Adhikarana atha raktapittakAsanidAnaM nAma tRutIyo~adhyAyaH | pratij~jA (1) · Śloka 1
अथातो रक्तपित्तकासनिदानं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
ज्वरसन्तापाद्रक्तपित्तमित्युक्तमतः क्षिप्रकारित्वाच्च ज्वरानन्तर्येण रक्तपित्तानिर्णयाध्यायारम्भः| रक्तपित्तवच्च कासस्यापि यतः क्षिप्रकारित्वमतः सोऽप्यस्मिन्नेवाध्याये निर्णीयते-अथात इति|| १||
Adhikarana atha raktapittAdhikAraH | raktapittasya nidAnaM samprAptishca (2) · Śloka 2
भृशोष्णतीक्ष्णकट्वम्ललवणातिविदाहिभिः|
कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः|
कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छिते|
ते मिथस्तुल्यरूपत्वमाऽ ऽगम्य व्याप्नुतस्तनुम्||२||
भृशोष्णतीक्षणादिभिः कोद्दवोद्वालकैश्च तद्युक्तैरतिसेवितैः पितं द्रवं कुपितं रक्तश्च तनुं शरीरं व्याप्नुतः| किं कृत्वाऽऽह-रक्तपित्ते द्वे अपि मूर्छिते एकत्वं प्राप्ते| तुल्यरूपत्वं सवर्णतामागम्य तनुं व्याप्नुतः|| २||
Adhikarana raktapittashabdaniruktiH (3) · Śloka 3
पित्तं रक्तस्य विकृतेः संसर्गाद्दूषणादपि|
गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते||३||
रक्तपित्तसंज्ञायाः पित्तं रक्तस्येत्यादिना हेतुरुच्यते| तत्र पित्तंरक्तविहारत्वेन वा| रक्तमिश्रीभावाद्वा| दूषाणाद्वा| रक्तगन्धाद्यनुवृत्तेर्वा| सर्वमत्र सम्भवतीत्यर्थः|| ३||
Adhikarana raktapittasya prabhavasthAnam (4) · Śloka 4
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च तत्||४||
तच्च रक्तपित्तमसृजः स्थानात्प्रभवति प्लीहतो यकृतश्च प्रभवति| एतेषां तत्प्रभवयोग्यत्वमित्यर्थः|| ४||
Adhikarana raktapittapUrvarUpam (5) · Śloka 5
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः|
छर्दिश्छर्दितवैभत्स्यं कासश्वासोउ भ्रमः क्लमः|
लोहलोहितमत्स्यागन्धास्यत्वं स्वरक्षयः|
रक्तहारिद्रहरितवर्णता नयनादिषु|
नीललोहितपीतानां वर्णानामविवेचनम्|
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति||५||
शिरोगुरुत्वादीनि भविष्यद्रक्तपित्तलिङ्गानि| धूमको धूम स्योदीरणम्| अम्लकोऽम्लस्येव| तथा छर्दितस्य वान्तस्याति वैभत्स्यं दर्शनादिभिरुद्वेगकर्त्तृत्वात्| आमगन्धः प्रसिद्धः| हरित शाद्वलवर्णः|| ५||
Adhikarana raktapittasya pravRuttimArgAH (6) · Śloka 6
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः|
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते||६||
तच्च रक्तपित्तं कारणविशेषाद्यदोर्ध्वगं प्रवर्त्तते तदा यथाबलंनासादिभिः प्रवर्त्तते| यदा त्वधस्तात् तदा मेढ्रादिभिः| सर्वत्र च रोमकूपैरपि| समस्तैः प्रवर्तते|| ६||
Adhikarana Urdhvagatasya raktapittasya sAdhyatvam (7) · Śloka 7
