Adhikarana atha siddhabastikalpo nAma pa~jcamo~adhyAyaH, pratij~jA (1) · Śloka 1
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः| इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
सिद्धबस्तीन् प्राधान्यात् पृथग्दर्शयितुमध्याय आरभ्यते|| १||
Adhikarana atha siddhabastikalpo nAma pa~jcamo~adhyAyaH, pratij~jA (1) · Śloka 1
अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः| इति ह स्माहुराऽऽत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
सिद्धबस्तीन् प्राधान्यात् पृथग्दर्शयितुमध्याय आरभ्यते|| १||
Adhikarana siddhabastisvarUpam (2) · Śloka 2
सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम्| निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्||२||
🔊 Audio coming soon
प्रथमेन श्लोकेन सिद्धबस्तीनां सामान्यं रूपमुच्यते|| २||
Adhikarana mAdhutailiko bastiH (3) · Śloka 3
मधुतैले समे कर्षः सैन्धवाद् द्विपिचुर्मिसः| एरण्डमूलक्वाथेन निरूहो माधुतैलिकः| रसायनं प्रमेहाऽर्शः कृमिगुल्माऽन्त्रवृद्धिनुत्| सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्||३||
🔊 Audio coming soon
मध्वित्यादिना बस्तय उच्यन्ते| मधुतैले समे सूत्रोक्तप्रकारेण| सैन्धवात् कर्षः| मिसिः शतपुष्पा| तस्या द्विपिचुर्द्विकर्षः| इत्येतदेरण्डमूलक्वाथेन निरूहः संज्ञया माधुतैलिकः| सुबोधम्| एष एवाऽनन्तरोक्तो माधुतैलिको मधुयष्ट्या युक्तश्चक्षुष्यो रक्तपित्तजिच्च भवति || ३||
Adhikarana yApanAkhyo bastI (4) · Śloka 4
यापनो घनकल्केन मधुतैलरसाज्यवान्| पायुजानूरूबृषणबस्तिमेहनशूलजित्| प्रसृतांशैर्घृतक्षौद्रवसा तैलैः प्रकल्पयेत्| यापनं सैन्धवार्धाक्षहपुषाऽर्धपलान्वितम्||४||
🔊 Audio coming soon
घनस्य मुस्तस्य कल्केन युक्तो निरूहो मध्वादिभिश्च यापनाऽऽख्यो भवति| स तु पाय्वादिशूलजित्| द्वितीयं यापनं घृतादिभिः| प्रत्येकं प्रस्रुतांऽशैः| सैन्धवस्याऽर्धकर्षेण हपुषाऽर्धपलेनाऽन्वितं प्रकल्पयेत्|| ४||
Adhikarana yuktarathAkhyo bastiH (5) · Śloka 5
एरण्डमूलनिष्क्वाथो मधुतैलं ससैन्धवम्| एष युक्तरथो बस्तिः सवचापिप्पलीफलः||५||
🔊 Audio coming soon
एरेण्डेत्यादिना वचादित्रययुक्तो बस्तिर्नाम्ना युक्तरथः|| ५||
Adhikarana doShaharaH bastiH (6) · Śloka 6
सक्वाथो मधुषड्ग्रन्था शताह्वा हिङ्गुसैन्धवः| सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः||६||
🔊 Audio coming soon
सक्वाथ एरण्डमूलक्वाथो मध्वादियुक्तो बस्तिः| शिवः श्रेष्ठः षड्ग्रन्था वचा|| ६||
Adhikarana siddhabastiH (7) · Śloka 7
पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु| ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः||७||
🔊 Audio coming soon
सिद्धबस्तिरिति नाम्ना स्मृत आर्चार्यैः पञ्चमूलादिश्लोकेन||७||
Adhikarana kaphavyAdhyAdiharo bastiH (8) · Śloka 8
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्| गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः| सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च| युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु| शुक्राऽनिलविबन्धेषु बस्त्याटोपे च पूजितः||८||
