Adhikarana atha rAjayakShmAdinidAnaM nAma pa~jcamo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो राजयक्ष्मादिनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
धातुक्षयहेतुत्वसामान्यान्महा-रोगत्वाद्विनाशवहत्वाच्च हिध्माश्वासानन्तरं राजयक्ष्मनिर्णयायाऽध्यायारम्भः|| १||
Adhikarana rAjakShmasAmAnyasvarUpaM tatparyAyAshca (2) · Śloka 2
अनेकरोगानुगतो बहुरोगपुरोगमः|
राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः||२||
राजयक्ष्मा राजवदनेकरोगेणानुगतो भवति| तस्मिँश्चैव कृतसंश्रये बहूपद्रवजन्म भवतीत्यर्थः| तथा बहवो रोगाः पुरोगमनशीला यस्य स तथोक्तः| अनेनैतदुक्तम्-उत्पित्सो राजयक्ष्मणः प्रथममेव पीनसश्वासादिबहुरोगजन्म भवति इति| एतेषाञ्च रोगाणां स्वपरिवारसंयुतानामप्येतदङ्गत्वं विज्ञेयम्| राजयक्ष्मादयश्चत्वारः पर्य्यार्याः|| २||
Adhikarana rAjayakShmAdishabdAnAM nirvacanam (3) · Śloka 3
नक्षत्राणां द्विजानां च राज्ञोऽभूदयं पुरा|
यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः|
देहौषधक्षयकृतेः क्षयस्तत्सम्भावाच्च सः|
रसादिशोषणाच्छोषो रोगराट् तेषु राजनात्||३||
तेच नक्षत्राणमित्यादिना निरुच्यन्तेऽर्थावबोधनाय तेन रायक्ष्मेति तत्पुरुषः कर्मधारयो वा| देहौषधक्षयफ़लहेतुत्वाद्वा धातुक्षयहेतुत्वादक्षयः| धातुशोषणाच्छोषः| तेषु रोगेषु मध्ये राजनाद् रोगराट्|| ३||
Adhikarana rAjayakShmanidAnam (4) · Śloka 4
साहसं वेगसंरोधः शुक्रोजः स्नेहसंक्षयः|
अन्नपानविधित्यागश्चत्वारस्तस्य हेतवः||४||
तस्य राजक्ष्मणः साहसादयश्चत्वारोऽतिसेविता हेतवः ( निदानम् )| साहसमविचार्य्यात्मशक्तिसेवितमतिमात्रं युद्धादि वेगानां वातादीनां धारणम्| शुक्रादिक्षयः स्वस्वहेतुभ्यः|| ४||
Adhikarana rAjayakShmasamprAptiH (5) · Śloka 5
तैरुदीर्णोऽनिलः पित्तं कफ़ं चोदीर्य्य सर्वतः|
शरीरसन्धीनाविश्य तान् सिराश्च प्रपीडयन्|
मुखानि स्त्रोतसां रुद्ध्वा तथैवातिविवृत्या वा|
सर्पन्नूर्ध्वमधस्तिर्य्यग्यथास्वं जनयेद् गदान्||५||
तैः साहसादिभिरनिलः उदीर्णः पित्तं कफ़ं चोदीर्य्यत्येवमादेर्यथास्वं गदान् पीनसादीन् जनयेदिति सम्बन्धः| तानिति शरीरसन्धीन्| सम्प्राप्तिवशात् स्त्रोतोमुखानि रुद्ध्वाऽतिविवृत्य वा ऊर्ध्वमधस्तिर्य्यक्च सर्पन् प्रसरन्|| ५||
Adhikarana rAjayakShmapUrvarUpam (6) · Śloka 6
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं क्षवः|
प्रसेको मुखमाधुर्य्यं सदनं वह्निदेहयोः|
स्थाल्यामत्रान्नपानादौ शुचावप्यशुचीक्षणम्|