ऊर्ध्वं साध्यं कफ़ाद्यस्मात्तद्विरेचनसाधनम्|
बह्वोउषधञ्च पित्तस्य विरेको हि वरोउषधम्|
अनुबन्धी कफ़ो यश्च तत्र तस्यापि शुद्धिकृत्|
कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः|
किमुः तिक्ताः कषायाः वा ये निसर्गात्कफ़ापहाः||७||
तयोश्चोर्ध्वाधोगयोरूर्ध्वं प्रवृतं साध्यम्| यस्मात्तदूर्ध्वगतं कफ़ाध्हेतोर्भवति| रक्तपित्ते च रोगस्वभावाविशेषाद्दोषस्य शोधनेन विपरीतनयनाय यदूर्ध्वगे विरेचनं तत् पित्तस्य तावद्वरोउषधम्| यश्च तत्रानुबन्धी कफ़स्तस्यापि विरेकः शुद्धिकृत्| रक्तपित्ते च विशुद्धश्लेष्मणोऽस्य पुरुषस्य मधुराः कषायाः क्वाथादयः कफ़ादविपरीताः अपि रोगस्वभावाद्धिताः| किं पुनस्तिक्तकाः कषायाः ये कफ़ापहस्वभावाः| तच्चोर्ध्वगं बह्वोउषधम्| विशिष्टानां कफ़ध्नानामपि पथ्यत्वात्| अतस्तत साध्यम्|| ७||
Adhikarana adhogatasya raktapittasya yApyatvam (8) · Śloka 8
अधो याप्यं चलाद्यस्मात्तप्रच्छर्दसाधनम्|
स्वल्पोउषधं च पित्तस्य वमनं न वरोउषधम्|
अनुबन्धी चलो यश्च शान्तयेऽपि न तस्य तत्|
कषायाश्च हितास्तस्य मधुरा एव केवलम्||८||
अधो याप्यं चलाद्यस्मात्तप्रच्छर्दसाधनम्| स्वल्पोउषधं च पित्तस्य वमनं न वरोउषधम्|| अनुबन्धी चलो यश्च शान्तयेऽपि न तस्य तत्| कषायाश्च हितास्तस्य मधुरा एव केवलम्|| ८||
Adhikarana ubhayAyanaraktapittasyAsAdhyatvam (9) · Śloka 9
कफमारुतसंसृष्टमसाध्यभयायनम्|
अशक्यप्रातिलोम्यत्वाद भावादौषधस्य च|
न हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमनम्|
शोधनं प्रतिलोमं च रक्तपित्ते भिषग्जितम्|
एवमेवोपशमनं सर्वशोनास्य विद्यते|
संसृष्टेषु हि सर्वजिच्छिमनं हितम्||९||
यत्तूभयमार्गम् युगपदूर्ध्वमधश्च प्रवृत्तं तत् कफमारुतसंसर्गात् भवति| तदसाध्यम्| यस्मात् तदशक्यप्रातिलोम्यम्| दोषस्य विपरीतनयनं तत्र न सम्भवतीत्यर्थः| वमनमूर्ध्वप्रवृत्तत्वादपथ्यम्| अधः प्रवृत्तत्वाच्च विरेचनम्| तथाविधञ्चौषधं न विद्यते यतत्र सर्वथापथ्यम्| न हीत्यादिना अशक्यप्रातिलोम्यत्वे युक्तिरुच्यते| संसृष्टिष्वित्यादिना चोउषधाभावे|| ९||
Adhikarana doShAnugandhopadravAtideshena nirdeshaH (10) · Śloka 10
तत्र दोषानुगमनं सिरास्त्र इव लक्षयेत्|
उपद्रवाश्च विकृतिज्ञानतः ..............||१०||
तत्र च रक्तपित्ते दोषानुगमनं वाताद्यनुबन्धं सिरास्त्र इव लक्षयेद् वाताच्छायावाऽऽरुणं रूक्षामिव' (अ. सं. शा. - ३.७८, ३.८२ ) इत्यादिना लक्षणेन| तत्र चोपद्रवान् विकृतव्याधिविज्ञानीयाल्लक्षयेद् ' रक्तपित्तं भृशं रक्तम् ' ( अ. सं. शा. - ६.९७ ) इत्यादिना लक्षणेन इत्युक्तं रक्तपित्तम्|| १०||
Adhikarana kAsanirUpaNapratij~jA (11) · Śloka 11
........................तेषु चाऽधिकम्|
