Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. vamanavirēcanavyāpatsiddhiḥ

Adhikarana atha vamanavirecanavyApatsiddhirnAma tRutIyo~adhyAyaH upodghAtaH · Śloka

🔊 Audio coming soon

वमनविरेचनानां कल्पनमुक्त्वा तेषामेवाऽसम्यग्योगेन या व्यापदस्तासां सिद्धिं प्रतीकारं प्रदर्शयितुमध्याय आरभ्यते-

Adhikarana pratij~jA (1) · Śloka 1

अथातो वमनविरेचनव्यापत्सिद्धिनामाऽध्यायं व्याख्यास्यामः| इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||

🔊 Audio coming soon

अध्यायक्रमेण वमनं पूर्वमुच्यते|| १||

Adhikarana pratikUlA gatiH adhogaM vamanaM tatropacArAshca (2) · Śloka 2

अतिक्षुधितेनाऽतिमृदुकोष्ठेनाऽल्पश्लेष्मणा दुर्वमेन हीन- मात्रमतिमात्रं तीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो- गच्छति| तत्रेप्सिताऽनवाप्तिर्दोषोत्क्लेशश्च| तं पुनराशु स्नेहयित्वा यौगकैर्मात्राकालाद्यपेक्षं वामयेत्| व्याप-त्कराणि च पूर्वोक्तमतिक्रमं स्मरन् परिहरेत्||२||

🔊 Audio coming soon

अतिक्षुधितत्वादियुक्तेन पीतं वमनमधो गच्छति| नैव वामयतीत्यर्थः| येनैव वा हीनमात्रत्वादियुक्तं पीतमधोगच्छति| तत्राऽधोगते वमन ईप्सितस्य छर्दितरोगोपशमनस्याऽनवाप्तिर्दोषोत्क्लेशश्च| व्यापत्कराणि च परिहरेत्|| २||

Adhikarana UrdhvagaM virecanam (3) · Śloka 3

अजीर्णिनः श्लेष्मवतोऽत्युष्णतीक्ष्णलवणमतिमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्त्तते| तत्र पूर्वोक्ता व्यापत् साधनञ्च| तत ऊर्ध्वमप्युत्तिष्ठति हृद्यलेहवटक- वर्ज्यमौषधं न तृतीयमवचारयेत्||३||

🔊 Audio coming soon

अजीर्णनस्तथा बहुश्लेष्मणो विरेचनमूर्ध्वं व्रजति| मुखेन गच्छति| अतितीक्ष्णमत्यूष्णमतिलवणमहद्यमतिप्रभूतं च पीतमूर्ध्वं गच्छति| तत्र तस्मिन्न्नूर्ध्वं व्रजति| पूर्वोदिता व्यापत्तथैव सिद्धिः| पूर्वोदितमेव साधनम्| पुनः स्निग्धस्य पूर्वस्याऽतिक्रमस्य स्मरतो व्यापत्करणं परिहरत औषधयोजनम्| ततः इति| पुनर्युक्ते विरेचनं ऊर्ध्वमुत्तिष्ठति मुखेन गच्छति तृतीयं विरेचनं नाऽवचारयेत्| हृद्यादिगुणमौषधं वर्जयित्वा| तथाविधं हि तृतीयमवचारयेदित्यर्थः||३||

Adhikarana bhaktavatpAkAkhyAvyApattatropacArAshca (4) · Śloka 4

क्रूरकोष्ठस्याऽतितीक्ष्णाऽग्नेरल्पमल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकम्| तत्र समुदीर्णा दोषा यथाकालमनिर्ह्नियमाणा विभ्रमं कुर्वन्ति| तं स्निग्धकोष्ठमनल्पममन्दं चौषधं पाययेत्||४||