मक्षिकातृणकेशादिपतः प्रायोऽन्नपानयोः|
हृल्लासश्छर्दिररुचिरश्नतोऽपि बलक्षयः|
पाण्योरवेक्षा पादस्य शोफ़ोऽक्ष्णोरतिशुक्लता|
बाह्वोः प्रमाणजिज्ञासा काये बैभत्स्यदर्शनम्|
स्त्रीमद्यमांसप्रियता घृणित्वं मूर्धगुण्ठनम्|
नखकेशातिवृद्धिश्च स्वप्ने चाऽभिभवो भवेत्|
पतङ्गकृकलासाहिकपिश्वापदपक्षिभिः|
केशास्थितुषभस्मादिराशौ समधिरोहणम्|
शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः|
ज्योतिर्गिरीणां पततां ज्वलतां महीरुहाम्||६||
भविष्यतस्तस्य राजयक्ष्मणः प्रतिश्यायादीनि पूर्वरूपाणि| स्थाल्यादौ शुचावप्यशुचिर्बुद्धिः| पाण्योरवेक्षा निर्हेतुका| तथा काये बैभत्स्यदर्शनाम्| मूर्ध्नः शिरसो वस्त्रादिना प्रच्छादनम्| स्वप्ने पतङ्गाद्याभिभवो भवेत्| केशादिराश्यधिरोहणम्| शून्यग्रामादिदर्शनं च| पतङ्गोऽग्निः|| ६||
Adhikarana rAjayakShmaNaH ekAdasharUpANi (7) · Śloka 7
पीनसश्वासकासांसमूर्धस्वररुजोऽरुचिः|
ऊर्ध्वविट्स्त्रंससंशोषावधश्छर्दिस्तु कोष्ठगे|
तिर्य्यक्स्थे पार्श्वरुग्दोषे सन्धिगे भवति ज्वरः|
रूपाण्येकादशैतानि जायन्ते राजयक्ष्मिणः||७||
तस्य च राजयक्ष्मिण ऊर्ध्वगते दोषे पीनसादयो भवन्ति| अधोगते पुरीषस्य स्त्रंसः शोषो वा| कोष्ठगे दोषे छर्दिर्भवति| तिर्य्यक्स्त्रोतस्सु स्थिते ( दोषे ) पार्श्वरुग्भवति| सन्धिगे दोषे ज्वरो भवति| तेनैतदुक्तम्-दोषकोपविशेषपरायत्ता शरीरे व्याप्तिः| यथाव्याप्ति च रोगसम्भवः| सकलव्याप्यौत्वेकादशरोगसमूहः परिपूर्णोराजयक्ष्मा भवति| स्त्रोतसां रोधाद्विट्छोषः| तेषां विवृतत्वात्स्त्रंसः| तेन सङ्खयायामनयोरन्यतरस्य ग्रहणम्| युगपदसम्भवात्| पीनसः, श्वासः, कासः, अंसरुक्, मूर्धरुक्, स्वररुक्, अरुचिः, विशः, स्त्रंसः शोषो वा, छर्दिः, पार्श्वरुक, ज्वरः-इत्येकादशरोगसमूहः क्षयः|| ७||
Adhikarana rAjayakShmaNi pInasAdInAmupadravAH (8) · Śloka 8
तेषामुपद्रवान् विद्यात् कण्ठोद्ध्वंसमुरोरुजम्|
जृम्भाङ्गमर्दनिष्ठीववह्निसादाऽस्यपूतिताः||८||
तेषां पीनसादीनां कण्ठोद्ध्वंसादय उपद्रवाः रोगस्य पश्चादुत्पन्नो दुःखानुबन्धी रोग उपद्रवः|| ८||
Adhikarana vAtAdhikarAjayakShmali~ggAni (9) · Śloka 9
तत्र वाताच्छिरः पार्श्वशूलमंसाङ्गमर्दनम्|
कण्ठोद्ध्वंसः स्वरभ्रंशः.................||९||
तत्र वाताधिके राजयक्ष्मणि शिरः शूलादिकं लिङ्गम्|| ९||
Adhikarana pittAdhikarAjayakShmali~ggAni (10) · Śloka 10
..................पित्तात् पादास्यपाणिषु|
दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः||१०||
पित्ताधिके पाददाहादिकम्|| १०||