🔊 Audio coming soon
दिपञ्चमूलादीनि गोमूत्रे पाचयेत्| तेन पक्वेन बस्तिः| पिष्टैः पाठादिभिर्युतः क्षौद्रादिभिश्च| कफव्याध्यादिषु पूजितः| द्वे पञ्चमूले प्रथमे विल्बादिर्बृहत्यादिश्च| फलं मदनफलम्|| ८||
Adhikarana shreShTho yApano bastiH (9) · Śloka 9
मुस्तापाठाऽमृतैरण्डबलारास्नापुनर्नवम्| मञ्जिष्ठाऽऽरग्वधोशीरत्रायमाणाऽक्षरोहिणीः| कनीयः पञ्चमूलञ्च पालिकं मदनाऽष्टकम्| जलाढके पचेत्तच्च पादशेषं परिस्रुतम्| क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्| सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः| पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः| बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्द्धनः| वाताऽसृङ्मोहमेहाऽर्शोगुल्मविण्मूत्रसंग्रहम्| विषमज्वरवीसर्पवर्ध्माऽऽध्मानप्रवाहिकाः| वङ्क्षणोरूकटीकुक्षिमन्याश्रोत्रशिरोरुजः| हन्यादसृग्दरोन्मादशोफकासाऽश्मकुण्डलान्| चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्||९||
🔊 Audio coming soon
मुस्तादिको बस्तिः सुबोधः| सह पादेन चतुर्भागेन जाङ्गलरसेन वर्तत इति तथोक्तः | एष च मुस्तादिः यापनानां राजा तद्गुणे साऽतिशय इत्यर्थः| रसायनफलत्वाद् रसायनम्|| ९||
Adhikarana sukumArAdInAM hito basti (10) · Śloka 10
पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम्| क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम्| क्षौद्रतैलाऽज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः| विशेषाद् बालवृद्धस्त्रीसुकुमारसुकात्मनाम्| तद्वत् सहाचरबलासारिवादर्भसाधितम्| क्षीरं बस्तिस्थाऽभीरू गुडूचीबृहतीद्वयैः| सिद्धं पयो मागधिकायष्टीमधुककल्कवत्||१०||
🔊 Audio coming soon
अगोक्षुरं पञ्चमूलं चत्वारि द्रव्याणि| चतुर्थस्थं पादशेषं क्वथितम्| एष बस्तिः सर्वहितोऽपि बालादिषु विशेषात् पूजितः| अगोक्षुरे गोक्षुररहितम्| यष्ट्यादीन्यनन्तरं बस्तिपठितानि| यष्टिमित्यादीनि| सहाचरादिसिद्धं क्षीरम्| तद्वदिति पूर्ववत्| कल्कादियुक्तं तत् पूर्वस्मिन्नेव विषये| अभीर्वादिसिद्धं पयो मागधिकादिकल्कवत् तथा पूर्वगुण इत्यर्थः|| १०||
Adhikarana vRuShyAH bastayaH vidhishca (11) · Śloka 11
पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम्| द्विपलं शालिगोधूमयवमाषं सयष्टिकम्| तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता| साऽऽज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत् परम्| कल्पोऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि| रसः कुलीरमांसस्य चटकाऽण्डरसान्वितः| सशर्कराघृतमधुर्बस्त्रिर्वृष्यतमो मतः| बस्तसूकरजैर्मुष्कैः कुलीरचटकाऽऽमिषैः| सिद्धं पयोबस्तशुक्रमुच्चटेक्षुरकं मधु| तैर्घृताढ्योऽल्पलवणो बस्तिर्वृष्यतमः परम्| सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः| अतो दशदशाऽहेन यस्तु बस्तीन् निषेवते| वाजीव पुष्टः स वृषो गच्छति प्रमदाशतम्| एते माक्षिकसंयुक्ताः कुर्वन्त्यतिVवृषं नरम्| नाऽतियोगं न चाऽयोगं स्तम्भिनस्ते च कुर्वते||११||
