Adhikarana atha pramehacikitsitannAma caturdasho~adhyAyaH adhyAyapratij~jA (1) · Śloka 1
अथातः प्रमेह चिकित्सितं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
क्रमप्राप्तानां प्रमेहाणाम् चिकित्साप्रदर्शनार्थमध्याय आरभ्यते||१||

अथातः प्रमेह चिकित्सितं व्याख्यास्यामः|

Adhikarana tatrAdau saMshodhanahetuH (2) · Śloka 2
प्रायेण हि प्रमेहिणोऽभिष्यण्णदेहत्वादुपहताग्नेर्भक्ष्या दिपञ्चविधमप्यन्नमुपयुक्तं मूत्राय मेदसे च विपरिणमते|
तस्मादस्य तेजोधातुवृद्धये क्लेदमेदः प्रशमनाय च बलिनः संशोधनानि प्रयुञ्जीत|
दुर्बलस्य तु संशमनानि|
सर्वस्य च बद्धमूत्राण्यमेदस्कराण्यबृंहणान्यग्निदीपनानि बलजननानि चान्नपानानि|
बलं च विधिनोपचितमशेषा मयक्षयाय सम्प्रवर्तते||२||
सर्वप्रमेहिणामग्न्युपग़ातान्मूत्रं मेदश्चाधिकं भवत्यतोऽग्निवृद्ध्यर्थं क्लेदादिशमनार्थं च संशोधनं कुर्यादिति प्रदर्शयितुमाह-प्रायेणेत्यादि| सुबोधम्| सर्वस्येति सामान्येन प्रमेहेषु दुर्बलत्वादिकमनपेक्ष्य|| २||

सर्वप्रमेहिणामग्न्युपघातान्मूत्रं मेदश्चाधिकं भवत्यतोऽग्निवृद्ध्यर्थं क्लेदादिशमनार्थं च संशोधनं कुर्यादिति प्रदर्शयितुमाह-प्रायेणेत्यादि| सुबोधम्| सर्वस्येति सामान्येन प्रमेहेषु दुर्बलत्वादिकमनपेक्ष्य|| २||
Adhikarana saMshodhanam (3) · Śloka 3
अथ संशोधनार्हं प्रमेहिणमादावेव बिभीतकसर्षपेङ्गुदी करञ्जनिम्बनिकुम्भान्यतमतैलेन त्रिकण्टकादिना वा यथास्वं सिद्धेन स्नेहेन प्रियङ्ग्वादिशृतेन वा हविषा स्नेहयित्वा कल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च||३||
शोधनार्हं वमनविरेचनविध्युक्तप्रकाऱ्रेण| त्रिकण्टकादिना सिद्धेन| दोषाद्यपेक्षया तैलादीनामन्यतममिति यथास्वशब्दर्थः| त्रिकण्टकादिमत्रैव वक्ष्यते| प्रियङ्ग्वादिना गणेन शृतं ग़ृतम्| कल्पविहिता वमनकल्पोक्ता विरेचनकल्पोक्ताश्च|| ३||

शोधनार्हं वमनविरेचनविध्युक्तप्रकाऱ्रेण| त्रिकण्टकादिना सिद्धेन| दोषाद्यपेक्षया तैलादीनामन्यतममिति यथास्वशब्दर्थः| त्रिकण्टकादिमत्रैव वक्ष्यते| प्रियङ्ग्वादिना गणेन शृतं घृतम्| कल्पविहिता वमनकल्पोक्ता विरेचनकल्पोक्ताश्च|| ३||
Adhikarana AsthApanam (4) · Śloka 4
ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादि कषायेणास्थापयेत्|
पित्तोत्तरं तु न्यग्रोधादिकषायेण||४||
तत इति शोधने| सुरसादिगणक्वाथो मुस्तादिप्रतिवापो बस्तिः| बस्तिस्तु न्यग्रोधादिकषायः पित्तप्रमेहेष्वेव|| ४||

Adhikarana santarpaNaM shamana~jca (5) · Śloka 5
ततश्च जाङ्गलरसैः क्रमेण सन्तर्पयेत्|
अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेढ्रशूलगुल्मातिकर्श्य भ्रमादीनां सम्भवः|
ततोऽनुबन्धरक्षणार्थं शमनार्हस्य च शमनान्यवचारयेत्||५||
अत्यपतर्पणेनेत्यादि जाङ्गलरसैः सन्तर्पणे हेतुः| ततोऽनन्तरं प्रमेहानुबन्धरक्षणार्थं शमनान्यौषधानि प्रयोजयेत्| तानि च सर्वप्रमेहेषु हरिद्रामित्यादिना प्रदर्श्यन्ते|| ५||

Adhikarana saMshamanAni (6) · Śloka 6
प्रातः सर्वप्रमेषु हरिद्रामधुना युक्तामामलकरसेन पि बेत्|
अथवा सालसप्तपर्णकुटजकपित्थकम्पिल्लक बिभीतकरोहितककुसुमानि तच्चूर्णं वा क्षौद्रेण लिह्यात्|
हरीतकीचूर्णं व|
पिबेद्वा त्रिफलामुस्तादेवदारुहरिद्रा क्वाथम्|
असनचित्रकत्रिफलादार्वीकलिङ्गकानां वा सक्षौद्रम्|
तद्वत् गुडूच्या वा स्वरसमामलकानां वा||६||
हरिद्रां माक्षिकयुक्तमामलकरसेन पिबेत्| सालादिकुसुमानि वा मधुयुक्तान्यामलकरसेन पिबेत्| एषामेव वा सालादिकुसुमानां चूर्णं माक्षिकेण लिह्यात्| त्रिफलादीनां वा क्वाथं पिबेत्| अस-नादीनां वा क्वाथं सक्षौद्रं पिबेत्| गुडूच्याः स्वरसमामलकानां वा स्वरसम्| तद्वदिति सक्षौद्रम्|| ६||

Adhikarana kaPameheShu visheShaH (7) · Śloka 7
विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समा क्षिकं कषायम्|
तगरविडङ्गद्विहरिद्राणां वा|
चन्दना गरुकुष्ठदेवदारूणां वा|
पाठाग्निमन्थचविकात्रिफलानां वा|७|

००
Adhikarana pittameheShu (7) · Śloka 7
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्|
निम्बामृता मलकपटोलीनां वा|
शीरीषसर्जार्जुनकेसराणां वा|
फलिनी कमलोत्पलकींशुकानां वा|
कुटजोत्पलकट ङ्गटेरीनां वा||७||
कट्फलादिकषायं सक्षौद्रं विशेषतः कफे| सर्वत्र सर्वस्य पथ्यत्वाद्विशेषग्रहणम्| तगरादीनां वा क्वाथः समाक्षिकः| सुबोधम्| सर्वकषायेषु माक्षिकप्रयोगः पित्तप्रमेहेषु लोध्रनिम्बशिरीषफलिनीकुटजादयः पञ्चकषायाः|| ७||

Adhikarana tatrApi BedAnusAraM visheShaH (8) · Śloka 8
तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दनयोश्चित्रकस्य पाठाजोङ्गकयोः ख़दिरस्य त्रिफलारग्वधयोश्च मधुयुतम्|
पिबेच्च सिकतामेहे हिङ्गु प्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा|
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्या कस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यख़र्जू राणां च मधुयुक्तम्|
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना||८||
तेष्वित्यनन्तरोक्तेषु कफपित्तप्रमेहेषु सामान्येनोक्तः| उदकमेहादिषु विशेषेणोच्यते| उदकमेहे पारिजातस्य कषायः इक्षुमेहे वैजयन्त्याः| वैजयन्त्यग्निमन्थः सान्द्रे सप्तच्छादस्य| सुरामेहे निम्बस्य| पिष्टे हरिद्रायाः शुक्रमेहे ककुभचन्दनयोः सिकतामेहे चित्रकस्य| शीतमेहे पाठाजोङ्गकयोः| शनैर्मेहे ख़दिरस्य| लालामेहे त्रिफलारग्वधयोरिति क्रमार्थः| सर्व एव कषाया माक्षिकयुक्ताः| सिकतामेहे हिङ्ग्वादीन्यपि मद्यादीनामन्यतमेन| क्षारमेहे त्रिफलायाः कषायः| कालमेहे असनादेः| नीलमेहे न्यग्रोधादेः| हारिद्रमेहे शाम्याकस्य| मञ्जिष्ठामेहे चन्दनमञ्जिष्ठयोः| शोणितमेहे शम्याकस्य गुदूच्यादीनाम्| शोणितमेहे मदयन्तीकल्कमपि सक्षौद्रं शीतोदकेन|| ८||

तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दनयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम्|

क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्या कस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जू राणां च मधुयुक्तम्|

तेष्वित्यनन्तरोक्तेषु कफपित्तप्रमेहेषु सामान्येनोक्तः| उदकमेहादिषु विशेषेणोच्यते| उदकमेहे पारिजातस्य कषायः इक्षुमेहे वैजयन्त्याः| वैजयन्त्यग्निमन्थः सान्द्रे सप्तच्छादस्य| सुरामेहे निम्बस्य| पिष्टे हरिद्रायाः शुक्रमेहे ककुभचन्दनयोः सिकतामेहे चित्रकस्य| शीतमेहे पाठाजोङ्गकयोः| शनैर्मेहे खदिरस्य| लालामेहे त्रिफलारग्वधयोरिति क्रमार्थः| सर्व एव कषाया माक्षिकयुक्ताः| सिकतामेहे हिङ्ग्वादीन्यपि मद्यादीनामन्यतमेन| क्षारमेहे त्रिफलायाः कषायः| कालमेहे असनादेः| नीलमेहे न्यग्रोधादेः| हारिद्रमेहे शाम्याकस्य| मञ्जिष्ठामेहे चन्दनमञ्जिष्ठयोः| शोणितमेहे शम्याकस्य गुदूच्यादीनाम्| शोणितमेहे मदयन्तीकल्कमपि सक्षौद्रं शीतोदकेन|| ८||
Adhikarana vAtajeShu kaShAyanirdreshaH (9) · Śloka 9
वातजेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत्कषायम्|
तत्र वसामेहेऽग्निमन्थस्य|
मज्जमेहेऽमृताचित्रकयोः कुष्ठ-कुटजपाठाकटुरोहिणीकल्कमिश्रम्|
हस्तिमेहे हस्तिसूकरख़रोष्ट्रास्थिक्षारम्|
मधुमेहे कदरख़दिर पुरकषायम्||९||
वातप्रमेहेषु कफपित्तोल्बणेषु चासाध्यत्वेऽपि यापनार्थं कषायं पिबेदेव| सुबोधम्| हस्त्याद्यस्थिक्षारं कुटजादिकल्कमिश्रितम्| मधुमेहे कदरादिकषायम्|| ९||

हस्तिमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम्|
मधुमेहे कदरखदिर पुरकषायम्||९||

Adhikarana vAtajeshu snehaprayoga vikalpanA (10) · Śloka 10
कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि|
पित्तानुगतेषु च ग़ृतानि यमकं वा प्रयुञ्जीत||१०||
एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः| तथा कषायसंपृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति| वसामेहादीनां चतुर्णां वातोद्भवानां कफानुगतत्वे सति स्वैः स्वैः कशायौषधैः सिद्धानि तैलानि शस्यन्ते| पित्तानुगतत्वे तैरेव ग़ृतानि| यमकं वा प्रकृतत्वात् ग़ृततैलाभ्याम्| एतेन कषायौषधस्नेहसाधनेन शेषेष्वपि कफमेहेषु च कषायौषधैः स्नेहविकल्प उक्त इति वेदितव्यः| तथा प्रमेहिणे कषायेण सह प्रयुक्तैः सह कफादीनामनिलस्य चोपशमो भवति| कषायशब्दः क्वाथादिकल्पनावाचकः|| १०||

पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत||१०||
एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः| तथा कषायसंपृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति| वसामेहादीनां चतुर्णां वातोद्भवानां कफानुगतत्वे सति स्वैः स्वैः कशायौषधैः सिद्धानि तैलानि शस्यन्ते| पित्तानुगतत्वे तैरेव घृतानि| यमकं वा प्रकृतत्वात् घृततैलाभ्याम्| एतेन कषायौषधस्नेहसाधनेन शेषेष्वपि कफमेहेषु च कषायौषधैः स्नेहविकल्प उक्त इति वेदितव्यः| तथा प्रमेहिणे कषायेण सह प्रयुक्तैः सह कफादीनामनिलस्य चोपशमो भवति| कषायशब्दः क्वाथादिकल्पनावाचकः|| १०||
Adhikarana trikaNTakAdisnehaH sarvamehaGnaH (11) · Śloka 11
त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दग़ननिशा जमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्द नागरुभिश्च स्नेहो विपक्वः सर्वमेहग़्नः||११||
त्रिकण्टकादिभिः स्नेहाच्चतुर्थांशैर्जलेन च स्नेहसमेन स्नेहो विपक्वः सर्वमेहग़्नः| सामान्योक्तं कपानुगतत्वे तैलं पित्तानुगत्वे ग़ृतं मिश्रको वेति वेदितव्यम्|| ११||

त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशा जमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्द नागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः||११||
त्रिकण्टकादिभिः स्नेहाच्चतुर्थांशैर्जलेन च स्नेहसमेन स्नेहो विपक्वः सर्वमेहघ्नः| सामान्योक्तं कपानुगतत्वे तैलं पित्तानुगत्वे घृतं मिश्रको वेति वेदितव्यम्|| ११||
Adhikarana dhAnvantaraM GRutam (12) · Śloka 12
दशमूलहरीतकीदेवदारुष्करञ्जद्वयद्विवर्षाभूदन्तीभक दम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमू लपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोल कुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत्|
तेन वचाविडङ्गकम्पिल्लकभल्ला तकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्व भेषजप्रतीवापं ग़ृतप्रस्थं विपचेत्|
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहज ठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मा रहरम्||१२||
दशमूलेत्यादिना धान्वन्तरं सर्पिः| दशमूलानां संयुक्तानां दशपलम्| दशमूलस्यैकत्वात् प्रत्येकमित्युक्तम्| करञ्जद्वयं कृष्णश्वेतभेदेन| वर्षाभ्वौ पुनर्नवे| भूकदम्बको यवानी कौण्डिन्यकश्च| यवादीनां मिश्रीभूतानां प्रस्थत्रयम्| प्रत्येकं तु षोडशपलं शुष्कद्रव्यत्वात् प्रस्थः| सर्वस्मादेकीकृतादष्टगुणादम्भसः पादशेषं क्वाथं गृह्णीयात्| वचादीनि गर्भे| कम्पिल्लको रञ्जनको रेवको रक्तचूर्णकः| रोहिषः प्लीहापहः|| १२||

तेन वचाविडङ्गकम्पिल्लकभल्ला तकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्व भेषजप्रतीवापं घृतप्रस्थं विपचेत्|

Adhikarana AhAravisheShaH (13) · Śloka 13
आहारञ्च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्|
यथायथं प्रमेहग़्नौषधनिर्यूहैः सुबहुशो यवान् भवयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लग़ून् भाक्ष्यानुपकल्पयेत्|
तद्वच्च गोधूमान्|
गवाश्वख़रजठर स्थितैश्च तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्ति क्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधा सवानुपानान्युपयुञ्जीत||१३||
सर्वश्च मेही यवविकारभूयिष्ठं माक्षिकामलकयुक्तं भोजनमाहारयेत् मेहेषु यथास्वौषधक्वाथभवितान् यवान् सक्त्वादिषु नानाप्रकारेषु च भक्ष्येषूपकल्पयेत्| गवादिजठरमध्युषितैर्यवैस्तद्विष्ठातश्च गृहीतैर्वंशयवैर्वा सक्त्वादीन् कल्पयेत्| यवो हीत्यादि सुबोधम्| तथा शाल्यादिकमप्युपयुञ्जीत| शूल्यादिकं जाङ्गलमांसविशेषणम्| प्रदिग्धमुपदेहसिद्धम्| भृष्टचणकाद्युपदंशो येषामासवानुपानानाम्|| १३||

यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भवयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत्|
तद्वच्च गोधूमान्|
गवाश्वखरजठर स्थितैश्च तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्ति क्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधा सवानुपानान्युपयुञ्जीत||१३||

