Adhikarana atha bastikalpo nAma caturtho~adhyAyaH upodghAtaH · Śloka
🔊 Audio coming soon
शोधनक्रमेण बस्तेः कल्पनां प्रदर्शयितुमध्याय प्रारभ्यते _
Adhikarana atha bastikalpo nAma caturtho~adhyAyaH upodghAtaH · Śloka
🔊 Audio coming soon
शोधनक्रमेण बस्तेः कल्पनां प्रदर्शयितुमध्याय प्रारभ्यते _
Adhikarana pratij~jA (1) · Śloka 1
अथातो बस्तिकल्पं व्याख्यास्यामः| इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana bastikalpastasya mahattva~jca (2) · Śloka 2
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि| अष्टौ फलान्यर्धतुलां च मांसात् छागात् पचेदप्सु चतुर्थशेषम्| पूतो यवानीफलबिल्वकुष्ठ- वचाशताह्वाघनपिप्पलीनाम्| कल्कैर्गुडक्षौद्रघृतैः सतैलै- र्युक्तः सुखोष्णो लवणान्वितश्च| बस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च| बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र||२||
🔊 Audio coming soon
बलादीनां पाकात् क्वाथपरिकल्पना| द्विपञ्चमूलं पृथग्द्रव्यम्| यवान्यादिकं कल्कः कल्कादीनां माने सूत्रोक्तस्य स्मर्त्तव्यम्| सुबोधम्| बस्तीनां च सर्वेषामपठितकल्कानाममुमेव यवान्यादिकं कल्कं दद्यात्|| २||
Adhikarana vividhAH bastikalpAH sarvA~anilA~a~amayaghno nirUhaH (3) · Śloka 3
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः| त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वाऽनिलव्याधिहरः प्रदिष्टः||३||
🔊 Audio coming soon
द्विपञ्चमूलस्य पृथक्कथितस्य रसः क्वाथो निरूह इति सम्बन्धः| पेष्यं कल्कम्| पूर्वं यवान्यादि| त्रयः स्नेहाः दोषाद्यपेक्षं योज्याः||३||
Adhikarana dIpanAdiguNo bastiH (4) · Śloka 4
बलापटोलीलघुपञ्चमूल- त्रायन्तिकैरण्डयवात् सुसिद्धात्| प्रस्थो रसाच्छागरसाऽर्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्| प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च| स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः|४|
🔊 Audio coming soon
बलादिकात् सुसिद्धाद्रसात् प्रस्थो छागमांसरसस्याऽर्धप्रस्थयुक्तः साध्यो यावत् प्रस्थसमः| प्रस्थशब्देनात्र दार्वादिमयं परिच्छेदकमुच्यते| प्रियङ्ग्वादिकल्केन तथा तैलादियुक्तश्च| एष बस्तिर्दीपनादिगुणः स्यात्|| ४||
Adhikarana dIpanAdiguNo bastiH (4) · Śloka 4
बलापटोलीलघुपञ्चमूल- त्रायन्तिकैरण्डयवात् सुसिद्धात्| प्रस्थो रसाच्छागरसाऽर्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत्| प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च| स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः||४||
🔊 Audio coming soon
बलादिकात् सुसिद्धाद्रसात् प्रस्थो छागमांसरसस्याऽर्धप्रस्थयुक्तः साध्यो यावत् प्रस्थसमः| प्रस्थशब्देनात्र दार्वादिमयं परिच्छेदकमुच्यते| प्रियङ्ग्वादिकल्केन तथा तैलादियुक्तश्च| एष बस्तिर्दीपनादिगुणः स्यात्|| ४||
Adhikarana kaphavAtA~a~amayaghnAH bastayaH (5) · Śloka 5