🔊 Audio coming soon

क्रूरकोष्ठत्वादियुक्तस्याऽल्पशक्तिर्वा वमनं विरेचनमप्यकृत्वैवेष्टं कार्यं भक्तवत् पाकमुपैति| पाकेन चौषधस्य सञ्चिता दोषा अनिर्ह्नियमाणा विभ्रमं कुर्वन्ति| यस्मादपक्वं वमनं दोषान् पच्यमानं विरेचनं नर्हरेत्, न तु तत् पक्वमिति| तं पक्वौषधं स्निग्धकोष्ठं कृत्वा बहुतीक्ष्णं चौषधं पाययेत्|| ४||

Adhikarana grathitAkhyA vyApattanopacArAshca (5) · Śloka 5

कषायमल्पमप्रत्यग्रं रूक्षं वा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धं दोषविग्रथितमयोगी भवति| तत्र वमने भूयो वामयेत्| विरेचने स्निग्धस्विन्नं पुरर्विरेच- येत्| उत्क्लिष्टभूरिदोषं वा तृतीयेऽहनि| उभयोश्च संशो- धनयोर्लवणतैलाभ्यक्तं पिण्डप्रस्तराभ्यां स्वेदयेत्||५||

🔊 Audio coming soon

कशायादिगुणं वा भेषजमस्निग्धादिकेन वा पीतं स्वयं स्तब्धत्वात् दोषावष्टब्धत्वाच्चाऽयोगाय सम्पद्यते| कषायं कषायरसप्रायम्| अप्रत्यग्रमसम्पन्नम्| तत्रैवमयोगीभूते वमने पुनर्वामयेत् विरेचयेत्| उभयोरपि वमनविरेचनयोरेवमयोगीभूतयोस्तैलाभ्यक्तस्य सूत्रोदिताभ्यां पिण्डप्रस्तराभ्यां स्वेदं विदध्यात्|| ५||

Adhikarana gauravAkhyA vyApattanopacArAshca (6) · Śloka 6

स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः साम- स्य वा मृदु वा विरिक्तस्याधोभागेऽत्यर्थगुरुस्तब्धो- दरता शूलोवातमूत्रपुरीषसङश्च भवति| तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जाङ्गलरसैश्च भोजयित्वा फल- दारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरूप- स्नेह्य पुनस्तीक्ष्णैर्विरेचयेत्||६||

🔊 Audio coming soon

स्निग्धस्विन्नस्य वमनमकृत्वैव विरेचने उपयुक्ते सामे वोपयुक्ते मृद्वौषधे वोपयुक्ते तस्य विरिक्तस्य सतोऽधोभागेऽत्यर्थं गुरुत्वादिकं भवति| तस्मिन्नयोगिनि समूत्रैस्तीक्ष्णैराऽऽस्थापनादिका चिकित्सा| सुबोधम्|| ६||

Adhikarana doShotkleshAkhyA vyApattatropacArAshca (7) · Śloka 7

कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदु- प्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्ब- ल्याङ्गसादान् जनयति| तच्छीघ्रमुल्लिखेत्| लङ्घनेन च सन्धुक्षिताग्निं पुनः स्निग्धं तीक्ष्णोष्णैर्विशोधयेत्||७||

🔊 Audio coming soon

कफोल्बणत्वादियुक्तस्य मृदु शोधनमौषधं दोषानुत्क्लेश्य जाड्यतन्द्रादीन् जनयति| तत्र च पीतमौषधमङ्गुल्यादिभिः क्षिप्रमुल्लिखेदुद्वमेत्| ततो लङ्घनेन सन्धुक्षिताग्निं पुनः स्निग्धं तीक्ष्णादिभिः शोधयेत्|| ७||

Adhikarana BRusha~a~adhmAnAKyA vyApattatropacArAshca (8) · Śloka 8

सशोषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाऽऽध्मानं करोति| तत्र मलसङ्गात् समुन्नह्यत्युदरमन्तः शूलं दृतिवत् पार्श्व योराऽऽपूर्णता शिरः पृष्ठरुजा श्वासकासौ पायुबस्ति- निस्तोदश्च भवति| तमुदावर्त्ताऽऽनाहहाराऽभ्यङ्गस्वेदव- र्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत्||८||

