Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. garbhavyāpadaḥ

Adhikarana aShTA~ggasaMgraha-shArIrasthAne-caturtho~adhyAyaH atha garbhavyApannAma caturtho~adhyAyaH pratij~jA (1) · Śloka 1

अथातो गर्भव्यापदं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

Adhikarana garbhiNyAH sashUle puShpadarshane cikitsAkramaH (2) · Śloka 2

स्त्री चेदापन्नगर्भा परिहार्य्याण्यासेवेत| ततश्च यस्याः बस्तिपार्श्वश्रोणियोनिमुखेषु शूलं पुष्पदर्शनं च स्यात् तां मृदुसुखशिशिरास्तरणशयनस्थामीषदवनतशिरसं शीतप्रदेहपरिषेकादिभिरुपाचरेत्||२||

🔊 Audio coming soon

Adhikarana cikitsAvisheShAH (3) · Śloka 3

तद्यथा-सहस्रधौतेन सर्पिषाऽधोनाभेः सर्वतः प्रदिह्यात्| मधुकसिद्धसर्पिषा सुशीतेन पिचुमाप्लाव्य योनिसमीपे स्थापयेत्| गव्येन पयसा मधुकाम्बुना न्यग्रोधादिकषायेण व परिषेचयेत्| परिपीततत्स्वरसानि च तैलानि योनौ निधापयेत्| तच्छृङ्गसिद्धस्य वा क्षीरसर्पिषः पिचुम्||३||

🔊 Audio coming soon

Adhikarana garbhiNyAH raktAtisrAve cikitsA (4) · Śloka 4

अतिस्रवति तु रक्ते तत एव अक्षमात्रं प्राशयेत्| केव लादेव वा क्षीरसर्पिषः| पद्मोत्पलकुमुदकिञ्जल्कं च समधुशर्करं लेहयेत्| धातकीगैरिकिसर्जरसाञ्जनचूर्णं वा मधुना| न्यग्रोधा दित्वक्प्रवालकल्कं वा| शशैणहरिणरुधिरं वा सक्षौद्रं पाययेत्| ऋद्धिविदारीजीवन्तीर्वा पयसा| नीलोत्पल सितापक्वलोष्ठचन्दनादि वा| तण्डुलाम्बुवासारसान्य तरेण| गन्धप्रियङ्गुसितोत्पलशालूकोदुम्बरशलाटुन्य ग्रोधशृङ्गानि वाऽऽजेन पयसा| कशेरुकमृणालकशृङ्गाटककाश्मर्यपरुषकद्राक्षासारि वाप्रपौण्डरीकानन्तोत्पलकदम्बबीजक्वाथेन वा शर्क रामधुमधुरेण शालिचूर्णम्| जीवनीयशृतं वा क्षीरम्| बलातिबलाशालिषष्टिकेक्षुमूलकाकोलीशृतेन पयसा समधुशर्करेण रक्तशाल्योदनं सुशीतं भोजयेत्| शीत वीर्य्यजाङ्गलरसेन वा| रक्तपित्तक्रियाश्च शोधनवर्ज्याः प्रयुञ्जीत| सौम्याश्च मनोऽनुकूलाः कथाः||४||

🔊 Audio coming soon

Adhikarana shoNitasrAvaM vinA bastyAdi shUle cikitsA (5) · Śloka 5

अदृष्टशोणितां तु मधुकपयस्यासुरदारुभिः सिद्धं पयः पाययेत्| ताम्रवल्यश्मन्तकशतावरीपयस्याभिर्वा| विदार्य्यादिगणेन वा| श्वदंष्ट्रास्वरसक्षीरसिद्धं वा सर्पिः| पलाण्डुरससिद्धं वा सक्षौद्रम्||५||

