Adhikarana atha mUtrAghAtanidAnaM nAma navamo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो मूत्राघातनिदानं व्याख्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
अधोगदोषहेतुत्वसामान्यान्मूत्रकृच्छ्रप्रमेह-निर्णयायाऽध्यायारम्भः|| १||
Adhikarana atha mUtrAghAtanidAnaM nAma navamo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो मूत्राघातनिदानं व्याख्यास्यामः| इति ह स्माहुरत्रेयादयो महर्षयः||१||
🔊 Audio coming soon
अधोगदोषहेतुत्वसामान्यान्मूत्रकृच्छ्रप्रमेह-निर्णयायाऽध्यायारम्भः|| १||
Adhikarana mUtrAghAtaprabhedAH (2) · Śloka 2
विंशतिर्मूत्राघाता भवन्ति| तद्यथा वातापित्तकफ़सन्नि- पातकृच्छ्राणि| वातपित्तश्लेष्मशुक्राश्मर्य्यः| वात- बस्त्यष्ठीलाकुण्डलिकामूत्रातीतजठरोत्सङ्गग्रन्थिशुक्र- विड्विघातोष्णवातमूत्रक्षयावसादाश्चेति||२||
🔊 Audio coming soon
विंशत्यां रोगेषु मूत्रमाहन्यते| अतस्ते मूत्राघाताः| ते च क्रमेणात्रोच्यन्ते| तत्र चत्वारि कृच्छ्रणि पृथग्दोषसन्निपातोद्भवानि| चतस्त्रोऽश्मर्य्यः पृथग्दोषा शुक्रजाः|| २||
Adhikarana vAtottarA mUtrAghAtAH (3) · Śloka 3
तत्र वातबस्त्यादयो नव वातोल्बणाः||३||
🔊 Audio coming soon
वातबस्त्यादयो विड्विघातान्ता नव वातोल्बणाः|| ३||
Adhikarana vAtapittolbaNAvuShNavAtamUtrakShayau (4) · Śloka 4
ततो द्वौ वातपित्तोल्बणौ||४||
🔊 Audio coming soon
ततोऽनन्तरं द्वावुष्णवातमूत्रक्षयौ वातपित्तोल्बणौ|| ४||
Adhikarana kaphapittolbaNo mUtrAvasAdaH (5) · Śloka 5
अन्त्यः कफपित्तोल्बणः||५||
🔊 Audio coming soon
अन्त्यो मूत्रावसादः कफपित्तोल्बणः| सर्वत्रोल्बणशब्दो दोषान्तरसद्भावप्रतिपत्त्यर्थः|| ५||
Adhikarana mUtrarogA~adhiShThAnasya basteH rogajananaprakriyA (6) · Śloka 6
सर्वेषां पुनर्मूत्ररोगाणामधिष्ठिनं बस्तिः| स मर्मस्वभिहितः प्राक्| स चाऽधोमुखोऽपि मूत्रवहासु नाडीषु सूक्ष्ममुख़सहस्रनिष्यन्देन मूत्राख़्येनाविरतं नवो ग़ट इवाप्सु निमग्नमुखोऽपि पार्श्वेभ्योऽम्भसा पूर्य्यते| तैरेव च स्त्रोतोभिर्वातादयोऽपि दुष्टाः प्रविश्य बस्तिं यथा- स्वमाघातान् प्रमेहा~ंश्च जनयन्ति||६||
🔊 Audio coming soon
सर्वेषामित्यादिना मूत्राघातानां प्रसङ्गेन प्रमेहाणां चाश्रयः सम्प्राप्तिश्चोच्यते| बस्तिर्मर्मसु 'मूत्राशयो धनुर्वक्र " इत्यादिनाभिहितः प्राक् शारीरे ( अ० सं० शा०- ३८१ ) अधोमुखेऽपि नवघटे पार्श्वेभ्यो जलप्रवेशो दृष्टः| तैरेव स्त्रोतोभिर्यैर्मूत्रं प्रविशति बस्तौ|| ६||