🔊 Audio coming soon

सशोषान्नादिमते वा शोधनार्थं शीतं रूक्षं वा दत्तं भृशमाध्मानं करोति| तत्र च मलसङ्गाद्धेतोरुदरे समुन्नद्धतादिकं भवति| सशेषान्नोऽजीर्णी| उदावर्त्त अर्शोनिदान उक्तः| समुन्नाहः सर्वतोबन्धः| सुबोधम्| निस्तोद इव निस्तोदः| तथाविधमुदावर्त्तहरादिभिरुपचरेत्|| ८||

Adhikarana parikarttikAkhyA vyApattatropacArAshca (9) · Śloka 9

क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेणाऽस्निग्धेन वा| स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं प्रदूष्य परिकर्त्तिकामापादयति| तत्र नाभिबस्तिगुदमेढ्रे सदाहपरिकर्त्तनमनिलसङ्गो विष्टम्भश्च| तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिराऽऽ- स्थापयेत्| क्षीरिवृक्षशृतक्षीरेण वा| शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वाऽनु- वासयेत्| क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः| सामे लङ्घनदीपनञ्च लघुरूक्षोष्णं चाऽन्नपानम्| निरामी- भूतेऽनुबन्धे लघुक्षाराम्लम्| सवाते दधिसाराम्लं दाडिम- त्वचा युक्तं भोजने पाने च प्रयुञ्जीत| सदाडिमरसं च सर्पिः पिबेदुष्णाम्बुना वा तिलदेवदारुकल्कम्||९||

🔊 Audio coming soon

क्षामत्वादियुक्तेन यत्तीक्ष्णादियुक्तमौषधमुपयुक्तं तत् सपित्तमनिलं प्रदूष्य परिकर्त्तिकामापादयति| समन्ताच्छेदनमिव जठरे परिकर्त्तिका| सुबोधम्| तमिति परिकर्त्तिकावन्तं कृष्णतिलादियुक्तैर्वक्ष्यमाणैः पिच्छाबस्तिभिरास्थापयेत्| वटादिभिः क्षीरिवृक्षैः शृतेन क्षीरेण वाऽऽस्था पयेत्| शीताम्बुपरिषेकादियुक्तस्याऽनुवासनं घृतमण्डेन वा यष्टीमधुकतैलेन वा| सर्वश्च क्षामस्य मधुबृंहणादिको विधिरिष्टः| सामे शोधनाऽसम्यग्योगिनि लङ्घनादिकम्| निरामीभूते पुरुषे दोषानुबन्धे लघ्वादिकमाहारम्| सवातेऽतियोगिनि दध्यादिकम्| अम्लं काञ्जिकादि| तिलदेवदारुणोः कल्केन सदाडिमरसं सर्पिः पिबेत्|| ९||

Adhikarana parisrAvAkhyA vyApattatropacArAshca (10) · Śloka 10

क्रूरकोष्ठस्य बहुदोषस्याऽल्पमल्पगुणं मृदु स्निग्धं वा शोधनमवचारितमुक्त्लेश्य दोषान् न निर्हरति| अल्पा- ऽल्पं च पित्तकफसंसृष्टं परिस्रवति| विष्टम्भगौरवशो- फकण्डूपाण्डुताङ्गसादगुल्मशूलानि चापादयति| तं तिनिशधवाऽश्वत्थकर्णपलाशबलानिर्य्यूहैर्मधुयु- क्तैराऽऽस्थापयेत्| उपशान्तपरिस्रावं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत्| शुद्धे च दीपनांश्चूर्णाऽऽसवारिष्टादीन् योजयेत्||१०||

🔊 Audio coming soon

क्रूरकोष्ठत्वादियुक्तस्य वाऽल्पादिगुणं वा शोधनमवचारितं दोषानुत्क्लेश्यं न निर्हरति| तच्चौषधं पित्तकफाभ्यां संसृष्टमल्पालं कृत्वा संस्रवति| विष्टम्भादीनि चोत्पादयति| तं परिस्राविणं तिनिशादीनां निर्य्यूहैर्माक्षिकयुक्तैराऽऽस्थापयेत्| तिनिशः स्यन्दनः| अश्वकर्णः सालः| तैराऽऽस्थापनैः परिस्रावे उपशान्ते पुनः किञ्चित् स्निग्धं शोधयेत्| शुद्धे च दीपनांश्चूर्णादीन् योजयेत्|| १०||

