Adhikarana aShTA~ggasaMgraha-shArIrasthAne-caturtho~adhyAyaH atha garbhavyApannAma caturtho~adhyAyaH pratij~jA (1) · Śloka 1
अथातो गर्भव्यापदं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
अथ प्रकरणायातगर्भव्यापच्चिकित्सितप्रदर्शनार्थमध्यायारम्भः|| १||
Adhikarana garbhiNyAH sashUle puShpadarshane cikitsAkramaH (2) · Śloka 2
स्त्री चेदापन्नगर्भा परिहार्य्याण्यासेवेत|
ततश्च यस्याः बस्तिपार्श्वश्रोणियोनिमुखेषु शूलं पुष्पदर्शनं च स्यात् तां मृदुसुखशिशिरास्तरणशयनस्थामीषदवनतशिरसं शीतप्रदेहपरिषेकादिभिरुपाचरेत्||२||
आपन्नगर्भा सम्प्राप्तगर्भा स्त्री परिहार्य्याण्यासेवेत चेत् ततश्च यद्यस्याः शूलं पुष्पदर्शनं च स्यात् ततस्तां मृदुत्वादिगुणयुक्तशयनस्थां शीतैः प्रदेहाभिरुपाचरेत्|| २||
Adhikarana cikitsAvisheShAH (3) · Śloka 3
तद्यथा-सहस्रधौतेन सर्पिषाऽधोनाभेः सर्वतः प्रदिह्यात्|
मधुकसिद्धसर्पिषा सुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्|
गव्येन पयसा मधुकाम्बुना न्यग्रोधादिकषायेण व परिषेचयेत्|
परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्|
तच्छृङ्गसिद्धस्य वा क्षीरसर्पिषः पिचुम्||३||
सहस्रधौतं सर्पिर्यदनेकशोऽग्नौ विलाप्य शीतोदके प्रक्षिप्य स्त्यानीक्रियते| मधुकेन सिद्धं सर्पिस्तथोक्तम्| तच्छृङ्गैर्न्यग्रोधादिशृङ्गैः सिद्धस्य क्षीरसर्पिषः पिचुं योनौ दद्यात्| क्षीरमेव प्रमथ्य सम्पादितं सर्पिः क्षीरघृतम्|| ३||
Adhikarana garbhiNyAH raktAtisrAve cikitsA (4) · Śloka 4
अतिस्रवति तु रक्ते तत एव अक्षमात्रं प्राशयेत्|
केव लादेव वा क्षीरसर्पिषः|
पद्मोत्पलकुमुदकिञ्जल्कं च समधुशर्करं लेहयेत्|
धातकीगैरिकिसर्जरसाञ्जनचूर्णं वा मधुना|
न्यग्रोधा दित्वक्प्रवालकल्कं वा|
शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्|
ऋद्धिविदारीजीवन्तीर्वा पयसा|
नीलोत्पल सितापक्वलोष्ठचन्दनादि वा|
तण्डुलाम्बुवासारसान्य तरेण|
गन्धप्रियङ्गुसितोत्पलशालूकोदुम्बरशलाटुन्य ग्रोधशृङ्गानि वाऽऽजेन पयसा|
कशेरुकमृणालकशृङ्गाटककाश्मर्यपरुषकद्राक्षासारि वाप्रपौण्डरीकानन्तोत्पलकदम्बबीजक्वाथेन वा शर्क रामधुमधुरेण शालिचूर्णम्|
जीवनीयशृतं वा क्षीरम्|
बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन पयसा समधुशर्करेण रक्तशाल्योदनं सुशीतं भोजयेत्|
शीत वीर्य्यजाङ्गलरसेन वा|
रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुञ्जीत|
सौम्याश्च मनोऽनुकूलाः कथाः||४||
रक्ते त्वतिस्रवति तत एव न्यग्रोधादिसिद्धात् क्षीरसर्पिषोऽक्षमात्रं प्राशयेत्| केवलादेव वा क्षीरसर्पिषोऽक्षमात्रं न तु न्यग्रोधादिशृङ्गसिद्धात् क्षीरसर्पिषः| पद्मादिकिञ्जल्कं च मधुशर्कराभ्यां युक्तं लेहयेत्| मधुना वा धातक्यादिचूर्णम्| मधुनैव न्यग्रोधादित्वचां शृङ्गाणां च कल्कम्| सक्षौद्रं व शशाद्यन्यतमरुधिरम्| ऋद्ध्यादिकं च पयस नीलोत्पलादीनि तण्डलाम्बुवासारसयोरन्यतरेण| पक्वो मृल्लोष्ठस्तथोक्तः| आजेन पयस गन्धप्रियङ्वादीनि| कशेरुकादीनां कषायेण माधुर्य्यसम्पादनमात्राभ्यां शर्करामधुभ्यां मिश्रेण शालिचूर्णं पाययेत्| जीवनीयौषधशृतं क्षीरं वा पाययेत्| बलातिबलादिशृतक्षीरेण मधुशर्करासंयुक्तेन सुशीतं रक्तशाल्योदनं भोजयेत्| शीतवीर्य्याणां च जाङ्गलानां रसेन वा सुशीतं रक्तशाल्योदनं भोजयेत्| शोधनवर्ज्याश्च सर्वा रक्तपित्तोक्ताः क्रियाः यथावसरं कुर्वीत|| ४||
Adhikarana shoNitasrAvaM vinA bastyAdi shUle cikitsA (5) · Śloka 5
अदृष्टशोणितां तु मधुकपयस्यासुरदारुभिः सिद्धं पयः पाययेत्|
ताम्रवल्यश्मन्तकशतावरीपयस्याभिर्वा|
विदार्य्यादिगणेन वा|
श्वदंष्ट्रास्वरसक्षीरसिद्धं वा सर्पिः|
पलाण्डुरससिद्धं वा सक्षौद्रम्||५||
