Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. bastivyāpatsiddhiḥ

Adhikarana atha bastivyApatsiddhirnAma ShaShTho~adhyAyaH, pratij~jA (1) · Śloka 1

अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः| इति ह स्माहुराऽऽन्नेयादयो महर्षयः||१||

🔊 Audio coming soon

बस्तीनां कल्पनां प्रदर्शयित्वा तेषामेवोपयोगे व्यापदस्तत साधनञ्च प्रदर्शयितुमध्याय आरभ्यते|| १||

Adhikarana bastervyApadaH (2) · Śloka 2

विबन्धगौरवाऽऽध्मानशिरोरुग्वाहनोर्ध्वगाः| कुक्षिशूलाऽङ्गरुघिध्माहृत्पीडाकर्त्तनस्रवाः| अयोगादतियोगाच्च बस्तेः स्युः षडापदः||२||

🔊 Audio coming soon

बस्तेरयोगाद्विबन्धादयः षडाऽऽपदो व्याधयः स्युः| तस्यैवाऽतियोगात् कुक्षिशूलादयः षडाऽऽपदः स्युः| एताश्चापदः प्रधानाः कीर्त्तिताः| एतदनुयायिनां हि पृथगत्रैव वक्ष्यमाणत्वात्| वाहनं प्रवाहिका| ऊर्ध्वगाऽऽख्या व्यापद्यत्र बस्तिर्मुखनासिकान्निरेतीति| कर्त्तनं नाभ्यादीनां कर्त्तनमिव| स्रवोऽसृगादिपरिस्रवः|| २||

Adhikarana vibandhAkhyA vyApatsiddhishca (3) · Śloka 3

अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः| शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा| बस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्| करोति वातविण्मूत्रविबन्धमतिदारुणम्| नाभिबस्तिरुजां दाहं हृल्लेपं श्वयथुं गुदे| कण्डूं गण्डानि वैवर्ण्यमरतिं वह्निमार्दवम्| क्वाथद्वयं प्राग्विहितं मध्ये दोषेऽतिसारिणि| उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते| फलवर्त्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्| बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्| सुराविण्मूत्रवान् बस्तिः सप्राक्येष्यस्तमानयेत्||३||

🔊 Audio coming soon

अस्निग्धेत्यादिना प्रच्छाद्यं सर्षपैः शिर इत्यवमन्तेन ग्रन्थेन षण्णामयोगाऽऽपदां क्रमेण हेत्वादिकमुच्यते| बस्तिरत्युष्णेत्यादि श्रेष्ठं भिषग्जितमित्येवमन्तेनाऽतियोगापदाम्| तत्राऽस्निग्धादिगुणस्य पुंसः शीतादिगुणो बस्तिर्दोषं संक्षोभ्य दुर्बलत्वाच्छीतवीर्यत्वात्तं क्षुब्धदोषमनिर्हरन् वातादीनां विबन्धमतिदारुणं करोति नाभिदाहादिकञ्च| अल्पद्रव्यमात्रः स्नेहाम्ल मूत्रादिवर्जितः| प्रक्चिकित्सिते मध्यदोषेऽतिसारिणि क्वाथद्वयं विहितं प्रमथ्याख्यं मागधिकादीनां जलजलदादीनाञ्च| तस्मात् क्वाथद्वयाद्दोषाद्यपेक्षयैकस्य क्वाथस्य तत्रायोगस्य षड्विधत्वान्नाभिशूलादिके पानं प्रशस्यते| फलवर्त्त्यादिकं च प्रशस्यते| कालं ज्ञात्वां विरेचनयोग्ये विरेचनं हितम्| बिल्वमूलादिमान् बस्तिः प्राक्येष्यैर्वान्यादिभिर्वस्तिकल्पोक्तैर्युक्तस्तमयोगिनं बस्तिमानयेत्| विट् च मूत्रञ्च प्राणिनामेव| इति विबन्ध उक्तः|| ३||

Adhikarana gauravAkhyA vyApatsiddhishca (4) · Śloka 4

सशेषामे निरूहेण मृदुना दोष ईरितः| मूर्च्छयत्यनिलं मार्गं रुणद्ध्यग्निण् हिनस्ति च| गौरवक्लमहच्छुलदाहसम्मोहवेष्टनम्| ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः| पिप्पलीकत्तृणोशीरदारमूर्वाशृतं जलम्| पिबेत्सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम्| वचानागरशुण्ठ्योर्वा दधिमण्डेन मूर्च्छिताः| पेयाः प्रसन्नया वा स्युररिष्टेनाऽसवेन वा| दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम्| पिष्ट्वा कुष्ठञ्च मूत्रेण पिबेत्क्षारांश्च दीपनान्| बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्||४||

