Adhikarana atha shvAsahidhmAnidAnaM nAma caturtho~adhyAyaH |pratij~jA (1) · Śloka 1
अथातः श्वासहिध्मानिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
कासोपेक्षया श्वासस्य सम्भवात्तदेकरूपत्वाच्च हिध्मायाः तयोर्निर्णयायैकाध्यायारम्भः| अथेत्यादि सर्वेष्वध्यायेषु पूर्ववद्व्याख्येयम्|| १||
Adhikarana shvAsanidAnam (2) · Śloka 2
कासवृद्धया भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः|
आमातिसारवमथुविषपाण्डुज्वरैरपि|
रजोधूमानिलैर्मर्मघातादतिहिमाम्बुना||२||
श्वासः कासस्य वृद्धया भवेत्| अधिकीभूतः कास एव कारणं श्वासस्य| रोगस्य च रोगः कारणं भवतीत्युक्तं प्राक्| अथवा पूर्वं दोषकोपनैः कासस्य हेतुत्वेनोक्तैः श्वासो भवति| तानि च कषायविज्जलासात्म्यादीनि ( अ. सं. नि. - १२२ ) अथवा पूर्वाणि दोषकोपनानि सर्वम् रोगं निदानपठितानि तिक्तकटुकादीनि ( अ. सं. नि. - २६ )| तैर्यथासम्भवमामादिभिरपि श्वासो भवत्यतिहिमाम्ब्वतैः| इति श्वासस्य निदानानि|| २||
Adhikarana shvAsaprabhedAH (3) · Śloka 3
क्षुद्रकस्तमश्छिन्नो महानूर्ध्वश्च पञ्चमः|
कफोपरुद्धगमनः पवनो विष्वगास्थिताः|
प्राणोदकान्नवाहीनि दुष्टः स्त्रोतांसि दूषयन्|
उरस्थः कुरुते श्वासमामाशयसमुद्धवम्||३||
क्षुद्रादीनि तस्यैव रूपभेदेन पञ्च नामानि| कफोपरुद्धेत्यादिना श्वासस्य सम्प्राप्तिरुच्यते| स्वहेतुभिर्दुष्टः सन् पवनः कफेन च कारणविशेषादुपरुद्धगमनः समन्तादास्थितश्च प्राणदिवाहीनि स्त्रोतांसि दूषयन्नुरस्थ एवामाशयसमुद्भवरूपं श्वासं कुरुते| आमाशयप्रवृत्तिः श्वासस्य व्यापारः|| ३||
Adhikarana shvAsapUrvarUpam (4) · Śloka 4
प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता|
आनाहः शङ्खभेदश्च........................||४||
सर्वस्य श्वासस्य हृत्पार्श्वशूलादि पूर्वरूपम्| प्रणास्य वायोर्विलोमताविपरीतगमनं कार्याज्ज्ञायते|| ४||
Adhikarana kShudrashvAsaH (5) · Śloka 5
.................तत्रायासातिभोजनैः|
प्रेरितः प्रेरयेत्क्षुद्रं स्वयं संशमनं मरुत्||५||
तत्रेत्यादिना क्षुद्रादिक्रमेण श्वासानां लक्षणमुच्यते| आयासादिप्रेरितो मरुत् क्षुद्रं नाम्ना स्वयं संशमनं श्वासं प्रेरयेत्| वेगं कृत्वा स्वयं शाम्यतीत्यर्थः| प्रतिलोममित्यादिना तमकस्य लक्षणमुच्यते|| ५||
Adhikarana tamakashvAsaH, tasya sAdhyAsAdhyatva~jca (6) · Śloka 6
प्रतिलोमं सिरा गच्छन्नुदीर्य्य पवनः कफम्|
परिगृह्य शिरोग्रीवमुरः पाश्वै च पीडयन्|
कास घुर्घुरकं मोहमरुचिं पीनसं तृषम्|
करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम्|