यदा तु शोणितदर्शनं विनैव बस्त्यादौ शूलं केवलं भवति| गर्भिण्यास्तथा तां मधुकादिसिद्धं पयः पाययेत्| ताम्रवल्यादिसिद्धं वा पयः| विदार्य्यादिगणसिद्धं वा| श्वदंष्ट्रास्वरसक्षीराभ्यां वा सिद्धं सर्पिः पाययेत्| पलाण्डुरससिद्धं वा क्षौद्रयुक्तं सर्पिः|| ५||
Adhikarana trimAsaM yAvadasrasrutau garbhasyAsAdhyatvam (6) · Śloka 6
असम्पूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठ त्यसञ्जातसारत्वात्||६||
प्रथमान्मासादारभ्य मासत्रयं पुष्पदर्शने सम्यक् चिकित्सितोऽपि गर्भः कोष्ठे न तिष्ठत्यसञ्जातसारत्वात्| स्रवत्येवेत्यर्थः| तेन प्रथममासत्रयं पुष्पदर्शने प्रायो गर्भश्चिकित्सयापि कोष्ठे न तिष्ठति| मासत्रयादूर्ध्वमपि चतुर्थादिष्वपि मासेष्वकाठिन्यात्||६||
Adhikarana AmAnvaye puShpadarshane cikitsopakramaH (7) · Śloka 7
आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्|
तत्र रूक्षशी तानि प्रयुञ्जीत||७||
आमान्वये पुष्पदर्शने विरुद्धोपक्रमत्वाद्गर्भः कोष्ठे न तिष्ठति| आमे ह्युष्णतीक्ष्णादिका क्रिया| सा तु गर्भे विपरीता| अतो विरुद्धोपक्रमत्वम्| यत्र चतुर्थादिष्वपि मासेष्वामान्वयो नास्ति, तत्र पुष्पदर्शनेऽपि गर्भो विधारयितुं सुशक्यते| तत्र त्वामान्वये रूक्षशीतान्यौषधानि प्रयुञ्जीत|| ७||
Adhikarana tatra cikitsAvidhiH (8) · Śloka 8
तद्यथा-प्रागुपवासं ततो दुरालभामृतोशीरपर्पटक घनचन्दनातिविषाबलाकट्वङ्गधान्याकक्वाथपानम्|
तृणधान्यशालिषष्टिकपेयामशनं च मुद्गादियूषैः|
जिते त्वामे स्निग्धशीतानि पूर्ववत्||८||
तद्यथेत्यादिना तेषामेवोपयोगविशेषं दर्शयति| औषधात् पूर्वमुपवासः दुरालभादिक्वाथस्य पानम्| तृणधान्यादिपेया मुद्गादियूषैश्चाशनं प्रयुञ्जीतेति सम्बध्यते| एवमामे जिते प्रथमपुष्पदर्शनवत् स्निग्धादीन्युपयुञ्जीत|| ८||
Adhikarana AmagarbhapAte cikitsA (9) · Śloka 9
आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यतः पाययेत्|
गर्भकोष्ठविशुद्ध्यर्थमर्तिविस्मरणार्थञ्च|
अमद्यपां पाच नीयद्रव्योपहिताभिः स्नेहलवणवर्ज्याभिः सतिलाभि रुद्दालकादियवागूभिरुपाचरेद् यावन्तो मासास्तावन्त्य हानीति|
ततः प्रीणनैर्बलानुरक्षिभिरस्नेहैराहारैरादोषधातुक्लेद शुद्धेः|
आमगर्भशेषेण हि पुनः पुनरकुशलमनुषज्येत|
तस्मात् तीक्ष्णैरनवशेषयन्नुपाचरेत्|
ततः परं स्नेहपानै र्बस्तिभिराहारैश्च दीपनीयपाचनीयजीवनीयबृंहणीय मधुरवातहरैरिति||९||
आमगर्भपाते मद्यानामन्यतमं गर्भिणीं पाययेत्| प्रयोजननिर्देशस्तद्गुणमन्यत् प्रदर्शयितुम्| अमद्यपा या केनचित् कारणेन मद्यं न पिबति तां पाचनीयद्रव्यसम्मिश्राभिरस्नेहलवणाभिः सतिलाभिः तुणधान्ययवागूभिरुपाचरेत्| यावत् सङ्ख्ये मासि गर्भ पातस्तावत् सङ्ख्यान्यहानि अयं क्रमः| ततोऽनन्तरमेवादोषादिशुद्धेः प्रीणनादिगुणैराहारैरुपाचरेत्| कुत इत्याह-आमगर्भशेषेणेत्यादि| तदनु च स्नेहपानैर्बस्तिभिस्तथा दीपनीयादियुक्तैराहारैरिति|| ९||
Adhikarana garbhasyopaviShTakopashuShkakasambhavahetuH (10) · Śloka 10
यस्याः पुनर्महति जातसारे गर्भे वर्ज्यानामवर्जनात् पुष्प दर्शनं स्यादन्यद्वा योनिस्रवणम्|
तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीं प्रतिपीड्यावतिष्ठते|
ततो नाड्यां दोषैः कुल्यायामिव वहनाद्गर्भो वृद्धिमनाप्नुवन्नुपविशत्युपशुष्यति वा||१०||
महति जातसारे वर्ज्यावर्जनाद्योनिरार्त्तवमन्यद्वा किञ्चित् स्रवति| तस्या योनिस्रुतिनिमित्तं वायुः कुपितः सन् पित्तश्लेष्माणौ परिगृह्य या तु नाडी मातुराहारसारं रसं गर्भस्य वहति तां नाडीं प्रतिपीड्य तिष्ठति| ततस्तया तद्वृद्धया नाड्या कुल्ययेव तृणादिच्छन्नया केदारो गर्भो वृद्धिमप्राप्नुवन्नुपविशत्युपशुष्यति वा|| १०||
Adhikarana upaviShTakagarbhalakShaNam (11) · Śloka 11
तत्र यस्याः कादाचित्कार्त्तवपरिस्रावावल्पौ च दृश्येते सततं च गर्भः प्राप्तात् परिमाणादपरिहीयमान एव स्फुरति|
