Adhikarana aShTA~ggasaMgrahaH-sharIrasthAne-tRutIyo~adhyAyaH ------ atha garBopacaraNIyo nAma tRutIyo~adhyAyaH----- pratij~jA (1) · Śloka 1
आथातो गर्भोपचरणीयं शारीरमध्यायं व्याख़्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
पूर्वयोरध्याययोर्गर्भस्य सम्भवस्थितिक्रमुक्त्व तस्यैव चानुपग़ाताय परिपूर्णत्वाय सुखप्रसवाय चोपचार उच्यते| गर्भस्यात्र गर्भिणीपरायत्तत्वाच्च तस्या एवानुष्ठेयं विधानम्|| १||
Adhikarana garbhiNyAH prathamamAsakRutyam (2) · Śloka 2
प्रथमे मासि गर्भिणि क्षीरमनुपसंस्कृतं मात्रावच्छीतं कालेकाले पिबेत्|
तस्मिन्नपि चाद्यं द्वादशरात्रं क्षीरोद्भवं सर्पिः शालिपर्णीपलाशाभ्यां शृतं कनकरजतक्वथितम् शीतोदकानुपानं पिबेत्|
स्वादु शीतं द्रवप्रायसात्म्यञ्च सायम्प्रातराहारयेत्|
न चाभ्यङ्गोद्वर्तनानि सेवेत|
यथो- क्तानि च दोषकराणि परिहरेद् आपञ्चमात् मासाद् विशेषेण||२||
तत्र प्रथमे मासि गर्भिण्यसंस्कृतं क्षीरं पिबेत्| मात्रावद्यत्नेनाधिक्यरक्षया काले कालेऽन्नस्य द्वयोरपि कालयोः| अतएवाजीर्णादिपरिहाराय मात्रावदिति| तस्मिन्नपि तत्रापि प्रथमं द्वादशरात्रं क्षीरोद्भवं घृतं पिबेत्| क्षीरपानापवादत्वेन| किम्भूतं क्षीरोद्भवमाह-शालिपर्णिपलाशाभ्यां स्नेहपाकपरिभाषया शृतम्| सौवर्णे राजते वा क्वथितं शीतोदकानुपानञ्च| सा च गर्भिणी स्वाद्वादिप्रायमाहारं प्रतिदिनमुभयकालमाहारयेत्| निषेकात् प्रभृत्यभ्यङ्गादीन् पूर्वोक्तांश्च गर्भोपघातकरान् व्यवायादीन् वर्जयेत्| यावत् पञ्चमो मासस्तावदेवं विशेषेण कुर्यात्| तदा हि गर्भस्याऽस्थिरत्वात् झटिति बाधाभयम्|| २||
Adhikarana dvitIyamAse sevanIyam (3) · Śloka 3
द्वितीये मधुरौषधसिद्धं पयः पिबेत्||३||
द्वितीये मासि मधुरैर्द्राक्षामधुकादिभि सिद्धं पयः पिबेत्|| ३||
Adhikarana dvitIye mAsi madhurairdrAkShAmadhukAdibhi siddhaM payaH pibet|| 3|| (4) · Śloka 4
तृतीये तदेव सर्पिर्मधुभ्याम्||४||
तृतीये तदेव मधुरौषधसिद्धं सर्पिर्मधुभ्यां संयुक्तं पिबेत्|| ४||
Adhikarana caturthamAse sevanIyam (5) · Śloka 5
चतुर्थेऽक्षमात्रनवनीतयुक्तम्||५||
चतुर्थे तु तदेव नवनीतस्याक्षमात्रेण युक्तम्|| ५||
Adhikarana pa~jcamamAse sevanIyam (6) · Śloka 6
पञ्चमे क्षीरसर्पिः||६||
पञ्चमे क्षीरोद्धृतं सर्पिः||६||
Adhikarana ShaShThasaptamamAsayoH sevanIyam (7) · Śloka 7
षष्ठे तदेव मधुरौषधसिद्धं सप्तमे च||७||
षष्ठे मधुरौषधैः सिद्धं तदेव क्षीरसर्पिः च|| ७||
Adhikarana ShaShThe madhurauShadhaiH siddhaM tadeva kShIrasarpiH ca|| 7|| (8) · Śloka 8
तस्मिंस्तु गर्भस्य केशोत्पत्त्या मातुर्विदाहो भवतीति स्त्रि-यो भाषन्ते|
नेति भगवानात्रेयः|
गर्भोत्पीडनात्तु दोषा हृदयं प्राप्य विदहन्ति ततः कण्डूर्जायते कण्ड्वा कि- क्किसम्||८||
तस्मिन् सप्तमे मासि मातुर्विदाहो भवति| स तु केशोत्पत्तिकार्य्यमिति स्त्रियो भाषन्ते| तथा नेति भगवानात्रेयः| स चैवमाह-गर्भोत्पीडनाद्दोषा वातादयो गर्भिणीहृदयं प्राप्ताः कण्डूः कुर्वन्ति| कण्ड्वा अनन्तरं किक्किसम्| रेखास्वरूपस्त्वकसङ्कोचः किक्किसम्|
Adhikarana saptamamAsikagarbhopadrave sevanIyAni (9) · Śloka 9
तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणि- तलमात्रमस्यै दद्यात्|
