Adhikarana pratij~jA (1) · Śloka 1
अथातो वमनकल्पं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana pratij~jA (1) · Śloka 1
अथातो वमनकल्पं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Adhikarana vamanadravyeShu madanaPalasya shreShThatA (2) · Śloka 2
वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटज- फलानि श्रेष्ठानि तेष्वपि मदनफलम्||२||
🔊 Audio coming soon
Adhikarana vamanadravyANAM shreShThatve hetuH (3) · Śloka 3
दोषदूष्यादिवशाच्चैषामेतत्कल्पनानाञ्च प्राधान्यम्||३||
🔊 Audio coming soon
Adhikarana kalpasiddhisthAnasya prayojanam (4) · Śloka 4
दोषादीनामेव चाऽतिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विक- ल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदे क्ष्यते||४||
🔊 Audio coming soon
Adhikarana madanAdInAM kalpanAvidhiH (5) · Śloka 5
अथ वसन्तग्रीष्मयोरन्तरे प्रशस्तेऽहनि मुहूर्त्ते च नाऽति- हरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बद्ध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थ- मुद्गाऽन्यतमराशावष्टरात्रमुषितान्यद्धृत्याऽऽतपे शोषयेत्| सुशुष्काणां पिप्लीरुद्धृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत्||५||
🔊 Audio coming soon
Adhikarana shleShmajvarAdiShu vamanavidhiH (6) · Śloka 6
ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पी- प्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रो- क्तविधिना पाययेत्| श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्र- धिषु विशेषेण पुनःपुनरापित्तागमनात्| तेन साधु वमति||६||
🔊 Audio coming soon
Adhikarana balavatkaPAdiShu PalapippalIprayogaH (7) · Śloka 7
फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभाग- त्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेका- ऽपच्यर्बुदग्रन्थिज्वरोदराऽरोचकेषु पिबेत्||७||
🔊 Audio coming soon
Adhikarana pitte kaPasthAnAshrite vidhiH (8) · Śloka 8
फलमज्जचूर्णं वा जीमूतादिनिर्य्यूहेण पित्ते कफस्थान- गते||८||
🔊 Audio coming soon
Adhikarana adhogAsrapittahRuddAhayoH kalpanA (9) · Śloka 9
फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च||९||
🔊 Audio coming soon
Adhikarana vAminI santAnikA (10) · Śloka 10
तस्य वा पयसः शीतस्य सन्तानिकाञ्चलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे||१०||
🔊 Audio coming soon
Adhikarana vAmakaM dadhinavanIta~jca (11) · Śloka 11
तज्जं वा दधि दध्युत्तरं वा कफच्छर्द्रिप्रसेकतमकेषु| तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाऽभिभूतेऽग्नौ शुष्यच्छरीरे च||११||
🔊 Audio coming soon
Adhikarana vAmako lehaH (12) · Śloka 12
फलमज्जचूर्णमिश्रेण वाऽऽरग्वधादिद्रव्याणां घोण्टा- निम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यत- मस्य निर्य्यूहेण साधितं लेहमुपयुञ्जीत||१२||
🔊 Audio coming soon
Adhikarana vAminyutkArikA modaka~jca (13) · Śloka 13
फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगर- कुष्ठत्वक्चोरकमरुबकाऽगरुगुग्गुलुवालकश्रीवेष्टक- परिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरो- हिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्का- रिकां मोदकं वा भक्षयेत्||१३||
🔊 Audio coming soon
Adhikarana shuShkulyAdikalpanAntarANi (14) · Śloka 14
फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डु- लपिष्टैस्तत् कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्य्यू- होपसृष्टैर्वा शष्कुलीरपूपान् अन्यान् वा भक्ष्यान् साध- यित्वा भक्षयेत्||१४||
🔊 Audio coming soon
Adhikarana annapAneShu vamanadravyaprayogaH (15) · Śloka 15
फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमाऽऽ- दर्वी-प्रलेपात् पक्त्वा लेहयेत्| अन्नपानेषु व तं लेह- मवचारयेत्| तत्कषायैरेव चान्नपानानि कल्पयेत्||१५||
🔊 Audio coming soon
Adhikarana vAmakaH kvAthaH (16) · Śloka 16
फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिका- ऽन्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम्||१६||
🔊 Audio coming soon
Adhikarana sukumArAdInAM vamanavidhAnam (17) · Śloka 17
फलपिप्पलीनां वा फलादिनिर्य्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनाऽवचूर्णयेत्| सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरव- चूर्णितमुद्धृत्य हरिद्राकृसराक्षीरयवागूनामन्यतमं सैन्ध- वगुडफाणितोपेतमाऽऽकण्ठं पीतिवानुपाजिघ्रेत्| सु- कुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेष- जद्वेषी च| तथाहि सुखेन छर्दयति||१७||