Adhikarana kaphAdhikarAjayakShmali~ggAni (11) · Śloka 11
कफादरोचकच्छर्दिः कासो मूर्धाङ्गगौरवम्|
प्रसेकः पीनसः श्वासः स्वरसादोऽल्पवह्निता||११||
कफाधिके अरोचकादिकम्|| ११||
Adhikarana rAjayakShmaNi dhAtupoShaNAbhAve hetuH (12) · Śloka 12
दोषैर्मन्दानलत्वेन सोपलेपैः कफ़ोल्बणैः|
स्त्रोतोमुखेषु रुद्धेषु धातूष्मस्वल्पकेषु च|
विदह्यमानः स्वस्याने रसस्तांस्तानुपद्रवान्|
कुर्य्यादगच्छन् मांसादीनसृक् चोर्ध्वं प्रधावति|
पच्यते कोष्ठ एवान्नमन्नं पक्त्रैव चास्य यत्|
प्रायोऽस्मान्मलतां यातं नैवालं धातुपुष्टये|
रसोऽप्यस्य न रक्ताय मांसाय कुत एव तु|
अवष्टब्धः स शकृता केवलं वर्त्तते क्षयी||१२||
राजक्ष्मवतो धातुपुष्टिकरैर्मांसादिभिरभ्यवहृतैर्धातुक्षयो जायत इत्यत्र युक्तिमाऽऽह-दोषैरित्यादि| तस्य राजयक्ष्मवतो रोस्वभावेन मन्दानलत्वेन हेतुना दोषैः सापलेपैरपाकादविशदैस्तथा कफ़ोल्बणैश्च स्त्रोतोमुखेषु रुद्धेषु अतएव धातूष्मस्वल्पकेषु सत्सु रसाख्यो धातु स्वस्थान एव विदध्यमानो नापि रक्तादिधातुषु वहन् तांस्तानुपद्रवान् स्वहेतुकान् कुर्य्यात्| असृक्च मांसादीनगच्छन् ऊर्ध्वशरीरस्य धावति| अस्य चान्नमन्न पक्त्रैव पच्यते| नतु रसादिक्रमेण त्वन्यपाचकः| कोष्ठ एव पच्यते न धातुस्त्रोतस्सु| अत एव हेतोर्बाहुल्येन मलतामेव यातमन्नं धातुपुष्ट्येनाऽलम्| न पर्य्याप्तं भवतीत्यर्थः| स्तोकेन सारेणाप्याय्यन्ते धातव इति प्रायोग्रहणम्| सुबोधम्|| १२||
Adhikarana rAjayakShmaNaH sAdhyAsAdhyAvasthAH (13) · Śloka 13
लिङ्गेष्वल्पेष्वपि क्षीणं व्याध्यौषधबलाक्षमम्|
वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा||१३||
एवम्भूतं क्षीणमल्पेष्वपि लिङ्गेषु वर्जयेत्| किम्भूतमाऽऽह व्याधीनामौषधस्य च बलं यो न क्षमते||१३||
Adhikarana sAdhyakShayaH · Śloka
ततो व्याध्यौषधम्लाक्षमत्वादन्यया वैपरीत्ये व्याध्यौषधबलक्षमत्वे सर्वेष्वापि लिङ्गेषु सत्स्वक्षीणं साधयेदेव| चिकित्सेदेव न तु वर्जयेत्| इति निर्दिष्टो राजयक्ष्मा||
Adhikarana svarabhedanidAnaM svarabhedasya sa~gkhyAsamprAptiH (14) · Śloka 14
दोषैर्व्यस्तैः समस्तैश्च क्षयात् षष्ठश्च मेदसा|
स्वरसादो भवेत्.......................................||१४||
अनन्तरं तदङ्गभूताः प्रधानत्वात् स्वरभेदादयो निर्णीयन्ते| तेषु च वातादिभिः सन्निपातेन क्षयान्मेदसा च षट् स्वरभेदाः|
Adhikarana vAtajasvarabhedalakShaNam (15) · Śloka 15
........................तत्र क्षामो रूक्षाश्चलः स्वरः|
शूकपूर्णाभकण्ठत्वं स्निग्धोष्णोपशयोऽनिलात्||१५||
