Adhikarana athAtIsAragrahaNInidAnaM nAmAShTamo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
सन्नपावकाऽधोगदोषहेतुत्व-सामान्यार्शोनिदानानन्तरमतीसारग्रहणी-निर्णयायाऽध्यायारम्भः|| १||
Adhikarana atIsArasya sa~gkhyArUpA samprAptiH (2) · Śloka 2
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षङ्विधः|
अतीसारः ...........................................||२||
वातादिभेदेन षङ्विधोऽतीसारः|| २||
Adhikarana atIsAranidAnaM samprAptishca (3) · Śloka 3
............ स सुतरां जायतेऽत्यम्बुपानतः|
कृशशुष्काऽमिषासात्म्यतिलपिष्टविरूढकैः|
मद्यरूक्षातिमात्रान्नैरशोर्भिः स्नेहविभ्रमात्|
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः|
विस्त्रंसयत्यधोऽब्धातुं हत्वा तेनैव चाऽनलम्|
व्यापय्यानुशकृत् कोष्ठं पुरीषं द्रवतां नयन्|
प्रकल्पतेऽतिसाराय............................||३||
स त्वत्यम्बुपानेन सुतरां जायते| कृशेत्यादिना सर्वातीसाराणां दोषजानां निदानं सम्प्राप्तिश्चोच्यते| कृशाऽमिषादिभिरन्यैश्च वाताप्रकोपकारणैरेवं प्रायैरनिलः कुपितः सन्निदामिदं कृत्वाऽतीसाराय कल्पत इत्यर्थः|| ३||
Adhikarana atIsArapUrvarUpam (4) · Śloka 4
........................ लक्षणं तस्य भाविनः|
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः|
आध्मानमविपाकश्च ..........................||४||
हत्तोदादिसर्वातीसारपूर्वलिङ्गम्| सुबोधम्|| ४||
Adhikarana vAtAtIsAralakShaNam (5) · Śloka 5
..................... तत्र वातेन विज्जलम्|
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते|
रूक्षं सफ़ेनमच्छं च ग्रथितं वा मुहुर्मुहुः|
तदा दग्धगुडाभासं सपिच्छापरिकर्त्तिकम्|
शुष्कास्यो भ्रष्टापायुश्च हृष्टरोमा विनिष्ठनन्||५||
विज्जलं क्लिन्नोदकप्रायम्| सम्प्राप्तिविशेषवशेनाच्छं वा ग्रथितं वां| विनिष्ठनन् निस्तानिकां कुर्वन्| इति वातजे|| ५||
Adhikarana pittAtIsAralakShaNam (6) · Śloka 6
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्|
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्|
सशूलः पायुसन्तापपाकवान् ...............||६||
पायुपाकान्तं पित्तातीसारलिङम्|| ६||
Adhikarana shleShmAtIsAralakShaNam (7) · Śloka 7
........................ श्लेष्मणा धनम्|
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफन्वितम्|
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्|
निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्|
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः|
कृतेऽप्यकृतसंज्ञश्च .................||७||
घनादिकं श्लेष्मातीसारलिङ्गम्| कफादिकमिति स्वरूपेणातीसारे कफप्रवृत्तिः| सप्रवाहिकं सनिस्तानिकम्| उत्क्लेशो दोषाणाम्| कृतेऽप्यतीसारे गुरुत्वादकृतसंज्ञः|| ७||
Adhikarana sannipAtAtIsAralakShaNam (8) · Śloka 8
.................... सर्वात्मा सर्वलक्षणः||८||
००
Adhikarana bhayajAtIsAralakShaNam (9) · Śloka 9
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्|
वायुस्ततोऽतिसार्य्येत क्षिप्रमुष्णं द्रवं प्लवम्|
वातपित्तसमं लिङ्गैराहुः तद्वच्च शोकतः||९||
भयशोकयोर्वायुः सपित्तः शकृतो द्रवत्वं करोति|| ९||
Adhikarana atIsArasya dvividhaM dvaividhyam (11) · Śloka 11
अतीसारः समासेन द्वेधा सामो निरामकः|
सासृङ्निरस्त्रः .....................||११||
००
Adhikarana sAmAtIsAralakShaNam (12) · Śloka 12
.............. तत्राद्ये गौरवादप्सु मज्जति|
शकृद्दुर्गन्धमाटोपविष्टम्भाऽर्त्तिप्रसेकिनः||१२||
००
Adhikarana nirAmAtIsAralakShaNam (13) · Śloka 13
विपरीतो निरामस्तु ....................||१३||
तत्रेत्यादिना सामनिरामयोः प्रयोजनत्वाल्लक्षणमुच्यते| सासृङ्निरस्त्रयोरस्त्रमेव लिङ्गम्| आद्ये सामे| आमस्य गुरुत्वाच्छ्कृदप्सु जले निमज्जति| तच्च दुर्गन्धं भवति| आटोपादियुक्तस्य पुरुषस्य| आटोप आनाहप्रायः|| १३||
Adhikarana kaphAtIsAre visheShaH (14) · Śloka 14
..................... कफात्पक्वोऽपि मज्जति||१४||
कफाद्धेतोर्योऽतीसारः स पक्वोऽपि निरामोऽप्यप्सु मज्जति| इत्ययुक्तोऽतीसारः|| १४||
Adhikarana grahaNInidAnam, grahaNIroganidAnam (15) · Śloka 15