Adhikarana lodhrAsavaH (14) · Śloka 14
लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातक्रमुकच विकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतरचित्र कपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लव नख़मरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणग़ृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयम् लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौ ल्यारोचककृमिपाण्डुशोफर्शोग्रहणीदोषान्निहन्ति||१४||
लोध्रासवः सुबोध| क्रमुकः पट्टिकालोध्रः प्लवं परिपेलवम्| कलशो द्वादशाधिकानि पञ्च पलशतानि भवन्ति| तुर्यांशश्चतुर्थभागशेषः| तस्यार्धभागश्चतुष्षष्टिपलानि द्वौ प्रस्थौ भवतः||१४||
Adhikarana lodhrAsavaH (14) · Śloka 14
लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातक्रमुकच विकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतरचित्र कपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लव नखमरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयम् लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौ ल्यारोचककृमिपाण्डुशोफर्शोग्रहणीदोषान्निहन्ति||१४||

Adhikarana dashamUlAriShTaH (15) · Śloka 15
दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसधाय वैकैषिकागण्डीरगुडूचीनाम् पृथक्पञ्चविंशतिपलान् भागां स्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्युह मवतारयेत्|
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुड तुलाद्वयं गोमूत्राढकमयोरजोऽर्धाढकं मागाधिकाप्रस्थं कुटजार्जुनकुष्ठक्रिमिग़्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्|
एष दशमूलारिष्टः समानः पूर्वेण||१५||
दशमूलेत्यादिना दशमूलारिष्टः सुबोधः| शुष्कद्रव्याणां कुडवाद्यार्द्रात् द्रवाच्चार्धमिति स्मर्तव्यम्| श्रेयसी हस्तिपिप्पली| एकैषिका अम्बष्ठा| सैव मयूरशिख़ा| सैवबहुमूलिका|| १५||

तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुड तुलाद्वयं गोमूत्राढकमयोरजोऽर्धाढकं मागाधिकाप्रस्थं कुटजार्जुनकुष्ठक्रिमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्|
एष दशमूलारिष्टः समानः पूर्वेण||१५||
दशमूलेत्यादिना दशमूलारिष्टः सुबोधः| शुष्कद्रव्याणां कुडवाद्यार्द्रात् द्रवाच्चार्धमिति स्मर्तव्यम्| श्रेयसी हस्तिपिप्पली| एकैषिका अम्बष्ठा| सैव मयूरशिखा| सैवबहुमूलिका|| १५||
Adhikarana lohAriShTaH (16) · Śloka 16
असनादिद्रव्याणि पृथग्विंशतिपलान्यम्भसां ग़टाष्टकेन क्वाथयेत्|
चतुर्थस्थितञ्च परिस्रुतं सुशीतं गुडपलशत द्वयेन मध्वर्धाढकेन च पृथक्पलांशेन वत्सकादिना संयो ज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते ग़ृत कुम्भे आवाप्य यवपल्ले निधापयेत्|
तत्र च तनूनि ख़दिराङ्गारप्रतप्तानि तीक्ष्णलोहपत्राणि बहुशो निमज्ज्ये दालोहविलयनात्|
त्रींश्चतुरो वा मासानयं विधृतो लोहा रिष्टः पूर्वस्मादधिकगुणः|
सीधुमधुमाधवानपि च निग दान् पिबेत्||१६||
असनादिगणद्रव्याणि पृथग्विंशतिपलान्येकीकृत्य क्वाथयेत्| वत्सकादिगणद्रव्याणि पलांशानि चूर्णितानि दत्वा ग़टे पिप्पलीमूलेनान्तर्लिप्ते स्थापयेत्| सुबोधम्| निगदमदुष्टम्|| १६||
Adhikarana lohAriShTaH (16) · Śloka 16
असनादिद्रव्याणि पृथग्विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत्|
चतुर्थस्थितञ्च परिस्रुतं सुशीतं गुडपलशत द्वयेन मध्वर्धाढकेन च पृथक्पलांशेन वत्सकादिना संयो ज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृत कुम्भे आवाप्य यवपल्ले निधापयेत्|
तत्र च तनूनि खदिराङ्गारप्रतप्तानि तीक्ष्णलोहपत्राणि बहुशो निमज्ज्ये दालोहविलयनात्|

असनादिगणद्रव्याणि पृथग्विंशतिपलान्येकीकृत्य क्वाथयेत्| वत्सकादिगणद्रव्याणि पलांशानि चूर्णितानि दत्वा घटे पिप्पलीमूलेनान्तर्लिप्ते स्थापयेत्| सुबोधम्| निगदमदुष्टम्|| १६||
Adhikarana nivRuttamadye visheShaH (17) · Śloka 17
निवृत्तमद्यस्तु सारोदकं दर्भाम्भोमधुकपित्थतिन्दुकमरि चानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनु पानानि च तद्विधानि|
उष्ट्राश्वतरख़रपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्||१७||
निवृत्तमद्यो ब्राह्मणादिः सारोदकादिकं पिबेत्| सारोदकं ख़दिरादिसारोषितम्| रागान् षाडवांश्च सर्षपया संस्कृतान् सार्षपिकान्| पानकानि तद्विधानि सर्षपादितीक्ष्णद्रव्यसंस्कृतानि| अस्मै चामद्यपप्रमेहिन उष्ट्रादिपुरीषचूर्णानुविद्धमशनं दद्यात्|| १७||

उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्||१७||
निवृत्तमद्यो ब्राह्मणादिः सारोदकादिकं पिबेत्| सारोदकं खदिरादिसारोषितम्| रागान् षाडवांश्च सर्षपया संस्कृतान् सार्षपिकान्| पानकानि तद्विधानि सर्षपादितीक्ष्णद्रव्यसंस्कृतानि| अस्मै चामद्यपप्रमेहिन उष्ट्रादिपुरीषचूर्णानुविद्धमशनं दद्यात्|| १७||
Adhikarana mustAdicUrNam (18) · Śloka 18
मुस्तामृतागण्डीरद्विहरिद्रासारिवाद्विदर्भवर्षाभूत्रिकण्टकव्यो षफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पि ल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनाऽवलिह्यात्|
पिबेद्वा सुख़ोदकेन त्रिफलाम्भसा वा|
तेन मेहप्लीहहलीमक पाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीग़्रमुपशाम्यन्ति||१८||
मुस्तादिचूर्णं माक्षिकेण लिह्यान्मधुनाऽनुपानम्| रोहिषः प्लीहग़्नाख़्यस्तस्य पल्लवम्| श्यामा पिप्पली| कटकं मरिचम्| एरण्डस्यैव मूलम्| उष्णोदकेन वा त्रिफलाक्वथितजलेन वा मुस्तादिचूर्णं पिबेत्| तेनेति चूर्णेन|| १८||

पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा|
तेन मेहप्लीहहलीमक पाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति||१८||
मुस्तादिचूर्णं माक्षिकेण लिह्यान्मधुनाऽनुपानम्| रोहिषः प्लीहघ्नाख्यस्तस्य पल्लवम्| श्यामा पिप्पली| कटकं मरिचम्| एरण्डस्यैव मूलम्| उष्णोदकेन वा त्रिफलाक्वथितजलेन वा मुस्तादिचूर्णं पिबेत्| तेनेति चूर्णेन|| १८||
Adhikarana atisthaulyoktauShadhAnAmatideshena nirdeshaH (19) · Śloka 19
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शील येत्|
प्रवृद्धमेदसः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरोषधीभिः||१९||
सुबोधम्| प्रगाढो व्यायामो दृढम्| रूक्षाभिश्चौषधीभिरुद्वर्तनादिकम्|| १९||

द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्|

Adhikarana nirdhanasyopacAravisheShaH (20) · Śloka 20
अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्|
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तक फलमूलाहारो वा मृगैः सह वसेत्|
गोभिर्वा सह तन्मूत्र शकृद्दृत्तिः परिभ्रमेत्|
तडागानि वा ख़नेत्|
कृशं त्ववि रुद्धैर्बृंहयेत्||२०||
सधनत्वे दानेनाधर्मनाशनं निर्धनत्वे चासौख़्यान्मेदःप्रभृतीनां क्षयः| अतोऽधनश्छत्रपादरहितो मुनिवृत्तिश्च फलमूलतृणधान्याशनादिना शतं योजनानां यायात्| श्यामाकाद्याहारो मृगैः सहारण्ये वसेत्| गोभिर्वा सह वसेत्| तदिति गवां परामर्शः| अविरुद्धा ये बृंहणा अपि मेदःश्लेष्मवृद्धिं न कुर्वन्ति|| २०||

