Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. prakr̥tibhēdīyaḥ

Adhikarana atha prakRutibhedIyo nAmAShTamo~adhyAyaH -- pratij~jA (1) · Śloka 1

अथातः प्रकृतिभेदीयं शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

शरीरविचारणं प्रकृतं तस्य चाऽवयपरिच्छेदः कृतः| सम्प्रति दोषादिभेदेन प्रकृतिप्रदर्शनऱ्थमध्यायारम्भः|| १||

Adhikarana saptaprakRutayaH (2) · Śloka 2

सप्त प्रकृतयो दोषैः पृथक् संसर्गेण साम्येन च भवन्ति||२||

🔊 Audio coming soon

सर्वप्रकृतिभ्यो दोषप्रकृतीनां प्राधान्यात् ता एवादावुच्यन्ते-सप्त प्रकृतय इत्यादि| वातादिभिः पृथक् तिस्रः| संसर्गेण तिस्रः| सन्निपातेनैका|| २||

Adhikarana doShaiH prakRutisambhavaH (3) · Śloka 3

तत्र शुक्रार्त्तवगर्भाशयकालेशु मातुश्चाहारविहारयोरेकोऽनेको वा यो दोषो भवत्याधिक्येन तेनाऽऽमरणाद्विषवल्ल्यमिवोत्पद्यमानस्य कृमेर्विषेण सविषकृमेरिव वृश्चिकादेराशीविषस्येव वा स्वविषेण प्रकृतिर्जायते||३||

🔊 Audio coming soon

ननु च कदा वातादयः प्रकृतीनां कारणतां यान्तीत्याह-तत्रेत्यादि| शुक्रादिष्वधिको य एव दोषो भवति पृथक् संयुक्तो वा तेनैव पुरुषस्य प्रकृतिः सम्पद्यते| गर्भाशयकालो यावद्गर्भस्याशयावस्थानम्| कथं पुरुषस्य प्रकृतिर्जायत इत्याऽऽह-यथा विषवल्ल्यामुत्पद्यमानस्य कृमेर्विषेण प्रकृतिर्जायते यथा वा सविषस्य कृमेर्वृश्चिकादेर्यथा वा आशीविषस्य सर्पस्य विषेणान्यमारणात्मकेनापि विषेण वृश्चिकादीनां प्रकृतिर्भवत्येवं दोषैरपि पुरुषस्य-एतदेवाह|| ३||

Adhikarana sharIrotpattihetavo doShAviruddhaguNA api na parasparopamardakAH (4) · Śloka 4

तस्मात्तन्मयतया शुक्रार्तवयोर्देहस्य भावितत्वात् प्राकृतत्वाच्च तावता तेन दोषेण न विहन्यते| तद्गुणैरेव चास्य शरीरमुपस्क्रियते| ततश्च तद्गुणप्रतिपक्षैः सहसा न बाध्यते||४||

🔊 Audio coming soon

तस्मादित्यादि| तन्मयतया सर्वव्याप्तेर्दोषमयतया शुक्रार्तवयोः तथाविधदैवकर्मपरिपाकवशेन देहस्यावश्यम्भावित्वात्| तथैव च देहस्य प्रकृतिकृतत्वाद्वातादिना शुक्राशोणितस्य देहारम्भं प्रत्यपि या परिणतिः सा न विहन्यते| तच्छुक्रशोणितमपि चाहारसम्भवं ततस्तद्गुण्च्र्बीजस्थदोषगुणैः शरीरमुपस्क्रियते| न चास्यस्वारम्भकदोषविपरीतगुणैराहारैर्विहारैश्च झटिति शरीरं बाध्यते|| ४||

Adhikarana shukrashoNitasampAtakAle vikRutimati doSholbaNe sati garbhAsambhavastasya vaikArikatvaM vA (5) · Śloka 5

तस्यां त्ववस्थायां विकृतिमति दोषे उल्बणेनैव गर्भः सम्भवति| सम्भव एव वा विपद्यते| विकृतो वा भवति||५||

🔊 Audio coming soon

यदा पुनस्तस्यामवस्थायां शुक्रशोणितसम्पातकाले विकृतिमद्दोष उद्धतो भवति तदा गर्भो न सम्भवत्येव| सम्भवकाले एव वा व्यापद्यते विनश्यति| अथवा विकृतो भवति|| ५||

Adhikarana vAtAdInAM dvaividhyam (6) · Śloka 6

तथा च केचिदाऽऽहुः द्विधा वातादयः प्राकृता वैकृताश्च१|६|

🔊 Audio coming soon

Adhikarana prAkRutavAtAdInAM svarUpam (6) · Śloka 6

तत्र प्रकृताः सप्तविधायाः प्रकृतेर्हेतुभूताः शरीरैकजन्मानः २|६|

🔊 Audio coming soon

Adhikarana vikRutAnAM vAtAdInAM svarUpam (6) · Śloka 6

दोषाख्यानां विकृतानां बीजभूताः मुमूर्षोः स्वरूपाच्चलन्ति ३|६|

🔊 Audio coming soon

Adhikarana prakRutc trayANAM sAnnidhye ekavyapadeshe hetuH (6) · Śloka 6

सर्वेष्वपि च देहे सन्निहितेषु प्रकृतावुल्बणेन व्यपदेशः ४||६||

🔊 Audio coming soon

तथा चेत्यादिना उक्तमेव पक्षं द्रढयति| सुबोधम्| प्राकृताः शरीरैकजन्मत्वाच्छरीरधारणेन धातुसंज्ञां लभन्ते| ते प्राकृता दोषसंज्ञकानां वैकृतानां वातादीनां बीजभूताः| ते च प्राकृताः ये न मुमूर्षुस्तस्य स्वरूपान्न चलन्ति| यावज्जीवितमेतत् स्वरूपरूपा इत्यर्थः| ये तु जन्मन उत्तरकाल सम्भवन्ति ते वैकृताः| यद्यपि च प्रकृत्यवस्थायां सर्वे वातादयः सन्निहिता भवन्ति, तथापि य एव तेषामधिकस्तेनैव प्रकृतैर्व्यपदेशः|| ६||

Adhikarana vaikRutAnAM prAkRutairekIbhUtatvam (7) · Śloka 7

वैकृतास्तु गर्भादिभिनिस्सृतस्याहाररसस्य मलाः सम्भवन्ति| प्राकृतेष्ववरोहन्ति||७||

🔊 Audio coming soon

ये च वैकृतास्ते यद्यपि गर्भादभिनिःसृतस्याहारमलाः| 'फेनभूते कफम्'-इत्यादिनोक्ताः सम्भवन्ति तथापि ते सम्भूतास्तत्रैव प्रकृतेष्वेव वातादिष्ववरोहन्ति| सजातीयत्वादेकीभवन्तीत्यर्थः|| ७||