चन्दनमृणालकल्कैश्च स्तनोदरं मृद्नीयात्|
शिरीषधातकीसर्षपमधुकचूर्णैर्वा|
कुटजार्जकबीजमुस्तहरिद्राकल्कैर्वा|
निम्बकोलसुरसमञ्जिष्ठा- कल्कैर्वा|
शशहरिणपृषतरुधिरयुक्तया वा त्रिफलया|
करवीरकरञ्जपत्रकल्कसिद्धेन च तैलेनाभ्यङ्गः|
परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भस|
कण्डूयनं वर्जयेत्|
त्वग्भेदवैरुप्यपरिहारार्थं स्नानोद्वर्तनं च शीलयेत्|
मधुरं चाहारमल्पमल्पस्नेहलवणमल्पोदकानुपानं भुञ्जीत||९||
तत्र कण्डूकिक्किसयोरत्रैवास्यै गर्भिण्यै बदरोदकेन संयुक्तं पाणितलं नवनीतस्य देयमभ्यवहाराय| पाणितलं कर्षः| चन्दन्मृणालकल्केन स्तनोदरस्य मर्दनम्| प्रकृत्यादिविशेषापेक्षया शिरीषादिचूर्णैर्वा| कुटजार्जकादिकल्कैर्वा| चूर्णः शुष्कपिष्टः| कल्को जलपिष्टः निम्बादिकल्कैर्वा शशाद्यन्यतमरुधिरमिश्रया वा त्रिफलया| दोषादिविशेषापेक्षया स्तनोदरं मृद्नीयादिति सम्बन्धः| सुबोधम्| परिषेकः स्तनोदरस्य त्वग्भेदस्य विरूपत्वस्य परिहारार्थं च स्तनोदरस्य च कण्डूयनं वर्जयेत्| तत्परिहारार्थमेव च स्नानमुद्वर्तनं च शीलयेत्| अल्पत्वादियुक्तमाहारं भुञ्जीत|| ९||
Adhikarana garbhiNyAH aShTame mAse sevanIyAni (10) · Śloka 10
अष्टमे क्षीरयवागूं सर्पिष्मतीं पिबेत्|
नेति खण्डकाप्यःगर्भस्य पैङ्गल्या बाधभयात्|
अस्तु पैङ्गल्या बाधस्तथाप्येवं कुर्वीत|
नीरुजं बलवर्णसत्त्वसंहननसम्पदुपेतं ज्ञातीनामग्रगण्यमपत्यं जनयतीति भगवानात्रेयः|
बदरोदकेन पललपयोदधिमस्तुतैललवणफलघृतयुक्तेनास्थापयेत्|
पुराणविड्विशुद्ध्यर्थं मधुकादिमधुरौषधसिद्धेन च तैलेनानुवासयेदनुलोमनाय वायोः अनुलोमे हि मारुते सा सुखमनुपद्रवा प्रसूते|
गर्भिणीं तु न्युब्जामास्थापयेदनुवासयेद्वा|
तथाऽस्या विवृतमार्गतया सम्यगौषधनमनुप्रविशति|
तत ऊर्ध्वं स्निग्धाभिर्यवागूभि- र्जाङ्गलरसैश्चोपाचरेदाप्रसवकालादिति भगवान् धन्व- न्तरिः||१०||
अष्टमे मासे घृतमिश्रां क्षीरयवागूं पिबेदित्यात्रेयः| तां न पिबेत् गर्भस्य पैङ्गल्यभयादिति खण्डकाप्यः तत् प्रत्याहात्रेयः अङ्गीक्रियतां पैङ्गल्यम्| गर्भिण्या नीरुक्त्वलाभाद्गर्भस्य च बलादियुक्तस्य लाभात्| सर्पिष्मत्या क्षीरयवाग्वा| संहननमवयवनिबन्धत्वं बदरोदकेनास्थापनपरिभाषया पललादियुक्तेनास्थापयेत्| पुराणं सञ्चितं पुरीषं शोधयित्वा तदर्थमेवानुवासयेत् मधुकादिसिद्धतैलेन| एवं पुराणाया विशः शोधनादनुलोमो वायुः प्रसूतये सुखो भवतीति| सर्वस्य च वामपार्श्वस्थस्यास्थापनानुवासन विधाने गर्भिण्या न्युब्जत्वपवादः| न्युब्जा जानुभ्यामधोमुखी भूमौ स्थिता| तथा हि जठरस्य लम्बत्वाद्वस्तेर्मार्गो विवृतो भवति| ततोऽष्टमान्मासादूर्ध्वमाप्रसवात् स्निग्धाभिर्यवागूभिरुपाचरेत्| जाङ्गलरसैश्चोपचरेदिति धन्वन्तरिः| चरकस्य तु जाङ्गलरसानभिधानम्|| १०||
Adhikarana navame mAse karaNIyAni garbhiNIkRutyAni (11) · Śloka 11
नवमे तु तत एवानुवासनतैलात् पिचुं योनौ प्रणयेद् गर्भमार्गाशययोः स्नेहनार्थमिति||११||
नवमे मासे तत एवानन्तरोक्तान्मधुरौषधसिद्धादनुवासनतैलात् पिचुं योनौ धारयेत्| तेन हि गर्भप्रसूतिमार्गे गर्भाशये च स्नेहः सम्पद्यते|| ११||
Adhikarana garbhiNIniyamAnusaraNaphalam (12) · Śloka 12
अनेन प्रथममासादारभ्य क्रमेण गर्भिण्या प्रसवकाले गर्भधारिणीकुक्षिकटीपार्श्वपृष्ठं मृदु भवति|