न च कुक्षिर्विवर्धते, तमुपविष्टकमित्या चक्षते||११||
तत्र द्वौ भेदौ| एको वृद्ध्यप्राप्तिः द्वितीय उपशोषः| प्रथमे कादाचित्केन स्रावेण गर्भो न परिहीयते| नापि वर्धते| स्फुरति च तमुपविष्टकमित्याचक्षत आचाऱ्य्याः|| ११||
Adhikarana upashuShkakagarbhalakShaNam (12) · Śloka 12
यदा तु प्रतिमासमार्त्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च तथा परिहीयमाणो गर्भश्चिरात् किञ्चित् स्पन्दते|
कुक्षिश्च वृद्धोऽपि परिहीयते|
तदुपशुष्ककं नागोदरं च||१२||
द्वितीये त्वतिस्रावाद्दृद्धोऽपि परिहीयते| चिरात् स्तोकं च स्पन्दते| कुक्षिश्च वृद्धोऽपि परिहीयते| तं गर्भमुपशुष्ककनागोदरशब्दाभ्यामाचक्षते|| १२||
Adhikarana upaviShTakanAgodarayoH prasavakAlanishcayaH (13) · Śloka 13
तौ तु मातुराहारतेजसाऽल्पेनाप्याय्यमानौ यदा पुष्टौ स्यातां केशदशनादियुक्तौ|
तदा वर्षगणैरपि प्रमदा प्रसूयेत एव||१३||
तौ चोपविष्टकोपशुष्ककौ मातुराहारतेजस स्वल्पेनाप्याय्यमानौ क्रमेण यद पुष्टौ स्यातां तद केशदशनादियुक्तौ बहुभिरपि वर्षैः प्रमदा प्रसूयेत्|| १३||
Adhikarana vAtikopaviShTakanAgodarayorlakShaNAni (14) · Śloka 14
तत्र वातेनोपविष्टकोपशुष्ककयोर्वायुः प्रतिहन्यते|
स शब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते|
मूत्रमुपरुध्यते|
कटीपृष्ठहृदयेषु वेदना|
जृम्भा, निद्रानाशोऽभीक्ष्णं प्रति श्यायः, शुष्ककासः, सादः, क्ष्वेडेते इव कर्णौ, तुद्येते इव शङ्खौ|
पिपीलिकाभिरिव संसृज्यते शरीरं परि कृन्तन्निव वायुर्भ्रमति कुक्षौ तम इव प्रवेश्यते|
दुःखे नान्नस्य जरणम्|
अहरहः परिहानिः|
स्फुटितविवर्ण परुषत्वक्त्वं च भवति||१४||
तत्रेत्यादिना दोषविशेषेण तयोर्लक्षणमुच्यते| तत्रापथ्यविशेषसेवया यदोपविष्टकोपशुष्ककयोर्वायोराधिक्यं भवति तदा तत्र वातहेतुकयोरुपविष्टकोपशुष्ककयोः कोष्ठचरो वायुस्ताभ्यां प्रतिहन्यते| सशब्दतादियुक्तं च सकृत् गर्भिण्युपवेश्यते| सुबोधमन्यत्|| १४||
Adhikarana paittikopaviShTakanAgodararyorlakShaNAni (15) · Śloka 15
पित्तेन ताम्रहरितमुपवेश्यते|
धूमकोऽम्लकश्छर्दिमूर्च्छा क्षिहृदयदाहः|
पीतरक्तगोमूत्राभनेत्रमूत्रनखत्वक्त्वं का ली दुर्बला नित्यशूना च नारी भवति||१५||
पित्तेनोभयोर्गर्भिण्यास्ताम्रहरितशकृदुपवेशनादि सुबोधम्| गोमूत्रवत् पीतरक्तनेत्रादित्वम्|| १५||
Adhikarana shlaiShmikopaviShTakanAgodarayorlakShaNAni (16) · Śloka 16
श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोद्वमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च||१६||
श्लेष्मणा तयोर्गर्भिण्या मधुरास्यत्वादिकं भवतीति दोषविशेषलक्षणम्|| १६||
Adhikarana upaviShTakanAgodarayoH sAmAnyA cikitsA (17) · Śloka 17
तयोर्जीवनीयबृंहणीयमधुरौषसिद्धानां सर्पिषामुपयोगः|
तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः|
तथा सम्भोजनमेतैरेव च घृतादिभिः|
सुभिक्षाया अभीक्ष्णं यानवाहनापवर्ज्जनबृंहणैरुपपादनम्||१७||
चिकित्सा तूभयोः सामान्येन जीवनीयादिशृतसर्पिरादिका| एषामुपयोगो गर्भवृद्धिकर इत्यर्थः| तथा एतैरेव सर्पिरादिभिह् सम्भोजनं सह भोजनम्| तैरेव च सुभिक्षायास्तृप्ताया गर्भिण्या यानवाहनादिभिरपवर्जनम्| उपपादनमुपस्कारः दानम्| इति सामान्येनोपविष्टकोपशुष्ककयोर्विवद्धनार्थं चिकित्सितम्|| १७||
Adhikarana vAtikopaviShTakanAgodara yoshcikitsA (18) · Śloka 18
अथ विशेषेण वाते पूर्वमेव सैन्धवोपहितं क्षीरबस्तिं दत्त्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्|
ततो विदार्य्यादिगणसाधितेन सर्पिषाऽनुवासयेत्|
निवातं च सेवेत||१८||
वातादिदोषे विशेषेण अथेत्यादिना कथयति-बस्तिदानादनुभोजनम्| ततोऽनुवासनम्| सुबोधम्|| १८||
Adhikarana paittikopaviShTakanAgodarayoshcikitsA (19) · Śloka 19