Adhikarana vaikRutAnAM dehopakArakatvaM dehadUShakatva~jca (8) · Śloka 8

ते कालादिवशेन स्वप्रमाणवृद्धिक्षययोगाद् देहमनुगृह्णन्ति दूषयन्ति च||८||

🔊 Audio coming soon

ते च वैकृताः प्राकृतैरेकीभूताः कालादिविशेषापेक्षय केनचित्स्वप्रमाणेन स्थिता देहमनुगृह्णन्ति| तथा वृद्धिक्षययोगात्तु देहं एव वा व्यापद्यते विनश्यति| अथवा विकृतो भवति|| ८||

Adhikarana ojasaH dvaividhyam (9) · Śloka 9

तद्वदोजोऽपि परं हृदयस्थमष्टबिन्दुप्रमाणमाधारः प्रासृतिकस्य रसात्मकस्य्च्जसः क्षयवृद्धिभाजः||९||

🔊 Audio coming soon

ओजोऽपि तद्वदेव वातादिवत् स्वप्रमाणेन स्थितं देहमनुगृह्णाति| वृद्धिक्षयाभ्यां युक्तं देहं दूषयति च| तच्च्च्जः परंमानेनाष्टबिन्दुप्रमाणं प्रासृतिकस्य महत ओजस आधारस्तदायत्तयोगक्षेमत्वान्महतः|| ९||

Adhikarana vAtaprakRutilakShaNam (10) · Śloka 10

अथ स्वदोषगुणानुरोधाद्वातप्रकृतिस्तनुरूक्षस्तब्धाल्पाङ्गदन्तनखरोमनेत्रस्वरः शीतद्विडुद्बन्द्वपिण्डिकः सशब्दसन्धिगामी शीघ्रारम्भक्षोभग्रहणविस्मरणश्चलधृतिमतिगतिदृष्टिस्वभावस्छार्दस्तेनोऽनार्य्यो मात्सर्यजितेन्द्रियः प्रियगान्धर्वेतिहासहासविलासकलहमृगयोद्यानयात्रः स्निग्धोष्णमधुराम्ललवणान्नपानकाङ्क्षोपशयश्च भवति| अपि च- अल्पवित्तबलजिवितनिद्रः क्षामवाग्धमनिसन्ततगात्रः| दुर्भगोऽतिबहुभुग्बहुभाषी नास्तिकः स्फुटिकेशकरांघ्रिः| किञ्चिदुन्मिषितदुर्मुखसुप्तस्त्रयति क्रथति खादति दन्तान्| शुष्करूक्षविषमासु सरित्सु व्योम्नि शैलशिखरेषु च याति||१०||

🔊 Audio coming soon

अथ प्रकृतीनां विशेषेण लक्षणमुच्यते-अथेति| तत्र वातप्रकृतिः पुरुषः स्वस्य वातस्य गुणानुरोधात् कायस्य च कारणानुरोधद्धेतो रूक्षत्वादिगुणयुक्तो भवति| स्तब्धान्यल्पानि चाङ्गादीनि यस्य स तथोक्तः| उद्बद्धे ह्रस्वकठिने पिण्डिके यस्य| जङ्घायाः पश्चिमे भागे पिण्डिकृति मांसपिण्डिका| सशब्दैः सन्धिभिर्गच्छतीति सशब्दसन्धिगामी| गच्छतो जान्वादिसन्धिभिः शब्दो भवतीत्यर्थः| शीघ्र आरम्भादिर्यस्य स तथोक्तः| चला अनेकारूपा धृत्यादयो यस्य स तथोक्तः| मत्सरो गुणः अस्यास्तीति मत्सरी| तथा अजितेन्दियः| तथा प्रियाणीष्टानि गान्धर्वादीनि यस्य स तथोक्तः| गान्धर्वं गेयमितिहासः पूर्ववृत्तम्| विलासो लीला| मृगया मृगवधक्रीडा| यात्रा पुरान्तरगमनम्| स्निग्धादिगुणमन्नपानमाकाङ्क्षते| तदेव चास्योपशेते सुखाय कल्पते| अपि चेति समुच्चये| अल्पानि वित्तादीनि यस्य स तथोक्तः| वित्तं धनं जीवितमायुः| धमनीभिः स्नावभिः सन्ततं व्याप्तं गात्रं यस्य| दुष्टो भगो यस्य| ऐश्वर्य्यस्य समग्रस्य धर्मस्य यशसः श्रियः| वैराग्यस्याथ मोक्षस्य षण्णां भग इति स्मृति|| बहु भाषते यः स बहुभाषी| नास्तिकः अदृष्टं नास्तीति मन्यते| तथा-स्फुटिताः केशादयो यस्य| प्रसुप्तश्च किञ्चिदुद्धाटितनेत्रः उद्धाटितमुखश्च भवति| प्रसुप्तश्च त्रासादियुक्तो भवति| क्रथनं सुप्तनासादिशब्दः| स्वप्ने च शुक्रादिगुणासु सरित्सु याति| व्योम्नि च शैलशिखेरषु च| इति वातप्रकृतिलक्षणानि|| १०||

Adhikarana pittaprakRutilakShaNam (11) · Śloka 11

पित्तप्रकृतिरूष्णग्च्रगात्रस्ताम्रनखनयनजिह्व्च्ष्ठपाणिपादतलः शिथिलसन्धिबन्धमांसः करभकपिलविरलमृदुकेशरोमा मध्यबलायुरल्पशुक्रव्यवायापत्यः शूरोऽभिमानी शीघ्रवलीखलितपलितपिप्लुव्यङ्गक्षुत्पिपासो मेधावी दुर्भगः स्वादुतिक्तकषायशीताभिलाषोपशयश्च भवति| अपि च - दयतिमाल्यविलेपनमण्डनः सुचरितः शुचिराश्रितवत्सलः| विभवसाहसबुद्धिबलान्वितो भवति भीषु गतिर्द्विषतामपि| धर्मद्वेषी स्वेदनः पूतिगन्धि- र्भूर्य्युच्चारक्रोधपानाशनेर्ष्यः| सुप्तः पश्येत्कर्णिकारान् पलाशान् दिग्दाहोल्काविद्युदर्कानलांश्च||११||

🔊 Audio coming soon

पित्तप्रकृतिलक्षणान्युच्यन्ते-उष्णेत्यादि| उष्णानि ग्च्राणि च गात्राणि यस्य| ताम्राणि ताम्रवर्णानि नखादीनि यस्य| शिथिलाश्रव सन्धिबन्धमांसा यस्य| तथा करभकपिलानि विरलानि मृदूनि च केशरोमाणि यस्य| मध्यबलो मध्यायुरल्पशुक्रोऽल्पव्यवाय्योऽल्पापत्यश्च| तथा शूरोऽभिमानवांश्च| तथा शीघ्राणि शीघ्रोत्पत्तीनि वल्यादीनि यस्य| वलयश्चर्मसङ्कोचाः| खलितः शीर्णरोमत्वम्| पलितं केशशौक्ल्यम्| पिप्लुर्नीरुक् कृष्णो मांसाङ्कुरः| मेधा प्रज्ञा विद्यते यस्य स मेधावी| स्वाद्वादिकमाकाङ्क्षति| तदेव चास्यपाशेते| अपि चेति समुच्चये| दयितानि प्रिय़ाणि माल्यादीनि यस्य| विभवादिभिरन्वितश्च भवति| शत्रूणामपि भीषु गतिस्राता| तथा प्रभूतोच्चारादियुक्तः| स्वप्ने च कर्णिकारादीन् पश्यति| पलाशकणिकारा लोहितपुष्पवक्षाः| दिग्दाहो दिशां ल्छित्येन दाह इव| इति पित्तप्रकृतिलक्षणानि|| ११||