तत्राऽनिलात्स्वरभेदे क्षामस्वरत्वदिकं लिङ्गम्|| १५||
Adhikarana pittajasvarabhedalakShaNam (16) · Śloka 16
पित्तात्तालुगले दाहः शोष उक्तावसूयनम्||१६||
पित्तात्तालुदाहादिकं उक्तावसूयनमपरिपूर्णवचनता|| १६||
Adhikarana kaphajasvarabhedalakShaNam (17) · Śloka 17
लिम्पन्निव कफात्कण्ठं मन्दः खुरखुरायते||१७||
लिम्पन्निवेत्यादिकफजस्वरलक्षणम्|| १७||
Adhikarana sAnnipAtikasvarabhedalakShaNam (18) · Śloka 18
स्वरो विगद्ध सर्वैस्तु सर्वलिङ्गः .............||१८||
सन्निपातेन स्वरभेदे स्वरो विबद्धो भवति| वातादिस्वरभेदलिङ्गञ्च भवति|| १८||
Adhikarana kShayajasvarabhedalakShaNam (19) · Śloka 19
.............................क्षयात् कषेत्|
धूमायतीव चात्यर्थं.....................||१९||
क्षयात्तु स्वरभेदः स्वं स्थानं कण्ठादिकं कषेत्| धूममिव कण्ठे करोति|| १९||
Adhikarana medojasvarabhedalakShaNam (20) · Śloka 20
.......................... मेदसा श्लेष्मलक्षणः|
कृच्छ्रलक्ष्याक्षरश्च ...........................||२०||
मेदसा स्वरभेदः श्लेष्मस्वरभेदलिङ्गो यस्तु कृच्छ्रलक्ष्याधरः|| २०||
Adhikarana asAdhyasvarabhedau (21) · Śloka 21
......................... अत्र सर्वैरन्त्यञ्च वर्जयेत्||२१||
एतेषु स्वरभेदेषु मध्ये सर्वैः सन्निपातप्रभवो यश्चान्त्यो मेदस्य एतौ स्वरभेदौ वर्जयेत्| शेषाः साध्या इत्यर्थः| उक्तः स्वर भेदः|| २१||
Adhikarana arocakanidAnam, arocakasamprAptiH (22) · Śloka 22
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः|
सन्निपातेन मनसःसन्तापेन च पञ्चमः||२२||
अरोचक उच्यते| दोषैर्वातादिभिर्जिह्वां हृदयं च संश्रितैः पृथक् त्रिभिररोचको भवेत्| तेषां कोपे कारणं सामान्यमुक्तम् सम्प्राप्तिवशात्तु रोगविशेष इति सर्वत्र बोद्धव्यम्| त्रिभिर्दोषैः पृथक्त्रयोऽरोचकाः सन्निपातेन चतुर्थः| जिह्वाहृदय संश्रितेनेत्यर्थात् लभ्यते| मनसः सन्तापेन नानाविधेन शोक क्रोधादिना कृतेन| पञ्चम आगन्तुः| तत्राऽपि चागन्तूनामा गन्तुकारणोपतापमनु तत्पीडयाऽनुबन्धो भवत्येवेति पूर्वं व्याख्यातम्|| २२||
Adhikarana vAtAdyarocakeShu li~ggAni (23) · Śloka 23
कषायतिक्तमधुरं वातादिषु मुखं क्रमात्|
सर्वोत्थे विरसं शोकक्रोधादिषु यथामलम्||२३||
वाताद्युद्भवेष्वरोचकेषु लिङ्गक्रमाद्यथासङ्ख्येन मुखे कषयादीना मुपलम्भः| सन्निपातोत्थेऽरोचके मुखं विरसं दूरसं (दुष्टरसं) भवति| शोकक्रोधादिषु यथामलं य एव दोषोऽनुबन्धं गृह्णाति तल्लक्षणं भवतीत्यर्थः| अथवा भयशोकयोर्वातिकात्| क्रोधे पित्तादिति यथामलमुक्तोऽरोचकः|| २३||
