Adhikarana atha virecanakalpo nAma dvitIyo~adhyAyaH upodghAtaH · Śloka
🔊 Audio coming soon
ऊर्ध्वशोधनमुक्त्वा अधः शोधनकल्पनायाऽध्याय आरभ्यते||
Adhikarana atha virecanakalpo nAma dvitIyo~adhyAyaH upodghAtaH · Śloka
🔊 Audio coming soon
ऊर्ध्वशोधनमुक्त्वा अधः शोधनकल्पनायाऽध्याय आरभ्यते||
Adhikarana pratij~jA (1) · Śloka 1
अथाथो विरेचनकल्पं व्याख्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana trivRunmukhyAni virecanadravyANi (2) · Śloka 2
विरेचनद्रव्याणां मूलेषु त्रिवृत्| त्वक्षु तिल्वकः| क्षीरेषु स्नुही| फलेषु हरीतकी प्रधानानि||२||
🔊 Audio coming soon
दन्तीशङ्खिन्यादिमूलविरेचनद्रव्याणां त्रिवृत् प्रधानम्| रम्यकत्वगादीनां तिल्वकः| सप्तपर्णज्योतिष्मत्यादि क्षीराणां सुधाक्षीरं प्रधानमाऽऽशुफलत्वेन सुविषयत्वेन साधुकारित्वेन च|| २||
Adhikarana trivRudBedAH guNAshca (3) · Śloka 3
त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यावञ्च| तत्रारुणं कषायमधुरं विपाके कटुकं रूक्षं श्लेष्मपित्तहरं कल्पना- विशेषात्पुनः सर्वव्याधिप्रशमनम्| सुखविरेचनत्वात् शिशु- स्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च| इतरदपि तस्माद्गुणैः किञ्चिदूनं तीक्ष्णं कण्ठहृदयकर्षणं मूर्च्छासम्मोहकृदाऽऽशु दोषहरत्वाद्बहुदोषक्लेशक्षमक्रूर- कोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च||३||
🔊 Audio coming soon
सुबोधम्| कल्पनाविशेषाः संयोगसंस्कारादिकृताः| तदरुणं त्रिवृन्मूलं त्रिवृच्छब्दवाच्यम्| उभयोक्तावपि| इतरच्छ्यावम्| तस्मादित्यरुणात्| गुणः रसादिभिः| मूर्च्छा प्रलयः| सम्मोहोऽस्फुटज्ञत्वम्| तद्वच्छ्यावं त्रिवृन्मूलं श्यामाशब्दवाच्यम्| उभयोक्तावपि|| ३||
Adhikarana trivRunmUlAharaNavidhAnam (4) · Śloka 4
अथ तयोर्मूलमतिर्यग् विसृतं गम्भीरानुगतं श्लक्ष्णमा- ऽऽहरेत्| ततस्त्वचं शोषयित्व सम्यक्सुगुप्तं स्थापयेत्||४||
🔊 Audio coming soon
तयोर्द्वयोरपि अतिर्यग् विसृतमधोगतम्| एवं गाढं भूमौ बहुप्रविष्टं गम्भीरानुगतम्| तत इति मूलात्| सम्यक् सुगुप्तं कृत्वा स्थापयेत् यावत्प्रयोगकालम्|| ४||
Adhikarana tasya doShAdyapekShayA prayogaH (5) · Śloka 5
तच्चूर्णं शुण्ठीसैन्धवयुक्तमम्लैर्मांसरसेन वा पिबेद्वाता- मयेषु| क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिः स्वादुद्रव्य- क्वाथैः सशर्करं पित्तोत्थेषु| मूत्रक्षौद्रद्राक्षारिष्टपीलुरस- त्रिफलापञ्चकोलक्वाथैर्व्योषचूर्णानुबिद्धं कफजेषु||५||
🔊 Audio coming soon
तच्चूर्णं त्रिवृन्मूलचूर्णं शुण्ठीसैन्धवसंयुक्तं अम्लैः काञ्जिकमद्यादिभिर्वा मांसरसेन वा दोषाद्यपेक्षया वातामयेषु पिबेद् विरेकयोग्येषु| क्षीरादियुक्तं चूर्णं पित्तोत्थेषु दोषाद्यपेक्षया सर्वथा वा सशर्करम्| कफव्याधिषु मूत्रादीनामन्यतमेन सर्वथा वा व्योषचूर्णानुबिद्धम्|| ५||
Adhikarana vividhAH kalpanAH (6) · Śloka 6
एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षेक्षुरसतुगाक्षी- रीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दकपित्थ- रसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविध- वेशवारपरिपूरितानि सहकाररसत्रिजातनागकेसरकर्पू- रसुरभीणि लेहगुलिकामोदकभक्ष्यभोज्यान्युपकल्प- येदिति| भवति चात्र- त्रिवृत्कल्ककषायेण साधितः ससितो हिमः| मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्| अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्| चूर्णितं मधुसर्पिभ्यां लीढ्वा साधु विरिच्यते| सन्निपातज्वरस्तम्भपिपासादाहपीडितः| लिम्पेदन्तस्त्रिवृतया द्विधा