रोदयानां कमलाकराणाम्| मनोरमान्यापि कथा प्रवृत्तदाहञ्च तृष्णाञ्च निहन्ति सद्यः||१९||
🔊 Audio coming soon
Adhikarana lAjAdyambupAnam (20) · Śloka 20
लाजोत्पलोशीरकुचन्दनाम्बुशीताभिधानं मधुशर्कराढ्यम्| मद्योद्भवां पित्तकृताञ्च तृष्णां सदाहशोषां विनिहन्ति पीतम्||२०||
🔊 Audio coming soon
Adhikarana priya~ggvAdilepaH (21) · Śloka 21
प्रियङ्गुपत्रप्लवलोध्सेव्यह्रीबेरकलेयकनागपुष्पैः| शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः||२१||
🔊 Audio coming soon
Adhikarana sirAvyadhaH (22) · Śloka 22
अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः| शाख़ाश्रयां यथान्यायं रोहिणीं व्यध्येत्सिराम्||२२||
🔊 Audio coming soon
Adhikarana kaPaje madAtyaye cikitsA tatra kramaH (23) · Śloka 23
उल्लेख़नोपवासाभ्यां विजयेत कफोल्बणम्||२३||
🔊 Audio coming soon
Adhikarana jalapAnam (24) · Śloka 24
तृषितोऽम्बु पिबेच्छीतं मुस्तया पर्पटेन वा| स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा| सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते||२४||
🔊 Audio coming soon
Adhikarana nirAme~ariShTapAnAdi (25) · Śloka 25
निरामं क्षुधितं काले पाययेद्बहुमाक्षिकम्| शार्करं मधु वा जीर्णमरिष्टं शीधुमेव वा| रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्||२५||
🔊 Audio coming soon
Adhikarana yUShAdyannam (26) · Śloka 26
यूषेण यवगोधूमं तनुनाऽल्पेन भोजयेत्| उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा| शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम्| साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः||२६||
🔊 Audio coming soon
Adhikarana mAMsamadyAdyannam (27) · Śloka 27
प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्| बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम्| करीरकरमर्दादि रोचिष्णु बहुशावनम्| प्रव्यक्ताष्टाङ्गलवणंविकल्पितनिमर्दकम्| यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत्||२७||
🔊 Audio coming soon
Adhikarana aShTA~ggalavaNam (28) · Śloka 28
सितासौवर्चलाजाजितिन्तिणीकाम्लवेतसम्| त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्| स्रोतोविशुद्ध्यग्निकरं कफप्राये मदात्यये||२८||
🔊 Audio coming soon
Adhikarana mRudvIkArAgaH (29) · Śloka 29
कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम्| रसेन मातुलुङ्गस्य कल्कयेद्दाडिमस्य वा| तया क्षौद्रयुतो रागः कृतो दीपनपाचनः||२९||
🔊 Audio coming soon
Adhikarana kAravyAH rAgaH (30) · Śloka 30
सौवर्चलैलामरिचदीप्यकाजाजिचोचवत्| कारव्याः कल्पयेदेवं शुक्तं मत्स्यण्डिकान्वितम्| आम्रामलकपेशीभिः कुर्याद्रागान् पृथक् पृथक्| धान्यसौवर्चलाजाजी कारवी मरिचाचितान्| सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान्||३०||
🔊 Audio coming soon
Adhikarana udvartanAdyupacArAH (31) · Śloka 31
रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्गनैः| सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च||३१||
🔊 Audio coming soon
Adhikarana sannipAtamadAtyaye (32) · Śloka 32
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति| सन्निपाते दशविधे तच्छेषेऽपि विकल्पयेत्||३२||
🔊 Audio coming soon
Adhikarana trayaH pAnakayogAH (33) · Śloka 33
त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः| परूषकमधुकैलासुराह्वैश्च सितान्वितैः| सकपित्थरसं हृद्यं पानकं शशिबोधितम्| मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्| तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः| सबीजपूरकरसैर्बिडसौवर्चलान्वितम्| फलैर्वा विविधैरम्लैः सन्निवृच्चूर्णशर्करम्||३३||
🔊 Audio coming soon
Adhikarana kacCudArA~gkurAdicUrNam (34) · Śloka 34
कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम्| मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम्| पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम्||३४||
🔊 Audio coming soon
Adhikarana madAtyayeShu harShaNI kriyA (35) · Śloka 35
नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा| कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया| सेव्याः सर्वेन्द्रियसुख़ा धर्मकल्पद्रुमाङ्कुराः| विषयातिशयाः पञ्च शराः कुसुमधन्वनः||३५||
🔊 Audio coming soon
Adhikarana madAtyaye kShIraviShayaH (36) · Śloka 36
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि| न चेच्छाम्येत्कफे क्षीणे जाते दौर्बल्यलाघवे| तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च| ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः| मद्यक्षीणस्य हि क्षीरः क्षीणमाश्वेव पुष्यति| ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः||३६||
🔊 Audio coming soon
Adhikarana tataH krameNa madyasevanam (37) · Śloka 37