Adhikarana chardinidAnam, chardeH sa~gkhyAsamprAptiH (24) · Śloka 24
छर्दिदोषैः पृथक्सर्वैर्द्विष्टैरर्थैश्च पञ्चमी||२४||
छर्दिरुच्यते| वातादिभिः सन्निपातेन द्विष्टार्थजा चेति पञ्च च्छर्दयः|| २४||
Adhikarana chardyAH samprAptiH (25) · Śloka 25
उदानो विकृतो दोषान् सर्वास्वप्यूर्ध्वमस्यति||२५||
सर्वासु च्छर्दिषूदानो नाम वायुर्दोषान् वाताद्वीर्ध्वं मुखेन अस्यतिक्षिपतीति साधारणा सम्प्राप्तिः|| २५||
Adhikarana chardyAH pUrvarUpam (26) · Śloka 26
तासूत्क्लेशाऽस्यलावण्यप्रसेकारुचयोऽग्रगाः||२६||
चोत्ल्केशादीनि पूर्वरूपाणि|| २६||
Adhikarana vAtajachardilakShaNam (27) · Śloka 27
नाभिं पृष्ठं रुजन् वायुः पार्श्वे चाऽऽहारमुत्क्षिपेत्|
ततो विच्छिन्नमल्पाल्पं कषायं फेनिलं वमेत्|
शब्दोद्गारयुतं कृष्णमच्छं कृच्छ्रेण वेगवत्|
कासास्यशोषहृन्मूर्धस्वरपीडाक्लमान्वितः||२७||
नाभिमित्यादिना वातादेर्लक्षणमुच्यते| वायुर्नाभ्यादिरुजन् आहारमुत्क्षिपेत् तदनन्तरञ्च विच्छिन्नत्वादियुक्तं वमेत्| कासाद्यन्वितः पुरुषः| इति वातात् छर्दिलक्षणम्|| २७||
Adhikarana pittajachardilakShaNam (28) · Śloka 28
पित्तात् क्षारोदकनिभं धूम्रं हरितपीतकम्|
सासृगम्लं कटूष्णञ्च तृण्मूर्च्छादाहतापवान्||२८||
पित्ताच्च्छार्द्या तृडादिमान् क्षारोदकनिभत्वादियुक्तं वमेत्||२८||
Adhikarana kaphajacchardilakShaNam (29) · Śloka 29
कफात्स्निग्धं घनं स्वेतं श्लेष्मतन्तुगवाक्षितम्|
मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम्|
मुखश्वयथुमाधुर्य्यतन्द्राहृल्लासकासवान्||२९||
कफात्स्निग्धं घनं स्वेतं श्लेष्मतन्तुगवाक्षितम्| मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम्|| मुखश्वयथुमाधुर्य्यतन्द्राहृल्लासकासवान्|| २९||
Adhikarana sAnnipAtikI asAdhyachardiH (30) · Śloka 30
सर्वलिङ्गामलैः सर्वैरिष्टोक्ता या च तां त्यजेत्||३०||
या च्छर्दिः सर्वैर्मलैर्वातादिभिः सा सर्वलिङ्गा| सर्वानन्तरोक्तवातालिङ्गसंयुक्ता| या च्छर्दिर्वेगवती मूत्रशकृद्गन्धिरित्यादिना रिष्टेषूक्ता ( अ. सां. शा. - ७०० ) ते द्वे अपि त्यजेत्| असर्वलिङ्गा तु सान्निपातिकी चिकित्स्यैव|| ३०||
Adhikarana dviShTArthayogajachardiH (31) · Śloka 31
पूत्यमेध्याशुचिर्द्विष्टदर्शनश्रवणादिभिः|
तप्ते चित्ते हृदि क्लिष्टे छर्दिर्द्विष्टार्थयोगजा||३१||
या छर्दिः पूत्यादीनां दर्शनश्रवणचिन्तनादिभिश्चित्ते तप्ते हृदि च क्लिष्टे भवति| एषा द्विष्टार्थजा| इति पञ्च छर्दयः|| ३१||