कृत्वेक्षुगण्डिकाम्| एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्| त्वगेलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा| चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्| वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च| नरेषु सुकुमारेषु निरपायं विरेचनम्| विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्| सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा| गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्| कफवातकृताश्चान्यान् परिमार्ष्टि मदान् बहून्||६||
🔊 Audio coming soon
एभिरेव विरेचनद्रव्यैस्त्रिवृच्चूर्णशुण्ठीसैन्धवादिभिर्यथादोषं लेहादि कल्पयेत्| यत्र माधुर्यघृतादिभिरेव| अम्लत्वमातुलुङ्गादिभिरेव| लावण्यं सैन्धवेनैव| तैक्ष्ण्यकार्यकरणं व्योषेण| विविधैर्वेशवारैर्मासधान्यकृतैः परिपूरणं सम्भवान्मोदकादीनां विशेषणम्| सहकारादि सर्वेषां विशेषणम्| सहकारादिना सर्वत्र सुरभीकरणम्| त्रिवृतालेहः सुबोधः| अजगन्धादिना चूर्णलेहं लीढ्वा सन्निपातज्वरादिपीडितः साधु विरिच्यते| इक्षुगण्डस्य दीर्घपाटितस्यान्तस्त्रिवृत् प्रलिप्तस्य पुनः संयोजितस्य पुटपाकेन स्वेदनं स्विन्नस्य च भक्षणम्| त्वगोलाभ्यां समाभ्यामेको भागः| द्वितीयो नील्याः| त्रिभिः समात्रिवृत्| सर्वसमा शर्करा| एतच्चूर्णं द्राक्षादिफलरसादिना वातपित्तकफव्याधिषु तर्पणं पिबेत्| एतच्चाल्पानलादिगुणेषु नरेषु निरपायमनुपद्रवं विरेचनम्| तर्पणशब्देन सक्तूनां बहुत्वं प्रतिपादितम्| एतत् पृथग्दोषक्षमं संसर्गसन्निपातयोश्च संयोगभेदेन योज्यम्| विडङ्गतण्डुलादीनां सम्मिश्रितानामर्धेन त्रिवृत्| गुडयोगे जलेन लेहः| एतच्चूर्णं गुल्मादीनन्यांश्च कफवातकृतान् बहून् गदान् परिमार्ष्टि नाशयति|| ६||
Adhikarana kalyANako guDaH (7) · Śloka 7
विदङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्| मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः| दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्| तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ| धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्| पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः| कुष्ठाऽर्शःकामलागुल्ममेहोदरभगन्दरान्| ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः| गुडः कल्याणको नाम सर्वर्त्तुषु च यौगिकः||७||
🔊 Audio coming soon
विडङ्गादिना कल्याणकनाम गुडो वटकः|| ७||
Adhikarana vyoShAdiguTikA (8) · Śloka 8
व्योषत्रिजातकाम्भोदकृमिग़्नामलकैस्त्रिवृत्| सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः| मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये| तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च||८||
🔊 Audio coming soon
सुबोधम्|| ८||
Adhikarana RutvanusAraM trivRudyogAH (9) · Śloka 9
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्| क्षौद्रक्षाररसोपेतं वर्षाकाले विरेचनम्| त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम्| द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये| त्रिवृतां चित्रकं पाठामजाजी सरलं वचाम्| स्वर्णक्षीरी च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्| त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्| त्रिवृत्त्रायन्ति हपुषासातलाकटुरोहिणीः| स्वर्णक्षीरी च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्| एष सर्वर्त्तुको योगः स्निग्धानां मलदोषहृत्||९||
🔊 Audio coming soon
त्रिवृत्त्रायन्त्यादिकं सर्वर्त्तुषु| एतच्च स्निग्धानामेव विरेचनं भवति| मलदोषा दुष्टवातविकाराः|| ९||
