Adhikarana atha kalpasthAnam- atha vamanakalpo nAma prathamo~adhyAyaH- upodghAtaH · Śloka
प्रथममस्मिन् स्थानचतुष्टयेन च प्रधानं तन्त्राङ्गं निर्णीतप्रायम्| केवलं तत्र तत्र वमनैश्च विरेकैश्चेत्येवमादि यदुक्तं तदव्यक्तत्वाद्वक्त्व्यमिष्टम्| न च वमनादीनां पञ्चानां कर्मणां याः कल्पनास्तासां सूत्रस्थान एव निर्णय उक्तः| यतस्तत्रार्थानां सूत्रणमेव कृतन्न तु सर्वथा निर्णयः| शारीरनिदानयोश्च पञ्चकर्मकल्पनानिर्णयो दूरोत्सारित एव| चिकित्सितस्थाने तु यद्यप्यवसरो विद्यते तथाप्यनेकाबाधसाधारणत्वात्पञ्चकर्मव्यवस्थापनाध्यायक्षेत्रत्वं दुरुपपादम्| असम्यग्योगेन च पञ्चकर्मणां या आपदस्तासां हेतुलिङ्गौषधकथनेऽयमेव कल्पः| भेषजकल्पनानां च वमनादिवदेव निर्णीतशिष्टत्वमतोऽस्य सर्वस्य वस्तुनो निर्णयाया पञ्चमस्य कल्पसिद्ध्याख्यस्य स्थानस्याऽस्मिन्नवसरे प्रारम्भो युक्तः| अतः स एवाऽऽरभ्यते| सिद्धिः कर्मणामसम्यग्योगेन ये गदास्तोषां प्रतीकारः| पञ्चानामपि कर्मणां मध्ये वमनस्यैव प्राधान्यम्| यतस्तत् सर्वौषधप्रयोगभूतोर्ध्वाऽङ्गोपद्रवस्य श्लेष्मणः परमौषधमतः प्रथममेव वमनस्य कल्पनां प्रदर्शयितुमध्याय आरभ्यते-
Adhikarana pratij~jA (1) · Śloka 1
अथातो वमनकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
वमनानां कल्पो वमनकल्पः, तम्| अथेत्यादि पूर्ववद्व्याख्येयम्| इति इत्यादि च|| १||
Adhikarana vamanadravyeShu madanaPalasya shreShThatA (2) · Śloka 2
वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटज- फलानि श्रेष्ठानि तेष्वपि मदनफलम्||२||
वमनानामौषधानाम्| तत्र वमनानि शोधनादिसंग्रहे पठितानि| मदनादीनां फलपत्रपुष्पाणि| कुटजादीनां फलानि| हस्तिपर्ण्याः शारदानि फलानि| कोविदारादीनां मूलानि| शाल्मल्यादीनां पिच्छा| प्रियङ्गो पुष्पम्| तालीसस्य पत्रम्| हरिद्रायाः शृङ्गावेरस्य च कन्दः| यष्टीदार्व्योः सारः| तगरादीनि चेति| एतेषां वमनद्रव्याणां मध्ये मदनादीनि षट् श्रेष्ठानि| तेष्वपि मदनफलमेव श्रेष्ठम्| ननु मदनादीनां केन रूपेण प्राधान्यं मन्यते, नैकं प्रधानं भवत्येकस्य प्राधानत्वेऽपरस्य प्रधानत्वहानेरत उच्यते|| २||
Adhikarana vamanadravyANAM shreShThatve hetuH (3) · Śloka 3
दोषदूष्यादिवशाच्चैषामेतत्कल्पनानाञ्च प्राधान्यम्||३||
दोषेत्यादि| दोषदूष्यबलकालप्रकृतिकोष्ठादिवशादेषां मदनफलादीनामेतत् कल्पनानां च संयोगसंस्कारादिकृतान् प्राधान्यम्| तेनैतदुक्तं भवति-न ह्येषामेकविषयत्वेन प्राधान्यमपि तु विषयभेदेन| यतः क्वचिदेव सा विलक्षणा दोषाणां सामग्री| यस्यां मदनमेव कार्यकर्त्तृत्वमासादयति, न तु तथा जीमूतकादीनि| अन्यस्यां जीमूतक एव, न तु मददनादीनि| सर्वत्रैवं वाच्यं दोषाद्यपेक्षयेति| अपि