Adhikarana kaphaprakRutilakShaNam (12) · Śloka 12

कफप्रकृतिस्तु दूर्वेन्दीवरशरकाण्डान्यतमवर्णः समसुविभक्तस्निग्धस्थिरसुकुमारश्लिष्टमांससन्धिबन्धः परिपूर्णचारुगात्रो महाललाटोरुबाहुर्व्यक्तसितासित प्रसन्नायतविशालपक्ष्मलाक्षः सिंहमृदङ्गघनघोषः क्षुत्पिपासोष्णसहिष्णुर्बह्वोजोबलशुक्रव्यवायापत्यश्चिरशोषमाल्यानुलेपनो दृढप्रच्छन्नवैरः पेशलः सत्यवादी स्मृतिमान्धृतिमानलोलुपो बाल्येऽप्यरोदनः कटुतिक्तकषायो ष्णरूक्षेच्छोपशयश्च भवति| अपि च- अल्पव्याहारक्रोधपानाशनेहः प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः| श्राद्धो गम्भीरः स्थूललक्षः क्षमावा- नार्यो निद्रालुर्दीर्घसूत्रः कृतज्ञः| ऋजुर्विपश्चित्सुभगः सलज्जो भक्तो गुरूणां दृढस्छृदय्यः| स्वप्ने सपद्मान् सविहङ्गमालां- स्तोयाशयानपश्यति तोयदांश्च||१२||

🔊 Audio coming soon

कफप्रकृतिलक्षणान्युच्यन्ते-दूर्वाद्यन्यतमसमानवर्णः| इन्दीवरं नीलोत्पलम्| तथा समान् सुविभक्तानि स्निग्धानि स्थिराणि सुकुमाराणि श्लिष्टानि च मांससन्धिबन्धानि यस्य| तथा परिपूर्णं चारु च गात्रं यस्य| महाललाटो महोरुर्महाबाहुश्च| व्यक्ति-सितासिते प्रसन्ने आयते विशाले पक्ष्मले चाक्षिणी यस्य| सिंहादिसमानघोषः| क्षुद्रादिसहिष्णुः| बह्वोजस्त्वादियुक्तः| माल्यमनुलेपनञ्च चिरेण शुष्यति यस्य| अन्यत् सुबोधम्| अल्पा व्याहारादयो यस्य| व्यवहारो वाग्व्यापारः| ईहाकायिकी चेष्टा| प्राज्यं प्रभूतमायुर्वित्तं च यस्य| दीर्घदर्शी कार्य्यप्रान्तवित्| वदान्यो वल्गुभाषी| श्रद्धा विद्यते यस्याऽस्च् श्राद्धः| गम्भीरः| यस्य प्रसादादाकारात् क्रोधशोकभयादयः| भावस्था नोपलक्ष्यन्ते तद्गाम्भीर्य्यमिति स्मृतम्|| स्थूललक्षः योऽल्पं दातुं न शक्नोति स्थूललक्षः स उच्यते| सुहृदयस्य भावः स्छृदय्यम्| सुबोधम्| इति कफप्रकृतिलक्षणम्||

Adhikarana saMsargaprakRutilakShaNam (13) · Śloka 13

उभयलक्षणसङ्करे तु संसर्गप्रकृतिः||१३||

🔊 Audio coming soon

त्रयाणां संसर्गप्रकृतीनामुभयप्रकृतिलक्षणं विज्ञेयम्|| १३||

Adhikarana samadoShaprakRutilakShaNam (14) · Śloka 14

सर्वगुणसमुदितः समदोषप्रकृतिः||१४||

🔊 Audio coming soon

यस्तु सर्वैरेव गुणैः समुदितः स समदोषप्रकृतिर्ज्ञातव्यः| गुणशब्देन गर्हणीयवातादिकप्रकृतिलक्षणपरित्यागः| तेषां दोषाधिक्यहेतुत्वात्|| १४||

Adhikarana nityAturaprakRutayaH (15) · Śloka 15

तत्राद्यास्त्रयो नित्यातुरादोषानुशयितप्रकृतिवात्| विशेषतश्च द्वन्द्वप्रकृतयः| तेषु हि गुणमिश्रविकारकारिषुक्षुत्पिपासादिष्विवारोग्यव्यपदेशः||१५||

🔊 Audio coming soon

तत्र सप्तसु प्रकृतिषु मध्ये आद्यास्त्रयो वातपित्तश्लेष्मज दोषानुषयितत्वाद्धेतोर्नित्यातुराः| नित्योपक्रमणीया इत्यर्थः अत एव दोषानुशयितत्वाद्धेतोः संसर्गप्रकृतयो विशेषतो नित्यातुराः| अतिशयेन नित्यत्वात्पथ्यादीनामेतेशु पृथङ्मिश्रप्रकृतिषु योऽयमारोग्यव्यपदेशः स गुणमिश्रविकारकारित्वात्| तथा तथा लोके रुक्करणस्वभावेष्वपि क्षुत्पिपासादिष्वारोग्यव्यपदेशः|

Adhikarana prakRutidoShaviparItaguNena cikitsA (16) · Śloka 2

तस्ताद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत्| समसर्वरसेन सात्म्येनान्त्यं यथार्तुविहितेन च|२|

🔊 Audio coming soon

तस्मात्तान् षट्प्रकृतियुक्तान् प्रकृतिदोषविपरीतगुणे दोषोपक्रमणीयोक्तेन विधानेनोपाचरेत्| अन्त्यं पुनः सर्वसमप्रकृतिकं समसर्वरसेन सात्म्येनोपाचरेदिति सम्बन्धः| ऋतुविहितचर्य्याविधानेन च| इति वातादिभिः सप्तप्रकृतयः|| १६||

Adhikarana sattvAdiprakRutayaH (17) · Śloka 2

दोषवच्च गुणैरपि सत्त्वादिभिः सप्त प्रकृतयो भवन्ति| तास्तदभिनिर्वृत्तैरेव यथोक्तैः श्च्चादिभिर्जानीयात्||२||