Adhikarana rUkShANAM virecanam (10) · Śloka 10
श्यामात्रिवृद्दुरालभाहस्तिपिप्पलिवत्सकम्| नीलिनी कटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्| रसाज्योष्णाम्बुभिः शस्तरूक्षणामपि सर्वदा||१०||
🔊 Audio coming soon
श्यामादिकं नीलिन्यादियुक्तं रसादीनामन्यतमेन रूक्षाणामपि शस्यते| अपिशब्दः पूर्वस्माद्विशेषः| सर्वदा सर्वर्त्तुषु|| १०||
Adhikarana tryUShaNAdicUrNam (11) · Śloka 11
त्र्यूषणं त्रिफलां हिङ्गुं कार्षिकं त्रिवृतापलम्| सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात्| तच्चूर्णं शर्करातुल्यं कण्डेनाम्लेन वा पिबेत्| गुल्मपार्श्वार्त्तिनुत्सिद्धं जीर्णे चास्मिन् रसौदनम्||११||
🔊 Audio coming soon
त्र्यूषणादिकं सिद्धं विरेकेण दुष्टफलं गुल्मपार्श्वार्त्तिनुद्भवति| त्र्यूषणत्रिफले समुदाये| अम्लवेतसस्यार्धपलम्| मण्डः स्वच्छा पेया| अम्लः काञ्जिकमद्यादिः| रसौदनो मांसरसमिश्र ओदनः||११||
Adhikarana trivRutAdicUrNam (12) · Śloka 12
त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः| प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे| तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु||१२||
🔊 Audio coming soon
त्रिवृतादिचूर्णं सप्तदिनान्यामलकरसेन भावितं तर्पणादिषु दोषाद्यपेक्षया योज्यम्| तर्पणः सक्तवः| रागा बदरमण्डादयः|| १२||
Adhikarana siddhaghRutaM kShIra~jca (13) · Śloka 13
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम्| श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पयोऽपि वा||१३||
🔊 Audio coming soon
त्रिवृद् घृते यथालाभमम्लानि काञ्जिकादीनि पृथक्स्नेहसमानि| घृतं कल्कपादम्| श्यामात्रिवृतयोः कषाये घृतपाकः| कल्कं विना| केचित्तु सर्वकषायपाकेषु कषायौषधात्कल्कमपीच्छन्ति| पयोऽपि वा श्यामात्रिवृत्कषायसिद्धम्|| १३||
Adhikarana trivRutAriShTakalpanA (14) · Śloka 14
त्रिवृन्मुष्टीस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्| पादशेषं कषायं तं पूतं गुडतुलायुतम्| स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः| लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित्||१४||
🔊 Audio coming soon
अष्टौ त्रिवृन्मुष्टीन् सनखानन्तर्नखान्यत्राङ्गुलिनखा अपि मुष्टौ प्रविशन्ति| द्रोणेऽम्भसः सद्वादशानि पञ्चपलशतानि| पाकत्वाच्चतुर्भागः| क्षौद्रादिकेन स्निग्धघटालेपः|| १४||
Adhikarana trivRutsurA (15) · Śloka 15
सुरा वा त्रिवृतापादकिण्वा तत्क्वाथसंयुता||१५||
🔊 Audio coming soon
अथवैवम्भूता सुरापाण्ड्वादिजित्| किम्भूता त्रिवृता पादकिण्वा| त्रिवृतापाद एव किण्वः यस्याः| सुरापादेन त्रिवृद्देयेत्यर्थः| किण्वः सुराकल्कः| तत्क्वाथेन त्रिवृत् क्वाथेन संयुता युक्ता|| १५||
Adhikarana trivRutsauvIrakam (16) · Śloka 16
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा| आसुतं षडहं पल्ले जातं सौवीरकं पिबेत्||१६||
🔊 Audio coming soon
श्यामात्रिवृत्क्वाथस्विन्नैर्यवैः कुल्माषमर्धस्विन्नमाषमम्भसा आसुतं षडहं पल्ले धान्यराशौ जातं सौवीरकत्वोत्पत्तौ पेयम्| एष सौवीरको निस्तुषैः क्रियते|| १६||
Adhikarana trivRuttuShodakam (17) · Śloka 17
भृष्टान् वा सतुषान् शुष्कान् यवांस्तच्चूर्णसंयुतान्| आसुरानम्भसा तद्वत् पिबेज्जातं तुषोदकम्||१७||
🔊 Audio coming soon
भृष्टानित्यादिना सतुषेण कृतं तुषोदकं भवति| इति त्रिवृत् कल्पः|| १७||
Adhikarana AragvadhAdhikAraH (18) · Śloka 18