Adhikarana mUtrakRucchranidAnam, vAtajamUtrakRucchralakShaNam (7) · Śloka 7
तत्राल्पशो मुहुर्मुहुर्बस्तिमेढ्रवंक्षणेषु तीव्रशूलः कृच्छ्रा- न्मूत्रयति वातकृच्छ्रे||७||
🔊 Audio coming soon
तत्राल्पश इत्यादि वातकृच्छ्रलक्षणम्|| ७||
Adhikarana pittajamUtrakRucchralakShaNam (8) · Śloka 8
सदाहं सरुजं रक्तं पीतं कृष्णं वा पित्तकृच्छ्रे||८||
🔊 Audio coming soon
सदाहमित्यादि पित्ते|| ८||
Adhikarana kaphamUtrakRucchralakShaNam (9) · Śloka 9
बस्तिमेढ्रयोर्गौरवं शोफो मूत्रं च सपिच्छं मेहति कफकृच्छ्रे||९||
🔊 Audio coming soon
बस्तीत्यादि कफे|| ९||
Adhikarana sannipAtajamUtrakRucchralakShaNam, tasya kRucchratamatva~jca (10) · Śloka 10
सर्वलक्षणं सन्निपातेन सन्निपातकृच्छ्रे| स च कृच्छ्रतमः||१०||
🔊 Audio coming soon
सर्वेत्यादि सन्निपाते| स च सन्निपातः कृच्छ्रेभ्यः कृच्छ्रतमः|
Adhikarana ashmarInidAnam, ashmaryyAH nidAnasamprAptyAdi (11) · Śloka 11
यदा तु वायुर्बस्तिमुखमावृत्य सपित्तं सकफ़ं सशक्रं वा मूत्रं परिशोषयति तदा क्रमेण गोरिव पित्ताद्रोचना मणीकस्येव स्वछादपि जलात् पङ्कस्तद्वदश्मर्य्यभिनिर्वर्त्तते| सर्वा च सा श्लेष्माश्रया||११||
🔊 Audio coming soon
यदा त्वित्यादिना सर्वाऽश्मरीशु सम्प्राप्तिरुच्यते| मणिको लिज्जराख्यो जलाधारः| सर्वा अशमर्य्यश्च श्लेष्माणमाश्रित्य जायन्ते|| ११||
Adhikarana ashmarIpUrvarUpam (12) · Śloka 12
अथाऽस्याः पूर्वरूपाणि ज्वरो बस्त्याऽध्मानमरुचिर्मूत्र- कृच्छ्रं बस्तिशिरोमुष्कशेफ़सां वेदना बस्तगन्धित्वं मूत्रस्येति||१२||
🔊 Audio coming soon
सर्वस्या अस्मर्य्या ज्वरादीनि पूर्वरूपानि||१२||
Adhikarana ashmarIsAmAnyalakShaNam (13) · Śloka 13
सामान्यलिङ्गानि तु नाभिबस्तिसेवनीषुमेहतस्तया मार्ग- निरोधने वेदना मूत्राधारासङ्गस्तद्वयापाये च गोमेदक- प्रकाशमनाविलमसिक्तं सुसुखं मूत्रं विसृजति| तत्संक्षो- भणाच्च सरुधिरम्| धावनलङ्घनादिभिश्चास्य विविधा वेदना भवन्ति| यथैव च पक्वाशयात्स्त्रस्तेन शकृता- धिष्ठितेबस्तौ मूत्रं न प्रवर्तेते तथाऽश्मर्य्याऽपि||१३||
🔊 Audio coming soon
