Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. vikr̥tivijñānīyaḥ

Adhikarana atha vikRutA~ggavij~jAnIyo nAma navamo~adhyAyaH pratij~jA (1) · Śloka 1

अथातो विकृताङ्गविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||

🔊 Audio coming soon

शरीरमाधानात् प्रभृत्यपवर्गो यावदस्मिन् स्थाने निर्णीयते| तत्राङ्गं जीवितं चानेकेन प्रकारेण निर्णीतम्| तस्य मृत्युसामन्तपरिकरपरिज्ञानं निर्णीतशेषम्, अतस्तद्विज्ञानार्थमध्यायारम्भः| अथेत्यादि पूर्ववद्व्याख्येयम्| विकृतिर्मरणं जन्मान्तरप्रादुर्भावः, परासुता, देहान्तरगमनम्, पञ्चत्वम्, अदर्शनम्, अन्तो, विनाशः इति पर्य्यायाः| अथवा विकृतिः स्वभाववर्णाद्यन्यथाभावः| तस्य विज्ञानमधिकृत्य कृतस्तथोक्तः|| १||

Adhikarana riShTalakShaNam (2) · Śloka 2

स्वस्थानामातुराणां वा पुरुषाणां देहान्तराभिलाषिणा- मौषधविषयमतीताः सकलशरीरव्यापिनो दोषा घना- घना इव वर्षमायुषः क्षयं सूचयन्तोऽकस्मात् स्व- भावविपर्य्यासं जनयन्ति| तत्समासतो रिष्टमित्याहुः||२||

🔊 Audio coming soon

स्वस्थातुरविशेषानपेक्षया सर्वेषां पुरुषाणां देहान्तराभिलाषिणां मुमूर्षूणां प्रकृतिविपर्य्यासं जनयन्ति| तद् रिष्टमित्याहुः| एतावता विकृती रिष्टमित्युक्तम्| किम्भूता दोषाः ? औषधविषयमतीताः असाध्याः| सकलशरीरव्यापिनः सन्त आयुषः क्षयं सूचयन्तोऽकस्मादविकल्पितप्राप्तं विपर्य्यासं जनयन्ति| तत्र वर्णादीनां क्रमेण विकृतयो निर्दिश्यन्ते|| २||

Adhikarana prAkRutA varNAH tadbhedAMshca (3) · Śloka 3

तत्र गौरः श्यामः कृष्णो गौरश्यामः कृष्णश्याम इति देहे प्रकृतिवर्णाः| तद्बेदांश्च पद्मगौरादयः||३||

🔊 Audio coming soon

पञ्च तावत् प्राकृताः प्रधानवर्णाः गौरश्यामः, श्यामः कृष्णः रौरश्यामः कृष्णश्यामश्चेति| पद्मगौरादयस्तेषां भेदाः| पद्मगौरश्चन्द्रगौरः शरगौरः इत्येवमादयो गौरभेदाः| कपित्थश्यामो दूर्वाङ्कुरश्यामो नभश्याम इत्येवमादयः श्यामभेदाः| प्रियङ्गुश्यामो जलश्यामो घृतश्याम इत्येवमादयो गौरश्यामभेदाः| कज्जलकृष्णः कोकिलकृषणः षट्पदकृष्ण इत्येवमादयः कृष्णभेदाः| अतसीकृष्णः तमालकृष्ण इत्येवमादयः कृष्णश्यामभेदाः|| ३||

Adhikarana vikRutA varNAH (4) · Śloka 4

नीलश्यामताग्रहारिद्रशुक्लादयस्तु विकृतयः||४||

🔊 Audio coming soon

श्यामोऽरुणलोहितस्ताम्रोऽग्निप्रख्यः| हरिद्रो हरितालसमः| शुक्लस्तु शङ्खकुन्दादिप्रख्यः|| ४||

Adhikarana mRutyusUcakAH varNAH (5) · Śloka 5

तत्र प्रकृतिविकृतिवर्णौ युगपदङ्गेऽङ्गैकदेशे वा मर- णाय||५||

🔊 Audio coming soon

शरीरे शरीरैकदेशे वा विभक्तौ प्रकृतिविकृतिवर्णौ मरणाय|५||

Adhikarana glAnyupacayAdInAM bhAvAnAM riShTatvam (6) · Śloka 6

एतेन ग्लान्युपचयशोकहर्षरौक्ष्यस्नेहादयस्तथा प्रकृति- भेदीयोक्तानां महदुपचयसूक्ष्मदीर्घाणां सर्वेषां च दोषा- दिविभागेन प्रतिनियतानां भावानामनिमित्ततोऽन्यथा- त्वमुक्तं भवति||६||