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु| राजवृक्षोऽधिकं पथ्यो मृदुर्मधुर शीतलः| वाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे| योज्यो मृद्वनपायित्वाद् विशेषाच्चतुरङ्गुलः||१८||
🔊 Audio coming soon
राजवृक्षोऽधिकं ज्वरादिषु पथ्यः| स च मृद्वादिगुणः| बालादिषु मृद्वनपायित्वाद्धेतोश्चतुरङ्गुलो विशेषाद्योज्यः| तौ सौरजातीयौ| कर्णिकारो राजवृक्षः प्रग्रहः कृतमालकः| आरोग्यशिम्बी शम्याको व्याधिघातोपघातकः आरग्वधो दीर्घफलो घातश्च चतुरङ्गुलः| आरग्वधस्तथा चान्यो कर्णिकारेवतस्तथा|| १८||
Adhikarana tasya kalpanABedAH (19) · Śloka 19
फलकाले परिणतं फलं तस्य समाहरेत्| तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्| सप्तरात्रात् समुद्धृत्य शोषयेदातपे ततः| ततो मज्जानमुद्धृत्य शुचौपात्रे निधापयेत्| द्राक्षारसेन तं दद्याद् दाहोदावर्तपीडिते| चतुर्वर्षे सुखं बाले यावद् द्वादशवार्षिके| चतुरङ्गुलमज्ञो वा कषाये पाययेद्धिमम्| दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्| सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा| चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद् घृतम्| मज्जकल्केन धात्रीणां रसे तत्साधितं पिबेत्| तदेव दशमूलस्य कुलत्थानां यवस्य च| कषाये साधितं सर्पिष्कल्कैः श्यामादिभिः पिबेत्| दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्| तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा||१९||
🔊 Audio coming soon
तस्य सामान्येन राजवृक्षस्य| फलकाले यदाऽस्य फलानि भवन्ति तदा परिणतमतिक्रान्तपाकमेव फलमाहरेत्| न मध्यमम्| अकालेऽपि फलसम्भवात्कालविशेषणम्| तेषामिति फलानाम्| गुणवतामिति दोषरहितानाम्| सप्तरात्रं सिकतासु वासनम्| तत आतपे शोषणम्| ततः शुष्काणां मज्जानमुद्धृत्य तं मज्जानं शुचौ निर्मले पात्रे निधापयेत्| द्राक्षेत्यादि सुबोधम्| चतुरङ्गुलमज्जकषायं हिमं शीतीभूतं दधिमण्डादीनामन्यतमेन युक्तं त्रिवृत्कल्केन युक्तं वा पाययेत्| चतुरङ्गुलसिद्धात् क्षीरात् प्रमथिताद्यद् घृतमुदियात् तद् घृतं चतुरङ्गुलमज्जाकल्केन सहामलकरसेन साधितं पिबेत्| तदेव चतुरङ्गुलसिद्धक्षीरजं घृतं दशमूलाद्यन्यतमकषाये श्यामादिभिर्विरेचनद्रव्यकल्कैः सह साधितं पिबेत्| दन्त्याः क्वाथे चतुरङ्गुलमज्जानं जीर्णगुडं च निक्षिपेत्| तं मांसं पक्षस्थितं वाऽऽरिष्टं पिबेत्| इति चतुरङ्गुलकल्पः|| १९||
Adhikarana tilvakakalpaH (20) · Śloka 20
त्वचं तिल्वकमूलस्य त्यक्त्वाभ्यन्तरवल्कलम्| विशोष्य चूर्णयित्वा च द्बौ भागौ गालयेत्ततः| लोध्रस्यैव कषायेण तृतीयं तेन भावयेत्| काषाये दशमूलस्य तं भागं भावितं पुनः| शुष्कचूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्| मस्तुमूत्रसुरामण्डकोलधात्रीपलाम्बुभिः||२०||
🔊 Audio coming soon
त्वचमित्यादिना तिल्वकस्योच्यते| लोध्रः शाबरकस्तिल्वस्तिलकस्तिलकस्तथा| रविदुः काण्डहीनश्च मिल्लीशम्बरपादपः| अभ्यन्तरवल्कलः अन्तर्भागस्त्यक्तो यथा त्वचा| तां त्वचं चूर्णयित्वा तस्य चूर्णस्य त्रीन् भागान् कुर्यात्| ततो द्वौ भागौ लोध्रक्वाथेन स्रावयेत्| तेन शिष्टस्तॄतीयो भागो भाव्यः| स एव पुनर्दशमुलकषायेण भाव्यः| ततः शुष्कचूर्णं कृत्वा ततश्चूर्णात् पाणितलं कर्षं मस्त्वादीनामन्यतमेन पिबेत्| कोलैर्बदरैर्मृदितमम्बु तथोक्तम्| तद्वद्धात्रीफलाऽम्बु|| २०||
Adhikarana tilvakasya kalpanABedAH (21) · Śloka 21
मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले| मरुजाः सुनुयात्तच्च जातं सौवीरकं यदा| भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत्तदा| सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत्| तिल्व्कस्य कषायेण कल्केन च सशर्करः| सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्||२१||