वायुश्चानुलोमः सम्पद्यते|
मूत्रपुरीषं च प्रकृतिभूतं जरायुश्च मार्गं प्रतिपद्यते|
पुत्रं चेष्टं कल्यमायुष्वन्तं सुखिनं सुखेन काले बलवती प्रसूते||१२||
एतच्च सर्वं मासविधानं गर्भिण्याः गर्भधारिणीकुक्ष्यादिमृदुत्वलाभाय भवतीति सुबोधम्|| १२||
Adhikarana garbhiNyAH snAnodakam (13) · Śloka 13
बिल्वकार्पासीपप्फणापातलीपिचुमर्दाग्निमन्थमांसीवर्धमानकपत्रभङ्गक्वाथेन शीतेन सर्वगन्धोदकेन वा गर्भिण्याः प्रत्यहं स्नानमुपदिशेत्||१३||
बिल्वादीनां क्वाथेन गर्भिण्याः प्रत्यहं स्नानमुपदिशेत्| सर्वगन्धोदकेन वा| पत्राद्भङ्गानि पत्रभङ्गानि|| १३||
Adhikarana sUtikAgAranirmitiH (14) · Śloka 14
प्राक् चैवास्या नवमान्मासादप्रहृतास्थिशर्कराकपाले प्रशस्ते देशे वास्तुविद्याप्रशस्तं सर्वर्त्तुसुखमुखहृतसर्वो- पकरणं सन्निहितज्वलनं प्राग्द्वारमुदङ्द्वारं वा सूतिकागारं कारयेत्||१४||
अस्याश्च गर्भिण्याः नवममासात् प्रभृत्यपहृतास्थीत्यादियुक्तं सूतिकागारं कारयेद्यत्र सूतिका सती वसति| शीतातपाद्यभावेन सर्वर्त्तुसुखम्|| १४||
Adhikarana garbhiNyAH sUtikAgAre praveshaH viNmUtra- vibandhe phalavartidAna~jca (15) · Śloka 15
तत्रानुकूलेषु नक्षत्रादिषु पुण्याहशब्देन गोब्राह्मणवृद्धा- न्न्त्वाऽऽवर्तमाना प्रदक्षिणं प्रविश्य बहुशः प्रसूताभिर- नुरक्ताभिरविषादाभिः क्लेशक्षमाभिः परिवृता स्व- स्त्ययनपरानुलोमनैराहारविहारैरनुलोमितवातमूत्रपुरीषा प्रसवकालमुदीक्षेत|
स्वल्पेऽपि च विण्मूत्रपुरीषा प्रसव- कालमुदीक्षेत|
स्वल्पेऽपि च विण्मूत्रविबन्धे फलवर्तीः प्रणिदद्यात्||१५||
तत्राऽऽगारेऽनुकूलनक्षत्रग्रहतिथिमुहूर्तादिषु पुण्याहशब्देन गवादीननुवर्त्तमाना प्रविश्यानेकवारप्रसूताभिः परिवृता सती स्वस्त्ययनपरत्वादियुक्ता प्रसवकालमुदीक्षेत प्रतिपालयेत| सुबोधम्|| १५||
Adhikarana AsannaprasavAyA lakShaNAni (16) · Śloka 16
तत्रासन्नप्रसवायाः क्लमो ग्लानिर्मुक्तबन्धने इवा- क्षिणी निष्ठीविका मूत्रपुरीषबाहुल्यं शिथिलकुक्षि- ताऽधोगुरुत्वमन्नानभिलाषो वेदनोदरहृदयकटीबस्ति- वङ्क्षणेषु तोदभेदशूलस्फुरणस्रवणानि च योन्यौ भवन्ति|
तदनन्तरमावीनां प्रादुर्भावो गर्भोदकप्रवाहश्च||१६||
क्लमादिकमासन्नप्रसवकाले लक्षणम्| उदरादीनां वेदनया सम्बन्धः| तोदादीनि योन्याम्| अनन्तरमावीनां सूतिवेदनापर्य्यायाणां प्रादुर्भावः| अनन्तरं गर्भोदकस्य|| १६||
Adhikarana upasthitagarbhAyA yavAgUpAnam (17) · Śloka 17
अथैनामुपस्थितगर्भां कृतकौतुकमङ्गलां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तां सघृतां यवागूं पाययेत्||१७||
अथानन्तरमेनां गर्भिणीं निकटीभूतगर्भेत्यादियुक्तामुष्णोदकेन परिषिक्तां सतीं यवागूं सघृतां पाययेत्|| १७||
Adhikarana AvIprAdurbhAvottarakRutyam (18) · Śloka 18
ततः सुरक्तार्षभचर्मप्रच्छदे मृदुनि भूमिशयने शयाना- मुत्तानामाभुग्नसक्थिपृष्ठामहतवाससोऽशङ्कनीयाः प्रिय- दर्शनाः परिणतवयसः प्रजननकुशलाः प्रगल्भः कृत्त- नखाः स्त्रियः सूतिकां सूनृताभिर्वाणीभिराश्वासयन्त्यः पर्युपासीरन्||१८||
ततः सुरक्तेन ऋषभचर्मणा कृतप्रच्छदे मृदुनि कार्पासादिकृते शयने शयानामुत्तानामहतवासस्त्वादियुक्ता योषितः सुनृताभिराश्वासयन्त्यः पर्य्युपासीरन्निति सम्बन्धः| आभुग्नसक्थिं सङ्कुचितजानुम्| प्रजनने गर्भनिष्कासने कुशलास्तथोक्ताः| सूनृताः प्रियवाचः|| १८||