एरण्डमूलात् त्रिपलं पलाशात् तथा पलांशं लघुपञ्चमूलम्| रास्नाबलाच्छिन्नरुहाऽश्वगन्धा- पुनर्नवाऽऽरग्वधदेवदारु| फलानि चाऽष्टौ सलिलाऽऽढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्| वचाशताह्वाहपुषाप्रियङ्गु- यष्टीकणावत्सकबीजमुस्तम्| दद्यात् सुपिष्टं सहतार्क्ष्यशैल- मक्षप्रमाणं लवणांशयुक्तम्| समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ| जङ्घोरुपादत्रिकपृष्ठकोष्ठ- हृद्गुह्यशूलं गुरुतां विबन्धम्| गुल्माऽश्मवर्ध्मग्रहणीगुदोत्थां- स्तांस्तांश्च रोगान् कफावातजातान्||५||
🔊 Audio coming soon
एरण्डमूलात् त्रिपलम्| पलाशात् तथेति| पलाशमूलात् त्रिपलमिति यावत्| लघुपञ्चमूलद्रव्याणां रास्नादेश्च प्रत्येकं पलानि| फलानि मदनफलान्यष्टौ| छिन्नरूहा गुडूची| आढकोऽष्टाविंशदधिकं शतं पलानाम्| ताभ्यां पचनम्| अस्मिन् क्वाथेऽष्टमशेषिते द्वात्रिंशत्पलशेषे| लवणचतुर्थाशयुक्तम्| पुनस्तस्य दोषाद्यपेक्षिणी मात्रा| जयेदिति जङ्घशूलादिकेन सम्बध्यते|| ५||
Adhikarana balyAdiguNo bastiH (5) · Śloka 2
चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः| रसः सपेष्यो बलवर्णमांसरेतोऽग्नितैमिर्यशिरोरुजीष्टः||२||
🔊 Audio coming soon
छागान्मांसाद्रसतः शतार्धं पञ्चाशत् पलानि| स रसो मिश्रीभूतस्य घृततैलस्य चतुष्पले भृष्टः| पक्वस्तथा सह पेष्यैर्यवान्यादिभिर्वर्त्तत इति सपेष्यो दध्याद्यम्लः| बलादिके बस्तिरिष्टः|| ५||
Adhikarana vAtaraktAdihito nirUhaH (6) · Śloka 6
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः| युक्तं ससर्पिमधुवातरक्त- विसर्पवैस्वर्यहितो निरूहः| यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च| सशर्कराक्षौद्रघृतं सुशीतं पित्ताऽऽमयान् हन्ति सजीवनीयम्|६|
🔊 Audio coming soon
मधुयष्टीसिद्धं क्षीरं शताह्वादिभिः सर्पिर्मध्वन्तैर्युक्तं वातरक्तादिहितो निरूहः| फलपिप्पल्यो मदनफलमज्जानो निरूहे प्रशस्ताः| सर्वत्र च पाके द्रव्याणि जलेन विना रसं न त्यजन्तीति स्मर्त्त-व्यम्| सुबोधम्|| ६||
Adhikarana gulmAdihito bastiH (7) · Śloka 6
गोपाङ्गनाचन्दनशीतपाकीद्राक्षर्धिकाश्मर्यमधूकसेव्यैः| पयः शृतं श्रावणिमुद्गपर्णीबलास्वगुप्तामधुयष्टिकल्कैः| गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोर्विदार्याश्च रसेन युक्तम्| तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः| बस्तिः प्रशस्तः ससमस्तदेहदाहे सशूलेऽवयवाऽश्रिते वा| गुल्माऽतिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसंक्षये च||६||
🔊 Audio coming soon
गोपाङ्गनेत्याद्यवयवाश्रिते वा दाहेऽपि शूलेऽपि| सङ्क्षयशब्द स्यौजोबलाभ्यां सम्बन्धः| गोपाङ्गना सारिवा| शीतापाकी चूडामणिः| (नि) 'चूडामणिः शीतपाकी शिखण्डी कृष्णला लता| कृष्णा काम्बोजिका गुञ्जा रक्तिका काकसाह्वया||' सेव्यमुशीरम्|| ७||
Adhikarana kaphAmayaghno nirUhaH (8) · Śloka 8
कोशातकाऽऽरग्वधदेवदारु- मूर्वाश्वदंष्ट्राकुटजार्कपाठाः| पक्त्वा कुलत्थान् बृहती च तोये रसस्य तस्य प्रसृता दश स्युः| तान् सर्षपैलामदनैः सकुष्ठै- रक्षप्रमाणैः प्रसृतैश्च युक्तान्| क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य| दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाऽशनविद्विषे च||८||