प्राधान्ये एतद्वर्जितानां तथा शक्त्यभावान्न प्राधान्यं एषां प्राधान्यमित्युक्तं न ह्यकल्पनानां प्रयोग उपपद्यत इति| यद्यपि कल्पनानामेव सुप्रयोग उक्तो भवति तथापि तासां पृथक् प्राधान्यमेतदर्थमुच्यते यद्वास्तवेन रूपेणैषां प्राधान्यं तन्न कयापि विधिकल्पनयाऽपहुर्त्तु शक्यते| अन्यानि हि द्रव्याणि संयोगसंस्कारादिभिरन्यथाभूतानि दृष्टानि| मदनादीनां पुनर्दोषाद्यपेक्षया प्रयुक्तानां न कथञ्चिदपि प्रधानत्वहानिरिति|| ३||
Adhikarana kalpasiddhisthAnasya prayojanam (4) · Śloka 4
दोषादीनामेव चाऽतिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विक- ल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदे क्ष्यते||४||
दोषदूष्यादिपरायत्तत्वं यथा वमनादीनां पञ्चानामपि तथा तेषां च दोषादीनां नानाविधस्वरूपत्वादिभिर्बहुत्वम्| तदनवस्थानादिना पारतन्त्र्येण च वमनादिकल्पनानामप्यतिबहुत्वम्| प्रत्येकं कल्पनानामसम्यग्योगस्यानेकरूपस्य सम्भवाद्व्यापदां बहुतरत्वम्| तासां च साधनस्य चिकित्सितस्याप्यसङ्ख्योयत्वमतः सर्वेषां दोषाद्यवस्थादीनामसङ्ख्येयत्वात् सर्वं कण्ठोक्त्या वक्तुं न पार्यते| केवलं बुद्धिमतां विकल्पमार्गस्य प्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते| साध्यैकदेश उदाहरणम्| शेषस्य तथा सम्प्रत्ययार्थम्|| ४||
Adhikarana madanAdInAM kalpanAvidhiH (5) · Śloka 5
अथ वसन्तग्रीष्मयोरन्तरे प्रशस्तेऽहनि मुहूर्त्ते च नाऽति- हरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बद्ध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थ- मुद्गाऽन्यतमराशावष्टरात्रमुषितान्यद्धृत्याऽऽतपे शोषयेत्|
सुशुष्काणां पिप्लीरुद्धृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत्||५||
अथेत्यादिना मदनादीनां यथाप्रधानं कल्पना उच्यन्ते| अन्तरे मध्ये| मुहूर्त्ते प्रशस्ते| ईषद् गृहीतपाकत्वान्नातिहरितानि च नातिपाण्डूनि च| तानि ह्युत्तरसंस्कारसहानि भवन्ति| तानीति मदनफलानि| प्रमृज्य पांस्वादिशोधनार्थम्| कुशमूटो दर्भमयी गुच्छिका| गोमयेनालिप्य तं कुशमूटम्| यवबुसाद्यन्यतमराशावष्टरात्रमपि वासयेत्| नवमेऽहनि गोमयलिप्तदर्भमूटादुद्धत्य तानि मदनफलान्यातपे शोषयेत्| सुशुष्काणामिति फलानाम्| पिप्पलीः फलान्तर्भवा| उद्धृत्य दधिहविरादिभिस्ताः क्रमेण मृदिताः पुनरातप एव शोषयेत्| पललं तिलकल्कः| ततस्ताभिः शुष्काभिररजस्कं निर्धूलि नवं मृतकलशमाकण्ठमापूरयित्वा सुगुप्तं निधापयेत्|| ५||
Adhikarana shleShmajvarAdiShu vamanavidhiH (6) · Śloka 6
ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पी- प्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रो- क्तविधिना पाययेत्|