Adhikarana garbhasyAdhomukhatvasampAdanam (19) · Śloka 19
अथास्यै दद्यात् कुष्ठैलालाङ्गलीवचाचव्यचित्रकचिरि- बिल्वचूर्णमुपाघ्रातुं मुहुर्मुहुः|
तथा भूर्जपत्रशिंशपासर्जरसान्यतमधूममन्तरान्तरा च|
पार्श्वपृष्ठकटीसक्थिदेशान् कोष्णेन तैलेनाभ्यज्यानुसुखमस्या मृद्नीयात्|
एवमवाक् परिवर्त्तते गर्भः||१९||
अनन्तरमस्यै कुष्ठादिचर्णमुपाघ्रातुं दद्यान्मुहुर्मुहुः| तथैव भूर्जाद्यन्यतमधूमपुपाघ्रातुं दद्यादिति सम्बन्धः| अन्तरान्तरा चेत्यावीप्रादुर्भावमनुधूमादिप्रसङ्गे| पार्श्वादिदेशानीषदुष्णेन तैलेनाभ्यज्य यथासुखं मृद्नीयादिति सम्बन्धः| एवमनेन यवागूपानादिनाजठरस्थो गर्भस्तस्मिन् काले सुखेनावाक्परिवर्त्तते, अधोमुखतां यातीत्यर्थः|| १९||
Adhikarana adhomukhagarbhalakShaNam (20) · Śloka 20
तस्य लक्षणम्विमुच्य हृदयमुदरमाविशति|
बस्तिशिरोऽवगृह्णाति त्वरयन्त्येनामाव्यः||२०||
स चावाङ्मुखो गर्भो हृदयमोक्षणादिना लक्षणेन ज्ञायते| मातुर्हृदयदेशं परित्यज्य यदा तु जठरमाविशति गर्भो बस्तिशिरः आख्यं वक्ष्यमाणप्रदेशनाभेरधो गृह्णाति| आव्यश्चैनां गर्भिणीं निरन्तरप्रादुर्भावेन त्वरयन्ति तदा परिवृत्तमध्यवस्येत्|| २०||
Adhikarana garbhaparivartane upAyAntaram (21) · Śloka 21
न चेदेवं परिवर्त्तते ततो मुहुर्मुहुर्जृम्भणं चङ्क्रमणञ्च कारयतिव्याननन्तरोक्तं विधिम्||२१||
एवं न परिवर्त्तते चेज्जृम्भणादिकं च वक्ष्यमाणं कारयितव्यम्| अनन्तरोक्तञ्च विधिं धूमाघ्राणादिकं पुनः पुनश्च|| २१||
Adhikarana anyamatena garbhaparivarttanopAyaH (22) · Śloka 22
अन्ये तु मुसलेन उलूखलं धान्यपूर्णमाहननीयमित्याहुः||२२||
केचिदाचाऱ्य्या गर्भपरिवर्त्तनार्थं धान्यपूर्णमुलूखलं गर्भिण्या मुसलेनावहननीयमिति|| २२||
Adhikarana tanniShedhashca (23) · Śloka 23
तत्तु न सम्यक्|
दारुणव्यायामवर्जनं हि गर्भिण्याः सततमुदपदिश्यते|
विशेषतश्च प्रसवकाले|
प्रचलितसर्वधातुदोषायाः सौकुमार्य्यत्वान्नार्य्या मुसलव्यायामेनेरितो वायुरन्तरं लब्ध्वा प्राणान् हिंस्यादिति||२३||
तदात्रेयप्रमुखा नेच्छन्ति| यतस्तथाविधायामतिसुकुमारायामवस्थायामेवंविधेनोपचारेणावहननव्यायामेन प्रबलीभूतो वायुरन्तरं हृदयं लब्ध्वा प्राणान् हिंस्यादिति|| २३||
Adhikarana garbhaparivRuttyuttarakRutyam (24) · Śloka 24
अथ परिवृत्तगर्भां पर्य्यङ्कमेनामारोप्य कुशला स्त्री पादतोऽस्या निषण्णाया योनिमनुलोममनुसुखमभ्यज्य स्फिजौ पादाभ्यां पीडयेत्|
योनिञ्च पुनः पुनः प्रसाधयेत्|
ब्रूयाच्च, सुभगे! शनैः शनैः प्रवाहयस्व|
सुप्रसन्नस्तेमुखवर्णः पुत्रं जनयिष्यतीति||२४||
ततोऽनन्तरोक्तेनार्वाक्परिवृत्तगर्भलक्षणेन परिवृत्तगर्भां विदित्वा पर्य्यङ्कमारोप्य पादयो निषण्णा स्त्री योनिप्रसाधनादिकं गर्भिण्याश्च कुर्य्यात्| प्रसाधनं गर्भनिष्क्रमणयोग्यताकरणम्||२४||
Adhikarana garbhaprasavakaramantrajapaH (25) · Śloka 25
अन्या तु वामकर्णेऽस्या मन्त्रमिमं जपेत्क्षितिर्जलं वियत्तेजो वायुर्विष्णुः प्रजाप्रतिः|
सगर्भां त्वां सदा पातु वैशल्यं वा दधात्वपि|
प्रसूष्व त्वमविक्लिष्टमविक्लिष्टा शुभानने|
कार्तिकेयद्युतिं पुत्रं कार्तिकेयादिरक्षितम्|
इति|