🔊 Audio coming soon
मरुजाभिर्मेषशृङ्गयादिक्वथितजलासुताभिः सौवीरकं कुर्य्यात्| मरुजाः यवाः| तत् सौवीरकं यदा जातं भवेत्तदा तस्याऽञ्जलिना पलचतुष्टयेन लोध्रकल्कं सामान्येनाऽक्षमात्रं पिबेत्| मरुजानां यवानां सुराविधानेन पक्षजातां सुरां पिबेत्| तिल्वककषायकल्केन सह लेहः सुबोधः| इति तिल्वककल्पः|| २१||
Adhikarana snuhyadhikAraH (22) · Śloka 22
सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्| आश्वेव कष्टविभ्रंशा नैव तां कल्पयेदतः| मृदु कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि| कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु| पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि||२२||
🔊 Audio coming soon
सुधा महान्तमपि दोषाणां सञ्चयमाऽऽश्वेव भिनत्ति| कष्टविभ्रंशा तदसम्यग्योगेन कष्टा अपाया भवन्तीत्यर्थः| अतस्तां सुधां नैव कस्यचित् कल्पयेत्| किं सर्वत्रैव सा न कल्प्या| नैवमपि तु मृदुकोष्ठादिष्वेव| क्व तर्हि सा कल्प्या| गुल्मादिषु|| २२||
Adhikarana tasyAH kalpanAvidhiH (23) · Śloka 23
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता| द्विवर्षा वा त्रिवर्षा वा शिशिरान्ते विशेषतः| तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः| बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः| मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्| पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः|२३|
🔊 Audio coming soon
सा च सुधा तीक्ष्णैर्बहुभिश्च कण्टकैः समाचिता सती श्रेष्ठा| तां च सुधां शस्त्रेण पाटयित्व क्षीरमुद्धारयेत्| नवामभिनवां न पाटयेत्| अपि च द्विवर्षां वा त्रिवर्षां वा| विशेषेण शिशिरस्यान्ते क्षीरं गृह्णीयात्| स्नुहिः सुधामहावृक्षौ गुडा निस्त्रिंशपत्रकः| समन्तदुग्धा गण्डीरो स्नुग्वज्री वज्रकण्टकः| ततोऽनन्तरं बिल्वादीनां महापञ्चमूलद्रव्याणां बृहत्योश्चैकशः प्रत्येकं कषायेण समपरिमाणेन सुधाक्षीरं मिश्रयित्वाऽङ्गारेषु शोषयेत्| पचेदित्यर्थः| ततोऽङ्गारशोषणानन्तरं गुटिकां कृत्वा मस्त्वादीनामन्यतमेन पिबेत्||२३||
Adhikarana tasyAH kalpanAvidhiH (23) · Śloka 23
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता| द्विवर्षा वा त्रिवर्षा वा शिशिरान्ते विशेषतः| तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः| बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः| मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्| पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः||२३||
🔊 Audio coming soon
सा च सुधा तीक्ष्णैर्बहुभिश्च कण्टकैः समाचिता सती श्रेष्ठा| तां च सुधां शस्त्रेण पाटयित्व क्षीरमुद्धारयेत्| नवामभिनवां न पाटयेत्| अपि च द्विवर्षां वा त्रिवर्षां वा| विशेषेण शिशिरस्यान्ते क्षीरं गृह्णीयात्| स्नुहिः सुधामहावृक्षौ गुडा निस्त्रिंशपत्रकः| समन्तदुग्धा गण्डीरो स्नुग्वज्री वज्रकण्टकः| ततोऽनन्तरं बिल्वादीनां महापञ्चमूलद्रव्याणां बृहत्योश्चैकशः प्रत्येकं कषायेण समपरिमाणेन सुधाक्षीरं मिश्रयित्वाऽङ्गारेषु शोषयेत्| पचेदित्यर्थः| ततोऽङ्गारशोषणानन्तरं गुटिकां कृत्वा मस्त्वादीनामन्यतमेन पिबेत्||२३||
Adhikarana snuhIkShIrAdiBistrivRutAdInAM prayogaH (24) · Śloka 24
त्रिवृतादीन्नव वरां स्वर्णक्षारीं ससातलाम्| सप्ताहं स्नुक्पयः पीतान् रसेनाज्येन वा पिबेत्| तद्वद् व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना| आद्याच्छ्यामात्रिवृत्क्वाथं स्नुक्क्षीरघृतफाणितैः| कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेतः||२४||