🔊 Audio coming soon

न केवलं वातादिभिरेव दोषैः सप्त प्रकृतयो भवन्ति| यावद् गुणैरपि सत्त्वरजस्तमोभिः संयुक्तैः पृथग्भूतैश्च सप्तैवप्रकृतयो भवन्ति| ताश्च सत्त्वादिप्रकृतयस्तदिभिनिर्वृत्तैः सत्वाद्यभिनिष्पन्नैः श्च्चास्तिक्यादिभिर्लक्षणैर्जानीयात्| तत्र शौचे नास्तिक्येन शुक्लवर्त्मरुचित्वेन मतिमत्त्वेन च युक्तं सत्त्वप्रकृतिं विद्यात्| बहुभाषित्वेन मानित्वेन क्रुधा दम्भेन मात्सर्य्येण च युक्तं रजःप्रकृतिं विद्यात्| भयेनाज्ञानेन निद्रया आलस्येन विषादत्वेन च युक्तं तमःप्रकृतिं विद्यात्| लक्षणसङ्करे च संयोगे प्रकृतीनध्यवस्येदिति गुणैः सत्त्वप्रकृतयः|| १७||

Adhikarana jAtyAdivisheSheNa prakRutayaH (18) · Śloka 18

तथा पुनः सप्तप्रकृतयो जातिकुलदेशकालवयोबलप्रत्यात्मसंश्रयाः| दृश्यन्ते हि पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः||१८||

🔊 Audio coming soon

तथा जात्यादिविशेषणापरमपि सप्तविधत्वं प्रकृतेभवति| यस्माद् दृष्टास्ते ते भावविशेषाः जात्यादिनियताः| जात्याः, यथा ब्रह्मणो मधुरप्रायाहाररुचिरसाहसिको बहुलभीतिः शस्त्राद्यससत्वादियुक्तो भवति| एवं राजन्यादीनामपि यथासम्भवं प्रायोदर्शनेन योज्यम्| एवं कुलेनापि पुंसां विशेषो दृष्टः| तथा च केचित् कुलेनैव मद्यलोलुपाः| केचित् पिशितगुरुग्रासगृध्नवः| अपरे तु क्षारलवणजनितजडिमानं सततमपि सोढुसमर्थाः| केचित् पुनः प्ररूढेऽपि ग्रीष्मसमये तप्ताङ्गाराधिकतरप्लोषदायिनः तीक्ष्णदीधितिपादानपि कालवद् गुणकलापानिवाभिमन्यन्त इत्येवमादिचिन्त्यम्| देशविशेषेण तु पुरुषाणां प्रसिद्धा एव विशेषः| एवं कालवयोबलानामपि वाच्यम्| प्रत्यात्मसंश्रयो हि विशेषो य एकस्मिन्नेव शरीरे दृश्यते स्वभावविशेषः| इति प्रकृतिसप्तकम्|| १८||

Adhikarana sattvAdiprakRutInAmaparisa~gkhyeyatvam (19) · Śloka 17

सत्त्वादीनाञ्च तरतमयोगाच्छरीरविशेषेभ्यश्चान्योन्यानुविधायित्वाच्च भेदाश्रयमसङ्ख्येयं भवति| शरीरमपि सत्त्वादीननुरुध्यते| सत्त्वादयोऽपि शरीरम्||१७||

🔊 Audio coming soon

आसाञ्च प्रकृतीनां सप्तविधानां सत्त्वादीनां संयोगेन तरतमयोगाच्छरीरविशेषोभ्यो हेतुभ्योऽन्योन्यानुविधायित्वाद्भेदाश्रयं भेदप्रकारो भेदपरिनिष्पत्तिः प्रकृतीनामपरिसङ्ख्येयं भवति| यस्मात् सत्त्वादयोऽपि कार्य्यविशेषसम्पादनाय शरीरमनुरुद्धध्यन्ते| तथा शरीरमपि सत्त्वादीन्|| १९||

Adhikarana anUkasyAsa~gkhyeyatvAdi (20) · Śloka 20

सत्त्वाद्यसङ्ख्यभेदावेशाच्च रूपस्वरचरितानुकरणमप्यनूकशब्दवाच्यमसङ्ख्यभेदं भवति| तदा वेशस्त्वनन्तरजन्माभ्यासवासनया जन्यते| तस्माद्देवमानुषतिर्य्यक्प्रेतनारकाणां तत्तद्विशेषाणां च यथायथमेवानूकं पुरुषस्यान्ववेक्षेत||२०||

🔊 Audio coming soon

तथा सत्त्वादीनामनन्तरोक्तेन प्रकारेणासङ्ख्यो भेदस्तस्यावेशादन्यसम्बन्धिनां रूपादीनामनुकरणं सादृश्यमसङ्ख्यभेदं भवति| तस्य च रूपाद्यनुकरणस्यानूक इति नाम| ननु सत्त्वादिभेदावेशस्य किं कारणमित्याऽऽह-तदावेशस्त्वित्यादि| अनन्तरेभ्यो जन्मभ्यो येयमभ्यासवासदा तया जन्यते| तस्माच्च रूपाद्यनुकरणं सत्त्वाद्यावेशाद्यतो देवादीनामानूकं रूपसत्त्वाद्यनुकरणं पुरुषस्यान्ववेक्षेत|| २०||

Adhikarana vayasastraividhyam (21) · Śloka 21

वयस्त्रिविधं बालं मध्यं वृद्धं च| तत्राऽऽषोडशाद्वर्षाद् बालम्| आषष्टेर्मध्यम्| ततो वृद्धम्||२१||

🔊 Audio coming soon

वयस्त्रिविधमित्यादि सुबोधम्|| २१||

Adhikarana bAlasya traividhyAdi (22) · Śloka 22

तेष्वपि स्तन्याहारोभयवृत्त्या बालं त्रिविधम्| तस्मिन् देहप्रमाणवृद्धिः श्लेष्मोद्रेकश्च| तेन बालस्य स्नेहमार्द्दवस्च्कुमार्य्याल्पक्रोधत्वस्च्भाग्यानि भवन्ति||२२||

🔊 Audio coming soon

तत्र बालं वयस्त्रिविधम्| क्षीरवृत्त्यान्नवृत्त्याक्षीरान्नवृत्त्या च| तस्मिन् बाले वयसि क्रमेण देहप्रमाणवृद्धिर्भवति| तेन वर्द्धमानत्वे श्लेष्मोद्रेकेण च बालस्य स्नेहादीनि भवन्ति|| २२||

Adhikarana madhyasya traividhyAdi (23) · Śloka 23

मध्यमपि त्रिविधं य्च्वनं सम्पूर्णत्वमपरिहानिश्च| तस्मिन् पित्तोद्रकः| तेन दीप्ताग्निताप्रज्ञाधिक्यापरिपाक्च् व्यवसायश्च| तत्राऽऽत्रिंशतो य्च्वनमाचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्य्यप्च्रुषस्मरणवचनविज्ञानप्रश्रयगुणसम्पूर्णत्वमतः परमपरिहानिः||२३||

🔊 Audio coming soon

मध्यमपि त्रिविधमित्यादि सुबोधम्| त्रिविधेऽपि मध्ये पित्तोद्रेकादिकम्| चत्वारिंशतः परमपरिहानिर्न वृद्धिर्नाप्यपचयः|