तथा- इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि|
उच्चैःश्रवाश्च तुरगो मन्दिरे निवसन्तु ते|
इदममृतमपां समुद्धृतं वैतवलघु गर्भमिमं प्रमुञ्चतु स्त्री|
तदनलपवनार्कवासवास्ते सह लवणाम्बुधरैर्दिशन्तु शान्तिमिति||२५||
द्वितीया च वामे कर्णे मन्त्रं वक्ष्यमाणं पठेत्| सुबोधमन्यत्| क्षितिर्जलादिकं दिशन्तु शान्तिमित्यन्तं श्लोकचतुष्टयं मन्त्राः|
Adhikarana akAlapravAhaNe kAle~apravAhaNe ca doShaH (26) · Śloka 26
तथा पराऽनुशिष्यादनागतायां वेदनायां मा प्रवाहिष्ठाः|
अकालप्रवाहणं हि विण्मूत्रादिवेगानामिवोदीरणमनर्थ- करमहितञ्च गर्भस्य श्वासकासशेषकुब्जतादिका- रित्वात्|
तथा तेषामेव विधारणमिव वेदनायामप्रवा- हणमुपघाताय|
ततो यथोक्तं कुरुष्व||२६||
तथाऽपरा स्त्री इदमनुशिष्यात्-भद्रे! गर्भिण्यनागतायां गर्भवेदनायां गर्भवेदनायां गर्भं मा प्रवाहिष्ठाः| न प्रेरयितव्यस्त्वया गर्भ इत्यर्थः| तथाविधं ह्यकालप्रवाहणं वेगोदीरवणत् गर्भिण्या अहितम्| गर्भस्य च तत्स्थाननिष्कासार्त्तस्य श्वासादिकरम्| तथा प्राप्तायां वेदनायां यदप्रवाहणं तद्वेगधारणवद् गर्भिण्या अहितं सदुपघाताय सम्पद्यते|| २६||
Adhikarana pravAhaNakramaH (27) · Śloka 27
शनैः शनैश्च पूर्वं प्रवाहिष्ठाः|
निगर्भे बाढम्|
गर्भस्य योनिमुखप्रतिपत्तौ बाढतरमाऽऽप्रसवादिति||२७||
तथा भद्रे! त्वं प्रथममाविजन्मनि शनैः शनैः स्तोकं-स्तोकं प्रवाहयेथाः| अन्तरं गर्भस्य निर्गमनकाले निबिडं प्रवाहयेथाः|ततोऽपि योनिमुखप्राप्ते गर्भे निबिडतरमिति| आप्रसवाद्यावद् गर्भो निष्क्रान्तो भवति| यदा पुनर्गर्भो निष्क्रामति तदा तस्मिन्|
Adhikarana pravAhamAnAyAH garbhiNyAH harShaNam (28) · Śloka 28
तस्यास्तु प्रवाहमानायाः स्त्रियः शब्दं कुर्य्युः प्रजाता, प्रजाताधन्यं धन्यं पुत्रमिति|
तथाऽस्या हर्षेण प्राणा आप्यायन्ते||२८||
सुबोधम्|| २८||
Adhikarana garbhasa~gge cikitsA (29) · Śloka 29
गर्भसङ्गे तु योनिं धूपयेत्|
कृष्णसर्पनिर्मोकेन पिण्डीतकेन वा|
बध्नीयाच्च हिरण्यपुष्पीमूलं हस्तपादे|
धारयेच्च सुवर्चलां विशल्यां वा||२९||
गर्भसङ्गे कृष्णाहिकुञ्चुकेन पिण्डीतकेन वा योनिधूपनम्| पिण्डीतको मदनः| तदा हस्ते पादे च हिरण्यपुष्प्या मूलं बध्नीयात्| तथा सुवर्चलाया विशल्या वा मणिवच्छरीरे धारणम्|
Adhikarana aparAsa~gge upacArAH (30) · Śloka 30
अथ प्रसूताया न चेदपरा पतति ततो दक्षिणेन पाणिना नाभेरुपरिष्टाद्बलवदुपपीड्य अन्येन पृष्ठत उपसंगृह्य विधु- नुयात्|
पार्ष्ण्या वा श्रोणीमाकोटयेत्|
स्फिजौ वोपसंगृह्या सुपीडितं निपीडयेत्|
वेण्याऽङ्गुल्या वा केशवेष्टितया च कण्ठतालू परामृशेत्|
भूर्जपत्रकाचमणिसर्पनिर्मोकैश्च योनिं धूपयेत्|
भूर्जगुग्गुलुभ्यां वा|
शालिमूलसिद्धेन व सर्पिषा योनिमभ्यज्य कटुकालाबुजालिनीनिम्बसर्पनिर्मोकैर्धूपयेत्|
गुडनागरकल्केन वा|
तदेव वा भक्षयेत्|
लाङ्गलीमूलकल्केन वा पाणिमुदरं चालिम्पेत्|
महावृक्षक्षीरं वा मूर्धन्यषेचयेत्|
कुष्ठतालीसकल्कं बिल्वबल्वजयूषमैरेयासवसुरामण्डान्यतमेन व्योषतीक्ष्णोष्णेन वाऽम्लेन कुलत्थरसेन मधुकपिप्पलीसम्पाकेन व पाययेत्|
पिप्पल्येलाकोलविडचव्यचित्रकोपकुब्जिकाकल्कं वा|
खरस्य वृषभस्य वा जीवतो दक्षिणं कर्णमुद्धृत्य बिल्वकुलत्थबल्वजयूषानीनाप्लावनानामन्यतमे प्रक्षिप्य मुहूर्त्तस्थितमुद्धृत्य तदाप्लावनं पाययेत्|