सामान्यं च लक्षणं नाभिवेदनादीनि| मेहतो मूत्रं कुर्वतः पुरुषस्य| तद्व्यप्रायेऽश्मरीविगमे अनाविलम्| गोमेदकमङ्कोलकम्| तस्या इत्यश्मर्य्याः| संक्षोभणात्क्षते सरुधिरं मूत्रं मेहति| अस्येत्यश्मरीमतः| शकृदुपघातान्मूत्राऽप्रवृत्तिर्दृष्टैव|| १३||
Adhikarana vAtajA~ashmarIlakShaNam (14) · Śloka 14
तत्र वायुना बस्तिसेवनीमेहनेषु तीव्रवेदनार्दितोदन्तान् खादति| नाभिं प्रपीडयति| मेढ्रं मृद्नाति| मुहुर्मुहुवेपथु- मान्कृच्छ्रात् सवातं शकृद् विमुञ्चति| विशीर्णधारं च मूत्रयत्यश्मरी चास्य श्यावा परुषा विषमा कदम्बपुष्पवत् कण्टकाचिता भवति||१४||
🔊 Audio coming soon
तत्र वायुनेत्यादिवाताश्मरीलक्षणम्|| १४||
Adhikarana pittajAshmarIlakShaNam (15) · Śloka 15
पित्तेन पच्यमान इव दह्यते बस्तिः| अश्मरी च रक्ता पीतावभासा कृष्णा भल्लातकास्थिसंस्थाना||१५||
🔊 Audio coming soon
पित्तेनेन्यादिपित्ताश्मर्य्याः|| १५||
Adhikarana kaphajAshmarIlakShaNam (16) · Śloka 16
श्लेष्मणा भिद्यते निस्तुद्यत इव गुरुः शीतश्च बस्तिरश्मरी च श्वेता महती कुक्कुटाण्डप्रतिमा मधुवर्णा वा भवति||१६||
🔊 Audio coming soon
श्लेष्मणेत्यादित्यादिश्लेष्माऽश्मर्य्या लक्षणम्|| १६||
Adhikarana ashmarINAM bAlasulabhatvaM, sukhasAdhyatva~jca (17) · Śloka 17
प्रायेणैतास्तिस्त्रोऽश्मर्य्यो बालानां जायन्ते| तेषामेव चाऽल्पबस्तित्वादल्पमांसोपचयत्वाच्च सुखग्रहणाहरणा भवन्ति||१७||
🔊 Audio coming soon
००
Adhikarana shukrAshmarInidAnAdi (18) · Śloka 18
महतां तु शुक्राश्मरीक्रनिमित्ता भवति| मैथुनविघा- ताच्छुक्रमुपस्थितमनिरस्यमानं विमार्गगमनिलो विगृह्य वृषणतोरन्तरे संहरति| संहृत्योपशोषयति| ततः शुष्क- मश्मरी भवति| सा शुक्रमार्गमावृणोति| मुत्रकृच्छ्रं बस्तिवेदनां वृषणयोश्च श्वयथुमापादयति| उत्पन्नमा- त्राय च शुक्रं निरोति| प्रपीडितमात्रे च तस्मिन्नेवावकाशे विलीयत इति||१८||
🔊 Audio coming soon
मैथुनाविघातेनाऽलब्धरत्यवसानस्य तत्क्रियानिवृत्याम् उपस्थितं स्त्रोतोमुखे| सेति शुष्कशुष्कमश्मरी|| १८||
Adhikarana sharkarAnidAnam, sharkarAlakShaNam (19) · Śloka 19
अश्मर्य्येव तु वायुनाऽणुशो विभिन्ना शर्करेत्युच्यते| अनुलोमेच मारुते सा सिकतेव मूत्रेण सह च्यवते||१९||
🔊 Audio coming soon
वायुना अणुशो भित्रा अश्मर्य्येव शर्करेति सम्बन्धः| एवकारेण अश्मर्य्या अनन्यत्वं शर्करायाः प्रदर्शयति|| १९||
Adhikarana vAtabastilakShaNam (20) · Śloka 20