आशुकारी यतः कासस्तमेवातः प्रवक्ष्यते||११||
तेषु च रक्तपित्तोपद्रवेषु मध्ये यतः कास आशुकरी अरस्तमेव प्रवक्षयते| तं प्रत्येव ग्रन्थे वक्ष्यत इत्यर्थः| आशुकरीत्यनेन स्वयं तन्त्रकृत्कासस्य निर्णयप्रसङ्गं दर्शयति| आशुस्वकर्म करोतीत्याशुकारी|| ११||
Adhikarana kAsAnAM sa~gkhyAsamprAptiH, yathottaraM balavatva~jca (12) · Śloka 12
पञ्च कासा स्मृता वातपित्तश्लेष्मक्षतक्षयैः|
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्||१२||
वातादिभेदेन तद्विद्भिः पञ्च कासाः स्मृताः| सर्वे च कासा उपेक्षिता अनुपक्रान्ताः क्षयाय मरणाय वा भवन्ति| उक्तेन वातादिक्रमेण यथोत्तरं बलिनः| वातकासात् बलवान् पित्तकासः| ततः कफ़कासः| यावदुरः क्षतकासाद्राजयक्ष्मकास इति| क्षयकासश्चात्र प्रधानत्वान्निर्णीयते न राजयक्ष्मा| वातेत्यादिना कासस्यादितो निदानमुक्तम्|| १२||
Adhikarana kAsapUrvarupam (13) · Śloka 13
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः|
शूकपूर्णाभकण्ठत्वमस्वास्थ्यं हृदयस्य च||१३||
' तेषां भविष्यतामि 'त्यादिना पूर्वरूपमुच्यते| स्पष्टम्|| १३||
Adhikarana kAsanidAnAdisamprAptiH (14) · Śloka 14
कषायविज्जलासात्म्यकट्वम्ललवणोषणैः|
रूक्षशीतगुरुस्निग्धोत्क्लेदिपर्युषिताशनैः|
धारणोदिरणायासरात्र्यहः स्वप्नजागरैः|
अन्यैश्च तद्विधैर्धातुक्षयाऽ ऽवरणकारिभिः|
क्रुद्धः प्रतिहतोऽपाने यदाऽपानः प्रपद्यते|
ऊर्ध्वं रसस्य सः स्थाने तिष्ठन्नुरसि पीड्यते|
उदानेन सजंस्तत्र कण्ठे चानु प्रपूर्य्य च|
वाहिनीर्गलमूर्धस्थास्ततोऽङ्गान्युत्क्षिपन्निव|
क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे च पीडयन्|
विवृतत्वान्मुखेनैति भिन्नकांस्योपमध्वनिः|
यस्मात्तस्मात्स वर्णौजो बलमांसक्षयावहः||१४||
कषायविज्जलेत्यादिना सम्प्राप्तिविशेषवशेन रूपविशेष उच्यते| सम्प्राप्तेः कारणपरायतत्वात् कषायादिकीर्त्तनम्| विज्जलः क्लिन्नपिच्छिलप्रायो गुणविशेषः| रक्तमांसादीनां यत्क्लेदमावहति तदुत्क्लोदि| धारणोदीरणे वातादिवेगानाम्| अन्यैश्चैवंप्रकारैः कैश्चित् धातुक्षयकारिभिः| कैश्चित्स्त्रोतसामावरणकारिभिर्वायुः क्रुद्धः सन् यदाऽपानप्रतिहतत्वादिना रूपेण कासाख्यो भवति तदा वर्णादिक्षयावहो भवति| सर्वत्रैव वातोर्धातुक्षयात् कोपो मार्गस्याऽऽवरणेन वा| एवं चापानो नाम वायुः कुपितः सजातीय एवापाने कारणविशेषशाच्च प्रतिहतं सन् ऊर्ध्वमुपरि वर्तते| स चाऽऽपान ऊर्ध्वं प्रवृत्तः सन् रसस्थाने उरसि स्थितिशीलः सन् तत्स्थानेनोदानाख्येन पीड्यते| पीडितश्च तत्र रसस्थाने उरसि कण्ठे च सजन् शक्तिमाप्नुवन् गलस्था मूर्धस्थाश्च वाहिनीः शिराः अनुप्रपूर्य्य अङ्गान्युत्क्षिपन्निवेत्यादि सुबोधम्|
Adhikarana kAsAnAM rukShabdavaiShamye hetuH (15) · Śloka 15