🔊 Audio coming soon
बृहत्यादिपञ्चमूलादिना सिद्धं छागलं क्षीरं कुक्कुटाण्डरसादिना युक्तो बस्तिः परं शुक्रकृत्| अस्मिन्नेव च बस्तौ कुक्कुटरस स्थाने शिख्यादीनामन्यतमस्याऽण्डरसयोगात्त्रयो बस्तयो भवेयुः| अण्डेषु च रसोऽन्तर्भवति| कुलीरमांसस्य रसः चटकाण्डरसेन युक्तः सशर्करादिश्च बस्तिर्वृष्यतमः| कुलीरो मत्स्यः कर्कटाख्यः| बस्तमुष्कादिना सिद्धं पयोबस्तशुक्रादिना युक्तं घृताढ्योऽल्पलवणश्च बस्तिर्वृष्यतमः| परमत्यर्थम्| बस्तः छगलः| मुष्को बृषणः| (नि) 'उच्चटा सोमवल्ली च प्रचला तरला तथा| महौषधी सर्वगमा वृद्धिदा वर्धिता पुरा||' इक्षुरकं गोक्षुरकः| एषु च वृष्यबस्तिषु दीयमानेष्वात्मगुप्तादिभिः सिद्धेन पयसा भोज्यम्| अतो वृष्यादिकाद्दशाहेन प्रतिदिसमेकोपयोगेन दश बस्तीन् यो निषेवते स वृषोऽक्षीणशुक्रो वाजिवच्च पुष्टः प्रमदाशतं गच्छति| एते वृष्या बस्तयो माक्षिकयुक्ता अतिवृषं नरं कुर्वन्ति| एते चाऽतियोगं न कुर्वते| आहिताश्च नाऽयोगं कुर्वते|| ११||
Adhikarana yApaneShvanuvAsanasyA~anA~a ~avashyakatA (12) · Śloka 12
निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः| यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम्||१२||
🔊 Audio coming soon
सर्वबस्तिषु सामान्येनाऽन्तराऽन्तराऽनुवासनमुक्तं 'निरूहान्मरुतो भयम्' इत्यादिना| तत् प्रतिषेधार्थमाह-निरूहा इत्यादि| ये निरूहास्ते प्रायेणैकान्तलेखनाः| ये च स्नेहबस्तयस्ते प्रायेणैकान्तबृंहणाः| तच्चोभयमपि लेखनत्वं बृंहणत्वं च यतो यापनेष्वतस्तेष्वनुवासनं नेष्यते कारणाऽभावात्| तस्मिन्निरूहा अप्येते बृंहणत्वेनाऽनुवासनं नाऽपेक्षत इति|| १२||
Adhikarana yApanAnAM vyApatpratikArAshca (13) · Śloka 13
मृदुत्वान्न निवर्त्तन्ते यस्य त्वेते प्रयोजिताः| समूत्रैर्बस्तिभिस्तीक्ष्णैराऽऽस्थाप्यः क्षिप्रमेव सः| शोफऽग्निनाशपाण्डुत्वशूलाऽर्शःपरिकर्त्तिकाः| स्युर्ज्वराश्चाऽतिसाराश्च यापनात्यर्थसेवनात्| अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया| युक्त्य तस्मान्निषेवेत यापनान्न प्रसङ्गतः||१३||
🔊 Audio coming soon
एते च यापनाः स्वभावादेव मृदुत्वाद्धेतोर्यदि कस्यचिन्नप्रत्याऽऽगच्छन्ति ततः सोऽन्तर्बस्तिः क्षिप्रमेव तीक्ष्णैर्बस्तिभिः समूत्रैराऽऽस्थाप्यः| यापनानामत्यर्थसेवनाच्छोफादयः स्युः| तेषु च शोफादिष्वरिष्टादिभिर्दीपनी क्रियेष्टा| तस्मादुक्ताद्धेतोर्यापनान् युक्त्या सुखसंवाहनलक्षणया सेवेत| न त्वतिप्रसङ्गतः|| १३||
Adhikarana yApaneShu niShparihAryatvam (14) · Śloka 14
मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः| अल्पकालोपयोगाच्च तेषु निष्परिहारता| द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक्पृथक्| बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान्||१४||
🔊 Audio coming soon
तेषु च यापनेष्वनेन प्रकारेण निष्परिहारता सुखोपायोग्यत्वं भवति| केनेत्याऽऽह-मृद्वित्यादि| मृदुनोऽल्पमानस्य चौषधस्य संयोगात्| तथा सूत्रे यत्र-यत्र यत् प्रमाणमुक्तं तत्र-तत्र यापानानां पादहीनं प्रमाणम्| ततोऽल्पञ्च कालमुपयोगादिति| अथवा सर्वेषु विशेषेण पुरुषेषु पृथग् यापनीयद्रव्यासिद्धान् स्नेहान् निष्परिहारान् युञ्ज्यात्|| १४||