🔊 Audio coming soon

Adhikarana trimAsaM yAvadasrasrutau garbhasyAsAdhyatvam (6) · Śloka 6

असम्पूर्णत्रिमासायास्तु पुष्पदर्शने गर्भः प्रायो न तिष्ठ त्यसञ्जातसारत्वात्||६||

🔊 Audio coming soon

Adhikarana AmAnvaye puShpadarshane cikitsopakramaH (7) · Śloka 7

आमान्वये चोर्ध्वमपि विरुद्धोपक्रमत्वात्| तत्र रूक्षशी तानि प्रयुञ्जीत||७||

🔊 Audio coming soon

Adhikarana tatra cikitsAvidhiH (8) · Śloka 8

तद्यथा-प्रागुपवासं ततो दुरालभामृतोशीरपर्पटक घनचन्दनातिविषाबलाकट्वङ्गधान्याकक्वाथपानम्| तृणधान्यशालिषष्टिकपेयामशनं च मुद्गादियूषैः| जिते त्वामे स्निग्धशीतानि पूर्ववत्||८||

🔊 Audio coming soon

Adhikarana AmagarbhapAte cikitsA (9) · Śloka 9

आमगर्भे तु पतिते मद्यानामन्यतमं सामर्थ्यतः पाययेत्| गर्भकोष्ठविशुद्ध्यर्थमर्तिविस्मरणार्थञ्च| अमद्यपां पाच नीयद्रव्योपहिताभिः स्नेहलवणवर्ज्याभिः सतिलाभि रुद्दालकादियवागूभिरुपाचरेद् यावन्तो मासास्तावन्त्य हानीति| ततः प्रीणनैर्बलानुरक्षिभिरस्नेहैराहारैरादोषधातुक्लेद शुद्धेः| आमगर्भशेषेण हि पुनः पुनरकुशलमनुषज्येत| तस्मात् तीक्ष्णैरनवशेषयन्नुपाचरेत्| ततः परं स्नेहपानै र्बस्तिभिराहारैश्च दीपनीयपाचनीयजीवनीयबृंहणीय मधुरवातहरैरिति||९||

🔊 Audio coming soon

Adhikarana garbhasyopaviShTakopashuShkakasambhavahetuH (10) · Śloka 10

यस्याः पुनर्महति जातसारे गर्भे वर्ज्यानामवर्जनात् पुष्प दर्शनं स्यादन्यद्वा योनिस्रवणम्| तस्यास्तन्निमित्तं वायुः प्रकुपितः पित्तश्लेष्माणौ परिगृह्य गर्भस्य रसवहां नाडीं प्रतिपीड्यावतिष्ठते| ततो नाड्यां दोषैः कुल्यायामिव वहनाद्गर्भो वृद्धिमनाप्नुवन्नुपविशत्युपशुष्यति वा||१०||

🔊 Audio coming soon

Adhikarana upaviShTakagarbhalakShaNam (11) · Śloka 11

तत्र यस्याः कादाचित्कार्त्तवपरिस्रावावल्पौ च दृश्येते सततं च गर्भः प्राप्तात् परिमाणादपरिहीयमान एव स्फुरति| न च कुक्षिर्विवर्धते, तमुपविष्टकमित्या चक्षते||११||

🔊 Audio coming soon

Adhikarana upashuShkakagarbhalakShaNam (12) · Śloka 12

यदा तु प्रतिमासमार्त्तवं प्रत्यहं वा परिस्रवणं नात्यल्पं च तथा परिहीयमाणो गर्भश्चिरात् किञ्चित् स्पन्दते| कुक्षिश्च वृद्धोऽपि परिहीयते| तदुपशुष्ककं नागोदरं च||१२||

🔊 Audio coming soon

Adhikarana upaviShTakanAgodarayoH prasavakAlanishcayaH (13) · Śloka 13

तौ तु मातुराहारतेजसाऽल्पेनाप्याय्यमानौ यदा पुष्टौ स्यातां केशदशनादियुक्तौ| तदा वर्षगणैरपि प्रमदा प्रसूयेत एव||१३||

