Adhikarana अकालप्रवाहणे कालेऽप्रवाहणे च दोषः (२६) · Śloka २६
तथा पराऽनुशिष्यादनागतायां वेदनायां मा प्रवाहिष्ठाः|
अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थ- करमहितञ्च गर्भस्य श्वासकासशेषकुब्जतादिका- रित्वात्|
तथा तेषामेव विधारणमिव वेदनायामप्रवा- हणमुपघाताय|
ततो यथोक्तं कुरुष्व||२६||
🔊 Audio coming soon
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
तथाऽपरा स्त्री इदमनुशिष्यात्-भद्रे! गर्भिण्यनागतायां गर्भवेदनायां गर्भवेदनायां गर्भं मा प्रवाहिष्ठाः| न प्रेरयितव्यस्त्वया गर्भ इत्यर्थः| तथाविधं ह्यकालप्रवाहणं वेगोदीरवणत् गर्भिण्या अहितम्| गर्भस्य च तत्स्थाननिष्कासार्त्तस्य श्वासादिकरम्| तथा प्राप्तायां वेदनायां यदप्रवाहणं तद्वेगधारणवद् गर्भिण्या अहितं सदुपघाताय सम्पद्यते|| २६||
गर्भसङ्गे कृष्णाहिकुञ्चुकेन पिण्डीतकेन वा योनिधूपनम्| पिण्डीतको मदनः| तदा हस्ते पादे च हिरण्यपुष्प्या मूलं बध्नीयात्| तथा सुवर्चलाया विशल्या वा मणिवच्छरीरे धारणम्|
Adhikarana अपरासङ्गे उपचाराः (३०) · Śloka ३०
अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसंगृह्य विधु- नुयात्|
पार्ष्ण्या वा श्रोणीमाकोटयेत्|
स्फिजौ वोपसंगृह्या सुपीडितं निपीडयेत्|
वेण्याऽङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत्|
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्|
भूर्जगुग्गुलुभ्यां वा|
शालिमूलसिद्धेन व सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्|
गुडनागरकल्केन वा|
तदेव वा भक्षयेत्|
लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत्|
महावृक्षक्षीरं वा मूर्धन्यषेचयेत्|
कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाऽम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन व पाययेत्|
पिप्पल्येलाकोलविडचव्यचित्रकोपकुब्जिकाकल्कं वा|
खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषानीनाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्त्तस्थितमुद्धृत्य तदाप्लावनं पाययेत्|
कुष्ठैलाकल्कं वा सुरया|
अर्कालर्ककषायं वा प्रजातांसुरोन्मिश्रम्|
कुष्ठलाङ्गलिकीमूलकल्कं वा मद्यमूत्रान्यतरेण|
वत्सकादिचूर्णं वा मद्येन|
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्|
ततश्चैनामनुवासनकालेऽनुवासयेत्|
बिल्वबल्वजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकु- धामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत्|
सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरामिश्रेण वा सुरामण्डेन|
शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्द्दयेत्|
तेन च पूतेन स्नेहवता फलादियुक्तेनेति|
यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलेनोत्तरबस्तिं दद्यात्|
शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनाऽनुवासयेत्|
उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्व विधुनुयात्|
स्निग्धेन व कृतनखेन पाणिना नालानुसारतोऽपहरेत्||३०||
🔊 Audio coming soon
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