Adhikarana putrado rasAyanashca bastiH (15) · Śloka 15
सहाचराऽभीरुबलारास्नागोक्षुरकात् पृथक्| तुलां जलद्रोणशते पचेद् द्रोणाऽवशेषिते| पूतशीते विसद्राक्षातवक्षीरीनिदिग्धिकाः| महासहाक्षुद्रसहायष्टीमधुमधूलिकाः| जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम्| खर्जूरतालमज्जात्मगुप्तातामलकीकणाः| पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः| कल्कीकृत्य क्षिपेत्तस्मिन् पृथक्च प्रस्थसम्मितम्| रसं वराहमहिषबस्तमुष्कोद्भवं तथा| शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी| धात्रीबिदारीस्वरसं गव्यक्षीराऽऽढकद्वयम्| ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत्| सितच्छत्रकृतच्छायं सितवस्त्रावगुण्ठितम्| आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम्| कृत्वा स्वस्त्ययनं दद्यात्स्नेहबस्तिमयन्त्रणम्| प्राप्तस्तेनाऽतिवृषतां श्रमयेद्वनिताशतम्| निर्वलीपलितः कान्तश्चिरञ्जीवी भवेत्स च| नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः| व्यापन्नार्त्तवशुक्राणां पुत्रदाता रसायनम्||१५||
🔊 Audio coming soon
सहाचरादीनां पञ्चशतानि पलानि| जलस्य द्रोणशतम्| क्वथितशेषो द्रोणः| पूते शीते च बिसादि कल्कीकृत्य सूत्रविधानेन क्षिपेत्| वराहादीनां मुष्करसं पृथक् प्रस्थसम्मितम्| निनादशब्दस्य ब्रह्मादिभिः सम्बन्धः| ब्रह्मनिनादो वेदघोषः| सुबोधम्| अभीरुः शतावरी| मधूलिका गुडतृणः शरद्यन्यतमकाण्डः| उदीच्यं वालकम्| मृणालं विसाङ्कुरम्| (नि०) 'चूडामणिः शीतपाकी शिखण्डी कृष्णला तथा| उच्यटा ताम्रका गुञ्जा चतस्रः काकसाह्वया|' ओदनपाकी नीलसहचरः| वराहःसूकरः| बस्तः छागलः| धात्र्याऽऽमलकम्| बिदारी दारिका| ब्रह्मवेदः भेरीदुन्दुभिः| तेनेति स्नेहबस्तिना सहाचराद्येनाऽतिवृषतां प्राप्तो वनिताशतं श्रमं नयेत्| स च निर्वलीपलितत्वादिनान् भवेत्| एष च बस्तिर्नष्टशुक्रादीनां हितः| पुत्रदाता रसायनं च|| १५||
Adhikarana atideshenA~anuktanirdeshaH (16) · Śloka 16
एवं च बस्तयोऽन्येऽपि कल्प्याः पाक्याश्च नैकशः| शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति||१६||
🔊 Audio coming soon
एवञ्चाऽनया दिशाऽन्येऽपि स्वबुद्ध्या बृंहणा बस्त्यः कल्प्याः| यथासम्भवं चाऽनेकशः पाक्याश्च शुक्रकरौषधैः|| १६||
Adhikarana saparihArAH snehabastayaH vAtaghnAH snehabastayaH| (17) · Śloka 17
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः| दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्| गुडूच्यैरण्डपूतीकभार्ङ्ह्गीवृषकरोहिषम्| शतावरीं सहचरं काकनासां पलांशकम्| यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्| वहे विपाच्य तोयस्य द्रोणशेषेण तेन च| पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः| अनुवासनमित्येतत् सर्ववातविकारनुत्| आनूपानां वसा तद्वज्जीवनीयोपसाधिता| शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे| सैन्धवेनाऽग्निवर्णेन तप्तं चाऽनिलजिद्घृतम्||१७||
🔊 Audio coming soon