🔊 Audio coming soon

Adhikarana vAtikopaviShTakanAgodarayorlakShaNAni (14) · Śloka 14

तत्र वातेनोपविष्टकोपशुष्ककयोर्वायुः प्रतिहन्यते| स शब्दं फेनिलं विच्छिन्नं शकृदुपवेश्यते| मूत्रमुपरुध्यते| कटीपृष्ठहृदयेषु वेदना| जृम्भा, निद्रानाशोऽभीक्ष्णं प्रति श्यायः, शुष्ककासः, सादः, क्ष्वेडेते इव कर्णौ, तुद्येते इव शङ्खौ| पिपीलिकाभिरिव संसृज्यते शरीरं परि कृन्तन्निव वायुर्भ्रमति कुक्षौ तम इव प्रवेश्यते| दुःखे नान्नस्य जरणम्| अहरहः परिहानिः| स्फुटितविवर्ण परुषत्वक्त्वं च भवति||१४||

🔊 Audio coming soon

Adhikarana paittikopaviShTakanAgodararyorlakShaNAni (15) · Śloka 15

पित्तेन ताम्रहरितमुपवेश्यते| धूमकोऽम्लकश्छर्दिमूर्च्छा क्षिहृदयदाहः| पीतरक्तगोमूत्राभनेत्रमूत्रनखत्वक्त्वं का ली दुर्बला नित्यशूना च नारी भवति||१५||

🔊 Audio coming soon

Adhikarana shlaiShmikopaviShTakanAgodarayorlakShaNAni (16) · Śloka 16

श्लेष्मणा मधुरास्यत्वमुत्क्लेशः श्लेष्मोद्वमनं भक्तद्वेषः श्वेतहस्तपादनेत्रता कासः श्वासश्च||१६||

🔊 Audio coming soon

Adhikarana upaviShTakanAgodarayoH sAmAnyA cikitsA (17) · Śloka 17

तयोर्जीवनीयबृंहणीयमधुरौषसिद्धानां सर्पिषामुपयोगः| तथा पयसां रसानामामगर्भाणां च गर्भवृद्धिकरः| तथा सम्भोजनमेतैरेव च घृतादिभिः| सुभिक्षाया अभीक्ष्णं यानवाहनापवर्ज्जनबृंहणैरुपपादनम्||१७||

🔊 Audio coming soon

Adhikarana vAtikopaviShTakanAgodara yoshcikitsA (18) · Śloka 18

अथ विशेषेण वाते पूर्वमेव सैन्धवोपहितं क्षीरबस्तिं दत्त्वा शीतोदकस्नातां मृदु शाल्योदनं भोजयेत्| ततो विदार्य्यादिगणसाधितेन सर्पिषाऽनुवासयेत्| निवातं च सेवेत||१८||

🔊 Audio coming soon

Adhikarana paittikopaviShTakanAgodarayoshcikitsA (19) · Śloka 19

पित्ते मधुकविदारीनिर्य्यूहसिद्धं पयः पिबेत्| तिस्रः स्थूलकुक्कुटीर्निस्तुषमाषाढकं च क्षीरोदकेनोलूख़ले संक्षुद्य तद्रसेन सर्पिषा च तित्तिरिकपिञ्जलान्यतररसं साधयित्वा पाययेदुपविष्टकविवर्धनार्थमुपशुष्ककबृंह णार्थं च| अजासर्पिषा क्षीरेण जीवनीयैश्च संस्कृतां यवागूं पिबेत्| पयस्या काकोलीद्वयसुनिषण्डककल्केन पयसा च सर्पिर्विपाचयेत्| तत्काल्यं क्षीरानुपानमुपयुञ्जीत| आम- गर्भरसेन चाश्नीयात्| तानेव च तत्र भृष्टान् भक्षयेत्| जलचरमांसानि च||१९||