हेतु भेदात् प्रतीघातभेदो वायोः सरंहसः|
यद्रुजाशब्दवैषम्यं कासानां जायते ततः||१५||
हेतुभेदादित्यादिना वातैककारणस्यैकरूपस्यापि कासस्य रुक्शब्दानेकत्वे कारणमुच्यते| वायोः सरंहसः सवेगस्य हेतुभेदात् कारणनानात्वात् प्रतीघाते भेदः यद्यस्मात्ततः कासानां रुजाशब्दायोः वैषम्य ज्ञायते| तेनैतदुक्तं भवति-वायुः स्वभावने संवेगः| स च वेगा नानाविधकारणवशादूनाधिको भवति| यश्च तस्य प्रतिहन्ता स कारणविशेषवशात्रान्ननाविधे देहस्थाने नानाविधं प्रतिघातं करोति| स एव च प्रतीघातोरूजाशब्दयोर्निमित्तम्| अतो रुजाशब्दयोः वैषम्यमिति|| १५||
Adhikarana vAtakAsalakShaNam (16) · Śloka 16
कुपिते वातलैर्वायुः शुष्कोरः कण्ठवक्त्रताम्|
हृत्पार्श्वोरःशिरःशूल मोहक्षोभस्वरक्षयान्|
करोति शुष्ककासं च महावेगरुजास्वनम्|
सोऽङ्गहर्षी कफं शुष्कंकृच्छ्रान्मुत्क्वाऽल्पतां व्रजेत्||१६||
कुपित इत्यादिना पञ्चानां कासानां वातादिक्रमेण लक्षणमुच्यते| सर्वेषां कासानां एका सम्प्राप्तिः कारणविशेषाद्दोषानुबन्धः| कुपित इत्यादि वातकासलक्षणम्|| १६||
Adhikarana pittakAsalakShaNam (17) · Śloka 17
पित्तात्पीताक्षिकफ़तिक्तास्यत्वं ज्वरो भ्रमः|
पित्ताऽसृग्वमनं तृष्णा वैस्वर्थ्यं धूमको मदः|
प्रततं कासवेगेन ज्योतिषामिव दर्शनम्||१७||
पीताक्षिकफतादि पैत्तिके|| १७||
Adhikarana kaphakAsalakShaNam (18) · Śloka 18
कफादुरोऽल्परुङ्मूर्धहृदयं स्तिमितं गुरुः|
कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः|
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्त्तनम्||१८||
उरोऽल्परुगित्यादि कफजे|| १८||
Adhikarana kShatakAsalakShaNam (19) · Śloka 19
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्|
उरस्यन्तः क्षते वायुः पित्तेनानुगते बली|
कुपितः कुरुते कासं कफं तेन सशोणितम्|
पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुथितं बहु|
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनेव चोरसा|
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना|
पर्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान्|
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च|
क्रमाद्वीर्य रुचिः पक्तिर्बलं वर्णश्च हीयते|
क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटिग्रहः||१९||
क्षतकासलक्षणमुच्यते| युद्धाद्यैस्तैस्तैः साहसैरयथाबलं बलाधिकायाससेवितैर्वायुः कुपितस्तैरेव साहसैरुरस्यतः क्षते सति किम्भूतो वायुः ? पित्तेनानुगतो बली च| कासं कुरुते इति सम्बन्धः| तेन कासेन पुरुषः सशोणित्वादियुक्तं कफं ष्ठीवेद्वमेत्| कुथितं क्लिन्नम्| कण्ठेन रुजता| उरसा च विभिन्नेने सूचीभिरिव तीक्ष्णभिस्तुद्यमानेनोरसा शूलिना च| किम्भूतःष्ठीवेदाऽऽह-पर्वभेदादिमान्| अस्य च कासिनोऽनन्तरं क्रमाद्वीर्य्यादयो हीयन्ते| एवञ्च क्षीणस्य सरक्तमूत्रत्वं पृष्ठकटिग्रहश्च स्यादिति क्षतकासलक्षणम्|| १९||