🔊 Audio coming soon

सशेषामेत्यादिना गौरवमुच्यते| सशेषामेऽनुत्पन्ननिरामके पुरुषे मृदुना निरूहेण दोष ईरितोऽनिलं वायुं मूर्च्छयति ज्वलयति| माऱ्गञ्च रुणद्धि| अग्निञ्च हिनस्ति| ततोऽनन्तरं गौरवादिकं कुर्यात्| तमातुरं रूक्षादिभिरुपचरेत्| तत्र च पिप्पल्यादिभिः शृतं जलं सौवर्चलोन्मिश्रं पिबेत्| तद्धि दीपनं शोधनञ्च| अथवा वचादयो दधिमण्डेन मस्तुना मूर्च्छिता आलोडिताः प्रसन्नया वा पेयाः स्युः| आसवेन वाऽरिष्टेन वा पेयाः स्युः| दार्वादिकं च मुत्रेण पिष्टं पिबेत्| चिकित्सितोक्तांश्च दीपनान् क्षारान् पिबेत्| अस्य चाऽयोगिनो दशमूलनिर्वृत्तं बस्तिं समूत्रं विदध्यात्| इत्युक्तं गौरवम्|| ४||

Adhikarana AdhmAnAkhyA vyApatsiddhishca (5) · Śloka 5

युक्तोऽल्पवीर्य्यो दोषाढ्ये रूक्षे क्रूराऽऽशयेऽथवा| बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम्| सविमार्गोऽनिलः कुर्यादाऽऽध्मानं मर्मपीडनम्| विदाहं गुदकोष्ठस्य मुष्कवंक्षणवेदनाम्| रुणद्धि हृदयं शूलैरितश्चेतश्च धावति| स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्त्ति प्रयोजयेत्| बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमून्नवान्| सरलाऽमरदारुभ्यां साधितं चाऽनुवासनम्||५||

🔊 Audio coming soon

युक्त इत्यादिनाऽऽध्मानमुच्यते| दोषाऽऽढ्यादिके पुरुषेऽल्पवीर्यो बस्तिर्युक्तो दोषैरावृतत्वाद्रुद्धमार्गः सन् समीरणं वातं रुन्ध्यात्| सोऽनिलः समीरणो रुद्धमार्गत्वाद् विमार्गग आध्मनादीन् कुर्यात्| इतश्चेतश्च कोष्ठेऽनिले धावति| तत्राऽयोगे स्वभ्यक्तिस्विन्नगात्रस्य वर्ति प्रयोजयेत्| बस्तिकल्पोक्तश्च बिल्वादिनिरूहः| पील्वादिमांस्तत्र स्यात्| सरलदेवदारुभ्यां साधितमनुवासनं स्यात्| अर्थात्तैलम्| इत्युक्तमाध्मानम्|| ५||

Adhikarana shirorugA~a~akhyA vyApatsiddhishca (6) · Śloka 6

बहुदोषेऽबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः| शीतोऽल्पश्चावृतो दोषैः प्रतिहन्ति समीरणम्| ऊर्ध्वं सोऽनुसरन् देहं कुर्याद्वायुः शिरोरुजम्| ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम्| तमुष्णतैललवणप्रदिग्धं स्विन्नमर्दितम्| तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैराऽऽस्यविरेचनैः| विरेकैर्बस्तिभिश्चाशु योजयेदानुलोमिकैः||६||

🔊 Audio coming soon

बहुदोषेत्यादिना शिरोरुगुच्यते| बहुदोषबलरहितादिके तनुत्वादिगुणे बस्तियुक्तो दोषैरावृत्वात् समीरणस्य वेगप्रतिघातं करोति| स प्रतिहतो वायुरूर्ध्वं देहमनुसरञ्छिरोरुगादीन् कुर्यात्| दृष्टिविभ्रमो दृष्टिविकारः| तमातुरमुष्णतैललवणाभ्यां प्रदिग्धं पश्चात्स्विन्नं पश्चाच्च मर्दितं तीक्ष्णैरानुलोमिकैश्च धूमादिभिर्योजयेत्| इत्युक्ता शिरोरुक्|| ६||