श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्र- धिषु विशेषेण पुनःपुनरापित्तागमनात्|
तेन साधु वमति||६||
प्रयोकाले यदाऽऽतुरे प्रयुज्यन्ते| अन्तर्नखा मुष्टिर्यस्मिन् मुष्टौ नखानि न दृश्यन्ते| अथवा यावत् साधु मन्येतेति दोषाद्यपेक्षया| जर्जरीकृत्याऽवक्षुद्य| मधुयष्टीकषाये वा कोविदाराद्यन्यतमकषाये वा| कोविदारः प्रसिद्धः| कच्छुदारः श्लेष्मातकः| नीपो धूलीकदम्बः| बुदुलो बेतसः| बिम्बी रक्तफला तुण्डी तुण्डीकेरफला च सा| ओष्ठोपमफला गोधा पीलुपर्णी च तुण्डिका| शणपुष्पी बृहत्पुष्पी सा चोक्ता शणघण्टिका| महाशणा माल्यपुष्पी वामिनी कटुतिक्तका| सदापुष्पी अर्को बिल्वञ्च| प्रत्यक्पुष्प्यपामार्गः| इति सामान्येन श्लेष्मज्वरादिष्वनन्तरेण वामयेत्| पुनः पुनर्यावत् श्लेष्मणः स्रुतत्वात् पित्तस्यागमनम्|| ६||
Adhikarana balavatkaPAdiShu PalapippalIprayogaH (7) · Śloka 7
फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभाग- त्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेका- ऽपच्यर्बुदग्रन्थिज्वरोदराऽरोचकेषु पिबेत्||७||
अथवा बलवत्कफादिषु फलपिप्पलीनां चूर्णं स्वेन क्वाथेनैव भावितमनन्तरोक्तकोविदाराद्यन्यतमनिर्यूहेण पिबेत्|| ७||
Adhikarana pitte kaPasthAnAshrite vidhiH (8) · Śloka 8
फलमज्जचूर्णं वा जीमूतादिनिर्य्यूहेण पित्ते कफस्थान- गते||८||
जीमूतादि इत्यादिग्रहणेनैव प्रथममुक्तानाम् इक्ष्वाक्वादीनां चतुर्णा परिग्रहः| तच्च चूर्णं जीमूतादिनिर्यूहेण कफस्थानगते पित्ते पिबेत्|| ८||
Adhikarana adhogAsrapittahRuddAhayoH kalpanA (9) · Śloka 9
फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च||९||
पयोयवागूश्चाऽधोगास्रपित्तहृद्दाहयोः| तस्मिन्निति फलपिप्पलीसिद्धे पयसि सिद्धां यवागूम्|| ९||
Adhikarana vAminI santAnikA (10) · Śloka 10
तस्य वा पयसः शीतस्य सन्तानिकाञ्चलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे||१०||
तस्येति पिप्पलीसिद्धस्य पयसः| सन्तानिकां शीतस्य क्षीरस्योपरिजालिकां ततः अञ्जलिं चत्वारि पलानि| पित्ते प्रकुपिते उरःप्रभृतौ च तनुना कफेनोपदिग्धे समन्ताल्लिप्ते|| १०||
Adhikarana vAmakaM dadhinavanIta~jca (11) · Śloka 11
तज्जं वा दधि दध्युत्तरं वा कफच्छर्द्रिप्रसेकतमकेषु|
तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाऽभिभूतेऽग्नौ शुष्यच्छरीरे च||११||
तज्जं क्षीरजम्| दुध्युत्तरं सरः| एवं कफच्छर्द्यादिषु| यस्य कफेनाऽभिभूतोऽग्निर्यश्च शुष्यच्छरीरस्तयोः| तस्मात् फलपिप्पलीशृतात् क्षीरात् प्रमथिताज्जातं नवनीतमनन्तरोक्तमदनफलादिषट्कस्य क्वाथेन सिद्धम्|| ११||
Adhikarana vAmako lehaH (12) · Śloka 12