पित्ते मधुकविदारीनिर्य्यूहसिद्धं पयः पिबेत्|
तिस्रः स्थूलकुक्कुटीर्निस्तुषमाषाढकं च क्षीरोदकेनोलूख़ले संक्षुद्य तद्रसेन सर्पिषा च तित्तिरिकपिञ्जलान्यतररसं साधयित्वा पाययेदुपविष्टकविवर्धनार्थमुपशुष्ककबृंह णार्थं च|
अजासर्पिषा क्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्|
पयस्या काकोलीद्वयसुनिषण्डककल्केन पयसा च सर्पिर्विपाचयेत्|
तत्काल्यं क्षीरानुपानमुपयुञ्जीत|
आम- गर्भरसेन चाश्नीयात्|
तानेव च तत्र भृष्टान् भक्षयेत्|
जलचरमांसानि च||१९||
स्थूलाश्च ताः कुक्कुट्यस्तथोक्ताः तेन माषकुक्कुटीरसेन सर्पिषा मिश्रितेन सह तित्तिरेः कपिञ्जलस्य वा रसं साधयित्वा उपविष्टकविवर्धनार्थमुपशुष्ककबृंहणार्थञ्च पाययेदिति सम्बन्धः| जीवनीयानां यथासंस्कारं मात्रा| पयस्यादीनां चतुर्णां कल्केन तच्चतुर्गुणं सर्पिः पयसा स्नेहसमेन विपचेत्| पयस्या क्षीरविदारी| काल्यं प्रातः| तस्मिन क्षीरानुपाने प्रयुक्ते भोजनकाले आमगर्भाणां त्वचिरकालजातानां प्राणिनां रसेनावमश्नीयात्| तानेवामगर्भांस्तत्रैव रसे भृष्टान्निस्तालितान् भक्षयेत् तत्तज्जलचारिणां हंसादीनां मांसानि च||१९||
Adhikarana shlaiShmikopaviShTakanA godarayoshcikitsA (20) · Śloka 20
कफे त्वानूपौदकपिशितोपदंशामच्छसुरां त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा पिबेत्|
तिलमुद्गमाषलवणबिल्वपात्रैः|
पञ्चभिर्घृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्|
ततः प्रातः पिण्डं बिल्वमात्रं शृतशीतच्छागदुग्धनुपानं वाऽश्नीयात्|
अत्रैव वा बदर चूर्णपात्रमपि निदध्यात्||२०||
पिशितमुपदंशः पानोपायभोजनं यस्याः सुरायास्ताम्| तिलादीनां पञ्चानामेकीकृत्य चूर्णस्य पञ्चपात्रं घृतस्य पात्रेण संयोज्य निधापयेत्| स्वनुगुप्तं कृत्वैष ततः प्रयोगः| अत्रैव बदरचूर्णपात्रप्रक्षेपो द्वितीयः| पात्रं शुष्कद्रव्यस्य चतुष्षष्टिपलानि| घृतस्याष्टाविंशत्यधिकं पलशतम्||२०||
Adhikarana garbhasya sarvathA avRuddhau tatpAtanam (21) · Śloka 21
एवमवृद्धौ तीक्ष्णैर्विरेचयेदपरापातनीयैश्च पातयेत्||२१||
एवं गर्भो न वर्धते तदा गर्भिणीं तीक्ष्णैर्द्रव्यैर्विरेचयेत् अपरापातनीयैर्वा प्रयोगैर्गभं पातयेत्|| २१||
Adhikarana lInagarbhalakShaNam (22) · Śloka 22
यस्याः पुनर्वातोपसृष्टस्रोतसि लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः||२२||
लीनो नाम गर्भो यो गर्भिण्या वातोपसृष्टस्रोतसि लीनो न स्पन्दते|| २२||
Adhikarana lInagarbhacikitsA (23) · Śloka 23
तत्र श्येनोत्क्रोशगोमत्स्यगोधाशिखिकुक्कुटतित्तिरीणा मन्यतमस्य रसेन भूरिसर्पिष्केण माषयूषेण वा घृता ढ्येन रक्तशाल्योदनं भोजयेत्|
सक्तून् वा तिलमा षबिल्वशलाटुयुक्तान् पयस पाययेत् मेद्यमांसोपदंशं वा मार्द्वीकम्|
तैलेन चाभीक्ष्णमुदरवङ्क्षणोरुकटी पार्श्वपृष्ठान्यभ्यज्यात्|
मुहुर्मुहुश्चैनां हर्षयेत्|
पूर्वोक्तं चेक्षेत||२३||
तत्र लीने गर्भे श्येनादीनामन्यतमस्य रसेन बहुसर्पिष्केणाथवा माषयूषेण घृताड्येन मूलकयूषेण वा घृताढ्येन रक्तशाल्योदनं भोजयेत्| सक्तून् वा तिलादिसंयुक्तान् क्षीरेण पाययेत्| बिल्वशलाटु बालबिल्वम्| मेद्यं मेदुरम्| सुबोधम्| पूर्वोक्तं गर्भवृद्धिकरोक्तम्|| २३||
Adhikarana udAvartacikitsA (24) · Śloka 24
यस्याः पुनरुदावर्तविबन्धः स्यात्तां वातहरस्निग्धान्न पानैरुपाचरेत्|
अष्टमे तु मासे मधुकसिद्धेन तैलेनानुवासयेत्|
तदसिद्धौ वीरणशालिकुशकाशेक्षुबालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधूकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गृह्य रसं तेन प्रियालबिभीतकमज्ज तिलकल्कयुक्तेनेषल्लवणोष्णेन निरूहयेत्|
विगत विबन्धां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्||२४||