Adhikarana kRumyAdihetuShu chardiShu li~ggaiH vAtAdInavagacchet (32) · Śloka 32
वातादीनेव विमृशेत् कृमितृष्णामदौहृदे|
शूलवेपथुहृल्लासैर्विशेषात्कृमिजां वदेत्|
कृमिहृद्रोगलिङ्गैश्च...................||३२||
कृम्यादिषु याश्छर्दयः ता नाऽतः पृथग्भूतास्तासां वातादिहेतुत्वात्| अतस्तासु चतसृषु च्छर्दिषु वातादीनेवबुद्धया लक्षणैर्विमृशेत्| दौहृदं प्रथमगर्भे मातुर्नानाविधाहारेच्छा| तस्यालाभाद्याछर्दिः सेत्यार्थः| कृमिजायास्तु शूलादीनि लक्षणनि| विशेषात् कृमिहृद्रोगस्य लिङ्गैः श्यावनेत्रत्वादिभिः ( अ. सं. नि. - १९२ ) कृमिजां छर्दिं वदेदिति सम्बन्धः| इत्युक्ताश्छर्दयः|| ३२||
Adhikarana hRudroganidAnam, hRudrogasya sa~gkhyAsamprAptirnidAna~jca (33) · Śloka 33
................... स्मृताः पञ्च ति हृद्गदाः|
तेषां गुल्मनिदानोक्तैः समुत्यानैश्च सम्भवः||३३||
हृद्रोगा उच्यन्ते| वातादिभिः सन्निपातेन कृमिभिश्चेति पञ्च हृद्रोगाः स्मृता आचार्य्यैः| तेषाञ्च हृद्रोगाणां गुल्मनिदाने वक्ष्यमाणहेतुभिः सम्भवः|| ३३||
Adhikarana vAtajahRudrogalakShaNam (34) · Śloka 34
वातेन शूल्यतेऽत्यर्थं तुद्यते स्फुटतीव च|
भिद्यते शुष्यति स्तब्धं हृदयं शून्यता द्रवः|
अकस्माद्दीनता शोको भयं शब्दासहिष्णुता|
वेपथुर्वेष्टनं मोहः श्वासरोधोऽल्पनिद्रता||३४||
अल्पनिद्रान्तेन ग्रन्थेन वातहृद्रोगलक्षणम्| अत्यर्थशब्देनैतत् गमयति यदन्येष्वपि हृद्रोगेषु हृदयं शूल्यते| अतिशयेन तु वाताज इति| अकस्मादहेतुकः|| ३४||
Adhikarana pittajahRudrogalakShaNAni (35) · Śloka 35
पित्तात्तृष्णा भ्रमो मूर्च्छा स्वेदो दाहोऽम्लकः क्लमः|
छर्दनं चाम्लपित्तस्य धूमकः पीतता ज्वरः||३५||
ज्वरान्तेन पित्तं हृद्रोगलिङ्गम्| पीतताऽङ्गेषु||३५||
Adhikarana kaphajahRudrogalakShaNAni (36) · Śloka 36
श्लेष्मणा हृदयं स्तब्धं भारिकं साऽश्मगर्भवत्|
कासाग्निसादनिष्ठेव निद्रालस्याऽरुचिज्वराः||३६||
हृदयस्तम्भादिकं लिङ्गं श्लेष्मणा हृद्रोगे भवति| हृदयं भारिगुरुकं सगर्भवदश्मगर्भवच्च|| ३६||
Adhikarana sannipAtahRudrogalakShaNam (37) · Śloka 37
सर्वलिङ्गैस्त्रिभिर्दोषैः....................||३७||
यस्तु त्रिभिर्दोषैर्हृद्रोगः सः सर्वलिङ्गो भवति|| ३७||
Adhikarana kRumijahRudrogalakShaNAni tasya shIghracikitsyatva~jca (38) · Śloka 38
.................... कृमिभिः श्यावनेत्राता|
तमः प्रवेशो हृल्लासः शोषः कण्डूः कफ़स्त्रुतिः|
हृदयं प्रततं चात्र क्रकचेनेव दार्य्यते|
चिकित्सेदामयं घोरं तं शीघ्रं शीघ्रकारिणम्||३८||