पयसा विहते रोगे बले जाते निवर्तयेत्| क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत्| न विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर्यथा| तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः| अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित्||३७||
🔊 Audio coming soon
Adhikarana yuktamadyasevanam (38) · Śloka 38
युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते| अतोऽस्य वक्ष्यते योगो यः सुख़ायैव केवलम्||३८||
🔊 Audio coming soon
Adhikarana madyapraSaMsA (39) · Śloka 39
आश्विनं या महत्तेजो बले सारस्वतं च या| दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवञ्च या| अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या| सौत्रामण्यां द्विजमुख़े हुताशे हूतये च या| या सर्वौषधिसम्पूर्णान्मथ्यमानात्सुरासुरैः| महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह| मधुमाधवमैरेयसीधुगौडासवादिभिः| मदशक्तिमनुज्ञन्ती या रूपैर्बहुभिः स्थिता| यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति| कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा| अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि| तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः| एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्| यथाकामभटावाप्तिपरिहृष्टाप्सरोगणे| तृणवत्पुरुषा युद्धे यामास्वाद्य जहत्यसून्| यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम्| नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते| शोकोद्वेगरतिभयैर्या दृष्ट्वा नाभिभूयते| गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना| स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया| अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या| अपीन्द्रं मन्यते दुस्स्थं हृदयस्थितया यया| अनिर्देश्यसुख़ास्वादा स्वसंवेद्यैव या परम्| इति चित्रास्ववस्थासु प्रियामनुकरोति या| प्रियातिप्रियतां याति यत्प्रियस्य विशेषतः| या प्रीतिर्या रतिर्या वाग्या पुष्टिरिति च स्तुता| देवदानवगन्धर्वयक्षराक्षसमानुषैः| पानप्रवृतौ सत्यां तु तां सुरां विधिना पिबेत्||३९||
🔊 Audio coming soon
Adhikarana medorogasya vidhipItayA surayA nivRuttiH (40) · Śloka 40
सम्भवन्ति न ते रोगा मेदानिलकफोद्भवाः| विधियुक्तादृते मद्याद्ये न सिद्ध्यन्ति दारुणाः||४०||
🔊 Audio coming soon
Adhikarana vidhiyuktamadyapAne~apavAdaH (41) · Śloka 41
अस्ति देहस्य साऽवस्था यस्यां पानं निवार्यते| अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतान्||४१||
🔊 Audio coming soon
Adhikarana madyasaMskArAH (42) · Śloka 42
आनूपं जाङ्गलं मांसं विधिनाऽप्युपकल्पितम्| मद्यं सहायमप्राप्य सम्यक् परिणमेत्कथम्| सुतीव्रमारुतव्याधिघतिनो लशुनस्य च| मद्यमांसवियुक्तस्य प्रयोगे स्याक्तियान् गुणः| निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि| पीतमद्यो विषहते सुख़ं वैद्यविकत्थनाम्| अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम्| न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्||४२||
🔊 Audio coming soon
Adhikarana jIvitaM rakShatA madyaM peyam (43) · Śloka 43
रक्षता जीवितं तस्मात्पेयमात्मवता सदा| आश्रितोपाश्रितहितं परमं धर्मसाधनम्||४३||
🔊 Audio coming soon
Adhikarana vasumatAM madyapAnavidhiH (44) · Śloka 44
स्नातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य| आपानभूमिमथ गन्धजलभिषिक्तामाहारमण्डपसमीपगतां श्रयेत| स्वातृतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः| स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम्| विलासिनीनाञ्च विलासशोभिगीतं सनृत्तं कलतूर्यघोषैः| काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्| मणिकनकसमुत्यैरावनेयैर्विचित्रैः सजलविविधभक्तिक्षौमवस्त्रावृताङ्गैः| अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः| स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात्| इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्| यौवनासवमत्ताभिर्विलासाधिष्ठितात्मभिः| सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः| तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शितलैः| दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः| चूतरसेन्दुमृगैः कृतवासं मल्लिकोज्ज्वलतया च सनाथम्| स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्| तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा| तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च| धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन्| उचितेनोपचारेण सर्वमेवोपपालयन्| जितविकसितासितसरोजनयनसङ्क्रान्तिवर्धितश्रीकम्| कान्तामुख़मिव सौरभहृतमधुपगणं पिबेन्मद्यम्||४४||
🔊 Audio coming soon