यस्या इत्यादि सुबोधम्| अष्टमे मासे त्वनुवासनं तेनानुवासनेनासिद्धौ वीरणादीनां सप्तानां मूलानां भूतीकादीनां यथासम्भवं मूलानां फलानां च क्षीरोदकाभ्यां अनुक्वाथनेन चूर्णमेलनेन रसमुद्गृह्य तेन रसेन प्रियालादिकल्कमिश्रेण ईषल्लवणेनेषदुष्णेन च निरूहयेत्| वीरणं तृणविशेषः| इक्षुबालिका करङ्कशालिरिक्षुः परिव्याधो जलवेतसः| विगतोदावर्तविबन्धां चानुवासयेत्| तेनैव मधुकसिद्धेन तैलेन|| २४||
Adhikarana udAvartepekShAyAM vyApat (25) · Śloka 25
उदावर्तो हि समुपेक्षितः सहसा सगर्भां गर्भिणीमति पातयेत्||२५||
अवश्यं चोदावर्त्ते चिकित्सां कुर्यात्| यत् उदावर्त उपेक्षितः सहस शीघ्रमेव सगर्भां गर्भिणीं हन्यात्|| २५||
Adhikarana AmagarbhasrAvahetavaH (26) · Śloka 26
यस्याः पुनरतिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवा यादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्यप त्ययोः कर्मणा बन्धनान्मुच्यते गर्भः फलमिव वृन्ता त्समुक्तबन्धनो गर्भशय्यामतिक्रम्य कृतप्लीहान्त्रवि वरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति|
ततः कोष्ठ संक्षोभाद्वायुरपानो मूढः कुक्षिबस्तिपार्श्वोदरयोनिशूला नाहविण्मूत्रसङ्गानापाद्य गर्भं च्यावयति तरुणं शोणित भावेन|
सोऽभिहितः प्राक्||२६||
यस्या इत्यादि सुबोधम्| गर्भस्य बन्धनं यत्र तत्र मातुरनुबन्धो भवति परिपोषार्थम्| वृन्ताद्येन शाखायां निबध्यते फलम्| स व्यापन्नो गर्भ आमः सन् शोणितभावेनापि प्रसूयते| तत्र च विधेयमुक्तम्|| २६||
Adhikarana mRutagarbhAyA lakShaNam (27) · Śloka 27
विवृद्धे तु गर्भे स्तब्धं स्तिमितं शीतमश्मगर्भमिवोदर माभाति|
शूलमधिकमुपजायते|
न च स्पन्दते गर्भो नाऽऽव्यः प्रादुर्भवन्ति|
न स्रवति योनिरक्षिणी चास्याः स्रंस्येते|
तथा भृशमरतिपरीता व्यथतेऽन्यथा चेष्टते ताम्यति भ्राम्यति रोदित्यहर्निशम्|
न स्वपिति|
पूत्यु च्छ्वासा कृच्छ्राच्छ्वसित्यतिकष्टं प्राणिति|
जक्षिती त्येवंविधां स्त्रियं मृतगर्भां विद्यात्||२७||
यदा तु वृद्धो व्यापद्यते तदा गर्भिण्याः स्तब्धोदरत्वादिकं करोति| आव्यो गर्भप्रसववेदनाः| अक्ष्णोः स्रंसो बन्धः भ्रंशः| पूतिरुच्छ्वासो यस्याः सा तथोक्ता| अतिकष्टं प्राणिति| कथमपि चेष्टासु प्रभवति| जीवति वा कष्टं च जक्षितिभक्षयति| स्वपिति वा इत्येवंविधलक्षणयुक्तां स्त्रियं मृतगर्भां विद्यात्||२७||
Adhikarana mUDhagarbhalakShaNam (28) · Śloka 28
तं तु गर्भं कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेनेव वायुना पीडितं मोहितं च मूढगर्भमित्याहुः|
विगुणानिलप्रतिपीडनवैचित्र्यादसङ्ख्यगतिं च||२८||
तं गर्भं कदाचिद्वातवशादसम्यगनार्जवेनापत्यपथं योनिमार्गं प्रवृत्तं वायुना पीडितं मोहितमस्पन्दं मूढगर्भमित्याहुराचार्य्याः| वायुपीडनवैचित्र्याच्च तस्य गर्भस्यासङ्ख्यगतित्वम्|| २८||
Adhikarana mUDhagarbhagatayaH sthAnAni ca (29) · Śloka 29
समासतस्तु त्रिविधा गतिरुर्ध्वा, तिर्य्यङ्, न्युब्जा च|
संस्थानानि पुनरष्टौ|
तान्यत्रैवोत्तरत्र वक्ष्यन्ते||२९||
संक्षेपेण त्रिविधा गतिरूर्ध्वादिभेदेन| ऊर्ध्वा यस्यामुत्थितो गर्भ आयाति| तिरश्चीना गर्भिणीपार्श्वयोः कृतपादशिरसः| न्युब्जा अधश्शिरस ऊर्ध्वपादस्य| तस्य च गर्भस्याष्टौ संस्थानानि| तानि च वक्ष्यन्ते- १. सक्थिभ्यामागमनमेकम्| २. एकेन सक्थ्ना द्वितीयम्| ३. स्फिङ्मूलेन तृतीयम्| ४. तिर्य्यक् चतुर्थम्| ५. पार्श्ववृत्तशिरसः पञ्चमम्| ६. बाहुद्वयेन षष्ठम्| ७. वक्रेण पृष्ठेन पाणिपादशिरसा योनिमुखागमनं सप्तमम्| ८. एकेन पादेन योनिं द्वितीयेन गुदमित्यष्टमम्|| २९||
Adhikarana asAdhyamUDhagarbhAlakShaNam (30) · Śloka 30
तेषु सर्वेष्वपि विपरीतेन्द्रियार्थामाक्षेपयोनिभ्रंशसंवरण मक्कलश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्गारां च वर्ज येत्||३०||