Adhikarana pravAhaNA~a~akhyA vyApatsiddhishca (7) · Śloka 7

स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः| उत्क्लेश्याऽल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम्| शोफं बस्तावपाने च सदनं चोरुजङ्हयोः| विबन्द्धमारुतो जन्तुरभीक्ष्णं सः प्रवाहते| स्वेदाभ्यङ्गनिरूहांश्च शोधनीयानुलोमिकान्| विदध्याल्लङ्घयित्वा च वृत्तिं तस्य विरिक्तवत्||७||

🔊 Audio coming soon

स्निग्धस्विन्नेत्यादिना प्रवाहणमुच्यते| महादोषेऽतिस्निग्धेऽतिस्विन्ने च यो बस्तिरल्पशक्तितरल्पमानश्च स दोषमुत्क्लेश्याऽल्पं हरेत्| प्रवाहिकां जनयेच्च| प्रवाहिकाया लक्षणमुक्तम्| बस्तिशोफादिकं च जायेत| स च जन्तुर्विबद्धमारुतत्वादत्यर्थं प्रवाहते निस्तनति| तस्याऽतियोगिनः स्वेदादीन् विदध्यात्| तस्य च लङ्ह्गयित्वा विरिक्तवत् पेयादिकेन वृत्तिं विदध्यात्| इत्युक्तं वाहनम्|| ७||

Adhikarana UrdhvagA~a~akhyA vyApat (8) · Śloka 8

कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया| अस्निग्धलवणोष्ण्पो वा बस्तिरल्पोऽल्पभेषजः| मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्| निरेति मूर्च्छाहृल्लासतृड्दाहादीन् प्रवर्त्तयन्||८||

🔊 Audio coming soon

कुर्वत इत्यादिनोर्ध्वग उच्यते| वेगसंरोधं पुरुषस्याऽस्निघ्धत्वादिगुणो बस्तिर्मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकान्निरेति| मूर्च्छदीन् प्रवर्त्तयन् अतिमात्रया वा प्रणीयमानः पीडितः|| ८||

Adhikarana mUrcCAvikAre karmavisheShaH (10) · Śloka 9

मूर्च्छाविकारं दृष्ट्वाऽऽस्य सिञ्चेच्छीताम्बुना मुखम्| वीजेदाक्लमनाशाच्च प्राणायामं च कारयेत्||९||

🔊 Audio coming soon

अस्य त्वाऽऽतुरस्य मूर्च्छाविकारं दृष्ट्वा झटिति शीताम्बुना मुखं सिञ्चेत्| एवं हि बस्तिरूर्ध्वं न याति| यावच्चक्लमनाशस्तावद्व्यजनैर्वीजेत्| ततश्च प्राणायामं श्वासरोधं कारयेत्|| १०||

Adhikarana basteradhaHpravarttanArthamupAyAH (11) · Śloka 11

पृष्ठपार्श्वोदरं मृद्यात् करैरुष्णैरधोमुखम्| केशेषूत्क्षिप्य धुन्वीत भाययेद्व्यालदंष्ट्रिभिः| शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः||११||

🔊 Audio coming soon

उष्णैश्च करैरधोमुखमातुरस्य पृष्ठादिकं मृद्यात्| तञ्च केशेषूत्क्षिप्य धुन्वीत| व्यालादिभिश्च भाययेत्| तथा ह्यूर्ध्वं प्रवर्त्तमानो बस्तिरध एवैति|| ११||

Adhikarana galapIDAdikarmANi (12) · Śloka 12

पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा| प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः| अपानः पवनो बस्तिं तमाश्वेवापकर्षति||१२||

🔊 Audio coming soon

तस्य च मरणं रक्षन् पाण्यादिभिर्गलापीडं कुर्यात्| एवं हि प्राणस्योदानस्य च नोरिधादपानः सुप्रसिद्धतरमार्गः सन् तं बस्तिमाश्वेवाऽपकर्षति|| १२||

Adhikarana anulomanArthamauShadhaprayogaH (13) · Śloka 13

कुष्ठकमुककल्कं च पाययेदम्लसंयुतम्| औष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्| गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोऽनुलोमनम्||१३||

🔊 Audio coming soon

तञ्च कुष्ठक्रमुकयोः कल्कमम्लेन काञ्जिकादिना पाययेत्| क्रमुकं लोध्रम्| स कल्कोऽस्याऽऽतुरस्यौष्ण्यादिना बस्तिमूर्ध्वं प्रवर्त्तमानमधोऽनुलोमयेत्| अथवा त्रिवृत्पथ्याकल्कं गोमूत्रेण पाययेत्||१३||

Adhikarana pakvAshayasthite bastivisheShaprayogaH (14) · Śloka 14

पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः| यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः| बस्तिर्गोमूत्रसिद्धैर्वा साऽमृतावंशपल्लवैः| पूताकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः| सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्||१४||