Adhikarana madyapAnottaraM Bojanam (45) · Śloka 45
पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो| गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च| मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैः| द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत्||४५||
🔊 Audio coming soon
Adhikarana tataH krIDA Sayana~jca (46) · Śloka 46
रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम्| यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम्| वरतनुवक्त्रं सङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम्| भवति रतिश्रमेण च मदः पिबेतोऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम्||४६||
🔊 Audio coming soon
Adhikarana vidhivanmadyapAnasya Palam (47) · Śloka 47
इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते| असारसंसारसुख़ं परमं चाधिगच्छति| एश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि| अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम्| उपभोगेन रहितो भोगवानिति निन्द्यते| निर्मितोऽतिकदर्योऽयं विधिना निधिपावकः| त्स्माद्व्यवस्थया पानं पानस्य सततं हितम्| जित्वा विषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्| विधिर्वसुमतामेष भविष्यद्वसवस्तु ये| यथोपपत्तितैर्मद्यं पातव्यं मात्रया हितम्||४७||
🔊 Audio coming soon
Adhikarana madyapAnamaryAdA (48) · Śloka 48
यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः| तावदेव विरन्तव्यं मद्यादात्मवता सदा||४८||
🔊 Audio coming soon
Adhikarana doShAnusAraM madyapAnavidhiH (49) · Śloka 49
अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः| स्निग्धोष्णैर्भावितैश्चान्नैः पानं वातोत्तरः पिबेत्| शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः| पैत्तिको भावितश्चान्नैः पिबन्मद्यं न सीदति| उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्| श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह||४९||
🔊 Audio coming soon
Adhikarana doShAnusAraM madyaprakArAH kAlaSca (50) · Śloka 50
तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम्| पित्ते साम्भो मधु कफे मार्द्विकारिष्टमाधवम्| प्राक्पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः| वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति||५०||
🔊 Audio coming soon
Adhikarana madamUrcCAyayoScikitsA (51) · Śloka 51
मदेषु वातपित्तघ्नं प्रायो मूर्च्छासु चेष्यते| सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्| शीताः प्रदेहाः मणयः सेका व्यजनमारुताः| सिताद्राक्षेक्षुख़र्जूरकाश्मर्यस्वरसाः पयः| सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः| षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम्| कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम्| पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः| त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा||५१||
🔊 Audio coming soon
Adhikarana prasaktavegeShu viSeShaH (52) · Śloka 52
प्रसक्तवेगेषु हितं मुख़नासावरोधनम्| पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्||५२||
🔊 Audio coming soon
Adhikarana vogottarakAlInA cikitsA (53) · Śloka 53
मृणालबिसकृष्णा वा लिह्यात्क्षौद्रेण साभयाः| दुरालभां वा मुस्तां वा शीतेन सलिलेन वा| पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम्| धात्रीफलरसे सिद्धं पथ्या क्वाथेन वा घृतम्| कुर्यात् क्रियां ज्वरोक्ताञ्च यथादोषबलोदयाम्| पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम्| सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च||५३||
🔊 Audio coming soon
Adhikarana atipravRuddhAdiShu viSeShaH (54) · Śloka 54
मदेष्वतिप्रवृद्धेषु मूर्च्छायेषु च योजयेत्| तीक्ष्णं संन्यासविहितं विषजं विषजेषु च||५४||
🔊 Audio coming soon
Adhikarana saMnyAsacikitsA (55) · Śloka 55
आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम्| धूमं प्रधमनं तोदः सूचीभिश्च नख़ान्तरे| केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः| कद्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम्| उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्| ख़ादेत्सव्योषलवणं बीजपूरककेसरम्| लघ्वन्नं कटुतीक्ष्णोष्णमद्यात् स्रोतोविशुद्धये||५५||
🔊 Audio coming soon
Adhikarana pralayahetoScittasaMrakShaNam (56-9) · Śloka 9
विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः| पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः| स्रंसनोल्लेख़नैर्धूमैः शोणितस्यावसेचनैः| उपाचरेत्तं प्रततमनुबन्धभयात् पनः| तस्य संरक्षितव्यं च मनः प्रलयहेतुतः||५६|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने मदात्ययचिकित्सितन्नाम नवमोऽध्यायः||९||
🔊 Audio coming soon