कृमिहृद्रोगे श्यावनेत्रत्वादिलिङ्गम्| अत्र कृमिहृदोगे कृम्यूपघातवशात्सततं हृदयं क्रकचेनेव दार्य्यते| क्रकचः करपत्रम्| तञ्च कृमिहृद्रोगाख्यमामयं घोरं शीघ्रकारिणञ्च शीघ्रं चिकित्सेति| महामर्महृदयस्य कृमिभिर्भक्षणात्| इत्युक्ता हृद्रोगाः|| ३८||
Adhikarana tRuShNAnidAnam, tRuShNAprabhedAH (39) · Śloka 39
वातात्पित्तात्कफात्तृष्णा सन्निपाताद्रसक्षयात्|
षष्ठी स्यादुपसर्गाच्च .....................||३९||
तृष्णा उच्यन्ते| वातादिविशेषेण षट् तृष्णा भवन्ति| उपसर्गोऽन्यरोगाभिषङ्गः|| ३९||
Adhikarana tRuShNAnidAnam (40) · Śloka 40
...................वातपित्ते तु कारणम्|
सर्वासु.............................||४०||
सर्वासु तृष्णासु वातपित्ते प्रधानं कारणम्|| ४०||
Adhikarana vAtapittaprakopakAraNaM lakShaNAni ca (41) · Śloka 41
........तत्प्रकोप्रो हि सौम्यधातुप्रशोषणात्|
सर्वदेह भ्रमोत्कम्पतापतृड्दाहमोकृत्||४१||
तयोश्च वातात्तयोः प्रकोपः सौम्यस्य रसाख्यधातोः कारणवशेन प्रशोषणात् स च तत्प्रकोपः सर्वदेहभ्रमोत्कम्पादिकृत्||४१||
Adhikarana tRuShNAsamprAptiH (42) · Śloka 42
जिह्वामूलगलक्लोमतालुतोयवहाः सिराः|
संशोष्य तृष्णा जायन्ते............||४२||
सर्वाश्च तृष्णा जिह्वामूलादिकं संशोष्य जायन्ते|| ४२||
Adhikarana tRuShNAsAmAnyalakShaNam (43) · Śloka 43
....................तासां सामान्यलक्षणम्|
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः|
कण्ठौष्ठजिह्वाकार्कश्यं जिह्वानिष्क्रमणं क्लमः|
प्रलापश्चित्तविभ्रंशस्तृड्ग्रहोक्तास्तथाऽ ऽमयाः||४३||
सर्वासां मुखशोषादितृड्ग्रहोक्तामयान्तं सामान्यलक्षणम्| तृड्ग्रहोक्ता आमयाः शोषादयो रोगानुत्पादनीयोक्ताः ( अ. सं. सू. - १५६ )|| ४३||
Adhikarana vAtajatRUShNAlakShaNam (44) · Śloka 44
मारुतात्क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः|
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः|
शीताम्बुपानाद्वृद्धिश्च .....................||४४||
क्षामतादिकं मारुतात् तृल्लक्षणम्|| ४४||
Adhikarana pittajatRuShNAlakShaNam (45) · Śloka 45
.................... पित्तान्मूर्च्छास्यतिक्तता|
रक्तेक्षणत्वं प्रततं शोषो दाहोऽतिधूमकः||४५||
मूर्च्छादिकं पित्तात्|| ४५||
Adhikarana kaphajatRuShNAyAH samprArlakShaNa~jca (46) · Śloka 46
कफो रुणद्धि कुपितस्तोयवाहिषु मारुतम्|
स्त्रोतस्तु सकफस्तेन पङ्कवच्छोष्यते ततः|
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्त्रता|