फलमज्जचूर्णमिश्रेण वाऽऽरग्वधादिद्रव्याणां घोण्टा- निम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यत- मस्य निर्य्यूहेण साधितं लेहमुपयुञ्जीत||१२||
अथवा कफाभिभूताऽग्निशुष्यद्देहैरारग्वधादिगणद्रव्याणां ससोमबल्कपञ्चकोलकानामन्यतमस्य दोषाद्यपेक्षया निर्य्यूहेण क्वाथेन फलपिप्पलीचूर्णमिश्रेण साधितं लेहमुपयुञ्जीत| घोण्टाया भूनिम्बस्य बाणस्य चाऽऽरग्वधादितो निष्कृष्यप्रतिषेधः| घोण्टा गोपघोण्टः| भूनिम्बः किराततिक्तः| बाणः सहचरः|| १२||
Adhikarana vAminyutkArikA modaka~jca (13) · Śloka 13
फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगर- कुष्ठत्वक्चोरकमरुबकाऽगरुगुग्गुलुवालकश्रीवेष्टक- परिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरो- हिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्का- रिकां मोदकं वा भक्षयेत्||१३||
अथवा क्षये विषये रेणुकादीनां द्वाविंशतेरन्यतमस्य कषायेण दोषाद्यपेक्षया फलपिप्पलीचूर्णोत्कारिकां मोदकं वा भक्षयेत्| उत्कारिका स्विन्नपिष्टपिण्डी| रेणुका हरेणुः| शताह्वा शतपुष्पा| कुस्तुम्बुरु धान्यकफलम्| शैलेयं शिलापुष्पं शुकपुच्छं शुकबर्हं| स्थौणेयं तैलपीतकम्| पूती करञ्जः| अशोकः प्रसिद्धः| रोहिणी कटुका| श्रीवेष्टको वायसको दधिश्यावश्च शब्दितः||१३||
Adhikarana shuShkulyAdikalpanAntarANi (14) · Śloka 14
फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डु- लपिष्टैस्तत् कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्य्यू- होपसृष्टैर्वा शष्कुलीरपूपान् अन्यान् वा भक्ष्यान् साध- यित्वा भक्षयेत्||१४||
अथवा तिलानां शालितण्डुलानां च पिष्टैश्चूर्णैः फलपिप्पलीकषायपरिपीतैः तत्स्वरसपरिपीतैश्च फलपिप्पलीकषायेणैव संसृष्टैः सुरसादिगणस्याऽन्यतमद्रव्यकषायेणोपसंसृष्टैः शुष्कुल्यादीन् साधयित्वा वमनार्थं भक्षयेत्| कषायपरिपीतैः कषायभावितैरनेकशः|| १४||
Adhikarana annapAneShu vamanadravyaprayogaH (15) · Śloka 15
फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमाऽऽ- दर्वी-प्रलेपात् पक्त्वा लेहयेत्|
अन्नपानेषु व तं लेह- मवचारयेत्|
तत्कषायैरेव चान्नपानानि कल्पयेत्||१५||
अथवा रसायनोक्तभल्लातकस्रावणविधिना परिस्रुतं फलपिप्पलीनां स्वरसं दर्वीलेपं यावत् तावत् पक्त्वा लेहयेत्| अथवा तं लेहमन्नपानेषु योजयेत्| कषायैर्मदनफलपिप्पलीकषायैरन्नपानानि कल्पयेत्|| १५||
Adhikarana vAmakaH kvAthaH (16) · Śloka 16
फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिका- ऽन्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम्||१६||
फलमज्जक्वाथं फलपिप्पलीक्वाथं वत्सकादिकल्कयुक्तं निम्बस्य रूपिकाया वा क्वाथेन संयुक्तं सर्वान् सन्तर्पणोत्थान् श्लेष्मव्याधीन् हन्ति| रूपिका अर्कः| सन्तर्पणोत्थविशेषणमतिशयप्रदर्शनार्थम्|| १६||