🔊 Audio coming soon

Adhikarana shlaiShmikopaviShTakanA godarayoshcikitsA (20) · Śloka 20

कफे त्वानूपौदकपिशितोपदंशामच्छसुरां त्रिरात्रं पञ्चरात्रं सप्तरात्रं वा पिबेत्| तिलमुद्गमाषलवणबिल्वपात्रैः| पञ्चभिर्घृतपात्रं संयोज्य स्वनुगुप्तं निधापयेत्| ततः प्रातः पिण्डं बिल्वमात्रं शृतशीतच्छागदुग्धनुपानं वाऽश्नीयात्| अत्रैव वा बदर चूर्णपात्रमपि निदध्यात्||२०||

🔊 Audio coming soon

Adhikarana garbhasya sarvathA avRuddhau tatpAtanam (21) · Śloka 21

एवमवृद्धौ तीक्ष्णैर्विरेचयेदपरापातनीयैश्च पातयेत्||२१||

🔊 Audio coming soon

Adhikarana lInagarbhalakShaNam (22) · Śloka 22

यस्याः पुनर्वातोपसृष्टस्रोतसि लीनो गर्भः प्रसुप्तो न स्पन्दते तं लीनमित्याहुः||२२||

🔊 Audio coming soon

Adhikarana lInagarbhacikitsA (23) · Śloka 23

तत्र श्येनोत्क्रोशगोमत्स्यगोधाशिखिकुक्कुटतित्तिरीणा मन्यतमस्य रसेन भूरिसर्पिष्केण माषयूषेण वा घृता ढ्येन रक्तशाल्योदनं भोजयेत्| सक्तून् वा तिलमा षबिल्वशलाटुयुक्तान् पयस पाययेत् मेद्यमांसोपदंशं वा मार्द्वीकम्| तैलेन चाभीक्ष्णमुदरवङ्क्षणोरुकटी पार्श्वपृष्ठान्यभ्यज्यात्| मुहुर्मुहुश्चैनां हर्षयेत्| पूर्वोक्तं चेक्षेत||२३||

🔊 Audio coming soon

Adhikarana udAvartacikitsA (24) · Śloka 24

यस्याः पुनरुदावर्तविबन्धः स्यात्तां वातहरस्निग्धान्न पानैरुपाचरेत्| अष्टमे तु मासे मधुकसिद्धेन तैलेनानुवासयेत्| तदसिद्धौ वीरणशालिकुशकाशेक्षुबालिकावेतसपरिव्याधमूलानां भूतीकानन्ताकाश्मर्यपरूषकमधूकमधुकमृद्वीकानां च पयसाऽर्धोदकेनोद्गृह्य रसं तेन प्रियालबिभीतकमज्ज तिलकल्कयुक्तेनेषल्लवणोष्णेन निरूहयेत्| विगत विबन्धां च स्नाताशितां सायं तेनैव तैलेनानुवासयेत्||२४||

🔊 Audio coming soon

Adhikarana udAvartepekShAyAM vyApat (25) · Śloka 25

उदावर्तो हि समुपेक्षितः सहसा सगर्भां गर्भिणीमति पातयेत्||२५||

🔊 Audio coming soon

Adhikarana AmagarbhasrAvahetavaH (26) · Śloka 26

यस्याः पुनरतिमात्रदोषोपचयाद्यथोक्तैर्वा व्यवा यादिभिरन्यैर्वा व्याधिभिः पूर्वोपचितेन वा जनन्यप त्ययोः कर्मणा बन्धनान्मुच्यते गर्भः फलमिव वृन्ता त्समुक्तबन्धनो गर्भशय्यामतिक्रम्य कृतप्लीहान्त्रवि वरैरवस्रंसमानः कोष्ठसंक्षोभमापादयति| ततः कोष्ठ संक्षोभाद्वायुरपानो मूढः कुक्षिबस्तिपार्श्वोदरयोनिशूला नाहविण्मूत्रसङ्गानापाद्य गर्भं च्यावयति तरुणं शोणित भावेन| सोऽभिहितः प्राक्||२६||