वायुस्तु नूत्रवेगरोधाद्बस्तिमुखमावृणोति| ततो मूत्रसङ्गं वेदनां कण्डूं च करोति||२०||
🔊 Audio coming soon
वायुस्त्वित्यादिना वातबस्तिलक्षणम्|| २०||
Adhikarana adhikavAyukopajanyavAtabastilakShaNam (21) · Śloka 21
कदाचिच्च बस्तिं स्वस्थानात् प्रच्याव्य गर्भमिवोद्वृन्तं स्थलं परिप्लुतं च कुरुते| तत्र शूलस्पन्दनदाहोद्वेष्टनानि बिन्दुशश्च मूत्रस्त्रावणम्| पीडिते च बस्तौ धाराया प्रवृत्तिः||२१||
🔊 Audio coming soon
कदाचिदित्यादिना तस्यैव भेदोऽधिकवायुकोपात्|| २१||
Adhikarana vAtabastilakShaNam, vAtabasteH kRucchrasAdhyatvam (22) · Śloka 22
अयं द्विविधोऽपि वातबस्तिः कृच्छ्रसाध्यः| तयोरपि द्वितीयोऽनिलप्रबलः कृच्छ्रसाध्यतरः||२२||
🔊 Audio coming soon
एवं द्विविधोऽप्ययं वातबस्तिः कृच्छ्रसाध्यः| तयोरप्युत्तरः|
Adhikarana vAtAShThIlAnidAnAdi, vAtAShThIlAnidAnAdisamprAptirlakShaNa~jca (23) · Śloka 23
बस्तिविण्मार्गान्तरे वायुर्घनोन्नतं तीव्ररुजमचलमष्ठी- लाभं ग्रन्थिं करोति| तेनाऽनिलविण्मूत्रसङ्गो भवत्या- ऽऽध्मानञ्च| सा वाताष्ठीला||२३||
🔊 Audio coming soon
बस्तिविण्मार्ग इत्यादिनाऽष्ठीलालक्षणम्| अष्ठीला पाषाणमयी| तीक्ष्णमाहननोपकरणम् तदाकारो ग्रन्थिरष्ठीला|| २३||
Adhikarana vAtakuNDalikAnidAnam, vAtakuNDalikAnidAnAdi (24) · Śloka 24
विगुणो वायुर्बस्तौ कुण्डलीभूतस्तीव्रशूलस्तम्भगौरवा- न्वितो मूत्रमाविध्याऽल्पशो वा प्रवर्त्तयन् भ्रमति| सा वातकुण्डलिका||२४||
🔊 Audio coming soon
विगुण इत्यादिवातकुण्डलिकालक्षणम्|| २४||
Adhikarana mUtrAtItanidAnAdi (25) · Śloka 25
मूत्रमतिवेलं विधार्य्यविमुच्यमानं न प्रवर्त्तते| वाहमानस्य तु कृच्छ्रादल्पं प्रवर्त्तते| तन्मूत्रातीतम्||२५||
🔊 Audio coming soon
मूत्रमतिवेलमित्यादिमूत्रातीतलक्षणम्| वेलामतिक्रान्तमतिवेलम्| वाहमानस्य प्रयन्तं कुर्वतः|| २५||
Adhikarana mUtrajaTharanidAnam, mUtrajaTharanidAnAdi (26) · Śloka 26
मूत्ररोधपानो वायुर्नाभेरधस्तात् तीव्ररुजामाध्मानं मल- सङ्गञ्च कुर्वन्नुदरमभिपूरयेत्| तन्मूत्रजठरम्||२६||
🔊 Audio coming soon
मूत्ररोधादित्यादि मूत्रजठरलिङ्गम्|| २६||
Adhikarana mUtrotsa~gganidAnAdi (27) · Śloka 17
मारुतेनाक्षिप्तं छिद्रवैगुण्येन वा मूत्रयतो मूत्रमल्पं बस्तौ नाले मणौ वा स्थित्वा तच्छेषगुरुमेढ्रस्य सरुजमरुजं वा शनैः स्त्रवेत्| स मूत्रोत्सङ्गः||१७||