गोभिर्वा सह तन्मूत्रशकृद्द्वृत्तिः परिभ्रमेत्|
तडागानि वा खनेत्|
कृशं त्ववि रुद्धैर्बृंहयेत्||२०||
सधनत्वे दानेनाधर्मनाशनं निर्धनत्वे चासौख्यान्मेदःप्रभृतीनां क्षयः| अतोऽधनश्छत्रपादरहितो मुनिवृत्तिश्च फलमूलतृणधान्याशनादिना शतं योजनानां यायात्| श्यामाकाद्याहारो मृगैः सहारण्ये वसेत्| गोभिर्वा सह वसेत्| तदिति गवां परामर्शः| अविरुद्धा ये बृंहणा अपि मेदःश्लेष्मवृद्धिं न कुर्वन्ति|| २०||
Adhikarana piTakAnAM cikitsAkramaH (21) · Śloka 21
शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्|
पक्वाश्च व्रणवत्|
पुर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्त मूत्रं चोपदिशन्ति|
तीक्ष्णं च संशोधनं दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्यापृदेहत्वात्|
तैलं च व्रणरोपणार्थमे लादौ कुर्वीत|
आरग्वधादेः कषायमुद्वर्तने|
असनादेः परिषेचने वत्सकादेः पानभोजनेषु||२१||
शराविकाद्याः पिटकाः अपक्वा एकदेशशोफवदुपाचरेत्| पक्वास्तु व्रणप्रतिषेधचिकित्सया| तासां च पिटकानां प्राग्रूपदर्शनकाल एव वनस्पतिकषायं छागमूत्रं चोपदिशन्ति| पुष्पं विना फलिनो वनस्पतयः| उपदिशन्तीत्यनेनाचार्योऽनादरेणागमं प्रदर्शयति| अनादरकारणं च मूत्राणां तीक्ष्णत्वात् पाकहेतुत्वम्| हृदये तु इति पाठाः क्षीरिवृक्षाम्बुपानाय बस्तमूत्रं च शस्यते| तीक्ष्णं संशोधनं यन्निश्शेषं दोषान् शोधयति| तीक्ष्णसंशोधनहेतुर्मेहिनां दुर्विरेच्यत्वम्| तत्र हेतुर्मेदसातिव्याप्तदेहत्वम्| विरेकशब्दो वमनविरेचनयोर्वर्तते| सुबोधम्| एलादिर्गणः| उद्वर्तने कषायं ग़नं कुर्यात्|| २१||

शराविकाद्याः पिटकाः अपक्वा एकदेशशोफवदुपाचरेत्| पक्वास्तु व्रणप्रतिषेधचिकित्सया| तासां च पिटकानां प्राग्रूपदर्शनकाल एव वनस्पतिकषायं छागमूत्रं चोपदिशन्ति| पुष्पं विना फलिनो वनस्पतयः| उपदिशन्तीत्यनेनाचार्योऽनादरेणागमं प्रदर्शयति| अनादरकारणं च मूत्राणां तीक्ष्णत्वात् पाकहेतुत्वम्| हृदये तु इति पाठाः क्षीरिवृक्षाम्बुपानाय बस्तमूत्रं च शस्यते| तीक्ष्णं संशोधनं यन्निश्शेषं दोषान् शोधयति| तीक्ष्णसंशोधनहेतुर्मेहिनां दुर्विरेच्यत्वम्| तत्र हेतुर्मेदसातिव्याप्तदेहत्वम्| विरेकशब्दो वमनविरेचनयोर्वर्तते| सुबोधम्| एलादिर्गणः| उद्वर्तने कषायं घनं कुर्यात्|| २१||
Adhikarana piTakAnAshanAH yogAH (22) · Śloka 22
पाठाचित्रकशार्ङ्गेष्टाक्षुद्रबृहतीशारिवासोमवल्कसप्त पर्णारग्वदकुटजमूलचूर्णं मधुना लिह्यान्नवायसं वा|
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत्|
तं यथाबलमवलिह्यात्|
यथा स्वञ्च प्रमेहग़्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति||२२||
पाठादिकं मधुना लिह्यात् नवायसं वा पाण्डुरोगे वक्ष्यमाणं मधुना लिह्यात्| असनादिकषायः प्रियङ्ग्वादिगणचुर्णयुक्तो लेहपाकः| यथाबलत्वेनानियतमात्र उपयोगः प्रदर्शितः| शिलाजस्य तुला स्वैः स्वैः प्रमेहौषधक्वाथैर्भाविता सत्युपयुक्ता सर्वमेहान् पिटकांश्चापकर्षति|| २२||

यथा स्वञ्च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति||२२||

Adhikarana (23) · Śloka 23
भवति चात्र- मागधीमधुकं लोध्रं कुष्ठमेलाहरेणवः|
समङ्गा धातकीपुष्पं शारिवा रजनीद्वयम्|
प्रियङ्ग्वः सर्जरसः पद्मकं पद्मकेसरम्|
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्|
तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च|
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्||२३||
भवति चात्रेति गतानुगतिका| मागधिकादिभिः स्नेहपाकेन सिद्धं तैलं दुष्टारूंषिकादीनां शोधनं रोपणञ्च| अरूंषिकाः सन्धिषु दीर्ग़मूलाः| पिटकाः शराविकाद्याः| गण्डानि नानाविधानि| गण्डमाला ग्रन्थ्यादिविज्ञाने वक्ष्यते|| २३||

भवति चात्रेति गतानुगतिका| मागधिकादिभिः स्नेहपाकेन सिद्धं तैलं दुष्टारूंषिकादीनां शोधनं रोपणञ्च| अरूंषिकाः सन्धिषु दीर्घमूलाः| पिटकाः शराविकाद्याः| गण्डानि नानाविधानि| गण्डमाला ग्रन्थ्यादिविज्ञाने वक्ष्यते|| २३||
Adhikarana piTakAnAM shIGracikitsyatvam (24) · Śloka 24
पिटकाः साधयेच्छीग़्रं ता ह्यसून् ग़्नन्ति मेहिनः|
अनु शेषानपि भिषग्यथाबलमुपद्रवान्||२४||
प्रमेहिणां पिटका अविपाकादथश्चोपद्रवा यदा भवन्ति तदा भिषग्वैद्यः शीग़्रपिटकाः साधयेत् चिकित्सेत्| हिशब्दो यस्मादर्थे|| यस्मात्ताः पिटकाः मोहिनोऽसून् ग़्नन्ति| अनु पश्चात्तासु पिटकासु सिद्धासु यथाबलमुपद्रवान् साधयेत्|| यथाबलमिति बलानतिक्रमेण| य एवोपद्रवो बलवान् स एवादौ साध्य इत्यर्थः||२४||

पिटकाः साधयेच्छीघ्रं ता ह्यसून् घ्नन्ति मेहिनः|
अनु शेषानपि भिषग्यथाबलमुपद्रवान्||२४||
प्रमेहिणां पिटका अविपाकादथश्चोपद्रवा यदा भवन्ति तदा भिषग्वैद्यः शीघ्रपिटकाः साधयेत् चिकित्सेत्| हिशब्दो यस्मादर्थे|| यस्मात्ताः पिटकाः मोहिनोऽसून् घ्नन्ति| अनु पश्चात्तासु पिटकासु सिद्धासु यथाबलमुपद्रवान् साधयेत्|| यथाबलमिति बलानतिक्रमेण| य एवोपद्रवो बलवान् स एवादौ साध्य इत्यर्थः||२४||
Adhikarana pramehasya dAruNatve hetavaH (25-14) · Śloka 14
सर्वजत्वान्महामर्मसंश्रयादनुषङ्गतः|
सुबहूपद्रवत्वाच्च प्रमेहो दारुणो गदः||२५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने प्रमेह चिकित्सितन्नाम चतुर्दशोऽध्यायः||१४||
प्रमेहनामा च व्याधिः| सर्वव्याधिभ्यो दारुणः| कथमित्याह| सर्वजत्वादिति हेतुचतुष्टयम्| सर्वो हि प्रमेहः सर्वदोषजो भवति बस्त्याख़्यमहामर्मसमाश्रयश्च| स्वभावादेव च दीर्ग़कालानुषङ्गवान् भवति बहूपद्रवश्च| तस्मात्तं यत्नेन साधयेदिति|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां चिकित्सितस्थाने चतुर्दशोऽध्यायः