तेषु सर्वेष्वपि मूढगर्भेषु विपरीतेन्द्रियार्थत्वादियुक्तां गर्भिणीं वर्जयेत्| न चिकित्सेदित्यर्थः|| ३०||
Adhikarana mRutagarbhashalyopekShAyAM vyApat (31) · Śloka 31
न तु क्षणमप्युपेक्षेत गर्भशल्यम्|
तद्विनिरुच्छवासी कृत्याऽऽशु जननीं हन्यात्||३१||
शल्यभूतं गर्भं मृतं सन्तं क्षणमपि भिषङ्नोपेक्षेत| तद्धि गर्भशल्यं जनन्या उच्छ्वासरोधं कृत्व तां हन्यात्|| ३१||
Adhikarana sacetanamUDhagarbhasya chedane vyApattatrAnuShTheya~jca (32) · Śloka 32
सचेतनश्च गर्भः शस्त्रेण विदार्य्यमाणो विषयमङ्गानि विक्षिपेत्|
तस्मात् तत्सङ्गे सूत्यः प्रयतेरन् पुर्वोक्तानि च मन्त्रौषधानि प्रयुञ्जीत||३२||
अविज्ञानाच्च सचेतनोऽपि गर्भः शस्त्रेण विदार्य्यमाणो विषमं कृत्वाङ्गानि विक्षिपन् निरुच्छ्वासीकृत्य जननीं हन्यादिति सम्बन्धः| तस्मात्तस्य जिवतो गर्भस्य सङ्गे अप्रसवे सूत्यो या अनुभूतानेकप्रसवास्ताः| प्रसवाय नानाविधैरुपायैः प्रयतेरन्|| ३२||
Adhikarana garbhasa~ggasya traividhyam (33) · Śloka 33
त्रिविधस्तु सङ्गो भवति|
शिरस्यंसे जघने वा|३३|
तस्य हि सङ्गस्त्रिविधो भवति||३३||
Adhikarana mUDhagarbhanirharaNantatra matAntarANi (33) · Śloka 33
मूढगर्भस्य तु जरायुपातनसामान्यं कर्मेत्येके|
मन्त्रादिक र्माथर्ववेदविहितमित्येके|
दृष्टकर्मणा शल्यहर्त्रा शल्या हरणमित्येके||३३||
यः पुनर्मूढगर्भस्तस्यैके आचार्य्याः अचेतनसामान्याज्जरायुपातनसदृशं कर्मेति कथयन्ति| अन्ये मन्त्रादिकं दैवेहेतोः| केचिदाऽऽहरणमाशुकारित्वात्प्रत्यक्षोपायत्वाच्च||३३||
Adhikarana garbhashastrakarmaNaH kaShTatamatvam (34) · Śloka 34
न त्वतः कष्टतममस्ति शस्त्रकर्म|
यतो योनियकृत्प्ली हान्त्रगर्भाशयादीनां मध्ये ताननुपहिंसताऽस्पर्शवता शस्त्र मवचार्य्यमुत्कर्षणव्यावर्तनोत्कर्तनच्छेदनभेदनपीडन र्जूकरणानि चैकेन पाणिना कार्य्याणि||३४||
अतो गर्भशस्त्रकर्मणोऽन्यच्छस्त्रकर्म कष्टतमं नास्ति| यतो योन्यादीनि रक्ष्याणि स्पर्शनेनैव शस्त्रमवचार्य्यमदृष्टिगोचरत्वात्| एकेनैव पाणिनोत्कर्षणादीनि कार्य्याणीत्यतिकष्टम्|| ३४||
Adhikarana mUDhagarbhe prANasaMshayerAshu shastramavacAryam (35) · Śloka 35
तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहित स्तमुपक्रमेत्|
अक्रियायां ध्रुवं मरणम्|
उपक्रमे संशयः|
तथोदराऽश्मरीप्रभृतीनपि||३५||
तस्माद्भिषगीश्वरमापृच्छ्य यथा मृतायामयशसा योगो न भवतीति| परं च यत्नमास्थाय कृताभ्यासैश्च भिषग्भिः शस्त्रेणोपक्रमेत| यस्मादनाहरणे गर्भस्य गर्भिण्याश्च ध्रुवमवश्यं मृत्युर्भवति| उपक्रमे तु संशयः| प्रसङ्गादुदरादीनामप्येवं विज्ञेयम्||३५||
Adhikarana mUDhagarbhAharaNavidhiH (36) · Śloka 36
अथोत्तानाया व्याभुग्नसक्थ्या वस्त्रचुम्बलान्नमितकटि प्रदेशायाश्च धन्वनागवृन्तिकाशाल्मलीपिच्छाघृतैरभ्यज्य हस्तं योनिं च गर्भमाहरेत्||३६||
व्याभुग्ने सङ्कुचिते सक्थिनी| वस्त्रचुम्बलं पट्टमयः कोमलपिण्डः| नागवृन्तिका सल्लकी स्वनामिका| वा नागमृत्तिकेति पाठः| हस्तं भिषजः| इत्युत्तानाया गर्भमाहरेत्|| ३६||
Adhikarana tatra prakArAntaranirdeshaH (37) · Śloka 37
तत्र सक्थिभ्यामागतस्यानुलोममाञ्छनमेव|
एकसक्थि प्रपन्नस्येतरं सक्थिं प्रसार्य्य|
स्फिग्देशागतस्य स्फिग्देशं प्रतिषिध्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्य्य|
तिर्य्यगागतस्य परिघस्येवापरार्धमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जव मानीय|
पार्श्वापवृत्तशिरसोंऽसं प्रतिपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीय|
बाहुद्वयप्रपन्नस्योर्ध्वमुत्पीड्या ऽसौ शिरोमूलमानीय निर्हरेत्||३७||