🔊 Audio coming soon
कोशातकादीनां बृहत्यन्तानां पञ्च पलानि| षोडशगुणे जले क्वाथयित्वा दशप्रसृतान् गृह्णियात्| प्रसृतो द्वे पले| क्षौद्रादीनां प्रत्येकम्| फलाह्वयस्येति तैलविशेषणम्| फलञ्च मदनफलम्| अक्षः कर्षः| अयं निरूहः कफरोगितादिकाय दद्यात्| अशनविद्विडरोचकी|| ८||
Adhikarana sarvasaMsargA~a~amayaghno nirUhaH (9) · Śloka 9
पुनर्नवैरण्डवृषाश्मभेद- वृश्चीवभूतीकबलापलाशान्| द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाऽष्टौ| बिल्वं यवाङ्कोलकुलत्थधान्य- फलानि च स्युः प्रसृतोन्मितानि| पयो जलद्वयढकसाधितं तत् क्षीराऽविष्टं शुचिवस्त्रपूतम्| वचाशताह्वाऽमरदारुकुष्ठ- यष्ट्याह्वसिद्धार्थकपिप्पलीनाम्| कल्कैर्यवान्या मदनैश्च युक्तं नाऽऽत्युष्णशीतं गुडसैन्धवाऽऽक्तम्| क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण| दद्यान्निरूहं विधिना विधिज्ञः स सर्वसंसर्गकृताऽऽमयघ्नः||९||
🔊 Audio coming soon
पुनर्नवादीनि धान्यफलान्तानि क्षीरस्य जलस्य च द्रव्याऽऽढकेन क्षीरावशिष्टं क्वाथयेत्| मदनान्तानि कल्कः| क्षौद्रतैलनवनीतानां प्रत्येकं पलद्वयम्| सुबोधम्| संसर्गो वृद्धाभ्यां दोषाभ्यां| तत्कृतान् सर्वानामयान् हन्ति|| ९||
Adhikarana ardhashlokasamApanA bastayaH (10) · Śloka 10
अर्धाऽर्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते| कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः| श्यामात्रिवृतयोर्मूलं तथ दन्तीद्रवन्तिजम्| प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनीफलम्| सप्तलाशङ्खिनीलोध्रं फलं कम्पिल्लकस्य च| स्वकल्कसैन्धवयुताः पक्वाशयविशोधनाः| धातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः| प्रग्रहः खदिरः कुष्ठंशमीपिण्डीतको यवाः| प्रियङ्गुरर्कमूली च तरुणी जातियुथिकाः| वटाद्याः किंशुकं लोध्रमिति संग्राहिका मताः| ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण च| ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः| मधुरक्वाथकल्केन सरसाज्येन बृंहणः||१०||
🔊 Audio coming soon
कोशातकीत्यादिभिरर्धश्लोकैर्विहिताद्बस्तीन् प्रवक्ष्यते| चित्रान् शोधनादिभेदेनाऽनेकप्रकारान्| यत्र चत्वारो बस्तयः स्वौषधकल्केन सैन्धवेन च युक्ताः पक्वाशयस्य विशोधनाः| धातक्यादिभिश्चत्वारः संग्राहिका मताः| एषु सामान्यकल्को यवान्यादिः| एषः प्रियङ्ग्वादिगणक्वाथेनाम्बष्ठादिगणकल्केन च ग्राही मतः| एष त्रिफलारस ऊषकादिगणप्रतीवापो लेखनः| एष च बृंहणो मधुरौषधानां क्वाथेन तेषामेव च कल्केन मांस रसेनाऽऽज्येन च युक्तः| जालिन्या विधाने कौशातक्येव द्वाभ्यां भेदाभ्यामुक्ता| प्रकीर्यः पूतिकरञ्जः| उदकीर्यः द्वितीयः करञ्जः| क्षीरिणी प्रसिद्धा| किंशुकः पलाशः|| १०||
Adhikarana picCilAH bastayaH (11) · Śloka 11
बदर्यैरावणीशेलुशाल्मलीधन्वनाऽङ्कुराः| समाक्षिकाः क्षीरयुताः सासृजः पिच्छिलाः स्मृताः||११||