🔊 Audio coming soon
त्रिवृतादीन्नव त्रिवृच्छ्यामाराजवक्षाऽरग्वधतिल्वकसुधाशङ्खिनीद्रवन्तीदन्त्याख्यान्| सातलायाः पृथग्युक्तिरपि निश्चिता| वरा त्रिफला| स्नुक्पयः पीतान् सुधाक्षीरभावितान्| व्योषादीन् तद्वदिति सप्ताहं स्नुक्पयःपीतान्| श्यामात्रिवृत्क्वाथं स्नुहीक्षीरादिभिरद्यात्| कासाऽरिरसादियुक्तं वा स्नुक्पयः पिबेत्|| २४||
Adhikarana snuhIkShIrasya mRudukoShThe prayogaH (25) · Śloka 25
निकुम्भकुम्भशम्याकशङ्खिनीसप्तलारजः| रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति| स्नुक्क्षीरेऽपि ततस्तेन माल्यं वासोऽवचूर्णितम्| आजिघ्रन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते||२५||
🔊 Audio coming soon
निम्कुम्भादीनां रजःचूर्णं रात्रौ गोमूत्रे स्थापयेत्| दिवा च घर्म आतपे शोषयन् स्थापयेत्| स्नुक्क्षीरेऽपि सप्ताहमातपे स्थापयेत्| ततस्तेन चूर्णेन माल्यमवचूर्णितमाऽऽजिघ्रन् वासश्च प्रावृण्वानो मृदुकोष्ठो विरिच्यते| इति महावृक्षकल्पः|| २५||
Adhikarana atha saptalAsha~gkhinyoradhikAraH (26) · Śloka 26
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्| सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी| श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्||२६||
🔊 Audio coming soon
शङ्खिन्याः फलं विरेचनाय ग्राह्यम्| तच्च निस्तुषीकृतम्| सप्तलायास्तु तथाविधमेव मूलम्| ते च सप्तलाशङ्खिन्यौ| तीक्ष्णत्वगुणयुक्ते विकाषिण्यौ च| अत एव श्लेष्मामयादिषु कल्पयेत्| तीक्ष्णः क्षिप्रकारी| विकाषी विकषन् धातुन् सन्धिबन्धान् विमुञ्चति| एवं तिक्ता शङ्खिनी च दृढपादा विसर्पणी| नाकुली चाक्षपीडा च नेत्रमीला यशस्करी| सातला सप्तला सारी विदुला विमलाऽमला| बहुफेना चर्मकषा फेना दीप्ता मरालिकाः|| २६||
Adhikarana tayoH kalpanA (27) · Śloka 27
अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्| हृद्रोगो वातकफजे तद्वद् गुल्मेऽपि योजयेत्| शङ्खिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः| हरीतकी कषायेण तत्तैलं पीडितं पिबेत्| अतसीसर्षपैरण्डकरञ्जेष्वप्ययं विधिः||२७||
🔊 Audio coming soon
अक्षमात्रमित्यादि सुबोधम्| तिलानां भाग एकस्तत्समाभ्यां शङ्खिनीचूर्नभागाभ्यां सहावपीडयेत्| तत्तैलं हरीतकीक्वाथेन पिबेत्| तिलवद्भागकल्पनयाऽतस्यादीनामपि पृथक्पीडितानां तैलस्य हरीतकीकषायेण पानविधिः| इति सप्तलाशङ्खिन्योः कल्पः|| २७||
Adhikarana atha dantIdravantyoH kalpaH (28) · Śloka 28
दन्तिदन्तस्थिरस्थूलं मूलं दन्तीद्रवन्तिजम्| आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाषि च| गुरुप्रकोपिवातस्य पित्तश्लेष्मविलायनम्| तत्क्षौद्रपिप्पलीलिप्तं स्वेदयेन्मृत्युकुशान्तरे| शोषयेच्चातपेऽग्न्यर्कौ ततो ह्यस्य विकाषिताम्| तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः| अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी| गोमृगाऽजरसैः पाण्डुकृमिकोष्ठी भगन्दरी||२८||
🔊 Audio coming soon
दन्तीद्रवन्तिजं मूलं दन्तिदन्तवत् करिदन्तवत् तीक्ष्णत्वादिगुणं भवति| सुबोधम्| दन्तीशीघ्रा निकुम्भा स्यादुपचित्रा मुकूलकः| तथोदुम्बरपर्णी च विशल्या च गुणप्रिया| द्रवन्ती शम्बरी चित्रान्यग्रोधा मूषिकाह्वया| प्रत्यक्श्रेणी विषा रण्डा पुत्रश्रेण्याखुपर्णिका| तद्दन्तीद्रवन्त्योर्मूलं माक्षिकपिप्पलीभ्यां लिप्तं कुशादिभिः पश्चाच्च मृदा वेष्टयित्वा पुटपाकवत्स्वेदयेत्| स्विन्नं चाऽऽतपे शोषयेत्| यस्मात्तस्य विकाषितां धातुकषणस्वरूपत्वमग्न्यर्कौ नाशयतः| तन्मूलं मस्त्वादिभिरभिष्यण्णतनुत्वादिमान् पिबेत्| अभिष्यण्णान्तः क्लिन्ना तनुर्यस्य स तथोक्तः| तदेव मूलं पाण्ड्वादियुक्तः गोमांसरसादिना पिबेत्|| २८||