प्रताम्येत्तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी|
कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमृच्छति|
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्त्तिमान्|
विशुष्कास्यो मुहुः श्वासी कांक्षत्युष्णं सवेपथुः|
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते|
स याप्यस्तमकः साध्यो नवो वा बलिनो बवेत्||६||
पवनः प्रतिलोमं विपरीतं कृत्वा सिरां गच्छंस्तेन गमनेन कफमुदीर्य्य शिरोग्रीवां च परिगृह्य पार्श्वमुरश्च पीडयन् कासादिकं तव्रवेगं प्राणोपतापिनं श्वासञ्च करोति| तस्य च तथाविधस्य श्वासस्य वेगेन पुरुषः प्रताम्येत्| निष्ठ्यूतान्ते च क्षणं सुखी भवति| शय्यायां स्थितश्च कृच्छ्रेण श्वसिति भित्यादोउ निषण्णः स्वास्थ्यमृच्छति| सुबोधम्| स च श्वासो मेघाम्ब्वादिभिः श्लेष्मलैश्चाहारैर्विवर्द्धते| एवम्भूतः श्वासो याप्यो भवेत्| नाम्ना च तमकः| अथवा बलिनः पुरुषस्य नवः सन् साध्यो भवेत्|| ६||
Adhikarana pratamakalakShaNam (7) · Śloka 7
ज्वरमूर्च्छायुतः शीतैः शाम्येत् प्रतमकस्तु सः||७||
एवरूपं एव श्वासो ज्वरमूर्च्छायुतो भवति| शीतैश्चाहारादिभिः शाम्येत्| स तमकविशेषः प्रतमकसंज्ञितः|| ७||
Adhikarana chinnashvAsalakShaNam (8) · Śloka 8
छिन्ना च्छ्वसिति विछ्छिन्नं मर्मच्छेदरूजार्दतः|
सस्वेदमूर्च्छः सानाहो बस्तिदाहनिरोधवान्|
अधोदृग्विप्लुताक्षश्च मुह्यन् रक्तैकलोचनः|
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः||८||
छिन्नाच्छ्वसाद्विच्छिन्नं विरामैश्च श्वसिति| मर्मच्छेदरूपया रुजयार्दितः ( दीनः ) स्वेदादियुतश्च भवति|| ८||
Adhikarana mahAshvAsalakShaNam (9) · Śloka 9
महता-महता दीनो नादेन श्वसिति क्रथन्|
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम्|
प्रणष्टज्ञानविज्ञानो विभ्रान्तनयनाननः|
वक्षः समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक्|
शुष्कवठो मुहुर्मुह्यन् कर्णशङ्खशिरोऽतिरुक्||९||
महदाख्येन तु श्वासेन महता नादेन श्वसिति| दीनः क्रयँश्च श्वसिति| क्रथनं नासाशब्दः| उद्धूयमान उत्प्लाव्यमानः मर्त्तर्षभ इव संरब्धः| ज्ञानां चेतना| विज्ञानं विचारः || ९||
Adhikarana UrdhvashvAsalakShaNam (10) · Śloka 10
दीर्घमूर्ध्वं श्वसित्यूर्ध्वान्न च प्रत्याहरत्यधः|
श्लेष्मावृतमुखस्त्रोता क्रुद्धगन्धवहार्दितः|
ऊर्ध्वदृग्वीक्षते भ्रान्तमक्षिणी परितः क्षिपन्|
मर्मसु छिद्यमानेषु परिदेवी निरुद्धवाक्||१०||
ऊर्ध्वश्वास उच्यते| ऊर्ध्वाच्छ्वासादूर्ध्व दीर्घं श्वसिति| दीर्घं श्वासं मुञ्चतीत्यर्थः| न च श्वासमधः प्रत्याहरति| मुक्तं पुनर्नैव प्रवेशजयतीत्यर्थः| श्लेष्मणा आवृतं मुखं स्त्रोतांसि च यस्य स तथोक्तः| गन्धावहो वायुः तेन क्रुद्धेनार्दितः सुबोधम्|