Adhikarana sukumArAdInAM vamanavidhAnam (17) · Śloka 17
फलपिप्पलीनां वा फलादिनिर्य्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनाऽवचूर्णयेत्|
सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरव- चूर्णितमुद्धृत्य हरिद्राकृसराक्षीरयवागूनामन्यतमं सैन्ध- वगुडफाणितोपेतमाऽऽकण्ठं पीतिवानुपाजिघ्रेत्|
सु- कुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेष- जद्वेषी च|
तथाहि सुखेन छर्दयति||१७||
अथवा फलादिप्रधानषट्कक्वाथभावितानां फलपिप्पलीनाण् चूर्णेन सरसि स्थितं सरोरुहं पद्मादिसायाह्नेऽवचूर्णयेत्| तत् सरसीरुहं रात्रिमुषितं प्रभाते पुनरवचूर्णितं सरस उद्धृत्य सुकुमारः भेषजद्वेषी च पुरुषो जिघ्रतु वा| तथाहि सुखेन छर्दयति| किंभूत आह-हरिद्रादीनामन्यतमं सैन्धवाद्युपेतमाकण्ठं पीतवान्| समुचितः अभ्यस्तः सुरभिर्गन्धसम्पद्यस्य| कुसुमरजः पुष्परागः| भेषजद्वेषी यो नरः भेषजं द्वेष्टि|| १७||
Adhikarana phalAbhAve madanapuShpaaNaaM shalaaTUnAM ca kalpanA (18) · Śloka 18
एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः|
एवमेव च फलाभावे मदनपुष्पाणि शलाटूनि च कल्पयेत्|
इति फलविधानमुक्तम्||१८||
एतेन पिप्पलीचूर्णभावनाविधिना सर्वेषां माल्यादयो व्याख्याताः| सरसीरुहवत्सर्वाणि कुसुमानि सर्वाणि गन्धद्रव्याणि प्रावरणपटाश्च चूर्णाऽधिवासितानि वमने योज्यानीत्यर्थः| यदा तु मदनफलानि कालाद्ययोगेन न लभ्यन्ते तदा तेन मदनफलपिप्पलीविधानेन सर्वथा मदनफलवत् मदनपुष्पादि| इति मदनस्य विधानमुक्तम्|| १८||
Adhikarana atha jImUtakalpaH (19) · Śloka 19
एवञ्च जीमूतादीनपि कल्पयेत्|
विशेषतस्तु ज्वर- श्वासहिध्मादिषु जीमूतकम्||१९||
जीमूतं देवदाली| आदिग्रणेनैव सम्प्राप्तानां वमनयोग्यानामन्येषां ग्रहणम्| जीमूतको देवताडो वृत्तकोशो गरागरी| प्रोक्ताऽखुविषहा वेणी देवताली च ताडका|| १९||
Adhikarana jImUtasyAvasthAntareNa kalpanAntarANi (20) · Śloka 20
तत्र पुष्पेषु क्षीरम्|
फलेषु क्षीरपेयाम्|
लोमशेषु सन्ता- निकाम्|
निर्लोमकेषु दधि दध्युत्तरं वा|
हरितपाण्डुषु क्षीरं दध्यम्लं वा|
तत्कषायसंसृष्टां सुरां वा कफाऽरोच- ककासपाण्डुरोगयक्ष्मसु प्रयुञ्जीत|
पर्य्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत्||२०||
तत्रेत्यादिना पुष्पादिक्रमेण जीमूतस्याऽवस्थाः क्षीरादेः क्रमेणोपयोगाश्चोच्यन्ते| फलेष्विति प्रथमबद्धेषु| तानि च फलानि किञ्चित्कालेन लोमशानि भवन्ति कर्कटिकावत्| पुनः कालेन लोमशत्वं त्यजन्ति| सन्तानिका क्षीरस्योपरितनी जालिका| दध्युत्तरं सरः| अलोमशत्वादनन्तरं परिहीनहरितत्वानि पाकाभिमुखत्वाच्च गृहीतपाण्डुत्वानि भवन्ति| तैः शृतात् पयसो जातदध्यम्लं सद्योज्यम्| क्षीरं वा| हरितपाण्डूनां फलानां कषायेण युक्तां सुरां श्लेष्मजेष्वरोचकादिषु प्रयुञ्जीत| सुबोधम्|| २०||