🔊 Audio coming soon

पक्वाशयस्थे बस्थौ स्विन्ने पुरुषो दाशमूलिको निरूहो विधेयः| यवादिभिश्च मूत्रसाधितैर्बस्तिर्विधेयः| अथवा पूतीकरञ्जादिभिरमृतावंशपल्लवाभ्यां युक्तः सतैलादिको विरेचनद्रव्यकल्कवान् बस्तिर्विधेयः|| १४||

Adhikarana uraHshiraHsthitayoH kiryAvisheShaH (15) · Śloka 15

बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते| शिरस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः||१५||

🔊 Audio coming soon

उरःस्थिते बस्तौ बिल्वादिपञ्चमूलेन सिद्धो बस्तिर्विधेयः| शिरःप्राप्ते बस्तौ नावनादिकम्| इत्युक्ताः षड्योगापदः|| १५||

Adhikarana kukShishUlAkhyA vyApatsiddhishca (16) · Śloka 16

बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा| अल्पदोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः| अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत्| विरेचनातियोगेन स तुल्याकृतिसाधनः| पृश्निपर्णी स्थिरां पद्मं काश्मर्यं मधुकोत्पले| पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने| द्राक्षायः पक्वलोष्टस्य प्रसादे मधुकस्य वा| विनीय सघृतं बस्तिं युञ्ज्याद्दाहेऽतियोगजे||१६||

🔊 Audio coming soon

बस्तिरित्यादिनाऽतियोगापद उच्यन्ते| उष्णादिगुणवान् बस्तिः प्रयुक्तोऽरिस्वेदितस्य वा प्रयुक्तः अल्पदोषादिके वा पुनः पुनः प्रयुक्तोऽतियोगमापन्नः सन् कुक्षिरुजाकरो भवेत्| सोऽतियोगो विरेचनाऽतियोगेन तुल्यलक्षणस्तुल्यसाधनश्च| बस्त्यतियोगजदाहे पृश्निपर्ण्यादिकं पिष्ट्वा क्षीरादीनामन्यतमं विनीय निक्षिप्य सघृतं बस्तिं युञ्ज्यात्| इत्युक्रं कुक्षिशूलम्|| १६||

Adhikarana a~ggarugA~a~akhyA vyApatsiddhashca (17) · Śloka 17

स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णोऽतिमात्रकः| दुःस्थिताय प्रणिहितो बस्तिर्दुःशोधिताय वा| अतिप्रवृत्तो मरुतं कोपयेत् स विमार्गगः| करोत्यङ्गरुजां जृम्भां स्तम्भं भेदञ्च पर्वणाम्| तं तैललवणाऽभ्यक्तं स्वेदितं प्रस्तरादिभिः| बिल्वकोलयवैरण्डवर्षाभूबृहतीद्वयैः| सकुलत्थैः शृतं मस्तु फलसौवीरकान्वितैः| आस्थापयेत्ससिन्धूत्थैर्जाङ्गलैराऽऽशितं रसैः| तैलेनाऽनिलजिद् द्रव्यविपक्वेनाऽनुवासयेत्||१७||

🔊 Audio coming soon

स्नेहेत्यादिनाऽङ्गुरुगुच्यते| स्नेहस्वेदाभ्यां असम्पाद्याऽनिष्पन्नं कृत्वा गुर्वादिको बस्तिरतियोगं प्रवृत्तः सन् मरुतं कोपयेत्| सकुपितो मरुद्विमार्गगतः सन्नङ्गरुजादिकं करोति| अन्यस्मै दुःशोधिताय वा| तमतियोगिनं तैललवणाभ्यामभ्यक्तं प्रस्तरादिभिश्च स्वेदविध्युक्तैः स्वेदितं बिल्वादिभिर्मस्त्वाद्यन्वितैः शृतैः ससिन्धूत्थैश्चाऽऽस्थापयेत्| अनु च जाङ्गलै रसैरशितं भोजितं वातहरद्रव्य सिद्धेन तैलेनाऽनुवासयेत्| इत्युक्ताऽङ्गरुक्|| १७ ||

Adhikarana hidhmAkhyA vyApatsiddhishca (18) · Śloka 18

मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्| कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणञ्च यत्| बलाबृहत्यादिवराकाश्मर्यफलसैन्धवैः| सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत्| उष्णाम्बुनाऽक्षं पिप्पल्या दद्याल्लवणसंयुतम्| धूमलेहरसक्षीरस्वेदांश्चान्नं च वातजित्||१८||