Adhikarana pravAhikAkhyA vyApattatropacArAshca (11) · Śloka 11

पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा तदा प्रवा- हिकास्य जायते| तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं रक्तं वा भृशं प्रवाहमाणः कफमुपविशति| तं परिस्रावविधिनोपचरेत्||११||

🔊 Audio coming soon

पीतविरेचनौषधस्य वेगोदीरणधारणाभ्याम्| अस्येति पुंसः प्रवाहिका जायते| तस्यां प्रवाहिकायां सदाहादिकं प्रवाहमाणो मलमनुलेपयेत् कफमेवोपविशति| तमेवंविधप्रवाहिकावन्तमनन्तरोक्तेनाऽऽस्थापनादिना परिस्रावविधिनोपचरेत्|| ११||

Adhikarana hRudgrahAkhyA vyApattatropacArAshca (12) · Śloka 12

पीतौषधस्य भेषजोद्गारच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपसृत्य हृद्ग्रहं घोरमावहन्ति| ततः प्रधानमर्मोपतापाद्वेदनाभिरत्यर्थमाऽऽतुरः पीड्यते| मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान् नष्टसंज्ञो दन्तान् कटकटायत्युद्दृत्ताक्षो जिह्वां खादति| तं हृदयोपसरणमाऽऽहुः| तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात्| यष्टीमधुकमिश्रेण तण्डुलाम्बुना वमनम्| कटुभिर्वा कफोत्तराय| ततो दोषशेषं पाचनीयैः पाचयेद्यथादोषोच्छ्रयं च बस्तीन् वितरेत्||१२||

🔊 Audio coming soon

पीतौषधस्य भेषजोद्गारादिनिरोधात् सर्वे दोषाः कुपिता हृदयं प्राप्य हृद्ग्रहं कुर्वन्ति| ततश्च प्रधानमर्मणो हृदयस्योपतापान्नानाविधाभिर्वेदनाभी रुजाभिः पीड्यते| मोहादिमांश्च नष्टसंज्ञत्वादियुक्तो भवति| तं हृद्ग्रहमाचार्या हृदयोपसरणमित्याहुः| तस्मै हृदयोपसरणिने भिषगमुह्यन् मोहमप्राप्नुवन्नभ्यङ्गपूर्वं धान्यस्वेदेन संस्वेद्य तीक्ष्णमवपीडं कल्कनस्यं दद्यात्| यष्ट्यादिभिस्तण्डुलाम्बुना वमनम्| श्लेष्माधिकाय कटुभिर्वमनौषधैर्वमनम्| ततोऽस्य दोषशेषं पाचनीयौषधैः पाचयेत्| पक्वदोषस्य च य एव दोषोऽधिकस्तदनुगुणानेव बस्तीन् वितरेदाऽऽस्वास्थ्यात्||१२||

Adhikarana sarvA~ggagrahAkhyA vyApattanopacArAshca (13) · Śloka 13

अस्निग्धस्विन्नेनाऽब्रह्मचारिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति| तेन सर्वाङ्गप्रग्रहो भवति| तस्य विशेषात्पार्श्व- पृष्ठश्रोणिमन्यामर्मसु शूलमूर्च्छाभ्रमकम्पस्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात्| तमभ्यज्य धान्यैः स्वेद- यित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत्| वातहरं चाऽन्नपानम्||१३||

🔊 Audio coming soon

अस्निग्धादिके रूक्षमतिमात्रमौषधं प्रयुक्तमतिमात्रत्वादतिविरेकण वायुं प्रकोपयति| तेन वायुकोपेन सर्वाङ्गग्रहणादिकं स्यात्| तमाऽऽतुरमभ्यङ्गादिभिश्चिकित्सेत्|| १३||