🔊 Audio coming soon
बदर्यादीनां पृथक्-पृथगङ्कुराः माक्षिकादियुक्ताः पिच्छिलाः बस्तयः स्मृताः| गोधापद्यैरावणीश्यामाखट्वानामिका च| शेलुः श्लेष्मातकः|| ११||
Adhikarana dAhaghno bastiH (12) · Śloka 12
कोलङ्कतककाण्डेक्षुदर्भपोटेक्षुपालिभिः| दाहघ्नः सघृतक्षीरो द्वितीयश्चन्दनादिभिः||१२||
🔊 Audio coming soon
कोलङ्कतकादिभिः सघृतक्षीरो बस्तिर्दाहघ्नः| चन्दनादिभिर्द्वितीयोऽपि दाहघ्नः| कोलङ्कतको दर्भविशेषः| काण्डेक्षुरिक्षुः| इक्षुपालिका करम्भशालिनामा इक्षुः|| १२||
Adhikarana pravAhaNe hito bastiH (13) · Śloka 13
मुष्टिः शाल्मलीपत्राणां क्षीरसिद्धो घृतान्वितः| हितः प्रवाहणे तद्वद्रुन्तैः शाल्मलकस्य च||१३||
🔊 Audio coming soon
शाल्मलीपत्राणां करग्राह्यो मुष्टिः| क्षीरेण सिद्धो बस्तिः प्रवाहिकायां हितः| शाल्मलकस्य वृन्तैस्तद्वन्मुष्टिः क्षीरसिद्धो प्रवाहिकायां हित इत्यर्थः|| १३||
Adhikarana parikarttaharo bastiH (14) · Śloka 14
कर्बुदाराऽऽढकीनीपविदुलैः क्षीरसाधितैः| परिकर्त्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः||१४||
🔊 Audio coming soon
कर्बुदारादिभिः क्षीरसिद्धैर्बस्तिः परिकर्त्ते| श्रीपर्णिकोविदारजैर्वृन्तैः क्षीरसिद्धैस्तथा परिकर्त्ते हितः|| १४||
Adhikarana gudaparisrAve hito bastiH (15) · Śloka 15
परिस्रावे पयः सिद्धं सवृश्चीवपुनर्नवम्| आखुकर्णिकया तद्वत्तण्डुलीयकयुक्तया||१५||
🔊 Audio coming soon
वृश्चीवपुनर्नवाभ्यां सिद्धं क्षीरम्| बस्तिर्गुदपरिस्रावे हितः| वृश्चीवः क्षुद्रपुनर्नवः| आखुकर्णिकातण्डुलीयकाभ्यां तद्वत्| इति सिद्धं क्षीरं परिस्रवे हितम्|| १५||
Adhikarana shodhanA~atiyoge bastiH (16) · Śloka 16
अश्वावरोहकः काकनासाराजकशेरुकाः| सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः| न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिनाऽपरः||१६||
🔊 Audio coming soon
अश्वारोहकादयः क्षीरे सिद्धाः क्षौद्रादियुक्ताः शोधनक्रियाऽतियोगे बस्तयः स्युः| न्यग्रोधाद्यैश्चतुर्भिः न्यग्रोधपिप्पलसदाफललोध्रैस्तेनैव विधिना क्षीरसाधनेन क्षौद्रादियोगेन चाऽपरो बस्तिः शोधनाऽतियोगे| अश्वावरोहोऽश्वकर्णोऽश्वगन्धा च| राजकशेरूको मुस्तकः|| १६||
Adhikarana jIvAdAne bastyantaram (17) · Śloka 17
बृहतीक्षीरकाकोली पृश्निपर्णी शतावरी| काश्मर्यबदरीमूर्वास्तथोशीरप्रियङ्गवः| जीवादाने शृतौ क्षीरे द्वौ ग़ृताञ्जनसंयुतौ| बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ| गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैरपि| शशैणदक्षमार्जारमहिषाव्यजशोणितैः| सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||१७||
🔊 Audio coming soon
जीवादाने द्बौ बस्ती क्षीरे शृतौ घृताञ्जनसंयुतौ शीतौ माक्षिकशर्कराभ्यां युक्तौ देयौ| एको बृंहत्यादिभिर्द्वितीयः काश्मर्यादिभिः| गोऽव्यजादिक्षीरैर्जीवनीयगणयुक्तैरयमपि बस्तिर्जीवादाने इति योगाप्रवृत्तजीवरक्ते|| १७||
Adhikarana sukumArAdInAM hitAH bastayaH (18) · Śloka 18