Adhikarana kShayakAsalakShaNam (20) · Śloka 20
वायूप्रधानाः कुपिता धातवो राजयक्ष्मिणः|
कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत्कफ़ं ततः|
पूतिपूयोपमं पीतं हरितलोहितम्|
लुप्यते इव पार्श्वे च हृदयं पततीव च|
अकस्मादुष्णाशीतेच्छा बह्वाशित्वं बलक्षयः|
स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता|
ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च||२०||
क्षयकासलक्षणमुच्यते| राजयक्ष्मवतः पुरुशस्य वायुः प्रधाना धातवो वातादयो यक्श्मायतनैः वक्ष्यमाणैः राजयक्ष्महेतुभिः ( अ. सं. नि. - १.५७ ) सहैव कुपिताः कासं कुर्वन्ति| ततः पुरुषः पूतिपूयोपमत्वादियुक्तं कफ़ं ष्ठीवेत्| पार्श्वे लुप्यते इवापनीयेते इवाऽकस्माद् झटिति| ततोऽनन्तरमस्य च कासिनः सर्वाणि राजयक्ष्मरूपाण्याविर्भवन्ति|| २०||
Adhikarana kShayakShatakAsayoravasthAvashAtsAdhyA~asAdhyatvam (21) · Śloka 21
इत्येषः क्षयजः कासः क्षीणानां देहनाशनः|
याप्यो वा बलिनां तद्वत्क्षतजो ऽभिनवौ तु तौ|
सिध्येतामपि सानाथ्यात्.........................||२१||
इत्येवरूपं एषः क्षयजः कासः क्षीणानामवश्यं देहनाशन एव| बलिनां पुनर्याप्यो वा देहनाशनो वा| तद्वत् क्षयजवत्क्षतजोऽपि कासो विज्ञेयः| क्षीणानांदेहनाशनो बलिनां पुनर्याप्यो वा देहनाशनो वेति| इत्येवं क्षतक्षयकासौ न सिध्यतः| सानाथ्यादभिनवौ सिध्येतामपि| सानाथ्याच्चिकित्सासम्पत्तेः|| २१||
Adhikarana vAtAdikAsAnAM sAdhyayApyatvam (22) · Śloka 22
................साध्या दोषैः पृथक्त्रयः|
मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च||२२||
तेषां च कासानां मध्ये पृथग् दोषस्त्रयः कासा वातपित्त श्लेष्मप्रभवाः साध्याः| द्वयात् संसर्गाद्ये कासास्ते मिश्रा यथास्वं मिश्रालक्षणाः भवन्ति ते च याप्याः| सन्निपातकासोऽचिकित्स्यत्वान्नोपदिष्टः| सर्वे च कासाः प्रुथग्द्वयाच्च स्थविरस्य जरया हेतुभूतया याप्याः दोषौशधाक्षमत्वात्|| २२||
Adhikarana kAsasya tvarayA cikitsyatvam (23-24) · Śloka 24
कासाच्छ्वासक्षयच्छर्दिस्वरसादादादयो गदाः|
भवन्त्यपेक्षया यस्मात्तस्तात्तं त्वरया जयेत्||२३||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहस्य निदानस्थानो ज्वरनिदानंनाम तृतीयोऽध्यायः||२४||
सर्वश्च सर्वदा कासस्त्वरया जेयः| सर्वश्च सर्वदा कासस्त्वरया जेयः| यतस्तस्य कासस्योपेक्षया स कासो रोगबलादेव श्वासादीनां गदानां हेतुतां यातीति|| २३|| इति श्रीमान्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां निदानस्थाने तृतीयोऽध्यायः