🔊 Audio coming soon
मारुतेनेत्यादि मूत्रोत्सङ्गलक्षणम्| नालं बहिर्मेढ्रस्य बस्तेश्च मध्यम्| मणिर्मेढ्राग्रम्|| २७||
Adhikarana mutragranthiH (28) · Śloka 28
बस्तिद्वारेऽल्पो वृत्तः शीघ्रसम्भवोऽश्मरीतुल्यलिङ्गो मूत्र- ग्रन्थिः||२८||
🔊 Audio coming soon
बस्तिद्वार इत्यादिना मूत्रग्रन्थिरुच्यते|| २८||
Adhikarana mUtrashukranidAnAdi (29) · Śloka 29
मूत्रितस्य व्यवायगमनाद्वातोद्भतं स्वस्थानाच्च्युतं शुक्रं मेहतो मूत्रस्य प्राक्पश्चाद्वा भस्मोदकसङ्काशं प्रवृर्त्तते| तन्मूत्रशुक्रम्||२९||
🔊 Audio coming soon
मूत्रितस्येत्यादिमूत्रशुक्रलिङ्गम्|| २९||
Adhikarana viDvighAtanidAnAdi (30) · Śloka 30
वायुना पीडितं शकृन्मूत्रस्त्रोतः प्रपद्यते| ततो विड्गन्धि- विट्संसृष्टञ्च कृच्छ्रान्मूत्रयति| स विड्विधातः||३०||
🔊 Audio coming soon
वायुनेत्यादिना विड्विघातः|| ३०||
Adhikarana uShNavAtanidAnAdi (31) · Śloka 31
अत्यध्वा ऽऽ तपोष्णभोजनादिभिः पित्तं प्रवृद्धमनिलेरितं बस्तिमेढ्रगुददाहं कुर्वद्धरितहारिद्ररक्तं सरस्तं वा मूत्रं कृच्छ्रात्प्रवर्त्तयेत्स तूष्णवातः||३१||
🔊 Audio coming soon
अत्यध्वेत्यादिनोष्णवातः|| ३१||
Adhikarana mUtrakShayanidAnAdi samprAptirlakShaNa~jca (32) · Śloka 32
वातपित्तं बस्तिमाश्रित्य मूत्रं सशूलदाहं क्षपयति| स मूत्रक्षयः||३२||
🔊 Audio coming soon
वातपित्तमित्यादिना मुत्रक्षयलक्षणम्|| ३२||
Adhikarana mUtrAvasAdanidAnAdi (33) · Śloka 33
पित्तं श्लेष्मोभयमपि वा वातेन बस्तौ संहन्यते| ततो मूत्रं सदाहं सरक्तं पीतं श्वेतं सान्द्रं कृच्छ्रप्रवृत्तिः शुष्कं च शङ्करोचननान्यतरचूर्णं वा सर्ववर्णयुक्तं वा भवति||३३||
🔊 Audio coming soon
पित्तमित्यादिना मूत्रावसादः| एवमेषां निदानं सम्प्राप्तिर्लक्षणं चोक्तम्|| ३३||
Adhikarana prakaraNopasaMhAraH prakaraNAntaraprastAvashca (34-9) · Śloka 9
इति विस्तरतः प्रोक्ता रोगा मूत्राप्रवृत्तिजाः| निदानलक्षणैरूर्ध्वं वक्ष्यन्तेऽतिप्रवृत्तिजाः||३४|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थाने नवमोध्यायः||९||
🔊 Audio coming soon
इति विस्तरत इत्यादिनाऽध्यायमुपसंहरति| द्वितीयं च प्रस्तावयति|| ३४|| इति श्रीमन्माहामहोपध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने नवमोऽध्यायः