Adhikarana tayossarpistailakalpanA (29) · Śloka 29
सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च| विसर्पविद्रध्यलजीकक्ष्यादाहान् जयेद् घृतम्| तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्| महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः||२९||
🔊 Audio coming soon
तदिति दन्त्या द्रवन्त्याश्च मूलस्य परिग्रहः| दशमूलस्य क्वाथेन च दन्तीद्रवन्तीमूलकल्कं दत्वा यद् घृतं सिद्धं तद्विसर्पादीन् जयेत्| अलजी प्रमेहोक्ता पिटका| कक्ष्यानाम ग्रन्थिरुत्तरे वक्ष्यते| अनेनैव विधिना तैलं पक्वं गुल्मादीन् जयेत्| अनेनैव विधिना महास्नेहः स्नेहचतुष्टयं पक्वं शकृत् सङ्गादीन् जयेत्|| २९||
Adhikarana tayorlehavidhAnam (30) · Śloka 30
दन्त्या रसेऽजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः| लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत्| वाततर्षे ज्वरे पैत्ते स्यात्स एवाऽजगन्धया| दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः| त्रीनंशान् फाणिताद्द्वौ च भृष्टस्तैले घृतेऽथवा| श्यामादिकल्कयुक्तोऽयं लेहः सिद्धं विरेचनम्| पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः||३०||
🔊 Audio coming soon
दन्त्या मूलस्य परिग्रहः| दन्तीशृङ्गयोः क्वाथे गुडादिकं दत्वा लेहः सिद्धो विरेकार्थे दाहादिनुच्च भवति| स एव दन्तीलेहोऽजगन्धया संयुक्तो वाततर्षे पैत्ते च ज्वरे स्यात् सिद्ध इति सम्बध्यते| धात्र्या आमलकस्य रसे सिद्धयोर्युगपद्दन्तीद्रवन्तीकूलयोस्त्रीनंशान् समास्त्रयो भागाः| द्बौ भागौ फाणितस्य| क्षुद्रगुडस्येत्येकतः पञ्चकदोषाद्यपेक्षया तैलेन वा घृतेन वा भृष्टमुभयथाऽपि श्यामादिगणकल्केन संयोज्य लेहो विरेचनं सिद्धम्| धात्रीफलरसवचनेनैव प्रकारेण पृथग्घरीतक्यादीनामपि रसैर्लेह्य भवन्ति|| ३०||
Adhikarana tayoshcUrNakalpanA (31) · Śloka 31
तयोर्विडसमं चूर्णं तद्रसेनैव भावितम्| विबद्धविशि वातोत्थे गुल्मे चाम्लयुतं हितम्| मुद्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत्| दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवासकम्| सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्तवासरान्| मूत्रभावितमाज्येन पिबेज्जीर्णे च तर्पणम्| सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम्| दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च| गण्डमालासु वाते च पाण्डुरोगे च शस्यते||३१||
🔊 Audio coming soon
तयोर्दन्तीद्रवन्तीमूलयोश्चूर्णं समेन विडलवणेन युक्तं पश्चात्तन्मूलक्वाथेनैव भावितमम्लैः काञ्जिकमद्यादिर्भियुक्तं विड्विबन्धे वातगुल्मे च हितम्| मुद्गादिसिद्धैरिति सुबोधम्| एकेनादिग्रहणेन धान्यानां ग्रहणम्| द्वितीयेनाऽन्नं प्रकरणात्| दन्त्यादिकं चूर्णितं सप्तरात्रं च येन केनचिन्मूत्रेण भावितं घृतेन तस्मिन् जीर्णे तर्पणं सक्तुमण्डं पिबेत्| एतच्च सर्वकालं सर्वरोगेषु बालवृद्धयोश्च दुर्भुक्ताऽजीर्णादिषु च गण्डमालादिके च शस्यते|| ३१||
Adhikarana dantyAdiBirmodakakalpanA (32) · Śloka 32
गुडस्याष्टपले पथ्या विंशतिः स्यात्पलं पलम्| दन्तीचित्रकयोः कर्षो पिप्पलीत्रिवृतोर्दश| प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि| उष्णाम्भोऽनुपिबन् खादेत्तान् सर्वान् विधिनाऽमुन| एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः| विशेषाद् ग्रहणीपाण्डुकण्डूकोठाऽर्शसां हिताः| विरेचने मुख्यतमा नवैते त्रिवृतादयः||३२||