कुष्ठैलाकल्कं वा सुरया|
अर्कालर्ककषायं वा प्रजातांसुरोन्मिश्रम्|
कुष्ठलाङ्गलिकीमूलकल्कं वा मद्यमूत्रान्यतरेण|
वत्सकादिचूर्णं वा मद्येन|
शतपुष्पाकुष्ठमदनहिङ्गुसिद्धस्य च तैलस्य पिचुं ग्राहयेत्|
ततश्चैनामनुवासनकालेऽनुवासयेत्|
बिल्वबल्वजयूषाद्याप्लावनैश्च फलजीमूतकेक्ष्वाकु- धामार्गवकुटजार्ककृतवेधनहस्तिपर्ण्यभीरूपहितैरास्थापयेत्|
सिद्धार्थककुष्ठलाङ्गलिकीमहावृक्षक्षीरामिश्रेण वा सुरामण्डेन|
शाल्मलीवृन्तानि वा स्विन्नान्यापोथ्य पञ्चमूलकषाये विमर्द्दयेत्|
तेन च पूतेन स्नेहवता फलादियुक्तेनेति|
यथोक्तास्थापनद्रव्यसिद्धेन कटुतैलेनोत्तरबस्तिं दद्यात्|
शिग्रुसुमुखमरिचाजाजीचित्रककल्कक्षीरगोमूत्रसिद्धेन वा कटुतैलेनाऽनुवासयेत्|
उमाशाल्मलीपिच्छया वा सघृतया योनिं पूरयित्व विधुनुयात्|
स्निग्धेन व कृतनखेन पाणिना नालानुसारतोऽपहरेत्||३०||
अथानन्तरं निष्क्रान्ते गर्भे यदाऽपरा गर्भशय्याख्या न निष्क्रामति तदा गर्भिणीधूपनादिकं वक्ष्यमाणं विधेयम्| काचित् स्त्री गर्भिणीं विधुनुयात्| कथमित्याह-दक्षिणेन पाणिना नाभेरधो गर्भिण्याः पीडयित्वा वामेन पृष्ठं चोपगृह्येति| तथा चान्या स्त्री स्वपादपार्ष्ण्या गर्भिण्याः कटीमाकोटयेत्| आहन्यादित्यर्थः| तथा तस्याः स्फिजौ निपीडयेत्| तथा वेण्या केशवेण्या तालुकण्ठे स्पृशेत् अङ्गुल्या वा केशवेष्टितया| भूर्जपत्रादित्रितयेन योनिधूपनम्| काच एव काचमणिः| भूर्जगुग्गुलुभ्यां वा योनिधूपनम्| अथवा शालिमूलसिद्धसर्पिरभ्यक्तां योनिं कटुकालाब्वादिभिर्धूपयेत्| अथवाऽनभ्यक्तामेव कटुकालाब्वादिभिस्तैलमिश्रैर्योनिं धूपयेत्| तैरेव वा कल्कीकृतापक्तैर्योनिं लिम्पेत्| गुडनागरेण वा जलपिष्टेन योनि लिम्पेत्| तदेव वा गुडनागरकल्कं भक्षयेत्| अन्यत् सुबोधम्| दोषाद्यपेक्षया कुष्ठतालीसयोः कल्कं पाययेत्| केनेत्युच्यते-कदाचिद्विल्वक्वाथेन| कदाचिद्बल्बजक्वाथेन| मैरेयेण वाऽन्येन वा यथायोग्येनासवेन सुरामण्डेन, तथाऽम्लेन काञ्जिकादिना, व्योषतीक्ष्णेन वा कुलत्थरसोनाम्लेन वा, मधूकपिप्पलीसम्पाकेन वा| मधूकशब्दो मृलागमेभ्यो नाऽधिगतः| एवं बिल्वयूषादीनामन्यतमेन कुष्ठतालीसयोः कल्कं व पाययेद्योषितं भिषक्| अथवा पिप्पल्यादीनां कल्कं बिल्वयूषादीनामन्यतमेन पाययेत्| सुबोधमन्यत्| कुष्ठैलाकल्कं सुरामण्डेन| अर्कालर्कयोर्व कषायं क्वाथपरिभाषापरिदर्शितमानेन क्वथितगृहीतं प्रकृतिदेहाद्यपेक्षमात्रायां सुरोन्मिश्रं पाययेत्| अथव लाङ्गलीमूलकुष्ठयो: कल्कं मद्यानामन्यतमेन मूत्राणां वाऽन्यतमेन पाययेत्| एतदुक्तं मद्यमूत्रयोरन्यतमेन| वत्सकादेर्गणस्य वा चूर्णं मद्येन यथायोग्यं पाययेत्| शतपुष्पादिभिः सिद्धस्य तैलस्य सम्बन्धिनं पिचुं तस्यायोनौ धारयेत्| तथाऽनुवासनकाले अनुवासनयोग्यताम्| तत एव शतपुष्पादितैलात्| स्तोकेनानुवासयेद्यथोदितेऽनुवासनकाले सामान्येन योनौ पायौ व| अनन्तरोक्तबिल्वादियूषाद्यन्यतमेन फलजीमूतादिचूर्णमिश्रेणतामेवास्थापयेदपि| सिद्धार्थकादिमिश्रेण वा सुरामण्डेनाऽऽस्थापयेत्| अथवा बिल्वादिपञ्चमूलकप्राये मृदितानां स्विन्नानां शाल्मलीपत्राणां स्वरसेन पूतेन स्तोकस्नेहेनानन्तरोक्तफलादियुक्तेनास्थापयेत्| यथोक्तैर्वा मदनकुष्ठादिभिरास्थापनद्रव्यैः सिद्धेन कटुतैलेनोत्तरबस्तिः| शिग्र्वादिसिद्धेन कटुतैलेनानुवासनम्| क्षीरगोमूत्रयोर्मिश्रीभूतयोर्द्रवप्रमाणम्| सघृतोमाशाल्मलीपिच्छापूरितयोनिं वा स्त्रियं विधुनुयात्| अथवा वैद्योपदेशेन काचित् पाणिना स्नेहाभ्यक्तेन क्लृप्तनखेन बहिः प्रलम्बमपरा नालमनुसरन्ती कुशला तामपरामन्तरपहरेत्|| ३०||