अतीसारेषु यो नाऽतियत्नवान् ग्रहणीगदः|
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः||१५||
अथ ग्रहणीदोष उच्यते| अतीसारेषु वर्ज्यवर्जने सेव्यसेवने च यो नाऽतियत्नवान् भवति| तस्य नरस्य ग्रहणीगदः स्यात्| तथाऽन्यस्याऽप्यग्निनाशकरैः सेवितैर्ग्रहणीदोषः स्यादिति सम्बध्यते|| १५||
Adhikarana atisAragrahaNyorbhedaH, atisArashabdaniruktishca (16) · Śloka 16
सामं शकृन्निरामं वा जीर्णे येनातिसार्य्यते|
सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः|
सामं साऽन्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा|
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः|
चिरकृद् ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्||१६||
अतीसारग्रहणीदोषयोः सादृश्याल्लक्षणविशेष उच्यते| येन रोगविशेषेण जीर्णेऽन्ने पुरीषं सामं वा निरामं वा पुरुषोऽतिसार्यते सोऽतीसारः| स च स्वभावादेव सर्वमाशु करोति| एवमतीसारः| ग्रहणीदोषे पुननियमेनातिसार्य्यते जीर्णे चाऽजीर्णे च| तत्र यदजीर्णेऽतिसार्य्यते तत् सामं सान्नं च भवति| यत्तु जीर्णेऽतिसार्य्यते तत् पक्वमथवा जीर्णं कदाचिन्नातिसार्य्यते| अकस्माच्च बद्धमकस्माच्छिथिलं मुहुः| पुनरयं तु ग्रहणीदोषश्चिरकृत्| अत्र सञ्चिते दोषे शकृदुपवेश्यते|| १६||
Adhikarana grahaNIprabhedAH (17) · Śloka 17
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते||१७||
पृथग्वातादिभिः सन्निपातेनेति चत्वारो ग्रहणीदोषाः|| १७||
Adhikarana grahaNIpUrvarUpam (18) · Śloka 18
प्राग्रूपं तस्य सदनं चिरात्पचनमम्लकः|
प्रसेको वक्त्रवैरस्यमरुचिस्तृट्क्लमो भ्रमः|
आनद्धोदरता छर्दिः कर्णक्ष्वेलान्त्रकूजनम्||१८||
सर्वस्य ग्रहणीदोषस्याऽग्निसदनादि पूर्वरूपम्|| १८||
Adhikarana grahaNyAH sAmAnyalakShaNam (19) · Śloka 19
सामान्यलक्षणं कार्श्यं धूमक्स्तमको ज्वरः|
मूर्च्छा सिरोरुग्विष्टम्भः श्वयथुः करणादयोः||१९||
कार्श्यादिवातादिषु साधारणलिङ्गम्||१९||
Adhikarana vAtajagrahaNIlakShaNam (20) · Śloka 20
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः|
पार्श्वोरुवंक्षणग्रीवारुजाभीक्ष्णं विषूचिका|
रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्त्तिका|
जीर्णे जीर्यति चाऽध्मानं भुक्ते स्वास्थ्यं समश्नुते|
वातहृद्रोगगुल्माऽर्शः प्लीहापाण्डुत्वशङ्कितः|
चिराद्दुः खं द्रवं शुष्कस्तन्वामं शब्दफ़ेनवत्|
पुनः-पुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्||२०||
तालुशोषादिविशेषो वातात्| वातहृद्रोगादिशङ्कितः तद्रूपत्वात्|
Adhikarana pittajagrahaNIlakShaNam (21) · Śloka 21
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः|
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम्||२१||
पित्तान्नीलादिकं विशेषः|| २१||
Adhikarana kaphajagrahaNIlakShaNam (22) · Śloka 22
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः|
आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः|
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु|
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्|
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्त्तनम्|
अकृशस्यापि दौर्बल्यं....................||२२||
श्लेष्मणोऽन्नस्य दुःखयाकादि|| २२||
Adhikarana sarvajagrahaNIlakShaNam (23) · Śloka 23
सर्वजे सर्वसङ्करः.................||२३||
००
Adhikarana viShamAdyagnayo~api grahaNIdoShAH, samastasvAsthyahetuH (24) · Śloka 24
सिराविभागे ये चोक्तो विषमाद्यास्त्रयोऽग्नयः|
तेऽपि स्युर्ग्रहणीदोषः समस्तु स्वास्थ्यकारणम्||२४||
सिराविभागेऽध्याये ( अ. सं. शा. - ४५-४५२ ) विषमतीक्ष्णमन्दाख्या येऽग्न्य उक्तास्तेऽपि ग्रहण्याश्रितत्वाद् ग्रहणीदोषा भवन्त्येव|| २४||
Adhikarana aShTau mahArogAH (25-8) · Śloka 8
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः|
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः||२५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां निदानस्थानेऽतीसारग्रहणीनिदानं नामष्टमोऽध्यायः||८||
वातव्याधीत्यादिना ग्रहणीदोषप्रसङ्गेनाऽष्टौ महारोगा उच्यन्ते| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थानेऽष्टमोऽध्यायः