दशमूलेत्यादिना स्नेहबस्तयो वक्ष्यन्ते| ये दोषघ्नाः सपरिहाराश्च| परिहारा येषां विद्यन्ते| यन्त्रणां विना बाधावहा इत्यर्थः| दशमूलादीनां प्रत्येकं पृथक् पलम्| यवादीनां द्वे पले प्रत्येकमिति क्वाथे जीवनीयादिकल्कैरन्वितं सिद्धं तैलमनुवासनं सर्ववातविकारनुत्| आनूपानां वराहादीनां मत्स्यवर्गत्रितयोक्तानां प्राणीनां यथासम्भवं वसा जीवनीयैरुपसाधिता| तद्वदनुवासनं सर्ववातविकारनुद् भवति| शताह्वादिसिद्धं तैलं समीरणेऽनुवासनम्| अतीवाऽनले तप्तेन सैन्धवेन तप्तं घृतमनिलजिदनुवासनम्|| १७||
Adhikarana bRuMhaNatvAdiguNamanuvAsanam (18) · Śloka 18
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्| शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्| स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्| पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे| बॄंहणं वातपित्तघ्नं बलशुक्राग्निवर्द्धनम्| रजःशुक्राऽऽमयहरं पुत्रीयं चाऽनुवासनम्||१८||
🔊 Audio coming soon
जीवन्त्याद्ये स्नेहाच्चतुर्गुणं क्षीरम्| कल्कः स्नेहाच्चतुर्थाशेन| एतत्तैलघृतमनुवासनं बृंहणात्वादिगुणम्|| १८||
Adhikarana pittaghnamanuvAsanam (19) · Śloka 19
शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे| तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम्||१९||
🔊 Audio coming soon
शीतस्पर्शैः शीतवीर्यैरेव च केवलशीतस्पर्शवीर्यैर्द्रव्यैर्घृतं सिद्धम्| घृतात् क्षीरे चतुर्गुणे तैलं पादेन समं यस्य| एतदनुवासनं पित्तघ्नम्|| १९||
Adhikarana kaphaghnAnyanuvAsanAni (20) · Śloka 20
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा| ह्नीबेरं मधुकं भार्ङ्गी देवदारु सकट्फलम्| नागरं पुष्करं मेदा चविका चित्रकः शठी| विडङ्गाऽतिविषे श्यामा हरेणुर्नीलिनी स्थिरा| बिल्वाऽऽजमोदचपला दन्ती रास्ना च तैः समैः| साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्| वर्ध्मोदावर्तगुल्माऽर्शः प्लीहमेहाऽऽद्यमारुतान्| आनाहमश्मरीं चाऽऽशु हन्यात् तदनुवासनम्| साधितं पञ्चमूलेन तैलं बिल्वादिनाऽथवा| अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः| फलैरष्टगुणे चाऽम्ले सिद्धमन्वासनं कफे||२०||
🔊 Audio coming soon
सैन्धवादिभिः समैः साध्यं तिलतैलमेरण्डतैलं वा| तदनुवासनं कफरोगनुद वर्ध्मादींश्च हन्यात्| निचुलं दीर्घपत्रो वेतसः| ह्नीबेरं वालकम्| कट्फलं सोमवल्कः| श्यामा त्रिवृत्| चपला पिप्पली| बिल्वादिना वा पञ्चमूलेन साधितं तैलमनुवासनं श्लेषमहरं भवति| अथवा कफघातिभिर्द्रव्यैः शीतशिवशतपुष्पेत्यादिना शोधनादिगणे पठितैः| स्नेहादष्टगुणेऽम्ले काञ्जिकादौ सिद्धं तैल मनुवासनं श्लेष्महरम्|| २०||
Adhikarana sakaPAdiShu nirUhaH (21) · Śloka 21
शूलाऽऽनाहे तु तद्युक्तो निरूहः पटुमूत्रवान्||२१||
🔊 Audio coming soon
यदा तु सकफस्य शूलमाऽऽनाहश्च भवति तदा तेन कफहरद्रव्यसिद्धेन तैलेन युक्तो योग्यो निरूहः पटुना लवणेन मूत्रेण च युक्तो विधेयः|| २१||
Adhikarana bastyupayogiPalAnAmadhikAravisheShaH (22) · Śloka 22