Adhikarana vRuddhaM vayaH (24) · Śloka 24

वृद्धं तु शशवत्क्षीयमाणधात्विन्द्रियादिगुणं वलीखलितकासश्वासाग्निसादादिभिरभिभूयमानं जीर्णं भवनमिवाभिवृष्टमवसीदति| तस्मिन् मारुतोद्रेकः| तेन श्लथसारमांससन्ध्यस्थिता त्वक्पारुष्यमवनामः कायस्य वेपथुः कासः श्वासः श्लेष्मसिङ्घाणकोदीरणं धातुक्षयश्च||२४||

🔊 Audio coming soon

वृद्धं तु शशवत् समन्तात् क्षीयमाणधात्वादिगुणं वल्यादिभिरभिभूयमानमवसीदतीति सम्बन्धः| क्षीयमाणा पुर्वोक्ता वपुः स्थ्च्र्य्यादयो गुणाः शशवत् समन्तात्| वलयश्चर्मसङ्कोचाः| पलितं केशरोम्णां श्च्क्ल्यम्| आदिग्रहणेनैवंप्रकाराणां ग्रहणम्| तथाऽवसीदति यथा जीर्णं भवनमभिवृष्टं जलेन सिक्तम्| तस्मिन् वाऱ्धके श्लथं सारादिकं भवति| साराणि वक्ष्यन्ते| कायस्यावनामः कुब्जत्वम्| वेपथुः कम्पः| श्लेष्मसिङ्घाणको नासास्रावः| तयोदीरणमिति सर्वं वातोद्रेकात् इति वयः|| २४||

Adhikarana bAlyAdInAM kramAddashakeShu vyapagamaH (25) · Śloka 25

अन्ये पुनराहुः- बाल्यं वृद्धिः प्रभा मेधा त्वक्शुक्राक्षिश्रुतीन्द्रियम्| दशकेषु क्रमाद्व्येति मनःसर्वेन्द्रियाणि च||२५||

🔊 Audio coming soon

अन्ये पुनराचार्या इदमाहुः| क्रमाद्दशसु दशकेषु बाल्यादिदशकं व्येति व्यपगच्छति| तत्र दशके बाल्यं व्यपगच्छति| द्वितीये वृद्धिः| ततः परं न वर्धत इत्यर्थः| तृतीये प्रभा| चतुर्थे मेधा| पञ्चमे त्वक् व्यपगच्छति| अन्यथा भवतीत्यर्थः| षष्ठे शुक्रम्| सप्तमे अक्षीन्द्रियम्| अष्टमे श्रुतीन्द्रियम्| नवमे मनः| दशमे सर्वेन्द्रियाणि|| २५||

Adhikarana AyuShaH pramANam (26) · Śloka 26

एवं वर्षशतमायुषः प्रमाणमस्मिन् काले||२६||

🔊 Audio coming soon

एवं स्थिते सर्वथास्मिन् काले कल्च् वर्षशतमायुषः प्रमाणम्|

Adhikarana karmavisheShAdvayaso nyUnAdhikabhAvaH (1) · Śloka 1

सन्ति पुनः कर्मविशेषादूनाधिकवर्षशतजीवनो मनुष्याः||१||

🔊 Audio coming soon

केचित् तु मनुष्याः दैवस्य प्च्रुषस्य च कर्मणो विशेषादूनाधिकवर्षशतजीवनोऽपि सन्ति|

Adhikarana nyUnAdhikajIvanAM vayasastridhA vibhAgaH (28) · Śloka 28

तेषां यथोक्तैः प्रकृतिविशेषैरायुषः प्रमाणमुपतभ्य वयस्त्रिधा विभजेत्||२८||

🔊 Audio coming soon

तेषामूनजीवनामधिकजीविनाञ्च वयस्त्रिधा विभजेत्| तेन पञ्चाशद्वर्षजीवनामपि शैशवय्च्वनवार्धक्यान्यनयैव भागत्रयकल्पनया तथा विंशत्याद्यायुषाञ्च| नन्विमे ऊनवर्षशतायुषः, इमे शतवर्षसमायुषः इमे अधिकवर्षसमायुषः, इति कथं ज्ञायत इति चेदुच्यते-तेषां यथोक्तैः प्रकृतिविशेषैरायुषः प्रमाणमुपलभ्येति| उक्ताः प्रकृतिविशेषा वातादि दोषसत्त्वादिगुणजात्यादिभेदेन| तैर्हि प्रमाणमायुषः परिज्ञायते| तथा-वातेन स्वल्पायुषो भवन्ति| पित्तेन मध्यायुषः| कफेन दीर्घायुषः| एवं संयोगेन तारतम्येन चायुषस्तारतम्यमप्यूह्यम्| तथा सात्त्विका दीर्घायुषो राजसा मध्यायुषस्तामसाः स्वल्पायुषः तथा जातिकुलदेशादिविशेषादायुषो विशेषः प्रसिद्धः|| २८||

Adhikarana AyuH kShaya kramaH ekavatsarasya hrAsaH (29) · Śloka 29

अपि च - वर्षं वर्षं क्षयं याति नृणां याते शते शते| आयुषोऽपुण्यबाहुल्याद्यदा यन्मानमिष्यते||२९||

🔊 Audio coming soon

अपि चेति समुच्चये| नृणां पुरुषाणां यदा यस्मिन् काले कृतयुगादी दशवर्षशतादयो वा यदायुषो माननिष्यते तेन मानेन संवत्सरशते पूर्णे एकः संवत्सरोऽपुण्यबाहुल्यादवश्यं क्षयं याति| तेनैतदुक्तं भवति-यस्य यदा संवत्सरशतमायुषः प्रमाणं स एकेन संवत्सरेणोनं वर्षशतं जीवतीत्यर्थः| अनेन क्रमेण सहस्राधिकजीविनां दशवर्षजीविनां च भगकल्पनया क्षय आयुषो वाच्यः|| २९||

Adhikarana balasya traividhyAdi (30) · Śloka 30

बलमपि त्रिविधं भवति| सहजं कालकृतं युक्तिकृतञ्च| तत्र सहजं देहसत्त्वयोः प्राकृतम्| कालकृतमृतुविभागजं वयः कृतञ्च| युक्तिकृतं पुनराहारविहारोत्थमूर्जस्करं योगजञ्च||३०||

🔊 Audio coming soon

न केवलं पुरुषे वयस्त्रिविधम्| यावत् सहजत्वाभेदेन बलमपि त्रिविधम्| तत्र सहजं देहसत्त्वस्वभावायातम्| कालकृतं हेमन्ताद्यृतुषट्कजनितं वयोविशेषकृतञ्च| युक्तिकृताऽऽहारादिविशेषजमूर्जस्करं योगजञ्च| ऊर्जस्करं रसायनवाजीरणादि|

Adhikarana balavRuddhikarA bhAvAH (31) · Śloka 31

तद् वृद्धिकरास्त्विमे च भावा भवन्ति| तद्यथाबलवत्पुरुषे देशे जन्म, तद्विधे च काले, सुखश्च कालयोगो बीजक्षेत्रगुणशरीराहारसत्त्वसम्पत्तयः स्वभावोय्च्वनं व्यायामोहर्षश्च||३१||