🔊 Audio coming soon

मृदुकोष्ठ इत्यादिना हिध्मोच्यते| मृदुकोष्ठबलरहितादिकेऽतितीक्ष्णो बस्तिरतिनिर्हरन् दोषं हिध्मां कुर्यात्| तत्र हिध्माचिकित्सितमन्यद् बृंहणं च हितम्| ततो बलाबृहत्यादिभिः प्रसन्नादिभिश्च तैलं पक्त्वाऽनुवासयेत्| बृहत्यादिलघुपञ्चमूलम्| आरनालाऽम्लमम्लाऽऽरनालम्| अक्षं कर्षं पिप्पल्याः| लवणेन युक्तमुष्णाम्बुना दद्यात्| धूमादिंश्च वातनुदन्नं च दद्यात्| इत्युक्ता हिध्मा|| १८||

Adhikarana hRutpIDA~a~akhyA vyApatsiddhishca (19) · Śloka 19

अतितीक्ष्णः सवातो वा न वा सम्यक्प्रपीडितः| घट्टयोद्दृदयं बस्तिस्तत्र काशकुशोत्कटैः| स्यात् साम्लवणस्कन्धकरीरबदरीनलैः| शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चाऽनुवासनम्||१९||

🔊 Audio coming soon

अतितीक्ष्ण इत्यादिना हृत्पीडोच्यते| अतितीक्ष्णादिगुणो बस्ति-र्हृदयं घट्टयेत्| सवातो वा बस्तिर्यो निःशेषपीडितः स च| तत्र हृदयघट्टनेऽम्लस्कन्धलवणस्कन्धादिभिः कासादिभिश्च स्यात्| इत्युक्ता हृत्पीडा|| १९||

Adhikarana parikarttanAkhyA vyApatsiddhishca (20) · Śloka 20

मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णाऽतिमात्रकः| हृत्वा बस्तिर्मलाञ्छीघ्रं वातपित्ते प्रकोपयेत्| नाभिबस्तिगुदांस्ते हि कृन्ततोऽस्य मुहुर्मुहुः| विवर्णाऽल्पाऽल्पमुत्थानं बस्तिर्निलेखनाद्भवेत्| स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः| यष्ट्याह्वतिलकल्केन बस्तिः स्यात्क्षीरभोजिनः| ससर्जरसयष्ट्याह्वं जिङ्गिणीकर्दमाञ्जनम्| विनीयः दुग्धे बस्तिः स्याद्वयक्ताम्लरसभोजिनः| पिच्छिलश्च हितो बस्तिः स्नेहश्च मधुरैः शृतः||२०||

🔊 Audio coming soon

मृदुकोष्ठ इत्यादिना परिकर्त्तनमुच्यते| मृदुकोष्ठत्वादियुक्तस्य रूक्षादिगुणो बस्तिर्मलान् हृत्वा शीघ्रं वातपित्ते प्रकोपयेत्| अस्य चाऽऽतुरस्य ते वातपित्ते नाभ्यादीन् मुहुर्मुहुः कृन्ततः| बस्तेश्च मूत्राधारस्य निर्लेखनाद् विवर्णादिगुणमुत्थानं भवेत्| तत्र पयस्यादिभिः स्वादुशीतैः शृतो यष्ट्याऽऽह्वतिलयोः कल्केन युक्तो बस्तिः क्षीरभोजिनः पुरुषस्य स्यात्| जिङ्गिण्यादिकं ससर्जरसादि दुग्धे विनीय बस्तिः स्यात्| आम्लोत्कटं मांसरसं यो भुंक्तो तस्य पिच्छिलो बस्तिकल्पोक्तो बस्तिश्च हितः| मधुरैश्च शृतः स्नेहोऽनुवासने हितः| इत्युक्तं कर्त्तनम्|| २०||

Adhikarana parisrAvA~a~akhyA vyApatsiddhishca (21) · Śloka 21

बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा| गुदं लिखन् दहन् क्षिण्वन् करोत्यस्रपरिस्रवम्| स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः| बहुशश्चाऽतियोगेन मोहं गच्छति चाऽसकृत्| तत्राऽऽद्रैः शाल्मलीपत्रैः क्षुण्णैराजं पयः शृतम्| पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान्| वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च| सुवर्चलोपोदकयोः कच्छुदारे च शस्यते| गुदे च शीतमधुरान् कुर्यात् सेकप्रलेपनान्| रक्तपित्तातिसारघ्नी क्रिया चाऽत्र प्रशस्यते| दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्| तद्धि पित्तशकृद्वातान् हत्वा दाहादिकाञ्जयेत्| विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्| युञ्ज्याद्वाऽतिविरिक्तस्य क्षीणविट्कस्य भोजनम्| माषयूषेण कुल्मषान् पानं दध्यथवा सुराम्||२१||