🔊 Audio coming soon

Adhikarana mRutagarbhAyA lakShaNam (27) · Śloka 27

विवृद्धे तु गर्भे स्तब्धं स्तिमितं शीतमश्मगर्भमिवोदर माभाति| शूलमधिकमुपजायते| न च स्पन्दते गर्भो नाऽऽव्यः प्रादुर्भवन्ति| न स्रवति योनिरक्षिणी चास्याः स्रंस्येते| तथा भृशमरतिपरीता व्यथतेऽन्यथा चेष्टते ताम्यति भ्राम्यति रोदित्यहर्निशम्| न स्वपिति| पूत्यु च्छ्वासा कृच्छ्राच्छ्वसित्यतिकष्टं प्राणिति| जक्षिती त्येवंविधां स्त्रियं मृतगर्भां विद्यात्||२७||

🔊 Audio coming soon

Adhikarana mUDhagarbhalakShaNam (28) · Śloka 28

तं तु गर्भं कदाचिदसम्यगपत्यपथमनेकधा प्रतिपन्नं विगुणेनेव वायुना पीडितं मोहितं च मूढगर्भमित्याहुः| विगुणानिलप्रतिपीडनवैचित्र्यादसङ्ख्यगतिं च||२८||

🔊 Audio coming soon

Adhikarana mUDhagarbhagatayaH sthAnAni ca (29) · Śloka 29

समासतस्तु त्रिविधा गतिरुर्ध्वा, तिर्य्यङ्, न्युब्जा च| संस्थानानि पुनरष्टौ| तान्यत्रैवोत्तरत्र वक्ष्यन्ते||२९||

🔊 Audio coming soon

Adhikarana asAdhyamUDhagarbhAlakShaNam (30) · Śloka 30

तेषु सर्वेष्वपि विपरीतेन्द्रियार्थामाक्षेपयोनिभ्रंशसंवरण मक्कलश्वासभ्रमाभिपन्नां शीतगात्रां पूत्युद्गारां च वर्ज येत्||३०||

🔊 Audio coming soon

Adhikarana mRutagarbhashalyopekShAyAM vyApat (31) · Śloka 31

न तु क्षणमप्युपेक्षेत गर्भशल्यम्| तद्विनिरुच्छवासी कृत्याऽऽशु जननीं हन्यात्||३१||

🔊 Audio coming soon

Adhikarana sacetanamUDhagarbhasya chedane vyApattatrAnuShTheya~jca (32) · Śloka 32

सचेतनश्च गर्भः शस्त्रेण विदार्य्यमाणो विषयमङ्गानि विक्षिपेत्| तस्मात् तत्सङ्गे सूत्यः प्रयतेरन् पुर्वोक्तानि च मन्त्रौषधानि प्रयुञ्जीत||३२||

🔊 Audio coming soon

Adhikarana garbhasa~ggasya traividhyam (33) · Śloka 33

त्रिविधस्तु सङ्गो भवति| शिरस्यंसे जघने वा|३३|

🔊 Audio coming soon

Adhikarana mUDhagarbhanirharaNantatra matAntarANi (33) · Śloka 33

मूढगर्भस्य तु जरायुपातनसामान्यं कर्मेत्येके| मन्त्रादिक र्माथर्ववेदविहितमित्येके| दृष्टकर्मणा शल्यहर्त्रा शल्या हरणमित्येके||३३||

🔊 Audio coming soon

Adhikarana garbhashastrakarmaNaH kaShTatamatvam (34) · Śloka 34

न त्वतः कष्टतममस्ति शस्त्रकर्म| यतो योनियकृत्प्ली हान्त्रगर्भाशयादीनां मध्ये ताननुपहिंसताऽस्पर्शवता शस्त्र मवचार्य्यमुत्कर्षणव्यावर्तनोत्कर्तनच्छेदनभेदनपीडन र्जूकरणानि चैकेन पाणिना कार्य्याणि||३४||