Adhikarana prasUtAyAH makkllashUle cikitsa (31) · Śloka 31
प्रजातायां चेद्बस्तिमूर्धोदरेषु शूलं मक्कल्लाख्यं स्यात्तत्र यवक्षारचूर्णं सर्पिषा सुखोष्णोदकेन वा पिबेत्|
वरणादिं वा सपञ्चकोलमेलाप्रतीवापम्|
अथवा वीरतरादिमूषरादिप्रतीवापम्|
लवणचूर्णं वा वत्सकादिनिर्यूहेण|
वत्सकादिं वा मदिरया|
अंशुमतीद्वयक्वाथेन वा मरिचभद्रदारुकल्कम्|
भार्ङ्गीनागरदेवदारुकल्कं वोष्णाम्भसा|
पुराणगुडं व त्रिकटुत्रिजातकधनिकाचूर्णसंसृष्टं भक्षयेत्||३१||
प्रजातायां प्रसूतायां यदि बस्तौ मूर्ध्नि उदरे च कारणविशेषाद्युगपच्छूलं भवति, ततस्तस्मिन् मक्कल्लनाम्नि शूले घृतेन वोष्णोदकेन व यवक्षारपिबेत्| तयोरेवान्यतरेण वा पञ्चकोलसंयुक्तं वरणादिकम्| क्वथितं सदेलाप्रतीवापं पिबेत्| प्रतीवापोक्तरेव क्वाथः सिद्धः| तथा च लवणचूर्णमपि वत्सकादेर्निय्यूहेण स्वयं वक्ष्यति| एवमेव वीरतरादिकमपि क्वथितमूषरादिप्रतीवापम्| प्रतीवापशब्देनावचूर्ण्य देयं द्रव्यमुच्यते| अथवा वत्सकादिचूर्णितं सुरया पिबेत्| सालपर्णीपृश्निपर्णीभ्यां क्वाथेन व मरिचभद्रदार्वोः कल्कं पिबेत्| भाङ्गर्यादित्रयकल्कं कोष्णाम्भसा| अथवा त्रिकटुकादिसंयुक्तं पुराणगुडं योग्यया मात्रया भक्षयेत्|| ३१||
Adhikarana yonibhraMshe cikitsA (32) · Śloka 32
तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत् ततो यस्यकस्य- चिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्|
निविष्टां चाऽशोकरोहिणीबर्हिषोशीरप्रियङ्गुदेवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च 'गच्छ सुभगे! स्वस्थानम्' इति|३२|
तस्मिन् काले योनिभ्रंशे रक्ताभ्यक्ताया योनेः प्रवेशनम्| प्रविष्टायां चोऽशोकरोहिण्यादिपक्वतैलेन स्वेदनं पूरणं च बहुशः शश्वत्| 'गच्छ सुभगे! स्वस्थानम्' इति मन्त्रं पदेनैव तां योनिं ब्रूयात्|| ३२||
Adhikarana sadyo jAtasya bAlasyopacArAdeshaH (32) · Śloka 32
तस्याश्चेत् स्वस्थानतो योनिर्भ्रश्येत् ततो यस्यकस्य- चिच्छोणितेनाभ्यज्य योनिं यथास्थानं कुशला स्त्री निवेशयेत्|
निविष्टां चाऽशोकरोहिणीबर्हिषोशीरप्रियङ्गु- देवदारुकल्कविपक्वेन तैलेन बहुशः स्वेदयेत् पूरयेत् ब्रूयाच्च 'गच्छ सुभगे! स्वस्थानम्' इति||३२||
तस्मिन् काले योनिभ्रंशे रक्ताभ्यक्ताया योनेः प्रवेशनम्| प्रविष्टायां चाशोकरोहिण्यादिपक्वतैलेन स्वेदनं पूरणं च बहुशः शश्वत्| 'गच्छ सुभगे! स्वस्थानम्' इति मन्त्रं पदेनैव तां योनिं ब्रूयात्|| ३२||
Adhikarana sadyo jAtasya bAlasyopacArAdeshaH (33) · Śloka 33
तद्वच्चान्यतमा स्त्री जातमात्रमेव बालं बालोपचरणीयेन विधिनोपपादयेत्|
तमुपदेक्ष्यते तूत्तरेषु||३३||
अन्यतमा च कुशला परिचारकोत्तरं स्थानोक्तेन विधिना बालमुपपादयेत्| सुबोधमन्यत्|| ३३||
Adhikarana sUtikAyA upacArAH (34) · Śloka 34
अथ सूतिकां बलातैलेनाभ्यज्यात्|
बुभुक्षिताञ्च पञ्चकोलचूर्णेन यवान्युपकुञ्चिकाचव्यचित्रकव्योषसैन्धव- चूर्णेन व युक्तामहः परिणामिनीं यथा सात्म्यं स्नेहमात्रां पाययेत्|