🔊 Audio coming soon

एतेन ग्लान्युपचयादीनि व्याख्यातानि| विरुद्धयोर्युगपच्छरीरेऽकस्मादनिमित्ततः सरणं मरणायोत्यर्थः| तथा महत्त्वादियुक्तानां शरीरप्रभृतीनामकस्माल्लघुत्वं दीर्घत्वयुक्ताना- मङ्गुल्याद्लीनामकस्माद्ध्रस्वत्वं मरणायेत्येवमाद्यप्त्युक्तं भवति|

Adhikarana AkAshAdipa~jcabhUtAnAM chAyAstadguNAMshca (7) · Śloka 7

तत्र खात् मलखड्गाकाशनीलनिर्मला सस्नेहा सप्रभेव| वातात् पांशुभस्मरूक्षा रजोरुणा श्यावा निष्प्रभ स्वेद- मलगन्धिः| तेजसः हुतहुताशनिविद्युततप्ततपनीयरक्ता दृष्टिसुखा| अम्भसः वैडूर्य्येन्द्रनीलविमला घना सुस्निग्धा भुवः रुचिरभा घना स्थिरा स्निग्धा शुद्धा श्यामा श्वेता च||७||

🔊 Audio coming soon

खादिमहाभूतमय्यः पञ्च छायाः शरीरे सम्भवन्ति| छाया कान्तिः| सुबोधम्| सप्रभेव सदीप्तिरिव| छायाया गन्धासम्भवात्तदाधारस्य गन्धी विज्ञेयः| हुतहुताशनादिवद् रक्ता| तपनीयं सुवर्णम्| तस्य सन्तप्तस्य सतः घना स्फुटोपलक्ष्या| भुवः पृथिव्याः| रुचिराभा रमणीयदीप्तिः| सुबोधम्|| ७||

Adhikarana riShTarUpA chAyA (8) · Śloka 8

तासां वायव्या विनाशाय क्लेशाय चाऽतिमहते|८|

🔊 Audio coming soon

Adhikarana sukhasvarUpA cchAyAH (8) · Śloka 8

तासां वायव्या विनाशाय क्लेशाय चाऽतिमहते|८|

🔊 Audio coming soon

Adhikarana sukhasvarUpA cchAyAH (8) · Śloka 8

शेषाक्तु सुखोदयाः १||८||

🔊 Audio coming soon

Adhikarana sapta prabhAH (9) · Śloka 9

सप्त प्रभाः-रक्ता पीता पाण्डुरा सिताऽसिता श्यावा हरिता च||९||

🔊 Audio coming soon

रक्तादिकाः सप्तप्रकाराः प्रभाः| प्रभाः दीप्तिः| श्यावो नीललोहितः|| ९||

Adhikarana shobhanAH shubhAH prabhAH (1) · Śloka 1

ताः स्निग्धा विकासिन्योऽमलाः शुभाः||१||

🔊 Audio coming soon

Adhikarana ashubhAH prabhAH (10) · Śloka 10

विपरीतास्त्वशुभाः||१०||

🔊 Audio coming soon

Adhikarana chAyAprabhayorlAkShaNaM (11) · Śloka 11

तयोर्विशेषः-छाया वर्णमाक्रामत्याऽऽसन्न च लक्ष्यते पञ्चंभूतात्मिका च| प्रभा तु वर्णं प्रकाशयति विप्रकृष्टाल्लक्ष्यते तेजःप्रभवैव च||११||

🔊 Audio coming soon

छायाप्रभयोः शास्त्रकारः स्वयं लक्षणं दर्शयति| वर्णमाक्रामति प्रतिद्वन्द्वीभूतेव वर्णस्यात्मानं प्रकाशयति| निकटे च लक्ष्यते| सा पृथित्यादिपञ्चमहाभूतसमुदाकार्य्यम्| प्रभा तु केवलं तेजःप्रभवा सती वर्णं प्रकाशयति| विप्रकृष्टाच्च लक्ष्यते|| ११||

Adhikarana kumArikA~a~adarshanaM riShTam (12) · Śloka 12

यस्य दृष्टौ प्रतिच्छायामयी कुमारिका न द्रुष्यते स परासुः||१२||

🔊 Audio coming soon

यस्य दर्पणादौ प्रतिच्छायायां प्रतिबिम्वेऽक्ष्णि कुमारिका न दृश्यते, स परासुर्मृत्कल्पः परागता असवो यस्येति कृत्वा||१२||