🔊 Audio coming soon

बस्तिरित्यादिना परिस्रव उच्यते| अथवा पैत्तिकस्य क्षारादिगुणो बस्तिर्गुददाहादिकं कुर्वन्नस्रपरिस्रवं करोति| स परिस्रववान् विदग्धमसृग् बहुभिर्वणैः स्रवति| पित्तश्च तथाविधमनेकवर्णं स्रवत्य-तियोगेन| असकृच्चाऽसौ मोहं गच्छति| तत्राऽऽद्रैः शाल्मलीपत्रैः शृतं पयः पूतं घृतान्वितं च बस्तिं दद्यात्| अन्यांश्च पूर्वोक्तान् पिच्छिलान् बस्तीन् दद्यात्| एष च शाल्मलीपत्रकल्पो वटादिपल्लवेषु यवतिलानां पल्लवेष्वपीष्टः सुवर्चलादीनां च शस्यते| गुदे च शीतादिगुणान् सेकान् प्रलेपांश्च कुर्यात्| अत्र च रक्तपित्तघ्नी क्रिया शस्यते रक्ताऽतिसारघ्नी च| दाहादिषु द्राक्षमृदितवारिणा त्रिवृत्कल्कं पिबेत्| तत् त्रिवृत्कल्कयुक्तं मृद्वीकावारि पित्तादीन् हत्वा दाहादिकान् जयेत्| तेन च विशुद्धो यवागूं शर्करायुतां पिबेत्| अथवा योऽतिविरिक्ततया क्षीणविट्कस्तस्य माषय़ूषेण भोजनं युञ्ज्यात्| कुल्माषान् वा युञ्ज्यात्| कुल्माषः स्विन्नसस्यम्| पानं तु दधि वा सुरां वा युञ्ज्यात्| इत्युक्ताः षडतियोगाऽऽपदः|| २१||

Adhikarana atiyogAdiShu sAmAnyaM bheShajam (22) · Śloka 22

आमं यः कुणपं रुग्वानुपवेश्येत साऽरुचिः| स घनाऽतिविषाकुष्ठनातदारुवचाः पिबेत्| शकृद्वातमसृक्पित्तं कफं वा योऽतिसार्याते| पक्वं तत्र स्ववगीर्यो बस्तिः श्रेष्ठं भिषग्जितम्||२२||

🔊 Audio coming soon

यस्तु पुरुषो रुग्वानाऽऽमं कुणपं दुर्गन्धमुपवेश्येताऽरुच्या युक्तः स घनादिकं जलेन पिबेत्| अस्मिंश्चाऽतियोगे शकृदादिकं पक्वं योऽतिसार्यते तत्र स्ववर्गीय आत्मीयौषधनिर्वृत्तो बस्तिः श्रेष्ठं भिषग्जितम्| शकृदतिसारे सूत्रोक्तेन पुरीषसंग्रहणेन वर्गेण बस्तिः| एवं वातादीनामपि स्वशब्दार्थो व्याख्येयः|| २२||

Adhikarana vyApadaH saMsargabhedAdvibhinnatvam (23) · Śloka 23

षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति तु| केवलैः सह षट्त्रिंशद्विद्यात्सोपद्रवांश्च तान्| शूलप्रवाहिकाऽऽध्मानपरिकर्त्ताऽरुचिज्वरान्| तृण्मोहदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान्||२३||

🔊 Audio coming soon

एषां चाऽऽमादीनां षण्णां द्विसंसर्गात् द्विसंयोगेन त्रिंशद्भेदा भवन्ति| केवलैश्चाऽऽमादिभिः षट्| एवं षट्त्रिंशदतीसारभेदानुपद्रवैः सह भिषग् विद्यात्| तत्राऽऽमादिभिर्मिश्रिताः| सामं शकृत् सामवायुस्तथा सामं च लोहितम्| आमेन संयुतं पित्तं कफः सामस्तथैव च| शकृद्वातः शकृदसृक् शकृत्कफः| वातरक्तं वातपित्तं तथा वातकफं विदुः| असृक्पित्तं रक्तकफं पित्तं सकफमेव च| इत्येकस्य प्राधान्येन पञ्चदश| तद्यथा-शकृदाऽऽमः सवाताऽऽमः शोणिताऽऽमस्तथाऽपरः| पित्तामश्च बलासामो वातविड्रक्तविट् तथा| पित्तविट्कफविट् चैव रक्तवातस्तथाऽपरः| पित्तवातः कफमरुत्पित्तेनाऽसृक्कफेन च| कफपित्तमिति त्रिंशद्भेदाः षट् केवलैस्तथा| अथ तेषामुपद्रवानाह-शूलेत्यादि| यथासम्भवं योज्यम्| आदिशब्द एवञ्जातीयग्रहणार्थः||२३||