अथेमान् सुकुमाराणां निरूहान् स्नेहानान् मृदून्| कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक्| क्षीराद् द्वौ प्रसृतौ कार्यौ मधुतैलघृतात् त्रयः| खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्||१८||
🔊 Audio coming soon
अथाऽनन्तरं क्षीराद् द्वावित्यादिना निरूहान् पृथग्वक्ष्यामि| तांश्च स्नेहनान् मृदूंश्च| केषामित्याह-सुकुमाराणाम्| कर्मणा विप्लुतानां च| कर्मणा विप्लुता अध्वादिक्रिययाऽनवस्थितदेहाः| प्रसृतैरिति| पासृतिकसंज्ञया लब्धैः| इति सर्वत्र बस्तिविधौ स्मर्त्तव्यम्| सुबोधम्| प्रसृतो द्वे पले|| १८||
Adhikarana vAtaghno bastiH (19) · Śloka 19
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्| बिल्वादिमूलक्वाथाद्द्बौ कौलत्थाद्द्वौ स वातजित्||१९||
🔊 Audio coming soon
तैलादिनां प्रत्येकं प्रसृतः| बिल्वादिपञ्चमूलस्य क्वाथाद् द्बौ प्रसृतावित्ययं द्वितीयो बस्तिर्वातजित्|| १९||
Adhikarana aBiShyandAdiharo bastiH (20) · Śloka 20
पटोलनिम्बपूतीकरास्नासप्तच्छदाऽम्भसः| प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्| सपञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा||२०||
🔊 Audio coming soon
पटोलादीनां क्वथितानामम्भसामेकं प्रसृतम्| घृताच्चैकं प्रसृतम्| इत्ययं बस्तिः सर्षपकल्केन पश्ञ्चभिश्च तिक्तैर्निम्ब गुडूचीVवृष-पटोलनिदिग्धिकाख्यैर्युक्तोऽभिष्यन्दादिहा|| २०||
Adhikarana kRumihA nirUhaH (21) · Śloka 21
विडङ्गत्रिफलाशिग्रुफलमुस्ताऽऽखुकर्णिजात्| कषायात्प्रसृताः पञ्च तैलादेको विमथ्य तान्| निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजितः||२१||
🔊 Audio coming soon
विडङ्गादीनां मिश्रितानां कषायात् पञ्च प्रसृताः| तैलादेकः प्रसृतः| इति तान् सर्वान् प्रसृतान् विमथ्य विडङ्गपिप्लीभ्यां कल्केन योजितो निरूहः कृमिहा भवति|| २१||
Adhikarana vRuShatvakRudbastiH (22) · Śloka 22
पयस्येक्षुस्थिरारास्नाबिदारीक्षौद्रसर्पिषाम्| एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्||२२||
🔊 Audio coming soon
पयस्यादीनां प्रत्येकं प्रसृतः| पिप्पलीचूर्णयुक्तो बस्तिर्बाजीकरणः|| २२||
Adhikarana viTsa~ggA~a~anAhabhedano bastiH (23) · Śloka 23
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्| प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः||२३||
🔊 Audio coming soon
तैलादीनां मिश्रितानां चत्वारः प्रसृताः| सर्षपकल्केन युक्तो बस्तिर्विट्सङ्गमानाहं च भिनत्ति| दधिमण्डो मस्तु|| २३||
Adhikarana sA~a~anAhe samUtrakRucchre bastiH (24) · Śloka 24
श्वदंष्ट्राश्मभिदेरण्डक्वाथतैलसुरासवात्| प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान्| बस्तिः कवोष्णः सानाहे मूत्रकृच्छ्रे वरो मतः||२४||
🔊 Audio coming soon
श्वदंष्ट्रादित्रयक्वाथस्य तैलादीनां च समानां सर्वेषां मिश्रितानां पञ्च प्रसृताः| चपलादीनां कल्केन युक्तो बस्तिः सानाहे मूत्रकृच्छ्रे वरः श्रेष्ठो मतः| चपला पिप्पली| कोष्ठनिर्हरणे मृदुबस्तिप्रक्रम इदमुच्यते|| २४||