🔊 Audio coming soon

तस्य त्रिविधस्यापि बलस्य वक्ष्यमाणा भावा वृद्धिकराः| तद्यथा-यस्मिन् देशे पुरुषा बलवन्तो भवन्ति तत्र देशे जन्म| यस्मिन् काले च बलवन्तो भवन्ति तस्मिन् काले जन्म सुखश्च कालयोगः समयोगः| बीजगुणमपि शुक्रस्य परिपूर्णतादिकम!| क्षेत्रगुणो मातुः स्वभावाहारादिविशेषः| तथा जातस्य शरीरादि सम्पत्तयः| स्वभावादिकं चेति बलस्य वृद्धेर्हेतुः|| ३१||

Adhikarana aShTau sArANi (32) · Śloka 32

तथा साराण्यष्टौ त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वात्मकान्युत्तरोत्तरवराणि बलमानज्ञार्थमुपदिश्यन्ते||३२||

🔊 Audio coming soon

अस्य च बलस्य मानविशेषपरिज्ञानार्थं त्वगाद्यात्मकान्यष्टौ साराण्युक्तानि| तानि च यथोत्तरमग्र्याणि श्रेष्ठानि| तेन त्वक्सारवान् बली भवति| ततो रक्तसारवान्| ततो मांससारवान्| ततो मेदस्सारवान्| इत्येवमादि सत्त्वं यावत्| त्वगेव सारमेवं सर्वत्र योज्यम्| एतावता बलमानपरिज्ञानदर्शनेन भिषग्बलं जानीयात्|| ३२||

Adhikarana kevalasharIropacayApacayAdibhirna balAbalanirNayaH (33) · Śloka 33

अपि च न मुह्येद्देहमात्रदर्शनादेव भिषगयमुपचयेन महाशरीरत्वाद्वा बलवानयं कृशत्वादल्पशरीरत्वाद्वाल्पबल इति| तच्चोभयमन्यथादृष्टं गजसिंहे|३३|

🔊 Audio coming soon

शरीरमात्रदर्शने भिषग् बले उक्तनयान्न मुह्येत्| अयमित्यादिना मोहे हेतुरुच्यते| तदुभयमुपचयेन बलवत्त्वं कृशत्वेन चाल्पबलवत्वं गजसिंहेऽन्यथा वैपरीत्येन दृष्टम्| सिंहः कृशोऽप्यति बलो गजः स्थूलोऽप्यल्पबल इति|| ३३||

Adhikarana sarvasAropetasya guNAH (34) · Śloka 33

तत्र सर्वेः सारैरुपेतो भवत्यतिबलः परमग्च्रवयुक्तः क्लेशक्षमः सर्वारम्भेष्वात्मनि प्रत्याशावान् कल्याणाभिनिवेशो स्थिरशरीरः सुसमाहितगतिः सानुनादस्निग्धबम्भीरमाहास्वरः सुखैश्वर्य्यवित्तोपभोगसम्मान भाङ्मन्दजरामयः| प्रायस्तुल्यगुणविस्तीर्णापत्यो दीर्घायुश्च२||३३||

🔊 Audio coming soon

तत्र सर्वसारसंयुक्तोऽतिबलत्वादिगुणो भवति| प्रत्याशावान् नानारम्भेषु सम्भावितफलः| कल्याणेषु दृष्टादृष्टेष्वभिनिवेशो यस्य| सहानुनादादिभिर्वर्त्तते स्वरो यस्य| तथा सुखादिभाक्| एश्वर्य्य प्रभवनम्| मन्द्च् जरामय्च् यस्य| प्रायस्तुल्यैरात्मसदृशैर्गुणैर्विस्तीर्णान्यपत्यानि यस्य| दीर्घायुश्च भवति|| ३४||

Adhikarana asAramadhyamasArau (35) · Śloka 35

तद्विपरीतस्त्वसारः| मध्यो मध्यगुणः||३५||

🔊 Audio coming soon

यो विद्यमानसर्वसारगुणवैपरीत्ययुक्तो भवति सोऽसारः| यस्य तु मध्यमानि साराणि स गुणैरपि मध्यो भवति|| ३५||

Adhikarana samasharIrAvayavapramANam (36) · Śloka 36

प्रमाणं पुनः स्वाङ्गुलैः| पादाङुष्ठप्रदेशिन्य्च् द्व्यङ्गुलायते| तिस्रोऽन्याः क्रमेणोत्तरोत्तरं पञ्चमभागहीनास्तन्नखहीना वा| चतुरङ्गुलायताः पृथक् पदपादतलपार्ष्णयः| षट्पञ्चचतुरङ्गुलविस्तृताश्चतुर्दशैवायामेन पादश्चतुर्दशैव परिणाहेन| तथा गुल्फौ जङ्घामध्यञ्च| चतुरङ्गुलोत्सेधः पादः| अष्टादशायामा जङ्घा ऊरुश्च| चतुरङ्गुलं जानु| त्रिंशदङ्गुलपरिणाह ऊरुः| षडायामौ मुष्कमेढ्रावष्टपञ्चपरिणाहौ| षोडशविस्तारा कटी पञ्चाशत् परिणाहा| दशाङ्गुलं बस्तिशिरः| द्वादशाङ्गुलमुदरम्| दशविस्तारे द्वादशायामे पार्श्वे| द्वादशोत्सेधं त्रिकम्| अष्टादशोत्सेधं पृष्ठम्| द्वादशकं स्तनान्तरमद्वयङ्गुलं स्तनपर्य्यन्तम्| चतुर्विंशत्यङ्गुलविशालं द्वादशोत्सेधमुरः| द्व्यङ्गुलं हृदयम्| अष्टकौ स्कन्धे कक्षे च| षट्कावंसौ| षोडशकौ प्रवाहू| पञ्चदशक्च् प्रपाणी| द्वादशाङ्गुलौ पाणी| तत्रापि पञ्चाङ्गुला मध्यमाङ्गुलिः| ततोऽर्धाङ्गुलहीने प्रदेशिन्यनामिके| सार्धत्र्यङ्गुल्च् कनिष्ठिकाङ्गुष्ठौ| चतुरङ्गुलोत्सेधा द्वाविंशतिपरिणाहा शिरोधरा| द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननम्| पञ्चाङ्गुलमास्यम्| चतुरङ्गुलं पृथक् चिबुक्च्ष्ठनासा दृष्ट्यन्त्कर्णललाटम्| त्रिभागाङ्गुलविस्तारा नासापुटमर्य्यादा| द्व्यङ्गुलायतमङ्गुष्ठोदरविस्तृतं नेत्रम्| तत्र शुक्लात्तृतीयांशं कृष्णम्| कृष्णान्नवमांशा मसूरदलमात्रा दृष्टिः| षडङ्गुलोत्सेधं द्वात्रिंशत्परिणाहं शिर इति| सर्वं पुनः शरीरमङ्गुलानि चतुरशीतिः| तदायामविस्तारसमं सममुच्यते||३६||