प्रमेहनामा च व्याधिः| सर्वव्याधिभ्यो दारुणः| कथमित्याह| सर्वजत्वादिति हेतुचतुष्टयम्| सर्वो हि प्रमेहः सर्वदोषजो भवति बस्त्याख्यमहामर्मसमाश्रयश्च| स्वभावादेव च दीर्घकालानुषङ्गवान् भवति बहूपद्रवश्च| तस्मात्तं यत्नेन साधयेदिति|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां चिकित्सितस्थाने चतुर्दशोऽध्यायः
Adhikarana atha pramehacikitsitannAma caturdasho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1

Adhikarana kaphameheShu visheShaH (7) · Śloka 7
विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समा क्षिकं कषायम्|
तगरविडङ्गद्विहरिद्राणां वा|
चन्दना गरुकुष्ठदेवदारूणां वा|
पाठाग्निमन्थचविकात्रिफलानां वा|७|
विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समा क्षिकं कषायम्|
तगरविडङ्गद्विहरिद्राणां वा|
चन्दना गरुकुष्ठदेवदारूणां वा|
पाठाग्निमन्थचविकात्रिफलानां वा|७|
००
Adhikarana pittameheShu (7) · Śloka 7
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्|
निम्बामृता मलकपटोलीनां वा|
शीरीषसर्जार्जुनकेसराणां वा|
फलिनी कमलोत्पलकींशुकानां वा|
कुटजोत्पलकट ङ्गटेरीनां वा||७||
कट्फलादिकषायं सक्षौद्रं विशेषतः कफे| सर्वत्र सर्वस्य पथ्यत्वाद्विशेषग्रहणम्| तगरादीनां वा क्वाथः समाक्षिकः| सुबोधम्| सर्वकषायेषु माक्षिकप्रयोगः पित्तप्रमेहेषु लोध्रनिम्बशिरीषफलिनीकुटजादयः पञ्चकषायाः|| ७||
Adhikarana pittameheShu (7) · Śloka 7
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम्|
निम्बामृता मलकपटोलीनां वा|
शीरीषसर्जार्जुनकेसराणां वा|
फलिनी कमलोत्पलकींशुकानां वा|
कुटजोत्पलकट ङ्गटेरीनां वा||७||
कट्फलादिकषायं सक्षौद्रं विशेषतः कफे| सर्वत्र सर्वस्य पथ्यत्वाद्विशेषग्रहणम्| तगरादीनां वा क्वाथः समाक्षिकः| सुबोधम्| सर्वकषायेषु माक्षिकप्रयोगः पित्तप्रमेहेषु लोध्रनिम्बशिरीषफलिनीकुटजादयः पञ्चकषायाः|| ७||
Adhikarana tatrApi bhedAnusAraM visheShaH (8) · Śloka 8
तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दनयोश्चित्रकस्य पाठाजोङ्गकयोः ख़दिरस्य त्रिफलारग्वधयोश्च मधुयुतम्|
पिबेच्च सिकतामेहे हिङ्गु प्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा|
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्या कस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यख़र्जू राणां च मधुयुक्तम्|
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना||८||
तेष्वित्यनन्तरोक्तेषु कफपित्तप्रमेहेषु सामान्येनोक्तः| उदकमेहादिषु विशेषेणोच्यते| उदकमेहे पारिजातस्य कषायः इक्षुमेहे वैजयन्त्याः| वैजयन्त्यग्निमन्थः सान्द्रे सप्तच्छादस्य| सुरामेहे निम्बस्य| पिष्टे हरिद्रायाः शुक्रमेहे ककुभचन्दनयोः सिकतामेहे चित्रकस्य| शीतमेहे पाठाजोङ्गकयोः| शनैर्मेहे ख़दिरस्य| लालामेहे त्रिफलारग्वधयोरिति क्रमार्थः| सर्व एव कषाया माक्षिकयुक्ताः| सिकतामेहे हिङ्ग्वादीन्यपि मद्यादीनामन्यतमेन| क्षारमेहे त्रिफलायाः कषायः| कालमेहे असनादेः| नीलमेहे न्यग्रोधादेः| हारिद्रमेहे शाम्याकस्य| मञ्जिष्ठामेहे चन्दनमञ्जिष्ठयोः| शोणितमेहे शम्याकस्य गुदूच्यादीनाम्| शोणितमेहे मदयन्तीकल्कमपि सक्षौद्रं शीतोदकेन|| ८||
Adhikarana tatrApi bhedAnusAraM visheShaH (8) · Śloka 8
तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दनयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम्|
पिबेच्च सिकतामेहे हिङ्गु प्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा|
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्या कस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जू राणां च मधुयुक्तम्|
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना||८||
तेष्वित्यनन्तरोक्तेषु कफपित्तप्रमेहेषु सामान्येनोक्तः| उदकमेहादिषु विशेषेणोच्यते| उदकमेहे पारिजातस्य कषायः इक्षुमेहे वैजयन्त्याः| वैजयन्त्यग्निमन्थः सान्द्रे सप्तच्छादस्य| सुरामेहे निम्बस्य| पिष्टे हरिद्रायाः शुक्रमेहे ककुभचन्दनयोः सिकतामेहे चित्रकस्य| शीतमेहे पाठाजोङ्गकयोः| शनैर्मेहे खदिरस्य| लालामेहे त्रिफलारग्वधयोरिति क्रमार्थः| सर्व एव कषाया माक्षिकयुक्ताः| सिकतामेहे हिङ्ग्वादीन्यपि मद्यादीनामन्यतमेन| क्षारमेहे त्रिफलायाः कषायः| कालमेहे असनादेः| नीलमेहे न्यग्रोधादेः| हारिद्रमेहे शाम्याकस्य| मञ्जिष्ठामेहे चन्दनमञ्जिष्ठयोः| शोणितमेहे शम्याकस्य गुदूच्यादीनाम्| शोणितमेहे मदयन्तीकल्कमपि सक्षौद्रं शीतोदकेन|| ८||
Adhikarana vAtajeShu kaShAyanirdreshaH (9) · Śloka 9
वातजेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत्कषायम्|
तत्र वसामेहेऽग्निमन्थस्य|
मज्जमेहेऽमृताचित्रकयोः कुष्ठ-कुटजपाठाकटुरोहिणीकल्कमिश्रम्|
हस्तिमेहे हस्तिसूकरख़रोष्ट्रास्थिक्षारम्|
मधुमेहे कदरख़दिर पुरकषायम्||९||
वातप्रमेहेषु कफपित्तोल्बणेषु चासाध्यत्वेऽपि यापनार्थं कषायं पिबेदेव| सुबोधम्| हस्त्याद्यस्थिक्षारं कुटजादिकल्कमिश्रितम्| मधुमेहे कदरादिकषायम्|| ९||
Adhikarana vAtajeShu kaShAyanirdreshaH (9) · Śloka 9
वातजेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत्कषायम्|
तत्र वसामेहेऽग्निमन्थस्य|
मज्जमेहेऽमृताचित्रकयोः कुष्ठ-कुटजपाठाकटुरोहिणीकल्कमिश्रम्|
हस्तिमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम्|
मधुमेहे कदरखदिर पुरकषायम्||९||
वातप्रमेहेषु कफपित्तोल्बणेषु चासाध्यत्वेऽपि यापनार्थं कषायं पिबेदेव| सुबोधम्| हस्त्याद्यस्थिक्षारं कुटजादिकल्कमिश्रितम्| मधुमेहे कदरादिकषायम्|| ९||
Adhikarana vAtajeshu snehaprayogavikalpanA (10) · Śloka 10
कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि|
पित्तानुगतेषु च ग़ृतानि यमकं वा प्रयुञ्जीत||१०||
एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः| तथा कषायसंपृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति| वसामेहादीनां चतुर्णां वातोद्भवानां कफानुगतत्वे सति स्वैः स्वैः कशायौषधैः सिद्धानि तैलानि शस्यन्ते| पित्तानुगतत्वे तैरेव ग़ृतानि| यमकं वा प्रकृतत्वात् ग़ृततैलाभ्याम्| एतेन कषायौषधस्नेहसाधनेन शेषेष्वपि कफमेहेषु च कषायौषधैः स्नेहविकल्प उक्त इति वेदितव्यः| तथा प्रमेहिणे कषायेण सह प्रयुक्तैः सह कफादीनामनिलस्य चोपशमो भवति| कषायशब्दः क्वाथादिकल्पनावाचकः|| १०||
Adhikarana vAtajeshu snehaprayogavikalpanA (10) · Śloka 10
कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि|
पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत||१०||
एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः| तथा कषायसंपृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति| वसामेहादीनां चतुर्णां वातोद्भवानां कफानुगतत्वे सति स्वैः स्वैः कशायौषधैः सिद्धानि तैलानि शस्यन्ते| पित्तानुगतत्वे तैरेव घृतानि| यमकं वा प्रकृतत्वात् घृततैलाभ्याम्| एतेन कषायौषधस्नेहसाधनेन शेषेष्वपि कफमेहेषु च कषायौषधैः स्नेहविकल्प उक्त इति वेदितव्यः| तथा प्रमेहिणे कषायेण सह प्रयुक्तैः सह कफादीनामनिलस्य चोपशमो भवति| कषायशब्दः क्वाथादिकल्पनावाचकः|| १०||
Adhikarana trikaNTakAdisnehaH sarvamehaghnaH (11) · Śloka 11
त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दग़ननिशा जमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्द नागरुभिश्च स्नेहो विपक्वः सर्वमेहग़्नः||११||
त्रिकण्टकादिभिः स्नेहाच्चतुर्थांशैर्जलेन च स्नेहसमेन स्नेहो विपक्वः सर्वमेहग़्नः| सामान्योक्तं कपानुगतत्वे तैलं पित्तानुगत्वे ग़ृतं मिश्रको वेति वेदितव्यम्|| ११||
Adhikarana trikaNTakAdisnehaH sarvamehaghnaH (11) · Śloka 11
त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशा जमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्द नागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः||११||
त्रिकण्टकादिभिः स्नेहाच्चतुर्थांशैर्जलेन च स्नेहसमेन स्नेहो विपक्वः सर्वमेहघ्नः| सामान्योक्तं कपानुगतत्वे तैलं पित्तानुगत्वे घृतं मिश्रको वेति वेदितव्यम्|| ११||
Adhikarana dhAnvantaraM ghRutam (12) · Śloka 12
दशमूलहरीतकीदेवदारुष्करञ्जद्वयद्विवर्षाभूदन्तीभक दम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमू लपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोल कुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत्|
तेन वचाविडङ्गकम्पिल्लकभल्ला तकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्व भेषजप्रतीवापं ग़ृतप्रस्थं विपचेत्|
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहज ठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मा रहरम्||१२||
दशमूलेत्यादिना धान्वन्तरं सर्पिः| दशमूलानां संयुक्तानां दशपलम्| दशमूलस्यैकत्वात् प्रत्येकमित्युक्तम्| करञ्जद्वयं कृष्णश्वेतभेदेन| वर्षाभ्वौ पुनर्नवे| भूकदम्बको यवानी कौण्डिन्यकश्च| यवादीनां मिश्रीभूतानां प्रस्थत्रयम्| प्रत्येकं तु षोडशपलं शुष्कद्रव्यत्वात् प्रस्थः| सर्वस्मादेकीकृतादष्टगुणादम्भसः पादशेषं क्वाथं गृह्णीयात्| वचादीनि गर्भे| कम्पिल्लको रञ्जनको रेवको रक्तचूर्णकः| रोहिषः प्लीहापहः|| १२||
Adhikarana dhAnvantaraM ghRutam (12) · Śloka 12
दशमूलहरीतकीदेवदारुष्करञ्जद्वयद्विवर्षाभूदन्तीभक दम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमू लपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोल कुलत्थप्रस्थत्रयं चाष्टगुणेऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत्|
तेन वचाविडङ्गकम्पिल्लकभल्ला तकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्व भेषजप्रतीवापं घृतप्रस्थं विपचेत्|
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहज ठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मा रहरम्||१२||
दशमूलेत्यादिना धान्वन्तरं सर्पिः| दशमूलानां संयुक्तानां दशपलम्| दशमूलस्यैकत्वात् प्रत्येकमित्युक्तम्| करञ्जद्वयं कृष्णश्वेतभेदेन| वर्षाभ्वौ पुनर्नवे| भूकदम्बको यवानी कौण्डिन्यकश्च| यवादीनां मिश्रीभूतानां प्रस्थत्रयम्| प्रत्येकं तु षोडशपलं शुष्कद्रव्यत्वात् प्रस्थः| सर्वस्मादेकीकृतादष्टगुणादम्भसः पादशेषं क्वाथं गृह्णीयात्| वचादीनि गर्भे| कम्पिल्लको रञ्जनको रेवको रक्तचूर्णकः| रोहिषः प्लीहापहः|| १२||
Adhikarana AhAravisheShaH (13) · Śloka 13
आहारञ्च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्|
यथायथं प्रमेहग़्नौषधनिर्यूहैः सुबहुशो यवान् भवयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लग़ून् भाक्ष्यानुपकल्पयेत्|
तद्वच्च गोधूमान्|
गवाश्वख़रजठर स्थितैश्च तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्ति क्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधा सवानुपानान्युपयुञ्जीत||१३||
सर्वश्च मेही यवविकारभूयिष्ठं माक्षिकामलकयुक्तं भोजनमाहारयेत् मेहेषु यथास्वौषधक्वाथभवितान् यवान् सक्त्वादिषु नानाप्रकारेषु च भक्ष्येषूपकल्पयेत्| गवादिजठरमध्युषितैर्यवैस्तद्विष्ठातश्च गृहीतैर्वंशयवैर्वा सक्त्वादीन् कल्पयेत्| यवो हीत्यादि सुबोधम्| तथा शाल्यादिकमप्युपयुञ्जीत| शूल्यादिकं जाङ्गलमांसविशेषणम्| प्रदिग्धमुपदेहसिद्धम्| भृष्टचणकाद्युपदंशो येषामासवानुपानानाम्|| १३||
Adhikarana AhAravisheShaH (13) · Śloka 13
आहारञ्च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत्|
यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भवयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत्|
तद्वच्च गोधूमान्|
गवाश्वखरजठर स्थितैश्च तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्ति क्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधा सवानुपानान्युपयुञ्जीत||१३||
सर्वश्च मेही यवविकारभूयिष्ठं माक्षिकामलकयुक्तं भोजनमाहारयेत् मेहेषु यथास्वौषधक्वाथभवितान् यवान् सक्त्वादिषु नानाप्रकारेषु च भक्ष्येषूपकल्पयेत्| गवादिजठरमध्युषितैर्यवैस्तद्विष्ठातश्च गृहीतैर्वंशयवैर्वा सक्त्वादीन् कल्पयेत्| यवो हीत्यादि सुबोधम्| तथा शाल्यादिकमप्युपयुञ्जीत| शूल्यादिकं जाङ्गलमांसविशेषणम्| प्रदिग्धमुपदेहसिद्धम्| भृष्टचणकाद्युपदंशो येषामासवानुपानानाम्|| १३||
Adhikarana lodhrAsavaH (14) · Śloka 14
लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातक्रमुकच विकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतरचित्र कपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लव नख़मरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणग़ृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयम् लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौ ल्यारोचककृमिपाण्डुशोफर्शोग्रहणीदोषान्निहन्ति||१४||
लोध्रासवः सुबोध| क्रमुकः पट्टिकालोध्रः प्लवं परिपेलवम्| कलशो द्वादशाधिकानि पञ्च पलशतानि भवन्ति| तुर्यांशश्चतुर्थभागशेषः| तस्यार्धभागश्चतुष्षष्टिपलानि द्वौ प्रस्थौ भवतः||१४||
Adhikarana lodhrAsavaH (14) · Śloka 14
लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातक्रमुकच विकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतरचित्र कपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लव नखमरिचानि कर्षांशान्यपां कलशेऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थेऽर्धभागेन मधु निधाय पक्षमुपेक्षितोऽयम् लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौ ल्यारोचककृमिपाण्डुशोफर्शोग्रहणीदोषान्निहन्ति||१४||
लोध्रासवः सुबोध| क्रमुकः पट्टिकालोध्रः प्लवं परिपेलवम्| कलशो द्वादशाधिकानि पञ्च पलशतानि भवन्ति| तुर्यांशश्चतुर्थभागशेषः| तस्यार्धभागश्चतुष्षष्टिपलानि द्वौ प्रस्थौ भवतः||१४||
Adhikarana dashamUlAriShTaH (15) · Śloka 15
दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसधाय वैकैषिकागण्डीरगुडूचीनाम् पृथक्पञ्चविंशतिपलान् भागां स्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्युह मवतारयेत्|
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुड तुलाद्वयं गोमूत्राढकमयोरजोऽर्धाढकं मागाधिकाप्रस्थं कुटजार्जुनकुष्ठक्रिमिग़्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्|
एष दशमूलारिष्टः समानः पूर्वेण||१५||
दशमूलेत्यादिना दशमूलारिष्टः सुबोधः| शुष्कद्रव्याणां कुडवाद्यार्द्रात् द्रवाच्चार्धमिति स्मर्तव्यम्| श्रेयसी हस्तिपिप्पली| एकैषिका अम्बष्ठा| सैव मयूरशिख़ा| सैवबहुमूलिका|| १५||
Adhikarana dashamUlAriShTaH (15) · Śloka 15
दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसधाय वैकैषिकागण्डीरगुडूचीनाम् पृथक्पञ्चविंशतिपलान् भागां स्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्युह मवतारयेत्|
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुड तुलाद्वयं गोमूत्राढकमयोरजोऽर्धाढकं मागाधिकाप्रस्थं कुटजार्जुनकुष्ठक्रिमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत्|
एष दशमूलारिष्टः समानः पूर्वेण||१५||
दशमूलेत्यादिना दशमूलारिष्टः सुबोधः| शुष्कद्रव्याणां कुडवाद्यार्द्रात् द्रवाच्चार्धमिति स्मर्तव्यम्| श्रेयसी हस्तिपिप्पली| एकैषिका अम्बष्ठा| सैव मयूरशिखा| सैवबहुमूलिका|| १५||
Adhikarana lohAriShTaH (16) · Śloka 16
असनादिद्रव्याणि पृथग्विंशतिपलान्यम्भसां ग़टाष्टकेन क्वाथयेत्|
चतुर्थस्थितञ्च परिस्रुतं सुशीतं गुडपलशत द्वयेन मध्वर्धाढकेन च पृथक्पलांशेन वत्सकादिना संयो ज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते ग़ृत कुम्भे आवाप्य यवपल्ले निधापयेत्|
तत्र च तनूनि ख़दिराङ्गारप्रतप्तानि तीक्ष्णलोहपत्राणि बहुशो निमज्ज्ये दालोहविलयनात्|
त्रींश्चतुरो वा मासानयं विधृतो लोहा रिष्टः पूर्वस्मादधिकगुणः|
सीधुमधुमाधवानपि च निग दान् पिबेत्||१६||
असनादिगणद्रव्याणि पृथग्विंशतिपलान्येकीकृत्य क्वाथयेत्| वत्सकादिगणद्रव्याणि पलांशानि चूर्णितानि दत्वा ग़टे पिप्पलीमूलेनान्तर्लिप्ते स्थापयेत्| सुबोधम्| निगदमदुष्टम्|| १६||
Adhikarana lohAriShTaH (16) · Śloka 16
असनादिद्रव्याणि पृथग्विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत्|
चतुर्थस्थितञ्च परिस्रुतं सुशीतं गुडपलशत द्वयेन मध्वर्धाढकेन च पृथक्पलांशेन वत्सकादिना संयो ज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृत कुम्भे आवाप्य यवपल्ले निधापयेत्|
तत्र च तनूनि खदिराङ्गारप्रतप्तानि तीक्ष्णलोहपत्राणि बहुशो निमज्ज्ये दालोहविलयनात्|
त्रींश्चतुरो वा मासानयं विधृतो लोहा रिष्टः पूर्वस्मादधिकगुणः|
सीधुमधुमाधवानपि च निग दान् पिबेत्||१६||
असनादिगणद्रव्याणि पृथग्विंशतिपलान्येकीकृत्य क्वाथयेत्| वत्सकादिगणद्रव्याणि पलांशानि चूर्णितानि दत्वा घटे पिप्पलीमूलेनान्तर्लिप्ते स्थापयेत्| सुबोधम्| निगदमदुष्टम्|| १६||
Adhikarana nivRuttamadye visheShaH (17) · Śloka 17
निवृत्तमद्यस्तु सारोदकं दर्भाम्भोमधुकपित्थतिन्दुकमरि चानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनु पानानि च तद्विधानि|
उष्ट्राश्वतरख़रपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्||१७||
निवृत्तमद्यो ब्राह्मणादिः सारोदकादिकं पिबेत्| सारोदकं ख़दिरादिसारोषितम्| रागान् षाडवांश्च सर्षपया संस्कृतान् सार्षपिकान्| पानकानि तद्विधानि सर्षपादितीक्ष्णद्रव्यसंस्कृतानि| अस्मै चामद्यपप्रमेहिन उष्ट्रादिपुरीषचूर्णानुविद्धमशनं दद्यात्|| १७||
Adhikarana nivRuttamadye visheShaH (17) · Śloka 17
निवृत्तमद्यस्तु सारोदकं दर्भाम्भोमधुकपित्थतिन्दुकमरि चानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनु पानानि च तद्विधानि|
उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम्||१७||
निवृत्तमद्यो ब्राह्मणादिः सारोदकादिकं पिबेत्| सारोदकं खदिरादिसारोषितम्| रागान् षाडवांश्च सर्षपया संस्कृतान् सार्षपिकान्| पानकानि तद्विधानि सर्षपादितीक्ष्णद्रव्यसंस्कृतानि| अस्मै चामद्यपप्रमेहिन उष्ट्रादिपुरीषचूर्णानुविद्धमशनं दद्यात्|| १७||
Adhikarana mustAdicUrNam (18) · Śloka 18
मुस्तामृतागण्डीरद्विहरिद्रासारिवाद्विदर्भवर्षाभूत्रिकण्टकव्यो षफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पि ल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनाऽवलिह्यात्|
पिबेद्वा सुख़ोदकेन त्रिफलाम्भसा वा|
तेन मेहप्लीहहलीमक पाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीग़्रमुपशाम्यन्ति||१८||
मुस्तादिचूर्णं माक्षिकेण लिह्यान्मधुनाऽनुपानम्| रोहिषः प्लीहग़्नाख़्यस्तस्य पल्लवम्| श्यामा पिप्पली| कटकं मरिचम्| एरण्डस्यैव मूलम्| उष्णोदकेन वा त्रिफलाक्वथितजलेन वा मुस्तादिचूर्णं पिबेत्| तेनेति चूर्णेन|| १८||
Adhikarana mustAdicUrNam (18) · Śloka 18
मुस्तामृतागण्डीरद्विहरिद्रासारिवाद्विदर्भवर्षाभूत्रिकण्टकव्यो षफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पि ल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनाऽवलिह्यात्|
पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा|
तेन मेहप्लीहहलीमक पाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति||१८||
मुस्तादिचूर्णं माक्षिकेण लिह्यान्मधुनाऽनुपानम्| रोहिषः प्लीहघ्नाख्यस्तस्य पल्लवम्| श्यामा पिप्पली| कटकं मरिचम्| एरण्डस्यैव मूलम्| उष्णोदकेन वा त्रिफलाक्वथितजलेन वा मुस्तादिचूर्णं पिबेत्| तेनेति चूर्णेन|| १८||
Adhikarana atisthaulyoktauShadhAnAmatideshena nirdeshaH (19) · Śloka 19
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शील येत्|
प्रवृद्धमेदसः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरोषधीभिः||१९||
सुबोधम्| प्रगाढो व्यायामो दृढम्| रूक्षाभिश्चौषधीभिरुद्वर्तनादिकम्|| १९||
Adhikarana atisthaulyoktauShadhAnAmatideshena nirdeshaH (19) · Śloka 19
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत्|