🔊 Audio coming soon
Adhikarana phalAbhAve madanapuShpaaNaaM shalaaTUnAM ca kalpanA (18) · Śloka 18
एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः| एवमेव च फलाभावे मदनपुष्पाणि शलाटूनि च कल्पयेत्| इति फलविधानमुक्तम्||१८||
🔊 Audio coming soon
Adhikarana atha jImUtakalpaH (19) · Śloka 19
एवञ्च जीमूतादीनपि कल्पयेत्| विशेषतस्तु ज्वर- श्वासहिध्मादिषु जीमूतकम्||१९||
🔊 Audio coming soon
Adhikarana jImUtasyAvasthAntareNa kalpanAntarANi (20) · Śloka 20
तत्र पुष्पेषु क्षीरम्| फलेषु क्षीरपेयाम्| लोमशेषु सन्ता- निकाम्| निर्लोमकेषु दधि दध्युत्तरं वा| हरितपाण्डुषु क्षीरं दध्यम्लं वा| तत्कषायसंसृष्टां सुरां वा कफाऽरोच- ककासपाण्डुरोगयक्ष्मसु प्रयुञ्जीत| पर्य्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत्||२०||
🔊 Audio coming soon
Adhikarana dravyAntaraiH saha kalpanAntarANi (21) · Śloka 21
द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्य्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे| जीमूत- चूर्णं कल्कं वा शीताम्बुना पित्तजे| तदेवोष्णेन वात- कफजे कफजे वा||२१||
🔊 Audio coming soon
Adhikarana svarasaghRutakalpanAvidhiH (22) · Śloka 22
जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वात- पित्तजे| अथवा पूर्ववत्| सिद्धं घृतम्||२२||
🔊 Audio coming soon
Adhikarana ikShvAkukalpaH (23) · Śloka 23
इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्म- रोगेषूपयोज्यः| तस्यापुष्पफलस्य प्रवालैः शृतं क्षीर- मुद्रिक्तपित्ते कफाज्वरे||२३||
🔊 Audio coming soon
Adhikarana atideshedana jImUtavadvidhyantarANi (24) · Śloka 24
पुष्यादिषु च सुतरां जीमूतवत्प्रयोगाः| इक्ष्वाकुफल- स्वरसं वा त्रिगुणक्षीरसाधितमुरः स्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत्| जीर्णे वा समुद्धृतबीजे क्षीरं प्रक्षिपेत्| तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु| इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदर- गरगण्डग्रन्थ्यर्बुदश्लीपदेषु| इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु| तद्विपक्वं वा तक्रं समधुसैन्ध- वम्| तदेव वा मध्यं सगुडपललं भक्षयेत्| इक्ष्वाकुफलतैलं वा पिबेत्| तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकास कण्ठरोगाऽरोचकेषु| इक्ष्वा- कुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु||२४||
🔊 Audio coming soon
Adhikarana ikShvAkorlehakalpanA (25) · Śloka 25
बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत्| ततस्तस्मिन् त्रिभागेन घृतम्| घृतसमानि च पिष्ट्वा तुम्बीबीजानि| तदर्धाशानि च प्रत्येकं जीमूतमहाजा- लिनीवत्सककृतवेधनानि| क्वाथतुल्यमावपेत् त्रिकटु- कम्| पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनु- पिबेत्||२५||
🔊 Audio coming soon
Adhikarana atideshena kAshmaryyAdiShu vidhAnam (26) · Śloka 26
अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक्पृथगुक्तो वेदितव्यः||२६||
🔊 Audio coming soon
Adhikarana dhAmArgavakalpavidhiH (27) · Śloka 27
धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठा- श्रये प्रकल्प्यः| जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्क- रांस्तत्कषायैर्लेहान् पित्तापसर्जने श्लेष्मणि विदध्यात्||२७||
🔊 Audio coming soon
Adhikarana dhAmArgavavidhyantaram (28) · Śloka 28
सुमनः सौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्र- सहावृश्चीवबिम्बीपुनर्नवाकासमर्दाऽन्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु||२८||
🔊 Audio coming soon
Adhikarana kRutavedhanakalpavidhiH (29) · Śloka 29
कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीह- पाण्डुरोगश्वयथुषु कल्पयेत्|२९|
🔊 Audio coming soon
Adhikarana kuTajavedhanakalpavidhiH, kuTajakalpaH (29) · Śloka 29
कृतवेधनमत्यर्थकट्वादिगुणत्वात् गुल्मोदरादिषु सुतरां कल्पयेत्| कृतवेधनं द्वितीया कोशातकी| कोशातकी कृतच्छिद्रा जालिनी कृतवेधनी| क्ष्वेडा सुतिक्ता घण्टोलमृदङ्गफलिका मता||२९|| वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति| भवति चात्र||२९||
🔊 Audio coming soon
Adhikarana upasaMhAraH (30-31) · Śloka 31
वमनानां दिगित्येषा सुतरामुपयोगिनाम्| बीजेनानेन मतिमान्यानपि च कल्पयेत्| इति||३०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रह- संहितायां कल्पस्थाने वमनकल्पो नाम प्रथमोऽध्यायः||३१||
🔊 Audio coming soon