Adhikarana shvAsAnAM sAdhyAsAdhyatvam (11) · Śloka 11
एते सिध्येयुरव्यक्ता व्यक्ताः प्राणहराः ध्रुवम्||११||
साध्यासाध्यविभागं दर्शयति| एते सर्वे श्वासा अव्यक्ता अपरिपूर्णत्वादास्फ़ुटा सन्तः सिध्येयुः| व्यक्ताः पुनः ध्रुवमवश्यं प्राणहराः| इत्युक्ताः श्वासाः|| ११||
Adhikarana hidhmAvarNanam, hidhmAyAH hetvAdIni (12) · Śloka 12
श्वासैकहेतुप्राग्रूपसङ्ख्याप्रकृतिसंश्रयाः|
हिध्माः.........................................||१२||
अनन्तरं हिध्मा निर्णीयन्ते-श्वासेति| श्वासेनैकं सदृशं हेत्वादि यस्याः सा तथोक्ता सङ्ख्याप्रकृतिः सङ्खयास्वरूपम्| संश्रयाश्रयोद्भवस्थानम्|| १२||
Adhikarana hidhmAyAH bhedAH (13) · Śloka 13
...........भक्तोद्भवा क्षुद्रा यमला महतीति च|
गम्भीरा च ....................................||१३||
भक्तोद्भवादीनि पञ्च हिध्माविशेषनामानि|| १३||
Adhikarana annajahidhmAlakShaNam (14) · Śloka 14
........... मरुतत्र त्वरयाऽयुक्तिसेवितैः|
रूक्षतीक्ष्णखरासात्म्यैरन्नपानैः प्रपीडितः|
करोति हिध्मारुजां मन्दशब्दां क्षवानुगाम्|
शमं सात्म्यान्नपानेन या प्रयाति व सान्नजा||१४||
तत्र हिध्मासु मध्ये मरुद्वायुरन्नपानैस्त्वरया वैपरीत्येन च सेवितैः रुक्षादिभिः प्रपीडितः सन् मन्दशब्दां क्षवानुगां च हिध्मां करोति| सात्म्यान्नपानोपशयाच्चान्नजा भक्तोद्भवोच्यते|
Adhikarana kShudrahidhmAlakShaNam (15) · Śloka 15
आयासात्पवनः क्रुद्धः क्षुद्रां हिध्मां प्रवर्त्तयेत्|
जत्रुमूलप्रविसृतामल्पवेगां मृदं च सा|
वृद्धिमायास्यतो याति भुक्तमात्रे च मार्दवम्||१५||
क्षुद्रां हिध्मां पवनो वायुरायासाद्धेतोः क्षुद्रः स्वल्पः प्रवर्त्तयेत्| सा तु जत्रुमूलोद्भवाऽल्पवेगा मृदुश्च| आयासं कुर्वतो वृद्धिं याति| भुक्तमात्रे च मार्दवं यातीति क्षुद्रा|| १५||
Adhikarana yamalahidhmAlakShaNam (16) · Śloka 16
चिरेण यमलैर्वेगैराहारे या प्रवर्त्तते|
परिणामोन्मुखे वृद्धिम्परिणामे च गच्छति|
कम्पयन्ती शिरोग्रीवामाध्मातस्यातितृष्यतः|
प्रलापच्छर्द्यतीसारनेत्रविप्लुतिजृम्भिणः|
यमला वेगिनी हिध्मापरिणामवती च सा||१६||
यमला नाम हिध्मा या चिरेण यमलैर्वेगैः द्वाभ्यां वेगाभ्यां भवति| परिणामोन्मुख आहारे प्रवर्त्तते परिणते च| शिरोग्रीवां कम्पयन्त्याध्मानादिमतः पुरुषस्य वृद्धिं यातीति यमला| तस्यास्त वेगिनी परिणामवती चेति नामद्वयम्|| १६||
Adhikarana mahAhidhmAlakShaNam (17) · Śloka 17