Adhikarana saMsargajAnAM vyApadAM cikitsA (24) · Śloka 24

तत्राऽऽमेऽन्तरपानं तु कट्वम्ललवणैर्युतम्| पाचनं शस्यते बस्तिराऽऽमे हि प्रतिषिध्यते| वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते| स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे| रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः| सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः| शकृता वायुना वाऽऽमे तेन वर्चसि वाऽनिले| संसृष्टेऽन्तरपानं स्यात् कट्वम्ललवणैर्युतम्| पित्तेनामेऽसृजा तद्वत्तयोराऽऽमेन वा पुनः| संसृष्टयोर्भवेत् पानं सकटुस्वादुतिक्तकम्| तथाऽऽमे कफसंसृष्टे कषायकटुतिक्तकम्| आमेन तु कफे युक्ते कषायलवणोषणम्| वातेन विशि पित्ते वा विट्पित्ताऽस्रैस्तथाऽनिले| स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः| बस्तिर्वातेन रक्ते तु कार्यः स्वाद्वम्लतिक्तकः| शकृच्छोणितयोः पित्तशकृतोरस्रपित्तयोः| बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः| कफेन् विशि पित्ते वा कफे विट्पित्तशोणितैः| कटुतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः| मधुरोषणतिक्तस्तु रक्ते कफविमूर्च्छिते| मारुते कफसंसृष्टे कट्वम्ललवणो भवेत्| स्याद्वस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे||२४||

🔊 Audio coming soon

तत्रेत्यादिना षट्त्रिंशतश्चिकित्सा| आमे केवले कट्वादिगुणैरौषधैर्युक्तमन्तरपानकं मुखेन योज्यं शस्यते| किं तदाऽऽह| पाचनम्| यत आमे बस्तिः प्रतिषिध्यते| केवले शकृति वातघ्न-वर्गसिद्धो वा बस्तिः संग्रहणसिद्धो वा| केवले समीरणे स्नेबस्ति-र्यः स्वाद्वम्लः प्रभूतलवणश्च| केवले रक्ते कषायादिगुणो बस्तिः| तथाविध एव पित्तप्रधाने रक्तपित्ते| केवले कफे सार्यमाणेऽतिसार्यति कषायकटुतिक्तको बस्तिः| आमप्रधाने शकृति शकृदाऽऽमे अन्तरपानकं मुखयोज्यं कट्वादिगुणद्रव्ययुक्तम्| वायुना वा युक्ते प्रधाने आमे तदेव| तेन चाऽऽमेन युक्ते प्रधाने वर्चसि तदेव| तेन वाऽऽमेन युक्ते प्रधानेऽनिले तदेव| पित्तेन युक्ते प्रधाने आमे तद्वत्| तद्वदिति कट्वम्ललवणैर्युक्तमन्तरपानम्| असृजा युक्ते प्रधाने आमे तद्वदेव| तयोः पित्ताऽसृजोरामेन संसृष्टयोः सकटुस्वादुतिक्तकं पानं भवेत्| तेन पित्तप्रधानमामपित्तमुक्तम्| रक्तप्रधानं चाऽऽमरक्तम्| कफसंसृष्टे प्रधाने आमे कषायादिगुणद्रव्ययुक्तमन्तरपानम्| आमेन युक्ते प्रधाने कफे कषायलवणोषणमन्तरपानम्| वातेन संसृष्टे प्रधाने शकृति कषायादिगुणो बस्तिरुत्तमः स्यात्| वातेन संसृष्टे प्रधाने पित्ते स एव बस्तिः| विडा च संसृष्टे प्रधाने स एव| पित्तेन च संसृष्टे प्रधानेऽनिले स एव| अस्रेण च संसृष्टे प्रधानेऽनिले स एव| वातेन संसृष्टे प्रधाने रक्ते स्वाद्वादिगुणो बस्तिः कार्यः| शकृच्छोणितयोरन्योन्यसंसर्गे शकृत्प्राधान्ये वा कषायादिगुणो बस्तिः कार्यः| एवं पित्तशकृतोऽन्योन्यसंसर्गे पित्तप्राधान्ये शकृत् प्राधान्ये च कषायादिगुणः| रक्तपित्तयोरपि रक्तप्राधान्ये पित्तप्राधान्ये च| कफेन युक्ते प्रधाने शकृति कट्वादिगुणो बस्तिरुत्तमः स्यात्| कफेन संसृष्टे पित्ते स एव| विशापित्तेन रक्तेन च संसृष्टे प्रधाने कफे स एव| कफेन विमूर्च्छिते संसृष्टे प्रधाने रक्ते मधुरादिगुणो बस्तिः| कफेन संसृष्टे मारुते कट्वादिगुणो बस्तिर्भवेत्| वायुना संसृष्टे प्रधाने कफे कट्वादिगुणो बस्तिः स्यात्| इति षट्त्रिंशतो भेदानां चिकित्सोक्ता|| २४||