अथानन्तरं निष्क्रान्ते गर्भे यदाऽपरा गर्भशय्याख्या न निष्क्रामति तदा गर्भिणीधूपनादिकं वक्ष्यमाणं विधेयम्| काचित् स्त्री गर्भिणीं विधुनुयात्| कथमित्याह-दक्षिणेन पाणिना नाभेरधो गर्भिण्याः पीडयित्वा वामेन पृष्ठं चोपगृह्येति| तथा चान्या स्त्री स्वपादपार्ष्ण्या गर्भिण्याः कटीमाकोटयेत्| आहन्यादित्यर्थः| तथा तस्याः स्फिजौ निपीडयेत्| तथा वेण्या केशवेण्या तालुकण्ठे स्पृशेत् अङ्गुल्या वा केशवेष्टितया| भूर्जपत्रादित्रितयेन योनिधूपनम्| काच एव काचमणिः| भूर्जगुग्गुलुभ्यां वा योनिधूपनम्| अथवा शालिमूलसिद्धसर्पिरभ्यक्तां योनिं कटुकालाब्वादिभिर्धूपयेत्| अथवाऽनभ्यक्तामेव कटुकालाब्वादिभिस्तैलमिश्रैर्योनिं धूपयेत्| तैरेव वा कल्कीकृतापक्तैर्योनिं लिम्पेत्| गुडनागरेण वा जलपिष्टेन योनि लिम्पेत्| तदेव वा गुडनागरकल्कं भक्षयेत्| अन्यत् सुबोधम्| दोषाद्यपेक्षया कुष्ठतालीसयोः कल्कं पाययेत्| केनेत्युच्यते-कदाचिद्विल्वक्वाथेन| कदाचिद्बल्बजक्वाथेन| मैरेयेण वाऽन्येन वा यथायोग्येनासवेन सुरामण्डेन, तथाऽम्लेन काञ्जिकादिना, व्योषतीक्ष्णेन वा कुलत्थरसोनाम्लेन वा, मधूकपिप्पलीसम्पाकेन वा| मधूकशब्दो मृलागमेभ्यो नाऽधिगतः| एवं बिल्वयूषादीनामन्यतमेन कुष्ठतालीसयोः कल्कं व पाययेद्योषितं भिषक्| अथवा पिप्पल्यादीनां कल्कं बिल्वयूषादीनामन्यतमेन पाययेत्| सुबोधमन्यत्| कुष्ठैलाकल्कं सुरामण्डेन| अर्कालर्कयोर्व कषायं क्वाथपरिभाषापरिदर्शितमानेन क्वथितगृहीतं प्रकृतिदेहाद्यपेक्षमात्रायां सुरोन्मिश्रं पाययेत्| अथव लाङ्गलीमूलकुष्ठयो: कल्कं मद्यानामन्यतमेन मूत्राणां वाऽन्यतमेन पाययेत्| एतदुक्तं मद्यमूत्रयोरन्यतमेन| वत्सकादेर्गणस्य वा चूर्णं मद्येन यथायोग्यं पाययेत्| शतपुष्पादिभिः सिद्धस्य तैलस्य सम्बन्धिनं पिचुं तस्यायोनौ धारयेत्| तथाऽनुवासनकाले अनुवासनयोग्यताम्| तत एव शतपुष्पादितैलात्| स्तोकेनानुवासयेद्यथोदितेऽनुवासनकाले सामान्येन योनौ पायौ व| अनन्तरोक्तबिल्वादियूषाद्यन्यतमेन फलजीमूतादिचूर्णमिश्रेणतामेवास्थापयेदपि| सिद्धार्थकादिमिश्रेण वा सुरामण्डेनाऽऽस्थापयेत्| अथवा बिल्वादिपञ्चमूलकप्राये मृदितानां स्विन्नानां शाल्मलीपत्राणां स्वरसेन पूतेन स्तोकस्नेहेनानन्तरोक्तफलादियुक्तेनास्थापयेत्| यथोक्तैर्वा मदनकुष्ठादिभिरास्थापनद्रव्यैः सिद्धेन कटुतैलेनोत्तरबस्तिः| शिग्र्वादिसिद्धेन कटुतैलेनानुवासनम्| क्षीरगोमूत्रयोर्मिश्रीभूतयोर्द्रवप्रमाणम्| सघृतोमाशाल्मलीपिच्छापूरितयोनिं वा स्त्रियं विधुनुयात्| अथवा वैद्योपदेशेन काचित् पाणिना स्नेहाभ्यक्तेन क्लृप्तनखेन बहिः प्रलम्बमपरा नालमनुसरन्ती कुशला तामपरामन्तरपहरेत्|| ३०||
Adhikarana प्रसूतायाः मक्क्ल्लशूले चिकित्स (३१) · Śloka ३१
प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कल्लाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत्|
वरणादिं वा सपञ्चकोलमेलाप्रतीवापम्|
अथवा वीरतरादिमूषरादिप्रतीवापम्|
लवणचूर्णं वा वत्सकादिनिर्यूहेण|
वत्सकादिं वा मदिरया|
अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम्|
भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा|
पुराणगुडं व त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत्||३१||
🔊 Audio coming soon
Hide commentary
शशिलेक व्याख्या (इन्दु कृत)
प्रजातायां प्रसूतायां यदि बस्तौ मूर्ध्नि उदरे च कारणविशेषाद्युगपच्छूलं भवति, ततस्तस्मिन् मक्कल्लनाम्नि शूले घृतेन वोष्णोदकेन व यवक्षारपिबेत्| तयोरेवान्यतरेण वा पञ्चकोलसंयुक्तं वरणादिकम्| क्वथितं सदेलाप्रतीवापं पिबेत्| प्रतीवापोक्तरेव क्वाथः सिद्धः| तथा च लवणचूर्णमपि वत्सकादेर्निय्यूहेण स्वयं वक्ष्यति| एवमेव वीरतरादिकमपि क्वथितमूषरादिप्रतीवापम्| प्रतीवापशब्देनावचूर्ण्य देयं द्रव्यमुच्यते| अथवा वत्सकादिचूर्णितं सुरया पिबेत्| सालपर्णीपृश्निपर्णीभ्यां क्वाथेन व मरिचभद्रदार्वोः कल्कं पिबेत्| भाङ्गर्यादित्रयकल्कं कोष्णाम्भसा| अथवा त्रिकटुकादिसंयुक्तं पुराणगुडं योग्यया मात्रया भक्षयेत्|| ३१||