तत्रेत्यादि आच्छानमात्मदिक्कर्षणम्| सक्थिनी प्रसार्य्य तन्निर्हरेदिति सम्बन्धः| स्फिग्देशं योनिमुखादन्तैर्नीत्वा पादौ योनिमुखमानीय| सक्थिनी प्रसार्य गर्भस्य| परिघो दण्डाकार आयुधो योनिमध्ये हि तत्परिवर्तने छिनत्तीति| पूर्वार्धं शिरोभागः| पार्श्वे वक्रं शिरो यस्य| तस्यां सम्प्रतिपीड्य शिर अपत्यपथमानीय निर्हरेत्|| ३७||
Adhikarana shastradAraNArhamUDhagarbhalakShaNam (38) · Śloka 38
यस्त्वाभुग्नमध्यः पाणिपादशिरोभिर्योनिं प्रतिपद्यते|
यश्चाभुग्न एकेन पादेन योनिं द्वितीयेन पायुम्|
तौ मूढौ हस्तेनाहर्तुमशक्याविति शस्त्रमवचारयेत्||३८||
यौ वा ताभ्यां संस्थानाभ्यां मूढगर्भौ तौ द्वावेव हस्तेनाहर्त्तुमशक्यत्वात् शस्त्रदारणमर्हतः|| ३८||
Adhikarana tatra shastrAvadAraNavidhiH (39) · Śloka 39
अथ स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलिशस्त्रेण वा (शिरो) विदार्य्य शिराः कपालान्याहृत्य गर्भशङ्कुना गृहीत्वा चिबुके तालुन्युरसि कक्ष्यायां वाऽपहरेत्|
अभिन्नशिरसं चाक्षिकूटे गण्डे वा|
तथासंसक्तस्यांसदेशे बाहुं छित्वा|
दृतेरिवाध्मातस्य वातपूर्णमुदरमवदार्य्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्|
जघनसक्तस्य जघनकपालानि दारयित्वेति||३९||
अथेत्यादि सुबोधम्| गर्भशङ्कुः पूर्वोक्तं वक्रवक्त्रं यन्त्रम्| गर्भस्य हि कक्ष्याद्यासज्जने बडिशवत्| यस्य तु युक्तिवशात् कपालान्यविदारितानि तस्याक्षिकूटे गण्डे वा शङ्क्वा बडिशवत् सक्थिः|| ३९||
Adhikarana (40) · Śloka 40
अपि च- यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः|
तत्तच्छित्वा हरेत्सम्यग्रक्षेत्रारीं च यत्नतः||४०||
अपि चेति समुच्चये| यदित्यादि सुबोधम्|| ४०||
Adhikarana vyapagatagarbhashalyAyA upacArAH (41) · Śloka 41
अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक्|
एवं निर्हृतशल्यान्तु सिञ्चेदुष्णेन वारिणा|
दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः|
योनिर्मृदुर्भवत्तेन शूलं चास्याः प्रशाम्यति|
दीप्यकातिविषारास्नाहिंग्वेलापञ्चकोलकात्|
चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्तः|
कटुकातिविषापाठाशाकत्वघिङ्गुतैजनीः|
तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च|
त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्|
सायं पिबेदरिष्टं च तथा सुकृतमासवम्|
शिरीषककुभक्वाथपिचून्योनौ च निक्षिपेत्|
उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्|
पयो वातहरैः सिद्धं दशाहं भोजने हितम्|
रसो दशाहं च परं लघुपथ्याल्पभोजना|
स्नेहाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत्|
ऊर्ध्वञ्चतुर्भ्यो मासेभ्यः स क्रमेण सुखानि च||४१||
मृतगर्भ आहते याऽवशिष्टऽपरा स पूर्वोक्ता| दीप्यकादीनां समानां चूर्णं स्नेहेन घृताद्यन्यतमेन यथायोग्यं पाययेत्| तेषामेव कल्कं व| कल्को जलपिष्टद्रव्यम्| दीप्यकादिवत् कटुकादीनि| एवमेवौषधेन त्रिरात्रमासीत दोषस्रावाय वेदनोपशमाय च| दोषो न वातादिः| अपितु रक्तपिच्छादिः| त्र्यहादूर्ध्वं स्नेहमेव सप्तरात्रं पिबेत्| औषधप्रतिषेधार्थमेवकारः| एवं सायमरिष्टं प्रातः स्नेहे पीते| उपद्रवा ज्वरादयो व्याधयः| एवं त्र्यहमौषधम्| स्नेहः सप्तरात्रम्| दशाहं पयः| दशाहं मांसरस इति क्रमः| ततोऽनन्तरं स्नेहाभ्यङ्गपरा सती वातव्याधिनिर्दिष्टान् बलातैलादिकान् भजेत्| आदिशब्देन तत्स्वरूपाणामन्येषां ग्रहणम्| ततश्चतुर्थमासान्तं यावल्लघुभोजनत्वादियुक्ता, पञ्चमान्मासादारभ्य क्रमेण न सहस यथेष्टानि सुखानि भजेत्|| ४१||
Adhikarana balAtailam (42) · Śloka 42
अथ बलातैलमुपदेक्ष्यामः|
बलामूलाकषायस्य भागाः षट्|
तावन्त एव पयसो यवकोलकुलत्थदशमूलक षायस्य भागो भागश्चतुर्दशस्तैलस्य|
तत्सर्वमैकध्यं कृत्व श्लक्ष्णपिष्टानि चावाप्य काकोलीक्षीरकाकोली जीवकर्षभकमुद्गपर्णीमाषपर्णीमेदाक्षीरशुक्लामधु कदेवदारुमञ्जिष्ठाचन्दनशारिवातगरकुष्ठशतावर्य्यश्व गन्धापुनर्नवाशतपुष्पावरापत्ररससरलशैलेयैलावचा ऽगरुकालानुसारिसैन्धवानि शनैर्मृद्वग्निना साधयित्वा सुभाजनेऽनुगुप्तं निदध्यात्|