🔊 Audio coming soon

Adhikarana mUDhagarbhe prANasaMshayerAshu shastramavacAryam (35) · Śloka 35

तस्मादीश्वरमापृच्छ्य परं च यत्नमास्थाय तद्विद्यसहित स्तमुपक्रमेत्| अक्रियायां ध्रुवं मरणम्| उपक्रमे संशयः| तथोदराऽश्मरीप्रभृतीनपि||३५||

🔊 Audio coming soon

Adhikarana mUDhagarbhAharaNavidhiH (36) · Śloka 36

अथोत्तानाया व्याभुग्नसक्थ्या वस्त्रचुम्बलान्नमितकटि प्रदेशायाश्च धन्वनागवृन्तिकाशाल्मलीपिच्छाघृतैरभ्यज्य हस्तं योनिं च गर्भमाहरेत्||३६||

🔊 Audio coming soon

Adhikarana tatra prakArAntaranirdeshaH (37) · Śloka 37

तत्र सक्थिभ्यामागतस्यानुलोममाञ्छनमेव| एकसक्थि प्रपन्नस्येतरं सक्थिं प्रसार्य्य| स्फिग्देशागतस्य स्फिग्देशं प्रतिषिध्योर्ध्वमुत्क्षिप्य सक्थिनी प्रसार्य्य| तिर्य्यगागतस्य परिघस्येवापरार्धमुत्क्षिप्य पूर्वार्धमपत्यपथं प्रत्यार्जव मानीय| पार्श्वापवृत्तशिरसोंऽसं प्रतिपीड्योर्ध्वमुत्क्षिप्य शिरोऽपत्यपथमानीय| बाहुद्वयप्रपन्नस्योर्ध्वमुत्पीड्या ऽसौ शिरोमूलमानीय निर्हरेत्||३७||

🔊 Audio coming soon

Adhikarana shastradAraNArhamUDhagarbhalakShaNam (38) · Śloka 38

यस्त्वाभुग्नमध्यः पाणिपादशिरोभिर्योनिं प्रतिपद्यते| यश्चाभुग्न एकेन पादेन योनिं द्वितीयेन पायुम्| तौ मूढौ हस्तेनाहर्तुमशक्याविति शस्त्रमवचारयेत्||३८||

🔊 Audio coming soon

Adhikarana tatra shastrAvadAraNavidhiH (39) · Śloka 39

अथ स्त्रियमाश्वास्य मण्डलाग्रेणाङ्गुलिशस्त्रेण वा (शिरो) विदार्य्य शिराः कपालान्याहृत्य गर्भशङ्कुना गृहीत्वा चिबुके तालुन्युरसि कक्ष्यायां वाऽपहरेत्| अभिन्नशिरसं चाक्षिकूटे गण्डे वा| तथासंसक्तस्यांसदेशे बाहुं छित्वा| दृतेरिवाध्मातस्य वातपूर्णमुदरमवदार्य्य निरस्यान्त्राणि शिथिलीभूतमाहरेत्| जघनसक्तस्य जघनकपालानि दारयित्वेति||३९||

🔊 Audio coming soon

Adhikarana (40) · Śloka 40

अपि च- यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः| तत्तच्छित्वा हरेत्सम्यग्रक्षेत्रारीं च यत्नतः||४०||

🔊 Audio coming soon

Adhikarana vyapagatagarbhashalyAyA upacArAH (41) · Śloka 41

अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक्| एवं निर्हृतशल्यान्तु सिञ्चेदुष्णेन वारिणा| दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः| योनिर्मृदुर्भवत्तेन शूलं चास्याः प्रशाम्यति| दीप्यकातिविषारास्नाहिंग्वेलापञ्चकोलकात्| चूर्णं स्नेहेन कल्कं वा क्वाथं वा पाययेत्तः| कटुकातिविषापाठाशाकत्वघिङ्गुतैजनीः| तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च| त्रिरात्रमेवं सप्ताहं स्नेहमेव ततः पिबेत्| सायं पिबेदरिष्टं च तथा सुकृतमासवम्| शिरीषककुभक्वाथपिचून्योनौ च निक्षिपेत्| उपद्रवाश्च येऽन्ये स्युस्तान्यथास्वमुपाचरेत्| पयो वातहरैः सिद्धं दशाहं भोजने हितम्| रसो दशाहं च परं लघुपथ्याल्पभोजना| स्नेहाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत्| ऊर्ध्वञ्चतुर्भ्यो मासेभ्यः स क्रमेण सुखानि च||४१||