पृच्छतिस्म मुनिमित्यथ धीमा- नग्निवेश इह किन्तु फलानाम्| बस्तिकर्मणि हितं सततं स्या- त्तं पुनर्वसुरिति प्रशशास| इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम्| कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु| उदरे कृतवेधनं हितं मदनं सर्वगदाऽविरोधि च| मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णापिच्छिलम्| कफपित्तहृदाऽऽशुकारि य- न्निरपायं पवनाऽनुलोमि च| प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति||२२||
🔊 Audio coming soon
पृच्छतीत्यादिना फलानां मध्याद्बस्तिकर्मणि किं हितं स्यादिति| अथेत्यग्निवेशप्रश्ने| तमग्निवेशं पुनर्वसुरिति प्रशशास| किमित्याऽऽह-इहेत्यादि| उभयत्राऽपीहेत्यायुर्वेदे| सुबोधम्| (नि०) 'जीमूतको देवताऽस्तिक्तकोशा गरागरी| प्रोक्ताऽऽखु विषहावेणी देवतालि च ताडकः|| कटुकाऽऽलाबुनी तुम्बी लम्बापिण्डफला तथा| इक्ष्वाकुः क्षत्रियवरस्तिक्तबीजा महाफला||' कुटजफलमिन्द्रयवम्| कोशफलं धामार्गवाख्याया राजकोशातक्याः फलम्| कृतवेधनं घाण्डोलिकाख्यायः| केशातक्याः फलम्| तदिति मदनम्| सर्वगदाऽविरोधित्वे हेतुर्मधुरादिगुणत्वेन| वातादिहित्वे च| पिच्छिलं मार्दवापादनम्| आशु स्वं कर्म करोतीत्याऽऽशुकारी| निरपायमयोगादिना अपायनं करोत्यतो मधुरत्वादिहेतोस्तत् फलादिषु मदनफलादिषु शोधनादिगण पठितेषु बस्तिद्रव्येषु प्रवरं श्रेष्ठमाऽऽस्थापनानां योजनासु स्मृतमाऱ्चार्यैः|| २२||
Adhikarana cikitsAyAM basteH prAdhAnyam (23) · Śloka 23
अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः| इदमतिगहनं सहान्यशिष्यै- रवनिगतोऽञ्जलिमग्रतो निधाय| चित्रकर्मगुणकृद् गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः| शीघ्रमापतति चाऽनु स देहात् सर्वतः कथमपोहति दोषान्| ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा| दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान्| शाख़ागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वाऽवयवाङ्गजाश्च| ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति| विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः| तस्याऽतिवृद्धस्य शमाय नान्य- द्बस्तेः समं भेषजमस्ति यस्मात्| शाम्यन्ति यत्नेन जितेऽनिले च तदीरिताः पित्तकफादयोऽपि| तस्माच्चिकित्साऽर्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके||२३||
🔊 Audio coming soon
अथाऽनन्तरं मुनिवृषभे पुनर्वसौ फलकल्पनावाक्यं निगद्य उक्त्वा| स्थितवतिवाक्याद् विरतेऽग्निवेशेऽञ्जलिमग्रतो निधाय अवनौ निपत्य| भूयः पुनर्विज्ञापयाम्बभूवाऽन्यैर्भेलादिभिः शिष्यैः सह| किमित्याह-चित्रेत्यादि| गुरुणा भवता बस्तिर्विचित्रकर्मकृतविचित्रगुणकृच्चोक्तः| अथ च बस्तिर्नाभेरूर्ध्वं नैति| न च बहुकालं देहे तिष्ठति| अपि तु शीघ्रमाऽऽपतति| एवं स्वरूपः स कथं दोषानपोहति| इति विज्ञापना| एवं विज्ञप्तो गुरुः पुनर्वसुस्तमग्निवेशमित्यूचे| किमित्याह- देहस्य यत्किञ्चिद्बहिराश्रितं कान्तिवर्णगमनग्रहणादि| यच्चान्तराश्रितं धात्वादि| तत्सर्वं मारुतवश्यं वातवशाद् भवति| तस्य तु सर्वशरीरोगकारकरणभूतस्य वायोर्बस्तिर्दुष्टस्य सतोऽनुलोमतां जनयद्विषमानपि कृच्छ्रानपि रोगपूगान् व्याधिसङ्घान् हिनस्ति| अपि च ये रोगाः शाख़ागताः सन्ति ये च कोष्ठगता ये च मर्मादिजास्तेषां