Adhikarana dhAtusrAvA~a~akhyA vyApattatropacArAshca (14) · Śloka 14

स्निघ्दस्विन्नस्याऽतिमृदुकोष्ठस्य क्षुधितस्य वा तीक्ष्ण- मतिभूरि वा प्रयुक्तमौषधं सर्वशो निर्हृत्य मलान् धातू- नपि द्रवीकृत्य विस्रावयेदतियोगेन| तं शतधौतघृतेना- भ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकाऽवगाहाऽन्नपानैः शर्करामधुमद्भिश्च लेहैः स्तम्भयेत्| चन्दनाञ्जनोशीर- च्छागाऽसृक्शीतोदकैर्लाजसक्तून् पाययेत्| पिच्छाबस्तीं- श्चास्मै दद्यान्मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मण्डोऽनुवासनम्| रक्तपित्तविधानं च कुर्यात्||१४||

🔊 Audio coming soon

स्निग्धत्वादियुक्तस्य तीक्ष्णाऽतिमात्रत्योगेन धातूनपि स्रावयति| तमतियोगिनं शतधौतेनाऽभ्यज्य कषायादिना विशेषतः स्तम्भयेत्| कषायादिकं प्रदेहादिविशेषणम्| शर्करादिकं लेहानाम्| तं च चन्दनाभिर्लाजसक्तून् पाययेत्| अस्मै चाऽतितियोगिने पिच्छाबस्तीन् दद्यात्| क्षीरोद्भवं घृतादिकं मधुरवर्गसिद्धमनुवासनम्| तथा यत्किञ्चिद्रक्तपित्तघ्नं तदपि कुर्यादिति सामान्येन साधनान्यतियोगे|| १४||

Adhikarana vamanA~atiyoge visheShaH (15) · Śloka 15

विशेषेण वमनाऽतियोगे सघृतसिताक्षौद्रं फलरसैर्मन्थं पिबेत्| क्षीरिवृक्षशृङ्गसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजनेऽवचारयेत्| सोद्गारायां च छर्द्यां धनिकामधूकमधुरसमुस्ताऽञ्जनानि मधुना लिह्यात्| वाक्सङ्गे हनुसङ्गेऽनिलार्त्तौ च घृतमांस- रससिद्धामल्पतण्डुलां पेयां पिबेत्| स्नेहस्वेदौ चाऽव- चारयेत्| जिह्वाप्रवेशे स्निग्धाम्ललवणान् कवलगण्डूषान् हृद्यांश्चा- ऽऽजमांसरसान्| पुरतश्चाऽस्य फलान्यम्लानि खादयेत्| निर्गतां तु जिह्वां तिलद्राक्षाकल्कलिप्तां व्योषलवण- चूर्णप्रघृष्टां वा प्रवेशयेत्| अक्षिणी व्यावृत्ते घृताऽभ्यक्ते पीडयेद्विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत्||१५||

🔊 Audio coming soon

सघृतादिमन्थादिकं वमनाऽतियोगे विशेषेण फलानां द्राक्षादीनां रसैः| सुबोधम्| क्षीरिवृक्षा वटादयः| तेषां शुङ्गाः प्रवालानि| क्षीरं वावटाशुङ्गसिद्धम्| भोजने च संग्राहिद्रव्यसिद्धं क्षीरम्| सोद्गारायां छर्द्या धनिकादीनि मधुना लिह्यात्| धनिका आर्द्रिका| मधुरसा मूर्वा अञ्जनं स्रोतोऽजसौवी भेदेन द्विविधम्| अतियोगेन वाक्सङ्गादिषु घृतादिसिद्धां पेयां पिबेत्| स्नेहस्वेदौ च यथाविषयं कुर्यात्| जिह्वाप्रवेशे स्निग्धादिगुणान् कवलगण्डूषान् कुर्यात्| असञ्चार्यौषधेन मुखे पूर्णे गण्डूषः| सञ्चार्यो मुखैकदेशधार्यः कवलः| अस्याऽन्तः प्रविष्टजिह्वस्य पुरतोऽग्रतोऽन्यं पुरुषमम्लानि फलानि खादयेद्वैद्यः तद्दर्शनेन मुखे द्रवीभूते जिह्वास्वरूपे भवति| यदा पुनरतियोगेन जिह्वा निर्गता भवति तदा तां तिलद्राक्षाकल्केन लिप्तां व्योषादिचूर्णेन प्रघृष्टां वा प्रवेशयेत्| अक्षिणीति अतियोगेन व्यावृत्ते अभ्यज्य पीडयेत्| विगतचेतनं सामादिशब्दान् श्रावयेदिति वमनाऽतियोगे|| १५||