🔊 Audio coming soon

अनन्तरं शरीरावयवानामङ्गुलादिना प्रमाणमुच्यते| आयामो दैर्घ्यम्| विस्तारो व्यासः| परिणाहः परिवर्त्तुलता| तत्र पादाङ्गुष्ठः तत्समीपे चाङ्गुली आयामेन द्व्यङ्गुले| अन्यास्त्रिस्रोऽङ्गुल्यः क्रमेण द्व्यङ्गुलस्य पञ्चमभागेन हीनाः| प्रदेशिन्या मध्यमा ततोऽनामिका ततः कनिष्ठेति| यथोत्तरार्थः| प्रपदादित्रयं प्रत्येकमायामेन चतुरङ्गुलम्| प्रपदमङ्गुलल्यनन्तरं पादाग्रं पादतलम्| पादमध्यं पार्ष्णिः खुडिकाभागस्तत्र च प्रपदं विस्तारेण षडङ्गुलं पादतलं पञ्चङ्गुलम्| पार्ष्णिः चतुरङ्गुला| द्वे चत्वारीति गुणानि| चतुर्दशायामेन पादः परिणाहः पादपृष्ठात् पादतलं यावत्| गुल्फजङ्घामध्ये अपि परिणाहेन चतुर्दशाङ्गुले| पादस्योत्सेधः क्षितिलग्नात् प्रभृति गुल्फो यावत्| सः चतुरङ्गुलः| सुबोधम्| मुष्कावष्टाङ्गुलपरिणाह्च् षडायाममेढ्रः पञ्चपरिणाहः षडायामः| कटी मेढ्रमुष्कयोरुपरिभागे| दशाङ्गुलं बस्तिशिर आयामेन मेढ्रमूलान्नाभिप्रदेशो यावत्| सुबोधम्| त्रिकश्च कट्या एवोत्सेधाद्च्न्नत्यम्| स्तनपर्य्यन्तं स्तनपार्श्वम्| द्व्यङ्गुलं हृदयमिति| अतः प्रभृति कनिष्ठिकाङ्गुष्ठावित्येवमन्तम् आयामो विज्ञेयः| आस्यं पञ्चाङ्गुलं चिबुकादिकं पृथक् प्रत्येकं चतङ्गुलमायामेन| दृष्ट्यन्तरं दृष्टिमण्डलोयोर्मध्यम्| नासापुटयोर्या मर्य्यादा मांसमयी| त्रिभागाङ्गुलमङ्गुलस्य तृतीयो भागः| तॄतीयांशो नेत्रभागाच्छुक्लात्| मसूरदलमात्रा घनत्वेन| इत्युक्तं समप्रमाणम्| शरीरं सममित्युच्यते|| ३६||

Adhikarana avayavaparimANasya cAturvidhyam (37) · Śloka 37

तत्र यथोक्तपरिमाणमिष्टमनिष्टं हीनमधिकं वा||३७||

🔊 Audio coming soon

यथोक्तायामविस्तारोत्सेधेन समेन परिमाणमिष्टम्| तथाऽत्यन्तदीर्घत्वादियुक्तमनिष्टम्| हीनाधिकप्रमाणावयवमनिष्टम्|| ३७||

Adhikarana hRasvadIrghAdibhedenAShTau sharIrANi (1) · Śloka 1

तथाऽतिह्रस्वदीर्घग्च्रकृष्णरोमारोमस्थूलकृशं चेति||१||

🔊 Audio coming soon

Adhikarana iShTasharIralakShaNam (38) · Śloka 2

इष्टञ्च पुनर्महाशरीरदर्शनवदनहनुस्तनाग्रपृष्ठस्वरमुपचितोरुस्फिक्कटीवक्षोग्रीवातालुकमुभयगुणपाणिपादचिबुककर्णललाटम्| सूक्ष्मास्थिदन्तनखाङ्गुलिपर्वकम्||२||

🔊 Audio coming soon

दीर्घाङ्गुलिसक्थिबाहूच्छ्वासेक्षितनेत्रजिह्वम्| विस्तीर्णा- स्याधर्च्ष्ठजिह्वाललाटकर्णपीठयक्षोऽल्पमेढ्रग्रीवाकेशम्| स्निग्धत्वक्कचकरजनयनदशनस्वनम्| स्थिरेन्द्रियत्वङ्- नखकेशपार्श्वम् गम्भीरनाभिसन्धिस्वरम्| गूढजत्रुपृष्ठ- वंशदन्तमूलम्| रक्ताल्वोष्ठनखनेत्रान्तम्| आताम्रजि- ह्वाहस्तपादतलम्| कृष्णकेशभ्रूनेत्रपक्ष्मतारकम्| शुक्ल- शुक्लमण्डलदशनचरितम्| नीचैर्बुद्धकर्णस्तननासाग्र- चंक्रमणम्| घनस्कन्धकन्धरादन्ताङ्गुलित्वक्स्छार्दम्| तनुनखमध्यजिह्वम्| वृत्तस्फिग्ग्रीवानखम्| समपृष्ठदन्त- ललाटेक्षितम्| तथा नुपूर्ववृत्तावूरु| दक्षिणावर्त्तनाभिः प्रकृष्टन्तर्च् स्तन्च् भ्रुवौ च| कूर्म्माकृतयो नखाः पादौ च| ऋज्वास्यं नासावंशश्च| अनुल्बणे हनुवेषश्च| श्लक्ष्णं तालु जिह्वा च| नातिस्थूलकृशावोष्ठौ देहबन्धश्च| सस्पन्दं हृदयं शङ्ख्च् मन्ये च| सोष्मतालुपादोदरं निःश्वासाश्च| पृष्ठतोऽवनत्च् रोमशौ च कर्णौ| ईषत्प्रलम्बिन्य्च् भ्रुवौ| वलिनं सुश्लिष्टसन्ध्यर्धचन्द्राकृतिललाटम्| आतपत्रोपमं शिरः| नैकमूला मृदवः केशाः| दृढं गूढं च सिरास्थि- सन्धिः| प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि हसितरु- दितानि च चेष्टितानि| तथा स्नातालिप्तमधः प्रसृतानु- पूर्व्याशुष्यदिष्टं शरीरम्|| ३८||