Adhikarana praticchAyAyAH riShTam (13) · Śloka 13

यस्याऽऽतपादर्शादिष्वकस्मात् प्रतिच्छाया छिन्ना भिन्ना हीनाऽधिकाऽऽकुला नष्ट जिह्याऽवाक्शिरा विशिरा द्विशिरा विस्तृताऽन्यथा वा विकृता वा दृश्यते||१३||

🔊 Audio coming soon

यस्य-यस्य देह इदमिदं दृश्यते स-स गतासुरिति सम्बन्धः| सुबोधम्| प्रतिच्छाया प्रतिबिम्बम्| छिन्ना द्विधा गता| भिन्ना सच्छिद्रा| अधिका अङ्गेन स्वप्रमाणाद् वा| आकुला अपरिस्फुटाऽवया| नष्ट या दृष्ट्या न द्रुश्यते| जिह्या मलिनेव| अधोमुखं शिरो यस्याः अतद्भूतस्यापि सा अवाक्शिराः| विकृता स्वप्रमाणाद् विस्तीर्णा| अन्यथेति स्वप्रमाणात् संक्षिप्ता|| १३||

Adhikarana lAlATAdyAshrayaM riShTam (14) · Śloka 14

यस्य ललाटं न स्विद्यति||१४||

🔊 Audio coming soon

ललाटं न स्विद्यति प्रायः| अकस्मादिति स्मर्तव्यम्|| १४||

Adhikarana kesharomAshrayaM riShTam (15) · Śloka 15

यस्य केशरोमाण्यनभ्यक्तान्यभ्यतवद् दृष्यन्ते||१५||

🔊 Audio coming soon

Adhikarana nayanAshrayANi riShTAni (16) · Śloka 16

नयने चातिप्रविष्टे निर्गते विस्तृते संक्षिप्ते संक्षिप्त- भृणी जिह्ये विषमे विभ्रान्तदर्शने हीनदर्शने नकुलाभे कपोताभे अलातवर्णे नीलादिविकृतवर्णे अतिचले स्त- ब्धस्रस्ते प्रस्रुते अत्युन्मिषिते अतिनिमिषिते लुलितप- क्ष्मणी वा|१६|

🔊 Audio coming soon

विभ्रान्तं मिथ्याविषयकं दर्शनं ययोस्ते विभ्रान्तदर्शने| स्रस्ते मुक्तसन्धिबन्धने स गतायुः|| १६||

Adhikarana nAsikAdyAshrayaM riShTam (16) · Śloka 16

नासिका वातविवृताऽतिसंवृता कुटिला स्फुटिता पिट- काचिता शुष्का वा स गतायुः १|१६|

🔊 Audio coming soon

Adhikarana oShThAshrayaM riShTam (16) · Śloka 16

यस्याधोऽधरौष्ठो यात्युत्तरौष्ठश्चोर्ध्वमुभौ वा पक्व- जम्बूनीलौ २|१६|

🔊 Audio coming soon

Adhikarana dantAshrayaM riShTam (16) · Śloka 16

दन्ता वातिरूक्षास्ताम्राः श्यामाः पङ्किताः पुष्पिताः सश- र्करा वा सहसा वा पतन्ति ३||१६||

🔊 Audio coming soon

Adhikarana jihvAshrayaM riShTam (1) · Śloka 1

जिह्वा वा जिह्या स्तब्धा सुप्ताऽवलिप्ता गुर्वी श्यावा शूना शुष्का विसर्पिणी कण्टकाचितेव वा|१|