Adhikarana virecanA~atiyoge visheShaH (16) · Śloka 16

विरेचनाऽतियोगे तण्डुलाऽम्भसा मधुमिश्रेण वमेत्| प्रियङ्ग्वादिञ्च तण्डुलोदकेन पिबेद् लोध्ररसाञ्जनदा- हिमत्वचो वा| सोमवल्ककट्फलोत्पलसमङ्गापद्मकेस- राणि वा| क्षौद्रशर्करामधुकौदुम्बरत्वचो वा| रक्ताति सारक्रियां च कुर्वीत| गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्च स्तम्भयित्वा प्रवेशयेत्| पूर्ववच्च वाक्सङ्गादीन् साधयेत्||१६||

🔊 Audio coming soon

विरेचनाऽतियोगे पुनर्माक्षिकमिश्रं तण्डुलाऽम्बु पीत्वाऽङ्गुल्यादिना वमेत्| तथाहि वायुः सर्वाऽभिमुखो भवति| प्रियङ्ग्वादिगणं तण्डुलोदकेन लोध्रादिकं वा तण्डुलोदकेन| कट्फलादिकं वा तण्डुलोदकेन| कट्फलः सोमवल्कः| समङ्गा मञ्जिष्ठा| क्षौद्रादीनि वा तण्डुलोदकेन| सर्वञ्च यथाविषयं रक्तातिसारचिकित्सितं कुर्वीत| विरेचनाऽतियोगे गुदं निःसृतं स्निग्धस्विन्नं कृत्वा कषायैर्द्रव्यैः स्तम्भयित्वा परित्याजितशैथिल्यं कृत्वा यत्नेन प्रवेशयेत्| वाक्सङ्गादीन् पूर्ववद्वमनाऽतियोगवत् साधयेच्चिकित्सेत्|| १६||

Adhikarana vamanavirecanA~atiyoge sAmAnyam (17) · Śloka 17

उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोतं वा क्षिपेत्| तस्मिन्नावाने कोष्णाम्बुक्षालितशुद्धे जीवरक्तम्| विवर्णे तु रक्तपित्तं विद्यात्| अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात्| तस्मिन् भुक्ते जीवं वदेदभुक्ते पित्तम्| आमरणाच्च तस्य तृण्मूर्छामदार्त्तस्य क्रियां पित्तघ्नी- मतियोगोक्तां च कुर्यात्| एणादिरुधिरं वाऽतिस्रुत- रक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुञ्जीत| तद्धि सद्यो जीवमभिसन्दधाति| श्यामाकाश्मर्यमधूकदूर्वोशीरैर्वा शृतं पयो घृतमण्डाञ्जनयुक्तं शीतं बस्तौ निषेचयेत्||१७||

🔊 Audio coming soon

उभयत्र वमनाऽतियोगे विरेचनाऽतियोगे वा रक्तप्रवृत्तौ रक्तपित्तभ्रान्तिनिरासायेदं कुर्यात्| प्रवृत्ते रक्ते शुक्लं पिचुं कार्पासतूलकं प्लोतं वा वस्त्रखण्डं शुक्लं क्षिपेत्| तं च रक्तादुद्दृत्याऽऽवानं शुष्कं कृत्वा कोष्णाम्बुना प्रक्षालयेत्| प्रक्षालितं तद्यदा पूर्ववच्छुक्लं भवति तदा जीवरक्तमित्यध्यवस्येत्| विवर्णे तु रक्तपित्तमिति| अथवा तेन रक्तेन मिश्रमन्नं शुने दद्यात् काकाय वा| तस्मिंस्तु भुक्ते जीवं वदेदभुक्ते पित्तम्| प्रवृत्तजीवोऽपि जीवति चेदवश्यं तस्य आमरणात् पित्तघ्न्यादिकां क्रियां कुर्यात्, न तूपेक्षेत| एणादीनाञ्च मृगाणां रुधिरमतिस्रुतरक्तोवतविधिना सिराव्यधोक्तेन शीघ्रं समाक्षिकमुपयुञ्जीत| तदित्येणादिरक्तम्| तत्र च श्यामादिभिः शृतं पयो घृतादियुक्तं शीतं बस्तावास्थापनेन निषेचयेत्|| १७||