एष भगवतो धन्वन्तरे रभिमतस्तैलराजो राज्ञां राजमात्राणां सूतिकानां कृशानां शिशूनामतीतवयसां सुकुमाराणां शूलिनां महाग्रह गृहीतानां दीर्घरोगक्षपितवपुषां मर्मविद्धपतिताभिहत भग्नविश्लिष्टदेहानां दैवोपघातातभिशप्तमनोज्वरपरी तानां पाननावनाभ्यङ्गबस्तिषु प्रयोज्यः|
तेन बल पौरुषस्मृतिमतिमेधाग्निवीर्य्यौजांसि विवर्धन्ते|
पक्षा घाताक्षेपकार्द्दितादिविविधवातविकारगुल्महिक्काश्वास कासा निवर्तन्ते|
अहरहश्चोपयुज्यमाने षण्मासादन्त्र वृद्धिः प्रशाम्यति च|
वन्ध्या च पुत्रं गुणवन्तमिच्छया लभत इति||४२||
स्नेहान् भजेदित्युक्तिप्रसङ्गेन बलातैलमेकमुच्यते| द्वितीयं तु बलाशतं छिन्नरुहापादमित्यादिशब्दयुक्तं वक्ष्यते| अथेति मङ्गलार्थः| बलामूलक्वाथस्य षड् भागाः| क्षीरस्य षडेवं द्वादश| यवादीनां त्रयाणां चतुर्थस्य दशमूलस्य चैकीकृत्य क्वाथस्यैको भागः| एवं त्रयोदश भागाः क्वाथस्य| चतुर्दशो भागस्तैलस्य| तैलाच्चतुर्थभागेनावापनम्| क्वाथ्यद्रव्याणां जलात् षोडशांशं मानम्| क्वाथद्रव्याच्चतुर्गुणः क्वाथशेषः| दशमूलसमुदायस्य यवाद्यन्यतमसमत्वम्| काकोल्यादीनां परस्परसमत्वम्| क्षीरशुक्ला क्षीरकाकोली| पत्रं गन्धपत्रम्| रसो बोलः| कालानुसार्य्यमुशीरम्| एवं द्वात्रिंशदावापनद्रव्याणि|| सुबोधम्|| ४२||
Adhikarana mRutagarbhiNyA jIvadgarbhaniShkAsanam (43) · Śloka 43
भवन्ति चात्र- बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि|
जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्||४३||
भवन्ति चात्रेति तन्त्ररीतिः| गर्भस्य जन्मकाले जीवतो यदि माता विपन्ना स्यात्ततः कुक्षिप्रस्पन्दनेन जीवन्तं गर्भं विदित्वा ततो बस्तिद्वारे विपाट्य तमुद्धरेत्|| ४३||
Adhikarana garbhasrAve mAsAnusAraM garbhasthA- pakAH yogAH (44) · Śloka 44
मधुकं शाकबीजं च पयस्या सुरदारु च|
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी|
वृक्षादनी पयस्या च लता चोत्पलशारिवा|
अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका|
बृहतीद्वयकाश्मर्य्यक्षीरिशृङ्गत्वचो घृतम्|
पृश्निपर्णीबलाशिग्रुः श्वदंष्ट्रामधुपर्णिका|
शृङ्गाटकं बिसं द्राक्षा कशेरुमधुकं बला|
सप्तैतान् पयस योगानर्धश्लोकसमापनान्|
क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत्||४४||
मधुकादीनि चत्वारि प्रथमे मासे गर्भं स्रवति योजयेद्यथायोग्यकल्पनया अश्मन्तकादीनि द्वितीये| अश्मन्तको भालुकपर्णः| ताम्रवल्ली रामतरुणी मञ्जिष्ठा वा| वृक्षादन्यादीनि पञ्च तृतीये| वृक्षादनी द्रुमव्याधिः| सैव वन्दाकः| लता प्रियङ्गुः| अनन्तादीनि पञ्च चतुर्थे मासि योजयेत्| अनन्ता दूर्वा| पद्मा पद्मचारिणी| घृतं यथोपयोगम्| क्षीरिवृक्षाणां शृङ्गत्वचो यथालाभं पञ्चमे| शृङ्गमङ्कुरम्| पृश्निपर्ण्यादीनि षड् षष्ठे| श्वदंष्ट्रा गोक्षुरकः| मधुपर्णिका जीवन्ती| शृङ्गाटकादीनि सप्तमे|| ४४||
Adhikarana aShTamamAsAtprabhRutigarbhasyApyAyanAyogAH (45-4) · Śloka 4
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धकात्|
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे|
नवमे सारिवानन्तापयस्यामधुयष्टिभिः|
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया|
अथवा यष्टिमधुकनागरामरदारुभिः||४५||
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने गर्भ व्यापन्नाम चतुर्थोऽध्यायः||४||
कपित्थादीनां षण्णां मूलैः शृतं क्षीरमष्टमे| शारिवादिचतुष्टयेन नवमे| पयस्यया दशमे| अथवा यष्टिमधुकादित्रयेण दशमे| सर्वं बृंहणमामान्वयं विना ज्ञेयम्|| ४५|| इति श्रीमन्महामहोपाध्यायेन्दुविरचिताया मष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां शरीरस्थाने चतुर्थोऽध्यायः