स्नेहायोग्यां वातहरौषधक्वाथं ह्रस्वपञ्चमूलक्वाथं वा|
पीतवत्याश्च यमकेनाभ्यज्य वेष्टयेदुदरं वस्त्रेण|
तथा न वायुरुदरविकृतिमुत्पादयेदनवकाशत्वात्|
जीर्णे तु स्नेहे पूर्वौषधैरेव सिद्धां विदार्य्यादिगणक्वाथेन क्षीरेण वा यवागूं सुस्विन्नां द्रवां मात्रया पाययेत्|
प्राक्स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेत्|
एवं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वाऽनुपाल्य ततो यवकोलकुलत्थयूषेण लघुना चान्नपानेन|
द्वादशरात्रात् परं जाङ्गलरसादिभिश्च क्रमादाप्याययेदग्निबलादीन्यपेक्ष्य|
क्वथितशीतं च तोयं पाययेत्|
तथा जीवनीयबृंहणीयमधुरवातहरसिद्धैरभ्यङ्गोद्वर्तनपरिषेकावगाहैरन्न- पानैश्च हृद्यैरुपाचरेत्||३४||
यथासात्म्यमन्यतरस्य स्नेहस्याहः परिणामिनीमिति| नात्र स्नेहमात्राया नियमः| केवलं तथा विधेयं यथा तस्मिन्नेवाहनि जीर्णे स्नेहे यवाग्वाः प्रयोगो नोपरुध्यते| तथा च आचार्य्य एवं हृदये केवलं महत्याः प्रतिषेधं करोति| यतः साऽहोरात्रेण जीर्य्यते न तु मात्रान्तरस्य विधानम्| सूतिका क्षुद्वती तैलाद् घृताद्व महतीं पिबेदिति स्नेहे क्वाथे वा पीतेयमकाभ्यक्तदेहाया वस्त्रेणोदरं वेष्टयेत्| वातपूरणभयात्तदवकाशपरिहाराय| तत्र यद स्नेहपानमारभ्यते तदोष्णोदकेन परिषेकः सूतायाः| पुनश्च परिषेको यदा वा यवागूपानमारभ्यते| एतदुच्यते प्राक्स्नेहयवागूपानाभ्यां चोभयकालमुष्णोदकेन परिषेचयेदिति| पूर्वोक्तैरेवौषधैरनन्तरोक्तैः पञ्चकोलेन यवाग्वादिभिर्वा सिद्धमेवं यथायोग्यम्| एतदेव स्नेहपानादिकं त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा| अनन्तरं यावद् द्वादशरात्रं यवाद्यन्यतमयूषेणान्नं लघुना च तत् प्रायेणानुपानं ततः क्रमेणाग्निबलमवेक्ष्य जाङ्गलरसादिभिर्बृंहणैर्बृंहयेत्|| ३४||
Adhikarana sUtikopacArAnusaraNaphalam (35) · Śloka 35
एवं हि गर्भवृद्धिक्षपितशिथिलसर्वशरीरधातुप्रवाहण- वेदनाक्लेदरक्तनिस्सृतिविशेषशून्यशरीराच्च पुनर्नवी- भवति||३५||
सुबोधम्| अनेन क्रमेण सूतिक्लिष्टा पुनर्नवी भवति|| ३५||
Adhikarana sUtikAniyamAnusaraNAvashyakatA (36) · Śloka 36
अत एव च सूतिकाया व्याधिः कृच्छ्रसाध्यो भवत्यसाध्यो वा|
तस्मात्तां यथोक्तेन विधिना प्रयत्नेनोपचरेत्||३६||
अत एव गर्भवृद्धिक्षपितधातुतयेत्यादि हेतुः| सूतिकाया व्याधेरसाध्यत्वे भवति|| ३६||
Adhikarana sUtikAbhidhAnanivRuttisamayaH (37) · Śloka 37
एवं साध्यर्धमासमुपसंस्कृता क्रमेण विमुक्ताहारविहारयन्त्रणा विगतसूतिकाभिधाना स्यात्|
पुनरार्त्तवदर्शनादित्येके||३७||
सार्धन्मासादूर्ध्वं सूतिकाभिधाननिवृत्तिः | अन्ये पुनराहुः-पुनरार्त्तवदर्शनादूर्ध्वं सूतिकाभिधाननिवृत्तिः || ३७ ||
Adhikarana adhyAyopasaMhAraH (38) · Śloka 38
इत्याद्यं मासमादाय यावद्गर्भक्षमा पुनः|
स्त्री स्यात् तावद् विधिः सर्वः सर्वथा साधु दर्शितः||३८||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतोउ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने गर्भो- पचरणीयो नाम तृतीयोऽध्यायः||३८||
इत्येवमनन्तरोक्तेन प्रकारेण प्रथमान्मासाद्गर्भाधानात् प्रभृति पुनरार्त्तवदर्शनेन गर्भयोग्यता तावदस्या विधिरस्मिन्नध्याये दर्शित इति||३८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थाने तृतीयोऽध्यायः