🔊 Audio coming soon

Adhikarana gaNDalalATahanvAshrayaM riShTam (1) · Śloka 1

यस्य गण्डललाटहनुबन्धनानि स्थानाच्च्युतानीव स्र- स्तानि|१|

🔊 Audio coming soon

Adhikarana shirodharApRuShThagataM riShTam (1) · Śloka 1

यस्य न धत्ते शिरः शिरोधरां पृष्ठं वा स्वभारम्|१|

🔊 Audio coming soon

Adhikarana hanUgataM riShTam (1) · Śloka 1

हनू वा पिण्डमास्यस्थम्|१|

🔊 Audio coming soon

Adhikarana meDhravRuShaNAshrayaM riShTam (1) · Śloka 1

यस्योत्सिक्तं मेढ्रमतिनिस्सृतौ वृषणावतो विपर्ययो वा|१|

🔊 Audio coming soon

Adhikarana mUtrAshrayaM riShTam (1) · Śloka 1

यस्य मुत्रमत्युष्णम्|१|

🔊 Audio coming soon

Adhikarana raktAshrayaM riShTam (1) · Śloka 1

यस्य विषदोषाद्विना खेभ्यः सरोमकूपेभ्यो रक्तं प्रवर्त्तते||१||

🔊 Audio coming soon

Adhikarana a~ggalAghavagauravagataM riShTam (17) · Śloka 17

यस्यानिमित्तमङ्गान्यतिलधून्यतिगुरूणि वा स्युः स मुमूर्षुः||१७||

🔊 Audio coming soon

यस्याध इत्यादि सुबोधम्| पुष्पिताः कुसुमाचिता इव यथा निचुलाः पुष्पिता भवन्ति| शर्कराचूर्णम्| अत उक्ताद्विपर्य्ययोऽतिनिस्सृतं मेढ्रमुत्सिक्तौ बृहणौ स मुमूर्षुरिति योज्यम्|| १७||

Adhikarana svarAshritaM riShTam (1) · Śloka 1

यस्यैकोऽनेको वा स्वरो गद्गदो व्यक्तः क्षामो दीनो वा सहसा लक्ष्यते||१||

🔊 Audio coming soon

Adhikarana vAggataM riShTam (2) · Śloka 2

यो वा विवक्षुर्मुह्यति| यस्य वा वदतो भृशमुर्ध्वमुरो रूजति||२||

🔊 Audio coming soon

Adhikarana ucchvavAsagataM riShTam (1) · Śloka 1

यस्योच्छ्वासोऽतिदीर्घोऽतिह्रस्वः पूतिगन्धिः सुगन्धिर्वा|१|

🔊 Audio coming soon

Adhikarana a~gguligataM riShTam (1) · Śloka 1

यस्याङ्गुलय आयम्यमाना न स्फुटेयुः|१|

🔊 Audio coming soon

Adhikarana svabhAvAtItashabdAshrayaM svabhAvAtItashabdAshrayaM riShTam (1) · Śloka 1

यस्यान्यान्योऽपि क्षुतगतमूत्रणादिषु स्वभावाऽतीतः शब्दः|१|

🔊 Audio coming soon

Adhikarana gandhAshrayaM riShTam (1) · Śloka 1

यस्येष्टोऽनिष्टो वा माल्यफलचन्दनकुणपादिगन्धो देहमुखमलव्रणवस्त्रादिषु|१|

🔊 Audio coming soon

Adhikarana yUkAmakShikAdisharIra- tyAgAshrayaM riShTam (1) · Śloka 1

यस्य शरीरं वैरस्यात् सौरस्याद्वाऽत्यर्थं यूकामक्षि- कादयस्त्यजन्ति भजन्ति व|१|

🔊 Audio coming soon

Adhikarana UShmashaityAdigataM riShTam (1) · Śloka 1

यस्य सततोष्मस्वङ्गावयवेषु शैत्यं शीतेषु व कुमुदो- त्पत्नानुकार्यमतिशैत्यमतिस्वेदोऽतिस्तम्भो विगतमांस- शोणितेष्विव च स्रंसः||१||

🔊 Audio coming soon

Adhikarana sharIragatamahAbhUtayogAtiyogAshrayaM riShTam (18) · Śloka 18

यस्य च योगाऽतियोगो वा शरीरे युगपन्महाभूतानां दृश्यते सर्वे ते कालपक्वा इति||१८||

🔊 Audio coming soon

यस्यैकोऽनेको वा इत्यादिः सर्वे ते कालपक्वा इत्यनेन सम्बन्धः| विवक्षुर्मुह्यति| यद्वक्तुमिच्छति तन्न स्मरतीत्यर्थः| यस्य शरीरं मक्षिकादयोऽतिवैरस्यात् त्यजन्ति| सौरस्याद्वा भजन्ते युगपन्महाभूतानामेकस्मिन्नेव शरीरे वृद्ध्यवृद्धी न पृथिव्यादीनामन्यतमस्य|| १८||