Adhikarana atideshena rogAntareShUpayuktaM cikitsAsUtram (25) · Śloka 25

त्रिचतुः पञ्चषड्योगानेवमेव विकल्पयेत्| युक्तिश्चैषाऽतिसारोक्ता सर्वरोगेष्वपि स्मृता||२५||

🔊 Audio coming soon

अन्या द्विसंसर्गयुक्त्या त्र्यादिसङ्ख्यायोगन् विकल्पयेत्| न केवलमतिसारेष्वेवैतद्यथा विधिविषयं रसयोजनं बोद्धव्यम्| यावत् सर्वरोगेष्वपि आमादिकृतेष्वेतदेव संयोजनं यथाविषयं बोद्धव्यम्||२५||

Adhikarana sarvasaMsargeShu sAmAnyaM bheShajam (26) · Śloka 26

युगपत् षड्रसं षण्णां सम्सर्गे पाचनं भवेत्||२६||

🔊 Audio coming soon

सर्वेषु चाऽतिसारादिषु रोगेषु षण्णामामादीनां युगपत् षट्त्रिंशं यथोक्तं पाचनमिष्यते|| २६||

Adhikarana nirAmeShu bastivisheShaH (27) · Śloka 27

निरामाणां तु पञ्चानां बस्तिः षड्रसिको हितः||२७||

🔊 Audio coming soon

यदा त्वामादिना जातानं शकृतीनां पञ्चानां युगपत् संसर्गस्तदा षड्रसयुक्त एव बस्तिः|| २७||

Adhikarana sarvaiShvatisAravyApatsu sAmAnyaM bheShajam (28) · Śloka 28

उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः| शङ्खं सर्जरसं लाक्षां कत्तृणञ्च पलांशिकम्| पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरं द्विगुणितं पचेत्| अतिसारेषु सर्वेषु पेयमेतद्यथाबलम्| कच्छुराधातकिबिल्वसमङ्गारक्तमूलिभिः| मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः| बालोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः| मसूरधातकीपुष्पबलाभिश्च तथा भवेत्||२८||

🔊 Audio coming soon

उदुम्बरशलाट्वादीनां क्षीरद्विप्रस्थेन युक्तं सर्पिषः प्रस्थं विपचयेत्| मात्रया यथाबलं पेयं सर्वेष्वतिसारेषु| तदिति सर्पिः| शलाटुरभिनवं फलम्| त्वक्शब्देन जम्ब्वादीनां सम्बन्धः| कत्तृणं भूतीकम्| कच्छुरादिभिर्जले शृतैर्यवागूः स्यात्| कच्छुरा दुरालभा| समङ्गा मञिष्ठा| रक्तमूली शमीपत्राख्या| समङ्गा बालादुम्बरादिभिश्च यवागूर्भवेत्| तथेति जले शृतैः| कट्वङ्गः श्योनाकः|| २८||

Adhikarana vyApatsu yathAvasthaM cikitsopadeshaH (29-30) · Śloka 30

नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात्| यथायथं यथावस्थं तासं कुर्वीत साधनम्||२९|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां कल्पस्थाने बस्तिव्यापत्सिद्धिर्नाम षष्ठोऽध्यायः||३०||

🔊 Audio coming soon

बस्तिविभ्रमादसम्यग्योगात्रानाप्रकारा व्यापदो जायन्ते| तासां व्यापदां यथायथं यथास्वरूपं यथावस्थं च साधनं चिकित्सितं कुर्वीत इति|| २९|| इति श्रीमन्महामहोपाध्याय्न्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने षष्ठोऽध्यायः