Adhikarana shoShavyApatsu pratIkAradikam (18) · Śloka 18

शेषेष्वपि चाऽसम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथा- ऽऽमयं दोषादीनपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत् सिद्धिं चेक्षेत||१८||

🔊 Audio coming soon

अन्येष्वपि शोधनस्यासम्यग्योगेनोत्पन्नेषु व्याधिषु दोषद्यपेक्षं कुर्याच्चिकित्साम्| बस्तिव्यापत् सिद्धिं चेक्षेत| एतदौपयिक चिकित्सापरिज्ञानायेत्यर्थः| अधोदोषहरणं प्रति तयोर्बस्तिविरेचनयोः सादृश्यात्| सुबोधम्|| १८||

Adhikarana vamanavirecanavyApadaH saMj~jAvisheShatvam (19) · Śloka 19

एवमुभयतो भागेऽपि शोधने यथावस्थमुत्तिष्ठेत| या तु विरेचने परिकर्त्तिका तद्वमने कण्ठक्षणनम्| यदधः- परिस्रवः स कफप्रसेको यदधः प्रवाहणं स शुष्कोद्गार इति| भवति चात्र||१९||

🔊 Audio coming soon

एवमनन्तरोक्तप्रकारेणोभयतो भागे शोधने वमने च विरेचने चाऽवस्थाविशेषमनतिक्रामन्नुत्तिष्ठेत प्रयतेत| या त्वित्यादिनाऽतियोगे मार्जनात् परिकर्त्तिकाकाण्ठक्षणनयोः सादृष्यं हीनयोगेन चोत्क्लेशात् परिस्रवप्रसेकयोर्निस्तननशुष्कोद्गारयोश्च|| १९||

Adhikarana uktArthasya shlokaiH saMgrahaH (20) · Śloka 20

असम्यक्संस्कृतं जीर्णं व्यापद्येत्तौषधं ध्रुवम्| छर्दनं न तु दुश्छर्दं दुर्विरेच्यं न रेचनम्| पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ| यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्| वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम्| विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्| तेनाध्मानं वमिस्तृष्णा विबन्धश्चाऽऽशु शाम्यति| भेषजं दोषरुद्धं चेन्नोर्ध्वं नाऽधः प्रवर्त्तते| सोद्गारं साङ्गशूलं वा स्वेदं तत्राऽवचारयेत्| सम्यग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत्| अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद् भिषक्| कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्| क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्त्तते| रूक्षाऽनाहारयोर्जीर्णे तिष्ठत्यूर्ध्वं गतेऽपि वा| वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत्| तृण्मोहभ्रममूर्च्छाद्याः स्युर्जीर्यति च भेषजे| पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते| लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते| भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम्||२०||