ध्वस्तभ्रूशङ्खयुग्मस्य साऽस्त्रविप्लुतचक्षुषः|
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मृष्णती|
रुन्धती मार्गमन्नस्य कुर्वती मर्मघट्टनम्|
पृष्ठतो नमनं शोषं महाहिध्मा प्रवर्त्तते|
महामूला महाशब्दा महावेगा महाबला||१७||
महेत्युच्यते| ध्वस्तभ्रूशङ्खयुग्मत्वादियुक्तस्य पुरुषस्य वाक्तनुस्तम्भादिकं कुर्वती महाहिध्मा प्रवर्त्तते| सा च महामूलत्वादिरुपा| विप्लुते अनिबद्धे इव चक्षुषी| मर्मघट्टनं हृदयादि रुक्| पृष्ठतो नमनं वक्षसो बहिर्निस्सरणम्| महामूला आमाशये प्रथमोत्पत्तिर्यस्याः| तत्र बहुव्यापारवती दृश्यत इत्यर्थः| इति महती|| १७||
Adhikarana gambhIrahidhmAlakShaNam (18) · Śloka 18
पक्वाशयाद्वा नाभेर्वा पूर्ववद्या प्रवर्त्तते|
तद्रूपा सा मुहुः कुर्य्याज्जृम्भामङ्गप्रसारणम्|
गम्भीरेणानुनादेन गम्भीरा.....................||१८||
गम्भीरा च पक्वाशयादित्यादिनोच्यते-पूर्ववदिति| महतीव ध्वस्तभ्रूयुग्मादिमतस्तनुस्तम्भादिकं कुर्वती चेत्यर्थः| तद्रूपा महा मूलत्वादिरूपा| गम्भीरायास्तु विशेषो जृम्भामङ्गप्रसारणञ्च मुहुर्वेगेषु कुर्य्यात्| गम्भीरेण चानुनादेन भवति| इत्युक्ताः पञ्च हिध्माः|
Adhikarana hidhmAnAM sAdhyAsAdhyatvam (19) · Śloka 19
...........................तासु साधयेत्|
आद्ये द्वे वर्जयेदन्त्ये सर्वलिङ्गाञ्च वेगिनीम्|
सर्वाश्च सञ्चितामस्य स्थविरस्य व्यवायिनः|
व्याधिभिः क्षीणदेहस्य भक्तच्छेदक्षरातस्य वा||१९||
तासु हिध्मासु मध्ये आद्ये द्वे भक्तेतोद्भवा क्षुद्रा च साध्ये अन्त्ये द्वे महती गम्भीराख्ये चोपेक्षणीये| या च वेगिनी नाम हिध्मा सासम्पूर्णलक्षणयुक्ता सत्युपेक्षणीया| सर्वाश्च हिध्माः सञ्चितामत्वादियुक्तास्योत्पन्ना वर्ज्याः| यः पुनः पुरुषो व्याधिभिः क्षीणदेहः| अथवा आहाराविच्छेदेन क्षतस्तस्य|| १९||
Adhikarana hidhmAshvAsayoH shIghrakAritvam (20-4) · Śloka 4
सर्वेऽपि रोगा नाशाय न त्वेवं शीघ्रकारिणः|
हिध्माश्वासौ यथा तौ हिमृत्युकाले कृतालयौ||२०||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसग्रहसंहितायां निदानस्थाने श्वासहिध्मानिदानं नाम चतुर्थोध्यायः||४||
सर्वेऽपि रोगा नाशाय भवन्ति| न केवलं हिध्माश्वासावेवेति| ते च रोगा एवम्भूता अपि शीघ्रकारिणस्तथा न भवन्ति| यथा हिध्माश्वासौ शीघ्रकारिणाविति| शीघ्रं स्वं कर्म मारणं कुरुत इति यथोक्तौ| यस्मात्तौ मृत्युकाले कृतालयाववश्यम्भाविनौ| एतेनानयोः शीघ्रचिकित्सितत्वं प्रदर्शितमिति|| २०|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् ष्टाङ्गसङ्ग्रहव्याख्यायां शशिलेखायां निदानस्थाने चतुर्थोऽध्यायः