Adhikarana iShTasharIralakShaNam (38) · Śloka 38

इष्टञ्च पुनर्महाशरीरदर्शनवदनहनुस्तनाग्रपृष्ठस्वरमुपचितोरुस्फिक्कटीवक्षोग्रीवातालुकमुभयगुणपाणिपादचिबुककर्णललाटम्| सूक्ष्मास्थिदन्तनखाङ्गुलिपर्वकम्| दीर्घाङ्गुलिसक्थिबाहूच्छ्वासेक्षितनेत्रजिह्वम्| विस्तीर्णा- स्याधर्च्ष्ठजिह्वाललाटकर्णपीठयक्षोऽल्पमेढ्रग्रीवाकेशम्| स्निग्धत्वक्कचकरजनयनदशनस्वनम्| स्थिरेन्द्रियत्वङ्- नखकेशपार्श्वम् गम्भीरनाभिसन्धिस्वरम्| गूढजत्रुपृष्ठ- वंशदन्तमूलम्| रक्ताल्वोष्ठनखनेत्रान्तम्| आताम्रजि- ह्वाहस्तपादतलम्| कृष्णकेशभ्रूनेत्रपक्ष्मतारकम्| शुक्ल- शुक्लमण्डलदशनचरितम्| नीचैर्बुद्धकर्णस्तननासाग्र- चंक्रमणम्| घनस्कन्धकन्धरादन्ताङ्गुलित्वक्स्छार्दम्| तनुनखमध्यजिह्वम्| वृत्तस्फिग्ग्रीवानखम्| समपृष्ठदन्त- ललाटेक्षितम्| तथा नुपूर्ववृत्तावूरु| दक्षिणावर्त्तनाभिः प्रकृष्टन्तर्च् स्तन्च् भ्रुवौ च| कूर्म्माकृतयो नखाः पादौ च| ऋज्वास्यं नासावंशश्च| अनुल्बणे हनुवेषश्च| श्लक्ष्णं तालु जिह्वा च| नातिस्थूलकृशावोष्ठौ देहबन्धश्च| सस्पन्दं हृदयं शङ्ख्च् मन्ये च| सोष्मतालुपादोदरं निःश्वासाश्च| पृष्ठतोऽवनत्च् रोमशौ च कर्णौ| ईषत्प्रलम्बिन्य्च् भ्रुवौ| वलिनं सुश्लिष्टसन्ध्यर्धचन्द्राकृतिललाटम्| आतपत्रोपमं शिरः| नैकमूला मृदवः केशाः| दृढं गूढं च सिरास्थि- सन्धिः| प्रकृतियुक्तानि वातमूत्रपुरीषगुह्यानि हसितरु- दितानि च चेष्टितानि| तथा स्नातालिप्तमधः प्रसृतानु- पूर्व्याशुष्यदिष्टं शरीरम्||३८||

🔊 Audio coming soon

इत्युक्ते यत्राधिक्यं हीनता चेष्टा तद्दर्शयति-इष्टं पुनरित्यादि| महान्तिस्वरान्तान्युपचितानि ताल्वन्तानि| ललाटान्तमुभयगुणं महदुपचितं च| केशान्तानि सूक्ष्माणि जिह्वान्तानि दीर्घाणि वक्षःपर्य्यन्तं विस्तीर्णम्| केशान्तान्यल्पानि| स्वनान्तानि स्निग्धानि| पार्श्वान्तानि स्थिराणि ढृढानि| स्वरान्तानि गम्भीराणि| दन्तमूलानि गूढान्यनुत्पन्नानि| नेत्रान्तानि रक्तानि| पादतलान्तानि ताम्राणि| तारकान्तानि कृष्णानि| चरितान्तानि शुक्लानि| शुक्लमण्डलं सितमसितं कृष्णम्| पादान्तमुन्नतम्| चित्तस्य्च्न्नत्यम्च्दार्य्यम्| चङ्क्रमणान्तं नीचैर्लघु इत्यर्थः| स्छार्द्दान्तानि घनानि| जिह्वान्तानि तनूनि| मध्यं कायस्य नखान्तानि वृत्तानि इक्षितान्तं समम्| ईक्षितं सममेकरूपम्| सुबोधम्| प्रकृष्टं दूरमन्तरं ययोः देहबन्धो देहः| स्पन्दश्चलनम्| भ्रुवावीषत् प्रान्ते प्रलम्बिन्य्च् | वलिनत्वादियुक्तं ललाटम्| वलयो विद्यन्ते यस्य| पामादिपाठान्नः| सुश्लिष्टे शङ्खसन्धी यत्र| शिरः केशान्तमातपत्रोपमम्| केशा बहुमूलाः| वातादीनि प्रकृतियुक्तानि| हसितादीनि चेष्टितान्यपि एवंलक्षणानि| एवमनन्तरोक्तैर्लक्षणैर्युक्तं शरीरमिष्टं भवति|| ३८||

Adhikarana shubhasharIralakShaNaM tatrAyurAdInAM pratidvitvam (39) · Śloka 39

भवति चात्र- उत्तरोत्तरसुक्षेत्रं गर्भाद्भवति नीरुजम्| आयामज्ञानविज्ञानैर्वर्धमानं शनैः शुभम्| इति सर्वगुणोपेते शरीरे शरदां शतम्| आयुरैश्वर्य्यमिष्टाश्च सर्वे भावा प्रतिष्ठताः||३९||

🔊 Audio coming soon

गतानुगतिकम्| उत्तरोत्तरं सुक्षेत्रत्वादियुक्तं वपुः शुभम्| क्षेत्रवत्क्षेत्रम्| गर्भाधानात्प्रभृति वर्त्तमानावस्थां यावत् तदुत्तरादुत्तरं शोभनं परिपूर्णं यत्र| गर्भादितश्च नीरुजम्| क्रमेण आयामादिभिर्वर्द्धमानम्| इत्यनन्तरोक्तेन प्रकारेण सर्वगुणोपेते शरीरे शरदां शतमायुः प्रतिष्ठितम्| सर्वे च भावा इष्टाः प्रतिष्ठिताः| यथोक्तगुणा ये च|| ३९||

Adhikarana sAttvikAdipuruShANAM lakShaNam (40) · Śloka 40

अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते| सत्त्ववांस्तभ्यमानस्तु राजसो नैव तामसः||४०||

🔊 Audio coming soon

यः सात्त्विकः पुरुषः स यदा सुखमुपभुङ्क्ते तदा अनुत्सेकं कृत्व यदा च दुःखमुपभुङ्क्ते तदा अदैन्यं कृत्व| सुखदुःखयोरुत्सेकदैन्यवान् सत्त्ववान्न भवतीत्यर्थः| यस्तु राजसः स सुखमपि स्तभ्यमानः सेवते| दुःखमपि स्तभ्यमानः स्तोकोत्सेकदैन्यः| तामसो नैव सुखमुपभुङ्क्ते| नापि दुःखम्| तत्कारणसन्निधानेऽपि शठत्वात् सुखःदुखं न गृह्यते इत्यर्थः | अथवा तामसो नैवानुत्सेकमदैन्यञ्च सुखदुःखे सेवते| नैव च स्तभ्यमानः सेवते; अपि तु सोत्सेकः सुखं सेवते| सदैन्यो दूःखं सेवते| इति|| ४०||

Adhikarana puNyAyuvRuddhikaro gaNaH (41) · Śloka 41

दानशीलदयासत्यब्रह्मचर्य्यकृतज्ञताः| रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः||४१||

🔊 Audio coming soon

इति वैद्यसिंहगुप्तस्य सूनोर्वाग्भट कृत्च् अष्टाङ्गसंग्रहसंहितायां शारीरस्थाने प्रकृतिभेदीयो नामाष्टमोऽध्यायः तथा दानादिको गणः पुण्यायुवृद्धिकृदिति|| ४१|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टङ्गसंग्रहव्याख्यायां शशिलेखायां शारीरस्थानेऽष्टमोऽध्यायः