प्रवृद्धमेदसः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरोषधीभिः||१९||
सुबोधम्| प्रगाढो व्यायामो दृढम्| रूक्षाभिश्चौषधीभिरुद्वर्तनादिकम्|| १९||
Adhikarana nirdhanasyopacAravisheShaH (20) · Śloka 20
अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्|
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तक फलमूलाहारो वा मृगैः सह वसेत्|
गोभिर्वा सह तन्मूत्र शकृद्दृत्तिः परिभ्रमेत्|
तडागानि वा ख़नेत्|
कृशं त्ववि रुद्धैर्बृंहयेत्||२०||
सधनत्वे दानेनाधर्मनाशनं निर्धनत्वे चासौख़्यान्मेदःप्रभृतीनां क्षयः| अतोऽधनश्छत्रपादरहितो मुनिवृत्तिश्च फलमूलतृणधान्याशनादिना शतं योजनानां यायात्| श्यामाकाद्याहारो मृगैः सहारण्ये वसेत्| गोभिर्वा सह वसेत्| तदिति गवां परामर्शः| अविरुद्धा ये बृंहणा अपि मेदःश्लेष्मवृद्धिं न कुर्वन्ति|| २०||
Adhikarana nirdhanasyopacAravisheShaH (20) · Śloka 20
अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत्|
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तक फलमूलाहारो वा मृगैः सह वसेत्|
गोभिर्वा सह तन्मूत्रशकृद्द्वृत्तिः परिभ्रमेत्|
तडागानि वा खनेत्|
कृशं त्ववि रुद्धैर्बृंहयेत्||२०||
सधनत्वे दानेनाधर्मनाशनं निर्धनत्वे चासौख्यान्मेदःप्रभृतीनां क्षयः| अतोऽधनश्छत्रपादरहितो मुनिवृत्तिश्च फलमूलतृणधान्याशनादिना शतं योजनानां यायात्| श्यामाकाद्याहारो मृगैः सहारण्ये वसेत्| गोभिर्वा सह वसेत्| तदिति गवां परामर्शः| अविरुद्धा ये बृंहणा अपि मेदःश्लेष्मवृद्धिं न कुर्वन्ति|| २०||
Adhikarana piTakAnAM cikitsAkramaH (21) · Śloka 21
शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्|
पक्वाश्च व्रणवत्|
पुर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्त मूत्रं चोपदिशन्ति|
तीक्ष्णं च संशोधनं दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्यापृदेहत्वात्|
तैलं च व्रणरोपणार्थमे लादौ कुर्वीत|
आरग्वधादेः कषायमुद्वर्तने|
असनादेः परिषेचने वत्सकादेः पानभोजनेषु||२१||
शराविकाद्याः पिटकाः अपक्वा एकदेशशोफवदुपाचरेत्| पक्वास्तु व्रणप्रतिषेधचिकित्सया| तासां च पिटकानां प्राग्रूपदर्शनकाल एव वनस्पतिकषायं छागमूत्रं चोपदिशन्ति| पुष्पं विना फलिनो वनस्पतयः| उपदिशन्तीत्यनेनाचार्योऽनादरेणागमं प्रदर्शयति| अनादरकारणं च मूत्राणां तीक्ष्णत्वात् पाकहेतुत्वम्| हृदये तु इति पाठाः क्षीरिवृक्षाम्बुपानाय बस्तमूत्रं च शस्यते| तीक्ष्णं संशोधनं यन्निश्शेषं दोषान् शोधयति| तीक्ष्णसंशोधनहेतुर्मेहिनां दुर्विरेच्यत्वम्| तत्र हेतुर्मेदसातिव्याप्तदेहत्वम्| विरेकशब्दो वमनविरेचनयोर्वर्तते| सुबोधम्| एलादिर्गणः| उद्वर्तने कषायं ग़नं कुर्यात्|| २१||
Adhikarana piTakAnAM cikitsAkramaH (21) · Śloka 21
शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत्|
पक्वाश्च व्रणवत्|
पुर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्त मूत्रं चोपदिशन्ति|
तीक्ष्णं च संशोधनं दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्यापृदेहत्वात्|
तैलं च व्रणरोपणार्थमे लादौ कुर्वीत|
आरग्वधादेः कषायमुद्वर्तने|
असनादेः परिषेचने वत्सकादेः पानभोजनेषु||२१||
शराविकाद्याः पिटकाः अपक्वा एकदेशशोफवदुपाचरेत्| पक्वास्तु व्रणप्रतिषेधचिकित्सया| तासां च पिटकानां प्राग्रूपदर्शनकाल एव वनस्पतिकषायं छागमूत्रं चोपदिशन्ति| पुष्पं विना फलिनो वनस्पतयः| उपदिशन्तीत्यनेनाचार्योऽनादरेणागमं प्रदर्शयति| अनादरकारणं च मूत्राणां तीक्ष्णत्वात् पाकहेतुत्वम्| हृदये तु इति पाठाः क्षीरिवृक्षाम्बुपानाय बस्तमूत्रं च शस्यते| तीक्ष्णं संशोधनं यन्निश्शेषं दोषान् शोधयति| तीक्ष्णसंशोधनहेतुर्मेहिनां दुर्विरेच्यत्वम्| तत्र हेतुर्मेदसातिव्याप्तदेहत्वम्| विरेकशब्दो वमनविरेचनयोर्वर्तते| सुबोधम्| एलादिर्गणः| उद्वर्तने कषायं घनं कुर्यात्|| २१||
Adhikarana piTakAnAshanAH yogAH (22) · Śloka 22
पाठाचित्रकशार्ङ्गेष्टाक्षुद्रबृहतीशारिवासोमवल्कसप्त पर्णारग्वदकुटजमूलचूर्णं मधुना लिह्यान्नवायसं वा|
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत्|
तं यथाबलमवलिह्यात्|
यथा स्वञ्च प्रमेहग़्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति||२२||
पाठादिकं मधुना लिह्यात् नवायसं वा पाण्डुरोगे वक्ष्यमाणं मधुना लिह्यात्| असनादिकषायः प्रियङ्ग्वादिगणचुर्णयुक्तो लेहपाकः| यथाबलत्वेनानियतमात्र उपयोगः प्रदर्शितः| शिलाजस्य तुला स्वैः स्वैः प्रमेहौषधक्वाथैर्भाविता सत्युपयुक्ता सर्वमेहान् पिटकांश्चापकर्षति|| २२||
Adhikarana piTakAnAshanAH yogAH (22) · Śloka 22
पाठाचित्रकशार्ङ्गेष्टाक्षुद्रबृहतीशारिवासोमवल्कसप्त पर्णारग्वदकुटजमूलचूर्णं मधुना लिह्यान्नवायसं वा|
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत्|
तं यथाबलमवलिह्यात्|
यथा स्वञ्च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति||२२||
पाठादिकं मधुना लिह्यात् नवायसं वा पाण्डुरोगे वक्ष्यमाणं मधुना लिह्यात्| असनादिकषायः प्रियङ्ग्वादिगणचुर्णयुक्तो लेहपाकः| यथाबलत्वेनानियतमात्र उपयोगः प्रदर्शितः| शिलाजस्य तुला स्वैः स्वैः प्रमेहौषधक्वाथैर्भाविता सत्युपयुक्ता सर्वमेहान् पिटकांश्चापकर्षति|| २२||
Adhikarana piTakanAshanAH yogAH (23) · Śloka 23
भवति चात्र- मागधीमधुकं लोध्रं कुष्ठमेलाहरेणवः|
समङ्गा धातकीपुष्पं शारिवा रजनीद्वयम्|
प्रियङ्ग्वः सर्जरसः पद्मकं पद्मकेसरम्|
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्|
तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च|
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्||२३||
भवति चात्रेति गतानुगतिका| मागधिकादिभिः स्नेहपाकेन सिद्धं तैलं दुष्टारूंषिकादीनां शोधनं रोपणञ्च| अरूंषिकाः सन्धिषु दीर्ग़मूलाः| पिटकाः शराविकाद्याः| गण्डानि नानाविधानि| गण्डमाला ग्रन्थ्यादिविज्ञाने वक्ष्यते|| २३||
Adhikarana piTakanAshanAH yogAH (23) · Śloka 23
भवति चात्र- मागधीमधुकं लोध्रं कुष्ठमेलाहरेणवः|
समङ्गा धातकीपुष्पं शारिवा रजनीद्वयम्|
प्रियङ्ग्वः सर्जरसः पद्मकं पद्मकेसरम्|
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम्|
तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च|
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान्||२३||
भवति चात्रेति गतानुगतिका| मागधिकादिभिः स्नेहपाकेन सिद्धं तैलं दुष्टारूंषिकादीनां शोधनं रोपणञ्च| अरूंषिकाः सन्धिषु दीर्घमूलाः| पिटकाः शराविकाद्याः| गण्डानि नानाविधानि| गण्डमाला ग्रन्थ्यादिविज्ञाने वक्ष्यते|| २३||
Adhikarana piTakAnAM shIghracikitsyatvam (24) · Śloka 24