🔊 Audio coming soon

अतिमात्रादिकमौषधं ध्रुवमवश्यं व्यापदे भवति| सुबोधम्| तथा दुश्छर्दनं पुरुषं छर्दनमौषधं भूयः प्रभूतं न पाययेत्| दुर्विरेकं च पुरुषं भूयो विरेचनमौषधं न पाययेत्| तथा हि यस्मात्पीतं तद्वमनं विरेचनं च तौ दुश्छर्ददुर्विरेके कर्मणी हन्ति| आनुलोमिकमौषधं विरेचनं यस्य श्लेष्मणा सह सुखेनाऽऽगच्छति तं पुरुषं वमितं कवलैः शुद्धमुखं लङ्घितं च कृत्वा तमाऽऽनुलोमिकं पाययेत्| तथा दोषे विबद्धे स्रवत्यल्पं च स्रवति चिराच्च स्रवत्युष्णं जलं पिबेत्| तेनोष्णजलेनाऽऽध्मानादिकमाशु शाम्यति| भेषजं शोधनं दोषसङ्घातेन रूद्धत्वादलसमेव यद्यस्यास्ति उद्गाराङ्गशूले च करोति तदाऽस्य स्वेदमवचारयेत्| सम्यग्विरेकलिङ्गेन विरिक्तस्यापि यदौषधोद्गारो न विवर्तते तदा तमतियोगभयात् भेषजमजीर्णं वामयेत्| वमनेन चाऽप्रवर्तमानं सुशीतैः सेकादिभिर्भिषक्स्तम्भयेत्| यथा नाऽधिकं विरेचयति| कदाचिदुपयोगकाल एवौषधं श्लेष्मणा रुद्धमुरसि तिष्ठन् कोष्ठप्राप्त्यभावान्न रेचयति| ततश्चौषधतैक्ष्ण्याच्छ्लेष्मणि क्षीणे कोष्ठं प्राप्य सायाह्ने रात्रौ वा रेचयति| रूक्षस्याऽनाहारस्य च वातेनौषधे विरेकं विनैव जीर्णेऽन्यदौषधं तदहरेव सस्नेहलवणं पिबेदथवा वायुना पूर्वकायं गते भेषजे तिष्ठत्यन्यत् भेषजं सस्नेहलवणं पिबेत्| तथाशोधने भेषजे जीर्यति यदा तृडादीनि स्युः तदा तत्कालमेव पित्तघ्नादिकमन्यद्भेषजं शस्यते| यदा तु कफावृतत्वात् भेषजस्य लालादिकं स्यात्तदा तीक्ष्णादिगुणं कफघ्नं भेषजं हितम्|| २०||

Adhikarana adhyAyArthasaMgrahaH (21) · Śloka 21

प्रतिकूला गतिः पाको प्रथितत्वं सगौरवम्| दोषोत्क्लेशो भृशाध्मानं परिकर्त्तः परिस्रवः| प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः| सह धातुस्रवेणैताः द्वादशोक्ताः ससाधनाः| व्यापदो विधिविभ्रं शाद् द्विविधेऽपि विरेचने||२१||

🔊 Audio coming soon

अध्यायमुपसंहरति| अस्मिन्नध्याये द्विविधेऽपि वमनविरेचनाख्ये दोषविरेचने सम्यग्योग विभ्रंशद्धेतोः ससाधना सचिकित्सिता द्वादशव्यापद उक्ताः| कास्ता इत्याह-प्रतिकूलत्यादि| प्रतिकूला गतिर्वमनस्याऽधोगमनम्| विरेचनस्योर्ध्वगमनम्| पाकोऽकृतकार्यस्यैव| शेष उक्ता एव|| २१||

Adhikarana anuktavyApadAmavagamadik (22-23) · Śloka 23

उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण| दिशाऽनयैवाऽऽशु यतेत सिद्धौ ज्योतिर्हि शास्त्रं नयदुर्नयानाम्||२२|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्ग- संग्रहसंहितायां कल्पस्थाने वमनविरेचन- व्यापत्सिद्धिर्नाम तृतीयोऽध्यायः||२३||

🔊 Audio coming soon

अन्यासु चाऽनुक्तासु तासु तासु व्यापत्सु संशोधनस्य विभ्रमेण दोषादिविशेषादुत्पद्यमानास्वनेनैव चिकित्सामार्गेण शेषाः स्वोहार्हेणाऽऽशु चिकित्सितुं यतेत| यस्मादयं नयोऽयं दुर्नय इत्यस्मिन् विशेषे शास्त्रं ज्योतिः प्रकाशकत्वादिति|| २२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने तृतीयोऽध्यायः