Adhikarana dravyAntaraiH saha kalpanAntarANi (21) · Śloka 21
द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्य्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे|
जीमूत- चूर्णं कल्कं वा शीताम्बुना पित्तजे|
तदेवोष्णेन वात- कफजे कफजे वा||२१||
द्वे वा त्रीणि वा जीमूतफलानि आरग्वधेन्द्रयवपाटलिकाकतिक्तानिम्बामृतामधुरसास्रुववृक्षपाठानामन्यतमस्य कषायेण दोषाद्यपेक्षयाऽऽसुतान्यामृद्भावात् पश्चाच्च मथित्वा पित्तश्लेष्मजे ज्वरे पिबेत्| पित्तजे ज्वरे जीमूतफलचूर्णं कल्कं वा शीतम्बुना पिबेत्| केवलकफजे वातकफजे च ज्वरे तदेव जीमूतफलचूर्णमुष्णाम्बुना पिबेत्|| २१||
Adhikarana svarasaghRutakalpanAvidhiH (22) · Śloka 22
जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वात- पित्तजे|
अथवा पूर्ववत्|
सिद्धं घृतम्||२२||
अथवा जीवकादीनामन्यतमस्य स्वरसेन जीमूतचूर्णं वातपित्तज्वरे पिबेत्| तथा च दुष्टफलम्| जीवकर्षभकेक्षूणां शतावर्या रसेन वा पित्तश्लेष्मज्वरे| अथवेति तत्रैव दोषाद्यपेक्षया पूर्ववत् सिद्धं घृतं पिबेत्| पूर्ववदिति मदनफलवत्| तेनैव जीमूतफल स्रुतात् पयसो जातं नवनीतं मदनादिप्रधानषट्कक्वाथकल्काभ्यां सिद्धं पित्तजे युञ्यादित्युक्तम्| इति जीमूतविधानमुक्तम्|| २२||
Adhikarana ikShvAkukalpaH (23) · Śloka 23
इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्म- रोगेषूपयोज्यः|
तस्यापुष्पफलस्य प्रवालैः शृतं क्षीर- मुद्रिक्तपित्ते कफाज्वरे||२३||
इक्ष्वाकस्तु कासादिष्वन्येषु च श्लेषमरोगेषु विशेषेण हितः| कटुकाऽऽलाबूनी तुम्बी लम्बा पिण्डफला तथा इक्ष्वाकुः क्षत्रियवरस्तिक्तबीजा महाफला| तस्येक्ष्वाको रसञ्जापुष्पफलस्य प्रवालैरभिनवोद्भिन्नैः किसलयैः शृतं क्षीरमुद्रिक्तपित्तं उन्मार्गपित्ते कफज्वरे|| २३||
Adhikarana atideshedana jImUtavadvidhyantarANi (24) · Śloka 24
पुष्यादिषु च सुतरां जीमूतवत्प्रयोगाः|
इक्ष्वाकुफल- स्वरसं वा त्रिगुणक्षीरसाधितमुरः स्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत्|
जीर्णे वा समुद्धृतबीजे क्षीरं प्रक्षिपेत्|
तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु|
इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदर- गरगण्डग्रन्थ्यर्बुदश्लीपदेषु|
इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु|
तद्विपक्वं वा तक्रं समधुसैन्ध- वम्|
तदेव वा मध्यं सगुडपललं भक्षयेत्|
इक्ष्वाकुफलतैलं वा पिबेत्|
तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकास कण्ठरोगाऽरोचकेषु|
इक्ष्वा- कुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु||२४||
पुष्पादिष्विक्ष्वाकोः पुष्पफललोमशनिर्लोमहरितपाण्डुत्वाऽवस्थासु सुरान्ताः प्रयोगाः| क्षीरक्षीरपेयासन्तानिकादधिदध्युत्तरक्षीरसुरा इति जीमूतवत्| यत्र तु पीनसस्वरसादयोरपि कफो वर्तते तत्रेक्ष्वाकुफलस्वरसं त्रिगुणेन क्षीरेण पानयोग्यं पिबेत्| श्लेष्मजेषु कासादिषु बीजरहितेक्ष्वाकुफलान्तःस्थितक्षीरजातं दधि| इक्ष्वाकुभवानि बीजानि छागक्षीरभावितानि विषादिषु पिबेत्| अर्बुदं नीरुक् ग्रन्थ्याकृत्यधिकं मांसम्| कुष्ठविषपाण्ड्वामयेष्विक्ष्वाकुफलानां मध्यं मज्जानं मस्तुना पिबेत्| अथवा तद्विपक्वं तक्रं समधुसैन्धवं कुष्ठादिषु पिबेत्| तदेवेक्ष्वाकुफलजातं मध्यं सगुडपललम्| पललं तिलकल्कः| श्लेष्मजेषु ज्वरादिष्विक्ष्वाकुफलतैलं वा| फलस्वरसभावितानां सक्तूनां वा मन्थम्| सुबोधम्| प्रसत्क अनुषक्तो ज्वरः|| २४||
Adhikarana ikShvAkorlehakalpanA (25) · Śloka 25
बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत्|
ततस्तस्मिन् त्रिभागेन घृतम्|
घृतसमानि च पिष्ट्वा तुम्बीबीजानि|
तदर्धाशानि च प्रत्येकं जीमूतमहाजा- लिनीवत्सककृतवेधनानि|
क्वाथतुल्यमावपेत् त्रिकटु- कम्|
पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनु- पिबेत्||२५||
बिल्वमूलक्वाथस्य चतुष्षष्टिपलानि तैस्तुम्बीबीजानां चत्वारि पलानि क्वाथयेत्| क्वथितशेषं षोडशपलानि| तस्मिन्निति क्वाथे| त्रिभागः पद्धपलान्यष्टमाषकाधिककर्षाधिकानि जीमूतो देवदाली| महाजालिनी घण्टोली| कृतवेधनं द्वितीया कोशातकी| अधिश्रयणं पाकाय चुल्यामारोहणम्| प्रमथ्य मध्यदोषमधिकृत्याऽतीसारे मागधिकाजलदादि क्वाथयोराख्या|| २५||
Adhikarana atideshena kAshmaryyAdiShu vidhAnam (26) · Śloka 26
अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक्पृथगुक्तो वेदितव्यः||२६||
अयमेवेक्ष्वाकुकल्पो महापञ्चमूलाङ्गेषु चतुर्षु काश्मर्य्यादिषु काश्मर्य्यतर्कारीपाटलीटुण्टुकेषु| काश्मर्य्य प्रसिद्धम्| तर्कारी अग्निमन्थः| टुण्टुको मयूरजङ्घः| इतीक्ष्वाकुकल्पः|| २६||
Adhikarana dhAmArgavakalpavidhiH (27) · Śloka 27
धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठा- श्रये प्रकल्प्यः|
जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्क- रांस्तत्कषायैर्लेहान् पित्तापसर्जने श्लेष्मणि विदध्यात्||२७||
धामार्गवो गरादिषु विशेषेण| द्विकोशातकीति पूर्वं यदुक्तं तत्र एका महाजालिन्याख्याऽन्या धामार्गवशब्देनोच्यते| कफस्य सञ्चयः यथोक्तः| सुबोधम्| पित्तोपसर्जने श्लेष्मणि पित्तप्रधाने कफपित्ते| तत्कषायैर्धामार्गवक्वाथैर्लेहान् पूर्व एव विषये कल्प- येत्| किम्भूतान् ? जीवनीयानामन्यतमस्य चूर्णेन संयुक्तान् समधुशर्करांश्च|| २७||