Adhikarana ShaNmAsAyurbodhakaM riShTam (4) · Śloka 4

भवन्ति चात्र- यस्यापुर्वाः सिरालेखा बालेन्द्वाकृतयोऽपि वा| ललाटे बस्तिशीर्षे वा षण्मासान्न स जीवति| पद्मिनीपत्रवत्तोयं शरीरे यस्य देहिनः| प्लवते प्लवमानस्य षष्मासस्तस्य जीवितम्||४||

🔊 Audio coming soon

Adhikarana pittAnmaraNasUcakaM riShTam (2) · Śloka 2

हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः| सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते|२|

🔊 Audio coming soon

Adhikarana mAsAyurbodhakaM riShTam (2) · Śloka 2

यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि मुखेऽपि वा| सस्नेहं मूर्ध्नि धूमो वा मासान्तं तस्य जीवितम्|२|

🔊 Audio coming soon

Adhikarana ShaTtrirAtrAYuHsUcakaM riShTam (2) · Śloka 2

मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः| मृत्युं स्वस्थस्य षड्रात्रात् त्रिरात्रादातुरस्य तु|२|

🔊 Audio coming soon

Adhikarana pakShAyuHsUcakaM riShTam (2) · Śloka 2

यस्य स्नातानुलिप्तस्य पुर्वं शुष्यत्युरोभृशम्| आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति|२|

🔊 Audio coming soon

Adhikarana pretAtmatAsUcakaM riShTam (2) · Śloka 2

उरस्यूष्मा भवेद्यस्य जठरे चाऽतिशीतिता| भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः|२|

🔊 Audio coming soon

Adhikarana mAsAyuHsUcakaM riShTam (2) · Śloka 2

मूत्रं पुरीषं निष्ठ्यूतं शुक्रं चाप्सु निमज्जति| निष्ठ्यूतं बहुवर्णं वा यस्या मासात्स नश्यति|२|

🔊 Audio coming soon

Adhikarana svarabalavarNAdyAshrayaM riShTam (2) · Śloka 2

स्वरस्य दुर्बलीभावण् हानिं वा बलवर्णयोः| रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्||२||

🔊 Audio coming soon

Adhikarana AtmamaraNabhAShaNAdyAshrayaM riShTam (19) · Śloka 19

अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः| श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्||१९||

🔊 Audio coming soon

भवन्ति चात्रेति तन्त्ररीतिः| यस्यापूर्वा इत्यादि सुबोधम्| बालेन्द्वाकृतयश्चन्द्रकलासमानाः| प्लवमानस्य स्नानं कुर्वतः प्लवते गच्छति| सस्नेहं गोमयचूर्णाभं चूर्णम्| नव अभूतपूर्वाः सीमन्ताः आवर्त्तकाश्च मृत्युं कुर्वन्तीति सम्बन्धः| निष्ठ्यूतं मुखास्रावः| अयुक्त्या रोगप्रवृद्धिर्या युक्त्याहारादिपुर्विकया नोपपद्यते च दृष्टा च| आत्मनो मरणं प्राप्तमिति दुष्टेन स्वरेण भाषमाणं मरणं प्राप्तमित्यस्यात्मनः शब्दस्य श्रोतारं च दूरतः परिवर्जयेत्|| १९||

Adhikarana UrdhvashvAsAdIni riShTAni (2) · Śloka 2

ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्| शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्|२|

🔊 Audio coming soon

Adhikarana shItapiTakAdIni riShTani (2) · Śloka 2

यो जातः शीतपिटकः शीताङ्गो वा विदह्यते| उष्णद्वेषी च शीतार्त्तः स प्रेताधिपगोचरः||२||

🔊 Audio coming soon

Adhikarana kaNThagatarajjucchAyAsamAshrayaM riShTam (20-9) · Śloka 9

यस्य रज्जुरिव च्छाया कण्ठे सक्तोपलक्ष्यते| अवश्यं कृष्यते जन्तुः सोऽचिराद्यमकिङ्करैः||२०|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टङ्गसंग्रह- संहितायां शारीरस्थाने विकृताङ्गविज्ञानीयो नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

ऊर्ध्वश्वासमित्यादि सुबोधम्| विदह्यते विदाहं प्राप्नोति| छाया कण्ठे रज्जुसदृशी यस्यासक्तोपलक्ष्यते| सोऽचिरात् यमकिङ्करैर्नीयत इति|| २०|| इति श्रीमन्महामहोपाध्यायेन्दुर्विरचितायाम् अष्टाङ्गसंग्रह- व्याख्यायां शशिलेखायां शारीरस्थाने नवमोऽध्यायः