🔊 Audio coming soon
गुडादिकेन मोदकान् दश प्रकल्प्य दशमे दशमेऽहन्येकमेकं मोदकमुष्णाम्भोऽनुपिबन् खादेदेवम् सर्वान्| सुबोधम्| एते नव त्रिवृतादयो विरेचने मुख्यतमाः|| ३२||
Adhikarana atha harItakIkalpaH (33) · Śloka 33
हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्| विशेषाद् ग्रहणीशोफपाण्डुमेहोदरापहाम्| पिबेत्पथ्यां ससिन्धूत्थविडङ्गोषणनागराम्| मूत्रेण वत्सकादेर्वा निर्य्यूहेण हरीतकीम्| पथ्यानागरचूर्णं वा संयुतं नीलिनीफलैः| गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु||३३||
🔊 Audio coming soon
त्रिवृत्कल्पनाभिर्हरीतकीं कल्पयेत्| यां पुनः पथ्यां हरीतकी ग्रहण्यादिनाशनस्वरूपां विशेषात् पिबेत्| विशेषणमेव हेतुतां प्राप्तम्| सिन्धूत्थादियुक्तां हरीतकीं मूत्रेण वा वत्सकादिनिर्य्यूहेण वा पिबेत्| पथ्यानागरयोश्चूर्णनीलिनीफलचूर्णेन युक्तं गुडेन सह भक्षयेत्| पश्चात् कोष्णं तोयं पिबेत्|| ३३||
Adhikarana pathyAdiguTikA (34) · Śloka 34
पथ्यात्रिवृद्ध्यां गुटिकाः कार्याः द्राक्षारसाप्लुताः| माषप्रमाणास्ताः शुष्का लिह्याद्यक्ष्मी घृतद्रुताः| पथ्यात्रिवृत्पट्ष्णाम्बु सर्वश्रेष्ठं विरेचनम्||३४||
🔊 Audio coming soon
हरीतकीत्रिवृतोश्चूर्णेन् द्राक्षारसालोडितेन गुडिकाः कार्याः| माषप्रमाणास्ताः शुष्काः प्रयोगकालेऽवचूर्ण्य घृतेन लिह्याद्रा जयक्ष्मी| पथ्यादिकं सर्वत्र काले विषये हितम्|| ३४||
Adhikarana pathyAdimodakam (35) · Śloka 35
स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान्| कोलाऽस्थिमात्राञ्छुष्कांश्च नवनीतेन लेहयेत्| गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः||३५||
🔊 Audio coming soon
हरीतकीचूर्णेन सुधाक्षीरालोडितेन बदराऽस्थिप्रमाणां गुटिकां कृत्वा शुष्काः प्रयोगकाले नवनीतयुक्ताः वैद्यो लेहयेत्| इति हरीतकीकल्पः|| ३५||
Adhikarana sukhavirecanayogAH (36) · Śloka 36
लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम्| सुखोदकं चाऽनुपिबेत् सुखमेतद्विरेचनम्||३६||
🔊 Audio coming soon
त्रिकटुकयुक्तं कुष्ठमेरण्डतैलेन लीढं सुखोदकानुपानं सुखविरेचनम्|| ३६||
Adhikarana guNA~antaropAdAne yuktiH (37) · Śloka 37
अल्पस्याऽपि महार्थत्वं प्रभूतस्याऽल्पकर्मताम्| कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः||३७||
🔊 Audio coming soon
अमीषां विरेचनानां कोष्ठपरायत्तत्वेन कार्यकर्त्तृत्वमुच्यते| अल्पस्याऽपि मात्रया बहुकार्यकर्त्तृत्वं कुर्यात्| कथमेतत् कर्तुं पार्यत इत्याऽऽह-संश्लेषेत्यादि| अल्पमपि तीक्ष्णेन संसृष्टं महार्थत्वं याति| तथा प्रभूतमपि तीक्ष्णेन विश्लेषितमल्पकर्मतां याति| कालादिभिरप्यल्पं महाकार्यकरं भवति| बहु च स्वल्पकर्मकरम्| संस्कारं तद्योग्येनगुणान्तरोत्पादनम्| युक्तिर्विशिष्टैः क्रमादिभिर्योजनम्|| ३७||
Adhikarana virecanAnAM hRudyatvApAdanam (38-39) · Śloka 39
त्वक्केसराऽऽम्रातकदाडिमैला- सितोपलामाक्षिकमातुलुङ्गैः| मद्येन तैस्तैश्च मनोऽनुकूले- र्युक्तानि देयानि विरेचनानि||३८|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायां कल्पस्थाने विरेचनकल्पो नाम द्वितीयोऽध्यायः||३९||
🔊 Audio coming soon
एतानि विरेचनानि त्वगादिभिर्युक्तानि देयानि| तैस्तैश्च प्रतिपुरुषं मनोऽनुकूलैः प्रियर्वस्तुभिर्युक्तानि| यतः प्रियत्वात् पथ्यादि योगाय जायत इति|| ३८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया- मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां कल्पस्थाने द्वितीयोऽध्यायः