आध्मानं शिरसो जाड्यं स्तैमित्यश्छर्द्यरोचकाः|
आलस्यमविपाकश्च .............................||४६||
तृष्णासु शोषे वातपित्तं कारणमुक्तम्| तत् कफे कदाचित् सौम्यत्वान्न सम्भवत्यतः कफजायाः सम्प्राप्तिरुच्यते| कफः कुपितस्तोयवाहिषु स्त्रोतस्सु यदा मारुतं रुणद्धि तदा तेन मारुतेन स कफः शोष्यते पङ्कवत्| ततः कफे शुष्के अविपाकान्तं तृष्णाया लिङ्गं भवतीति कफतॄष्णा|| ४६||
Adhikarana sannipAtajatRuShNAlakShaNam (47) · Śloka 47
.................. सर्वेः स्यात्सर्वलक्षणा||४७||
सन्निपातेन तृष्णा सर्वलक्षणा भवति|| ४७||
Adhikarana AmodbhavatRuShNAyAH vAtapitajatvam (48) · Śloka 48
आमोद्भवा च भक्तस्य संरोधाद्वातपित्तजा||४८||
या त्वामोद्भवा सा वातपित्तजैव बोद्धव्या| यतः आमेनावच्छेन्नेऽन्नस्यापाकेन तर्पणाभावद्वृद्धाभ्यां वातपित्ताभ्यां जन्यते||४८ ||
Adhikarana anyanimamittAshca pittajatRuShNAH (49) · Śloka 49
उष्णक्लान्तस्य सहसा शीताम्भो भजतस्तृषम्|
उष्मा रुद्धो गतः कोष्ठं यां कुर्य्यात्पित्तजैव सा|
या च पानातिपानोत्था तीक्ष्णाग्ने स्नेहजा च या||४९||
उष्णेनातपादिना क्लान्तस्य सतस्सहसा शीतोदकसेवनात् या तृड् दृष्टा सा पित्तजैव बोद्धव्या| या तूष्मरूपं पित्तं वृद्धशरीरे व्याप्य वर्त्तमानं बहिः शीताम्बुसेकात् प्रतिहतं कोष्ठे प्रविष्टं तृषं करोति| या च पानस्य मद्यस्यातिपानेन भवति सा च पित्तजैव तथा तीक्ष्णाग्नेः पुरुषस्य स्नेहेन या तृष्णा सा च पित्तजैव| न सर्पिः केवलं पित्ते पेयमिति स्मर्तव्यम्|| ४९||
Adhikarana snigdhAdibhojanotthatRuShNAyAH kaphajatvam (50) · Śloka 50
स्निग्धगुर्वम्ललवणभोजनेन कफोद्भवा||५०||
स्निग्धादिभोजनेन या तॄष्णा सा कफोद्भवेति विज्ञेया|| ५०||
Adhikarana kShayajatRuShNArasakShayatRuShNAlakShaNam (51) · Śloka 51
तृष्णा रसक्षयोक्तेन लक्षणेन क्षयात्मिका||५१||
रसक्षयलक्षणेन क्षयात्मिका तृष्णा ज्ञेया| रसक्षयलक्षणं 'रसेरौक्ष्यम्' ( अ. हृ. सू. - ११-१७; अ. सं. सू. १९ ) इत्यादिकं सूत्रोक्तम्| एषा पञ्चमी तृट्|| ५१||
Adhikarana upasargajatRuShNAlakShaNam (52-53) · Śloka 53
शोषमेहज्वराद्यन्यदीर्घरोगोपसर्गतः|
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता||५२||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां राजयक्ष्मादिनिदानं नाम पञ्चमोऽध्यायः||५३||
शोषादिदीर्घरोगोपर्साद्या तीव्रा तृट् सोपसर्गात्मिका षष्ठी| इत्युक्तास्तृष्णाः|| ५२|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने पञ्चमोऽध्यायः