Adhikarana atha visarpacikitsitannAma viMsho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1
अथातः विसर्पचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्शयः||१||
🔊 Audio coming soon
Adhikarana atha visarpacikitsitannAma viMsho~adhyAyaH | adhyAyapratij~jA (1) · Śloka 1
अथातः विसर्पचिकित्सितं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्शयः||१||
🔊 Audio coming soon
Adhikarana purvarUpeShvevopacArakramaH (2) · Śloka 2
पुर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षण मुल्लेखनं विरेचनञ्च कुर्यात्| न तु कदाचिदपि स्नेहनम्||२||
🔊 Audio coming soon
Adhikarana nirAme kShINakaphe upacArAH (3) · Śloka 3
निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पीषि तिक्त कत्रायमाणाघृतादीनि पाने दद्यात्| तत्र मदनेन्द्रयवपटोल पिचुमन्दमधुकेक्षुरसान् वमनेऽवचारयेत्| द्राक्षात्रिवृत्त्रि फलात्रायमाणा विरेचने| मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावं शार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टक पञ्चमूलानि च| निरामे क्षीणकफे च तिक्तकादीनि शीतवीर्याणि घृतानि क्वाथादिना दद्यात्| विसर्पे च यदा वमनं तदा मदना दिभिरेव| विरेचनं द्राक्षादिभिः||३||
🔊 Audio coming soon
Adhikarana pittavisarpe (4) · Śloka 4
पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटक कशेरुकशर्कराह्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्या प्रपौण्डरीकमधुपद्मघृतक्षीराणि न्यगोधादि च||४||
🔊 Audio coming soon
Adhikarana shleShmavisarpe (5) · Śloka 5
श्लेष्मण्यजगन्धाश्वगन्धासरलकालैकैषिकागरुचोच रास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादि च||५||
🔊 Audio coming soon
Adhikarana saMsargajavisarpe (6) · Śloka 6
संसर्गे यथादोषबलं विकल्पयेत्||६||
🔊 Audio coming soon
Adhikarana pralepAdivisheShaH (7) · Śloka 7
तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रक्षा विशीताः प्रलेपपरिषेकाः| पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः||७||
🔊 Audio coming soon
Adhikarana saMsargavisheSheShu karma (8) · Śloka 8
द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत्| विशेषेणाग्निविसर्पे महातिक्तकं पिबेत्| ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राघ्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत्| ततो वातश्लेष्महरं कर्म||८||
🔊 Audio coming soon
Adhikarana sashUleShu granthiShu (9) · Śloka 9
शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुप नाहनम्| वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः| लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचा वा| बिभीतकेन वा विजया क्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा||९||
🔊 Audio coming soon
Adhikarana granthibhedanam (10) · Śloka 10
दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थि भिरुष्णोर्लेपः शिलामपि भिनत्ति| दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत| मधुपिप्पलीर्Vवा| मुस्तासक्तु भल्लातकानि वा| शीधुमधुशर्करां वा| मातुलुङ्गरसा नुविद्धां मदिरां वा| गिरिजतु वा गुल्मभेदनं वा| तप्त लोहोपलादिपीडनं वा| जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च||१०||
🔊 Audio coming soon
Adhikarana kShArAdibhirdAraNam (11) · Śloka 11
तथाप्यभेदे क्षारेणाग्निना वा दहेत्| पाटयित्वा वा शस्त्रेण परिशोधयेत्| एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत्||११||
🔊 Audio coming soon
Adhikarana paryAgate visarpe (12) · Śloka 12
सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत्| तैलञ्च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत्||१२||
🔊 Audio coming soon
Adhikarana kardamavisarpe visheShaH (13) · Śloka 13
कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौ कोभिरसृगवसेचयेत्| असृक्प्रक्लेदाद्धि त्वङ्मांससि रास्नावसंक्लेदो भवति| पिबेच्च कषायघनपटोलपिचु मन्दानाम्| चन्दनोत्पलयोः| पटोलादिवर्गस्य वा| घृत मिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रि फलात्रायमाणानाम्| विरेकार्थञ्च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्मा म्भसा वा पाययेत्| त्रायमाणाशृतं पित्तोद्दृतौ क्षीरमिति||१३||
🔊 Audio coming soon
Adhikarana sAmAnyopadeshaH (14-20) · Śloka 20
भवति चात्र- श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः| यच्च नासावसंसृष्टो रक्तपित्तेन जायते| न घृतं बहुदोषाय देयं यन्न विरेचनम्| तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत्||१४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृताव ष्टाङ्गसंग्रहसंहितायां चिकित्सितस्थाने विसर्प चिकित्सितन्नाम विंशोऽध्यायः||२०||
🔊 Audio coming soon