Adhikarana dhAmArgavavidhyantaram (28) · Śloka 28
सुमनः सौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्र- सहावृश्चीवबिम्बीपुनर्नवाकासमर्दाऽन्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु||२८||
सुमनःप्रभृतीनामन्यतमस्य वा कषायेण समधुशर्करान् लेहान् पूर्व एव विषये कल्पयेत्| सौमनस्यायनी जातिपत्रिका| हैमवती काञ्चनी| महासहा माषपर्णी| क्षौद्रसहा मुद्गपर्णी| वृश्चीवः पुनर्नवाभेदः| बिम्बी रक्तफला तुण्डी तुण्डीकेरफला च सा| मनोविकारेषु मदादिषु| एकं धामार्गवफलं द्वे वा धामार्गवफले| इति धामर्गवकल्पः|| २८||
Adhikarana kRutavedhanakalpavidhiH (29) · Śloka 29
कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीह- पाण्डुरोगश्वयथुषु कल्पयेत्|२९|
कृतवेधनमत्यर्थकट्वादिगुणत्वात् गुल्मोदरादिषु सुतरां कल्पयेत्| कृतवेधनं द्वितीया कोशातकी| कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी| क्ष्वेडा सुतिक्ता घण्टोलमृदङ्गफलिका मता|| २९||
Adhikarana kuTajavedhanakalpavidhiH, kuTajakalpaH (29) · Śloka 29
कृतवेधनमत्यर्थकट्वादिगुणत्वात् गुल्मोदरादिषु सुतरां कल्पयेत्|
कृतवेधनं द्वितीया कोशातकी|
कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी|
क्ष्वेडा सुतिक्ता घण्टोलमृदङ्गफलिका मता||२९||
वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति|
भवति चात्र||२९||
-कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वात- शोणितविसर्पज्वरकुष्ठादिषु च योजयेत्| कुटजफल- चूर्णान्यर्कक्षीरेण सप्ताहं भावयित्वा जीवककषायेण पिबेत्| फलजीमूतकेक्ष्वाकुजीवन्तीमूलान्यतमकषायेण -कुटजफलमिन्द्रयवम्| सुकुमारेषूल्बणास्रादिषु च पुरुषेषु तथा वातशोणितादिषु रोगेषु च प्रयोजयेत्| सुबोधम्| जीवकः प्रसिद्धः| फलं मदनफलम्| मूलशब्देन जीवन्त्याः सम्बन्धः| सर्षपादीनामन्यतमेन संयुक्तमम्भस्तथोक्तम्| तेन सह वा कृसरा पेया||
Adhikarana upasaMhAraH (30-31) · Śloka 31
वमनानां दिगित्येषा सुतरामुपयोगिनाम्|
बीजेनानेन मतिमान्यानपि च कल्पयेत्|
इति||३०||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रह- संहितायां कल्पस्थाने वमनकल्पो नाम प्रथमोऽध्यायः||३१||
इत्यनन्तरोक्तप्रकारेण वमनानां वमनद्रव्याणामेषा दिक् कल्पनामार्गः प्रदर्शितः| किम्भूतानाम् ? आह-सुतरामुपयोगिनाम्| यथोक्तेन बीजेन युक्त्याऽन्यानपि वमनादीन् कल्पयेन् मतिमान् प्राज्ञः| अप्राज्ञस्तु शास्त्रानुसारेण ऊहितुमशक्यत्वात् केवलं व्यापदा योजयतीति|| ३०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां कल्पस्थाने प्रथमोऽध्यायः