रोगाणां जन्मनि वायोः परमन्यो हेतुर्नास्ति| विडाऽऽदिमलाचयानाञ्च वायुरेव विक्षेपसंहारौ करोति यस्मात्| यस्माच्च तस्य वायोरतिवृद्धस्य शमायऽन्यद् भेषजं बस्तिसमं नास्ति| यस्माच्चैतेन बस्तिनाऽनिले वायौ जिते तदीरिताः पित्तादयोऽपि शाम्यन्ति| तस्माद्धेतोराचार्याः चिकित्साऽर्धमिति नाम्ना बस्तिं ब्रुवन्ति| एक आचार्याः बस्तिं सर्वां चिकित्सां ब्रुवन्ति| बस्तिरेव चिकित्सेत्यर्थः| शाख़ा रक्तादये धातवः| तथा कोष्ठो महास्रोतः| मर्म हृदयादि| ऊर्ध्वाङ्गं शिरः| अङ्गशब्देन देहपर्यायेणोर्ध्वादीनां सम्बन्धः| पित्तादीत्यादिशब्देन स्वेदादीनां ग्रहणम्| कफादय इति रसादीनां ग्रहणम्|| २३||
Adhikarana prAdhanye yuktayaH (24) · Śloka 24
यच्च पक्वाशयस्थोऽपि दोषानापादमस्तकम्| वीर्येण बस्तिरादत्ते स्वस्थोऽर्को भूरसानिव| यत्तत्रौषधवीर्यं हि तदपानेन वायुना| पर्याप्तमचिरादेव समानः प्रतिपद्यते| समानादुत्तरं चैवं व्यानाद्याः पवनाः क्रमात्| ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः| प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च| सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ| व्यानस्तिर्यगपानोऽधः प्राणश्चोर्ध्वं प्रकर्षति| यथास्वमेव नाडीभिर्हारिणीभरिवोदकम्| एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः| व्याप्नुवत्प्रसभं हन्ति सकृच्छानपि यक्ष्मणः||२४||
🔊 Audio coming soon
यच्चेत्यादिनाऽपरो हेतुर्बस्तेरतिशये| पक्वाशायस्थितोऽपि बस्तिरापादमस्तकं स्थितान् दोषान् वीर्यैवाऽऽदत्ते| यथा स्वस्थ आकाशस्थोऽर्को भूरसान् दूरस्थानप्यादत्ते| यत्तत्रेत्यादिना पूर्वोक्ते युक्तिः| तत्रेति बस्तौ यदौषधानां वीर्यं तदपानाऽऽख्येन वायुना समन्तात् प्राप्तमचिरादेव वीर्यं समानाख्यः प्राप्नोति| समानस्य पश्चाद्व्यानोदानप्राणाः| क्रमेण पञ्च वायवः इत्यौषधवीर्येण तृप्ताः प्रकृतिं स्वरूपं याताः| तनौ शरीरे स्वान् स्वान् वायव्यान् भूतगुणांस्तैर्गुणैस्तर्पयन्ति| परितः समन्तात्| किम्भूताः ? आह-शरीराऽनुग्रहे स्वास्थ्यसंवाहने स्थिताः| किं कृत्वा? आह-प्रसह्य पित्तश्लेष्माणौ यथास्वं स्थाने निवेश्य| तर्पयन्ति परितश्च| बस्तिं व्यानस्तिर्य्यगपकर्षति| अपनाश्चाऽधः| प्राणश्चोर्ध्वमपकर्षति यथात्मीयनाडीभिः| यथाऽन्यः कश्चिद्धारिणीभिः केदारेशूदकमपकर्षति| हारिण्यः केदारजलसञ्चरणवीथयः| एवमित्यादिनानिगमनम्| बस्तिः सुप्रयोजितः| सन् वातैर्हेतुभिः सिराभिश्च वपुर्व्याप्नुवत् सकृच्छ्रानपि यक्ष्मणो व्याधीन् प्रसभं हन्ति|| २४||
Adhikarana bastiguNasaMgrahaH (25-26) · Śloka 26
बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च| स्रोतांस्यन्तः शोधयित्वा च कुर्या- दोजस्तेजः शुक्रमेधाग्निदीप्तिम्||२५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रह- संहितायां कल्पस्थाने सिद्धबस्तिकल्पोनाम पञ्चमोऽध्यायः||२६||
🔊 Audio coming soon
तस्मात् सर्वकर्मणां वमनादीनां बस्तिः प्रधानम्| निःशेषतश्च सर्वानातङ्कान् हन्ति| अन्तःस्रोतांस्यणूनि शोधयित्वा ओजःप्रभृतींश्च कुर्यात्|| २५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां कल्पस्थाने पञ्चमोऽध्यायः