Adhikarana mRudubastijaDIbhUte bastiH (25) · Śloka 25
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते| तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः||२५||
🔊 Audio coming soon
मृदुना बस्तिना जडीभूते अप्रवर्त्तमानदोषे देहे तत्कालमन्यस्तीक्ष्णो बस्तिरिष्यते| तीक्ष्णैश्च बस्तिभिर्विकर्षिते देहे स्निग्धमधुरादिगुणो बस्तिः| मृदुर्बस्तिर्यथा तीक्ष्णत्वं याति तीक्ष्णश्च यथामृदुत्वं तथोच्यते|| २५||
Adhikarana mRudutIkShNayoH parasparaM sambandhaH (26) · Śloka 26
तीक्ष्णत्वं मूत्रबिल्वाग्निलवणक्षारसर्षपैः| प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्||२६||
🔊 Audio coming soon
तीक्ष्णत्वमित्यादि| प्राप्तकालं तैक्ष्ण्यं मृदोर्मूत्रादिभिर्विधेयम्| तीक्ष्णस्य च प्राप्तकालमुपयोजिमार्दवं क्षीरादिभिर्मधुरैर्विधेयम्| न केवलं चैत एव बस्तयो यावदिदमपि बोद्ध्व्यम्|| २६||
Adhikarana doShAdiBedena bastiyojanA vidheyA (27) · Śloka 27
बलकालदोषरोगप्रकृतीः प्रविभज्य योजितो बस्तिः| स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान् निवर्त्तयति||२७||
🔊 Audio coming soon
प्रातिव्याधि-दोषादिभिदे य औषधवर्गा उक्ताः तैर्वर्गेर्बलादिकं प्रविभज्य बुद्ध्या विकल्प्य बस्तिर्योजितः स्वान् स्वान् योग्यौषधवर्गविषयान् बस्तिसाध्यान् रोगान् निवर्त्तयति|| २७||
Adhikarana uShNashItakrameNa bastiyojanA (28) · Śloka 28
उष्णार्त्तानां शीताच्छीतार्त्तानां तथा सुखोष्णांश्च| तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य युञ्जीत||२८||
🔊 Audio coming soon
उष्णेनौशधादिना आर्त्तानां शीतान् बस्तीनातुरयोग्यौषधयुक्तात् सन्तर्क्य विकल्प्य युञ्जीत| शीतार्त्तानां च तद्वत् सुखोष्णांस्तद्योग्यौषधयुक्तान् युञ्जीत|| २८||
Adhikarana vishodhanIyAnnopabRuMhayet (29) · Śloka 29
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु| मेदास्विनो विशोध्या ये च नराः कुष्ठमेहार्त्ताः||२९||
🔊 Audio coming soon
शोधनार्हेषु व्याधिषु बॄंहणीयान् बस्तीन् न दद्यात्| ये च नराः कुष्ठेन मेहेन वाऽऽर्त्ता मेदस्विनश्च तेषां च विशोधनीयेष्वपि बृंहणीयान् बस्तीन् च दद्यात्|| २९||
Adhikarana kShINakShatAdayashcA~avishodhyAH (30-31) · Śloka 31
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कशुद्धदेहानाम्| दद्याद् विशोधनीयान् दोषनिबद्धाऽऽयुषे ये च||३०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां कल्पस्थाने बस्तिकल्पो नाम चतुर्थोऽध्यायः||३१||
🔊 Audio coming soon
क्षीणादीनां बस्तिसाध्यानां न शोधनीयान् बस्तीन् दद्यात्| शुद्धं वमनविरेचनाभ्यामचिरप्रयुक्ताभ्यां शरीरं येषां ते शुद्धदेहाः| तथा दोषे पुरीषे निबद्धमायुषां ते दोषनिबद्धाऽऽयुषः| क्षीणधातुत्वादेव पुरीषबलेन जीवन्तीत्यर्थः| एषामपि शोधनीयान् बस्तीन्न दद्यादिति|| ३०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने चतुर्थोऽध्यायः