🔊 Audio coming soon

Adhikarana balAtailam (42) · Śloka 42

अथ बलातैलमुपदेक्ष्यामः| बलामूलाकषायस्य भागाः षट्| तावन्त एव पयसो यवकोलकुलत्थदशमूलक षायस्य भागो भागश्चतुर्दशस्तैलस्य| तत्सर्वमैकध्यं कृत्व श्लक्ष्णपिष्टानि चावाप्य काकोलीक्षीरकाकोली जीवकर्षभकमुद्गपर्णीमाषपर्णीमेदाक्षीरशुक्लामधु कदेवदारुमञ्जिष्ठाचन्दनशारिवातगरकुष्ठशतावर्य्यश्व गन्धापुनर्नवाशतपुष्पावरापत्ररससरलशैलेयैलावचा ऽगरुकालानुसारिसैन्धवानि शनैर्मृद्वग्निना साधयित्वा सुभाजनेऽनुगुप्तं निदध्यात्| एष भगवतो धन्वन्तरे रभिमतस्तैलराजो राज्ञां राजमात्राणां सूतिकानां कृशानां शिशूनामतीतवयसां सुकुमाराणां शूलिनां महाग्रह गृहीतानां दीर्घरोगक्षपितवपुषां मर्मविद्धपतिताभिहत भग्नविश्लिष्टदेहानां दैवोपघातातभिशप्तमनोज्वरपरी तानां पाननावनाभ्यङ्गबस्तिषु प्रयोज्यः| तेन बल पौरुषस्मृतिमतिमेधाग्निवीर्य्यौजांसि विवर्धन्ते| पक्षा घाताक्षेपकार्द्दितादिविविधवातविकारगुल्महिक्काश्वास कासा निवर्तन्ते| अहरहश्चोपयुज्यमाने षण्मासादन्त्र वृद्धिः प्रशाम्यति च| वन्ध्या च पुत्रं गुणवन्तमिच्छया लभत इति||४२||

🔊 Audio coming soon

Adhikarana mRutagarbhiNyA jIvadgarbhaniShkAsanam (43) · Śloka 43

भवन्ति चात्र- बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि| जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्||४३||

🔊 Audio coming soon

Adhikarana garbhasrAve mAsAnusAraM garbhasthA- pakAH yogAH (44) · Śloka 44

मधुकं शाकबीजं च पयस्या सुरदारु च| अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी| वृक्षादनी पयस्या च लता चोत्पलशारिवा| अनन्ता शारिवा रास्ना पद्मा च मधुयष्टिका| बृहतीद्वयकाश्मर्य्यक्षीरिशृङ्गत्वचो घृतम्| पृश्निपर्णीबलाशिग्रुः श्वदंष्ट्रामधुपर्णिका| शृङ्गाटकं बिसं द्राक्षा कशेरुमधुकं बला| सप्तैतान् पयस योगानर्धश्लोकसमापनान्| क्रमात् सप्तसु मासेषु गर्भे स्रवति योजयेत्||४४||

🔊 Audio coming soon

Adhikarana aShTamamAsAtprabhRutigarbhasyApyAyanAyogAH (45-4) · Śloka 4

कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धकात्| मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे| नवमे सारिवानन्तापयस्यामधुयष्टिभिः| योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया| अथवा यष्टिमधुकनागरामरदारुभिः||४५|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने गर्भ व्यापन्नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon